विश्वास-प्रस्तुतिः
दारुभिर्ज्वलन्तमादधाति भूर्भुव इति सम्भारेष्वमुष्य त्वा व्रतपते व्रतेनाऽदध इति १
मूलम्
दारुभिर्ज्वलन्तमादधाति भूर्भुव इति सम्भारेष्वमुष्य त्वा व्रतपते व्रतेनाऽदध इति १
विश्वास-प्रस्तुतिः
वरुणस्य त्वेति क्षत्रियस्येन्द्र स्य त्वेति राजन्यस्य २
मूलम्
वरुणस्य त्वेति क्षत्रियस्येन्द्र स्य त्वेति राजन्यस्य २
विश्वास-प्रस्तुतिः
मनोष्ट्वा ग्रामण्य इति वैश्यस्य ऋभूणां त्वेति रथकृतः ३
मूलम्
मनोष्ट्वा ग्रामण्य इति वैश्यस्य ऋभूणां त्वेति रथकृतः ३
विश्वास-प्रस्तुतिः
रथन्तरं गायेति प्रेष्यति ४
मूलम्
रथन्तरं गायेति प्रेष्यति ४
विश्वास-प्रस्तुतिः
गानमध्वर्योः ५
मूलम्
गानमध्वर्योः ५
विश्वास-प्रस्तुतिः
ब्रह्मा वा वेदयोगात् ६
मूलम्
ब्रह्मा वा वेदयोगात् ६
विश्वास-प्रस्तुतिः
युक्तत्वाच्चाऽध्वर्योः ७
मूलम्
युक्तत्वाच्चाऽध्वर्योः ७
विश्वास-प्रस्तुतिः
इध्मेनोद्धरणमुपयम्य ८
मूलम्
इध्मेनोद्धरणमुपयम्य ८
विश्वास-प्रस्तुतिः
यथैनं धूम उपेयात् ९
मूलम्
यथैनं धूम उपेयात् ९
विश्वास-प्रस्तुतिः
वामदेव्यमिति प्रेष्यति १०
मूलम्
वामदेव्यमिति प्रेष्यति १०
विश्वास-प्रस्तुतिः
अश्वः पुरस्ताद्युवा तदभावेऽयुवाऽश्वाभावेऽनड्वान् ११
मूलम्
अश्वः पुरस्ताद्युवा तदभावेऽयुवाऽश्वाभावेऽनड्वान् ११
विश्वास-प्रस्तुतिः
सम्भारान्नधिष्ठाप्य दक्षिणपूर्वपादेन प्राञ्चं नीत्वा आवर्त्य स्थापयति १२
मूलम्
सम्भारान्नधिष्ठाप्य दक्षिणपूर्वपादेन प्राञ्चं नीत्वा आवर्त्य स्थापयति १२
विश्वास-प्रस्तुतिः
बृहदिति प्रेष्यति १३
मूलम्
बृहदिति प्रेष्यति १३
विश्वास-प्रस्तुतिः
अग्निना पदं द्विरुपस्पृश्य तृतीयेनाऽदधाति द्वितीयेन प्रथमेन वा भूर्भुवःस्वरिति पूर्ववत् १४
मूलम्
अग्निना पदं द्विरुपस्पृश्य तृतीयेनाऽदधाति द्वितीयेन प्रथमेन वा भूर्भुवःस्वरिति पूर्ववत् १४
विश्वास-प्रस्तुतिः
पुरस्तात्परिक्रम्येध्मपूर्वार्द्धं गृहीत्वा द्यौरिव भूम्नेत्याह १५
मूलम्
पुरस्तात्परिक्रम्येध्मपूर्वार्द्धं गृहीत्वा द्यौरिव भूम्नेत्याह १५
विश्वास-प्रस्तुतिः
आयं गौरिति चोपतिष्ठते सार्पराज्ञीभिः १६
मूलम्
आयं गौरिति चोपतिष्ठते सार्पराज्ञीभिः १६
विश्वास-प्रस्तुतिः
दक्षिणाग्निमादधाति १७
मूलम्
दक्षिणाग्निमादधाति १७
विश्वास-प्रस्तुतिः
सभ्यं च निर्मथ्य १८
मूलम्
सभ्यं च निर्मथ्य १८
विश्वास-प्रस्तुतिः
गां दीव्यध्वमित्याह १९
मूलम्
गां दीव्यध्वमित्याह १९
विश्वास-प्रस्तुतिः
धारणोपस्थानमतः २०
मूलम्
धारणोपस्थानमतः २०