विश्वास-प्रस्तुतिः
आधाननिरूपणम् अमावास्यायामग्न्याधेयम् १
मूलम्
आधाननिरूपणम् अमावास्यायामग्न्याधेयम् १
विश्वास-प्रस्तुतिः
कृत्तिकामृगशिरःफल्गुनीषु २
मूलम्
कृत्तिकामृगशिरःफल्गुनीषु २
विश्वास-प्रस्तुतिः
हस्तो लाभकामस्य ३
मूलम्
हस्तो लाभकामस्य ३
विश्वास-प्रस्तुतिः
चित्रा च क्षत्रियस्य ४
मूलम्
चित्रा च क्षत्रियस्य ४
विश्वास-प्रस्तुतिः
वसन्तो ब्राह्मणब्रह्मवर्चसकामयोः ५
मूलम्
वसन्तो ब्राह्मणब्रह्मवर्चसकामयोः ५
विश्वास-प्रस्तुतिः
ग्रीष्मः क्षत्रियश्रीकामयोः ६
मूलम्
ग्रीष्मः क्षत्रियश्रीकामयोः ६
विश्वास-प्रस्तुतिः
वर्षाः प्रजापशुकामवैश्यरथकृताम् ७
मूलम्
वर्षाः प्रजापशुकामवैश्यरथकृताम् ७
विश्वास-प्रस्तुतिः
अग्न्यगारे कुर्वन्ति ८
मूलम्
अग्न्यगारे कुर्वन्ति ८
विश्वास-प्रस्तुतिः
उदग्वंशं वाऽपरम् ९
मूलम्
उदग्वंशं वाऽपरम् ९
विश्वास-प्रस्तुतिः
दक्षिणपूर्वे द्वारे १०
मूलम्
दक्षिणपूर्वे द्वारे १०
विश्वास-प्रस्तुतिः
पौर्णमासवद्वपनम् ११
मूलम्
पौर्णमासवद्वपनम् ११
विश्वास-प्रस्तुतिः
क्षौमे वस्तेऽहते पत्नी च १२
मूलम्
क्षौमे वस्तेऽहते पत्नी च १२
विश्वास-प्रस्तुतिः
संस्थितेऽध्वर्यवे देये १३
मूलम्
संस्थितेऽध्वर्यवे देये १३
विश्वास-प्रस्तुतिः
गार्हपत्याऽगारे निर्मथ्याऽभ्यादधाति १४
मूलम्
गार्हपत्याऽगारे निर्मथ्याऽभ्यादधाति १४
विश्वास-प्रस्तुतिः
वैश्यकुलाऽम्बरीषमहानसाद्वा १५
मूलम्
वैश्यकुलाऽम्बरीषमहानसाद्वा १५
विश्वास-प्रस्तुतिः
दिवाऽश्नाति रात्रौ वा १६
मूलम्
दिवाऽश्नाति रात्रौ वा १६
विश्वास-प्रस्तुतिः
उपाऽस्तमयं देवाः पितरः पितरो देवा योऽहमस्मि स सन्यजे । यस्याऽहमस्मि न तमन्तर्यामि स्वम्म इष्टं स्वं श्रान्तं स्वं सुहुतस्त्विति १७
मूलम्
उपाऽस्तमयं देवाः पितरः पितरो देवा योऽहमस्मि स सन्यजे । यस्याऽहमस्मि न तमन्तर्यामि स्वम्म इष्टं स्वं श्रान्तं स्वं सुहुतस्त्विति १७
विश्वास-प्रस्तुतिः
पूर्वेण प्रविशति दक्षिणेन पत्नी १८
मूलम्
पूर्वेण प्रविशति दक्षिणेन पत्नी १८
विश्वास-प्रस्तुतिः
पश्चादग्नेरुपविशतो दक्षिणतः पत्नी १९
मूलम्
पश्चादग्नेरुपविशतो दक्षिणतः पत्नी १९
विश्वास-प्रस्तुतिः
अश्वत्थशमीगर्भाऽरणी प्रयच्छति २०
मूलम्
अश्वत्थशमीगर्भाऽरणी प्रयच्छति २०
विश्वास-प्रस्तुतिः
अभावेऽगर्भस्य २१
मूलम्
अभावेऽगर्भस्य २१
विश्वास-प्रस्तुतिः
वाचं यच्छाऽपूर्णाहुतेरित्याहाऽस्तमिते निशायां पर्युदयं वा प्रधानकालत्वात् २२
मूलम्
वाचं यच्छाऽपूर्णाहुतेरित्याहाऽस्तमिते निशायां पर्युदयं वा प्रधानकालत्वात् २२