विश्वास-प्रस्तुतिः
गार्हपत्यागारेऽजं बध्नाति न वा विद्यमानं प्रातरग्नीधे दद्यादस्तमिते १
मूलम्
गार्हपत्यागारेऽजं बध्नाति न वा विद्यमानं प्रातरग्नीधे दद्यादस्तमिते १
विश्वास-प्रस्तुतिः
रोहिते चर्मण्यानडुहे चत्वारि हविष्पात्राणि मिमीते तं चातुष्प्राश्यं पचति २
मूलम्
रोहिते चर्मण्यानडुहे चत्वारि हविष्पात्राणि मिमीते तं चातुष्प्राश्यं पचति २
विश्वास-प्रस्तुतिः
उद्वास्याऽसेचनं मध्ये कृत्वा सर्पिरासिच्याऽश्वत्थास्तिस्रः समिधो घृताक्ता आदधाति समिधाऽग्निमिति प्रत्यृचम् ३
मूलम्
उद्वास्याऽसेचनं मध्ये कृत्वा सर्पिरासिच्याऽश्वत्थास्तिस्रः समिधो घृताक्ता आदधाति समिधाऽग्निमिति प्रत्यृचम् ३
विश्वास-प्रस्तुतिः
उप त्वेति जपति ४
मूलम्
उप त्वेति जपति ४
विश्वास-प्रस्तुतिः
द्वितीयां वाऽध्वर्युः ५
मूलम्
द्वितीयां वाऽध्वर्युः ५
विश्वास-प्रस्तुतिः
चत्वार ऋत्विजः प्राश्नन्ति ६
मूलम्
चत्वार ऋत्विजः प्राश्नन्ति ६
विश्वास-प्रस्तुतिः
राद्धस्ते ब्रह्मौदन इत्याह ७
मूलम्
राद्धस्ते ब्रह्मौदन इत्याह ७
विश्वास-प्रस्तुतिः
वरं ददाति ८
मूलम्
वरं ददाति ८
विश्वास-प्रस्तुतिः
संवत्सरं वा पुरस्तात्कुर्यात् ततः सर्वानादधीत ९
मूलम्
संवत्सरं वा पुरस्तात्कुर्यात् ततः सर्वानादधीत ९
विश्वास-प्रस्तुतिः
गार्हपत्येऽनुगते ग्रामाग्निमाहृत्य चातुष्प्राश्यं पक्त्वा विहरेत् १०
मूलम्
गार्हपत्येऽनुगते ग्रामाग्निमाहृत्य चातुष्प्राश्यं पक्त्वा विहरेत् १०
विश्वास-प्रस्तुतिः
रात्रिं जागरणधारणे ११
मूलम्
रात्रिं जागरणधारणे ११
विश्वास-प्रस्तुतिः
शकलैर्वा १२
मूलम्
शकलैर्वा १२
विश्वास-प्रस्तुतिः
व्युष्टायामुपशमय्य दक्षिणा वा संहरेदन्वाहार्यपचनश्चेत् १३
मूलम्
व्युष्टायामुपशमय्य दक्षिणा वा संहरेदन्वाहार्यपचनश्चेत् १३
विश्वास-प्रस्तुतिः
स्थानमुल्लिख्याऽभ्युक्ष्याऽन्वारब्धे हिरण्यं निधायोषाऽखूत्करान्निवपत्यन्तेषु शर्कराः १४
मूलम्
स्थानमुल्लिख्याऽभ्युक्ष्याऽन्वारब्धे हिरण्यं निधायोषाऽखूत्करान्निवपत्यन्तेषु शर्कराः १४
विश्वास-प्रस्तुतिः
हिरण्यमुपर्येके १५
मूलम्
हिरण्यमुपर्येके १५
विश्वास-प्रस्तुतिः
एवमितरयोः १६
मूलम्
एवमितरयोः १६
विश्वास-प्रस्तुतिः
पुरस्तादाहवनीयस्याऽष्टासु प्रक्रमेष्वेकादशसु द्वादशसु मत्या वा १७
मूलम्
पुरस्तादाहवनीयस्याऽष्टासु प्रक्रमेष्वेकादशसु द्वादशसु मत्या वा १७
विश्वास-प्रस्तुतिः
इतरस्य वितृतीये दक्षिणतः १८
मूलम्
इतरस्य वितृतीये दक्षिणतः १८
विश्वास-प्रस्तुतिः
उत्सृप्तेऽग्निमन्थनमनुत्सृप्त एके १९
मूलम्
उत्सृप्तेऽग्निमन्थनमनुत्सृप्त एके १९
विश्वास-प्रस्तुतिः
उदिते तूद्धरणम् २०
मूलम्
उदिते तूद्धरणम् २०
विश्वास-प्रस्तुतिः
अपरेण गार्हपत्यायतनम् २१
मूलम्
अपरेण गार्हपत्यायतनम् २१
विश्वास-प्रस्तुतिः
अश्वमानयेति ब्रूयात् २२
मूलम्
अश्वमानयेति ब्रूयात् २२
विश्वास-प्रस्तुतिः
स्थितेऽश्वे पुरस्तात् २३
मूलम्
स्थितेऽश्वे पुरस्तात् २३
विश्वास-प्रस्तुतिः
जाते वरदानम् २४
मूलम्
जाते वरदानम् २४
विश्वास-प्रस्तुतिः
मनसैके २५
मूलम्
मनसैके २५
विश्वास-प्रस्तुतिः
तस्याऽभिश्वासः प्राणममृते दध इति २६
मूलम्
तस्याऽभिश्वासः प्राणममृते दध इति २६
विश्वास-प्रस्तुतिः
उच्छ्वासोऽमृतं प्राण आदध इति २७
मूलम्
उच्छ्वासोऽमृतं प्राण आदध इति २७