विश्वास-प्रस्तुतिः
श्यैतवारवन्तीययज्ञायज्ञियानीति च प्रेप्यति १
मूलम्
श्यैतवारवन्तीययज्ञायज्ञियानीति च प्रेप्यति १
विश्वास-प्रस्तुतिः
दक्षिणेनाऽग्नीन्परीत्योदगुत्सृजति २
मूलम्
दक्षिणेनाऽग्नीन्परीत्योदगुत्सृजति २
विश्वास-प्रस्तुतिः
ऋतुनक्षत्रसम्भारसामवपनचातुष्प्राश्यजागरणेध्मपूर्वार्द्धऽन्वारम्भणसार्पराज्ञीर्न वा कुर्यात् ३
मूलम्
ऋतुनक्षत्रसम्भारसामवपनचातुष्प्राश्यजागरणेध्मपूर्वार्द्धऽन्वारम्भणसार्पराज्ञीर्न वा कुर्यात् ३
विश्वास-प्रस्तुतिः
अग्निहोत्रं तूष्णीं श्रुतेः पूर्णाहुत्यन्ते ४
मूलम्
अग्निहोत्रं तूष्णीं श्रुतेः पूर्णाहुत्यन्ते ४
विश्वास-प्रस्तुतिः
निरूप्याऽज्यं गार्हपत्येऽधिश्रित्य स्रुक्स्रुवं च सम्मृज्योद्वास्योत्पूयाऽवेक्ष्य गृहीत्वाऽन्वारब्ध एवं सर्वत्र स्वाहेति ५
मूलम्
निरूप्याऽज्यं गार्हपत्येऽधिश्रित्य स्रुक्स्रुवं च सम्मृज्योद्वास्योत्पूयाऽवेक्ष्य गृहीत्वाऽन्वारब्ध एवं सर्वत्र स्वाहेति ५
विश्वास-प्रस्तुतिः
वरं ददामीति वाग्विसर्जनम् ६
मूलम्
वरं ददामीति वाग्विसर्जनम् ६
विश्वास-प्रस्तुतिः
द्वादशाहान्ते तनूहवींषि निर्वपति मासे द्वितीये तृतीये षण्मास्ये संवत्सरे सद्यो वा न वा ७
मूलम्
द्वादशाहान्ते तनूहवींषि निर्वपति मासे द्वितीये तृतीये षण्मास्ये संवत्सरे सद्यो वा न वा ७
विश्वास-प्रस्तुतिः
अग्नये पवमानाय प्रथमा ८
मूलम्
अग्नये पवमानाय प्रथमा ८
विश्वास-प्रस्तुतिः
अग्नये पावकायाऽग्नये शुचये च द्वितीया ९
मूलम्
अग्नये पावकायाऽग्नये शुचये च द्वितीया ९
विश्वास-प्रस्तुतिः
अदित्यै चरुस्तृतीया १०
मूलम्
अदित्यै चरुस्तृतीया १०
विश्वास-प्रस्तुतिः
आग्नेय एव वा पुरस्तादादित्यस्य ११
मूलम्
आग्नेय एव वा पुरस्तादादित्यस्य ११
विश्वास-प्रस्तुतिः
षड् दक्षिणाः प्रतिविभज्य ददाति द्वादश चतुर्विंशतिं वा १२
मूलम्
षड् दक्षिणाः प्रतिविभज्य ददाति द्वादश चतुर्विंशतिं वा १२
विश्वास-प्रस्तुतिः
भूयसीश्च यथाश्रद्धम् १३
मूलम्
भूयसीश्च यथाश्रद्धम् १३
विश्वास-प्रस्तुतिः
धेनुरादित्यस्य १४
मूलम्
धेनुरादित्यस्य १४
विश्वास-प्रस्तुतिः
अनृताऽतिथ्यपनोदपूतिदावधिनर्बीसपक्वनात्युदकानि वर्जयेत् १५
मूलम्
अनृताऽतिथ्यपनोदपूतिदावधिनर्बीसपक्वनात्युदकानि वर्जयेत् १५
विश्वास-प्रस्तुतिः
ब्रह्मचार्यग्निनित्यधारी क्षीरहोम्यग्निमुपशायी द्वादशरात्रं षड्रात्रं त्रिरात्रमन्ततः १६
मूलम्
ब्रह्मचार्यग्निनित्यधारी क्षीरहोम्यग्निमुपशायी द्वादशरात्रं षड्रात्रं त्रिरात्रमन्ततः १६