०६

विश्वास-प्रस्तुतिः

आग्रयणेष्टिनिरूपणम् आग्रयणमैन्द्रा ग्नमग्रपाकस्य १

मूलम्

आग्रयणेष्टिनिरूपणम् आग्रयणमैन्द्रा ग्नमग्रपाकस्य १

विश्वास-प्रस्तुतिः

व्रीहीणां यवानां च २

मूलम्

व्रीहीणां यवानां च २

विश्वास-प्रस्तुतिः

शैश्वदेवश्चरुः ३

मूलम्

शैश्वदेवश्चरुः ३

विश्वास-प्रस्तुतिः

पयसि वा ४

मूलम्

पयसि वा ४

विश्वास-प्रस्तुतिः

द्यावापृथिवीय एककपालः ५

मूलम्

द्यावापृथिवीय एककपालः ५

विश्वास-प्रस्तुतिः

उद्वास्याऽन्तांश्छादयेदाज्येन ६

मूलम्

उद्वास्याऽन्तांश्छादयेदाज्येन ६

विश्वास-प्रस्तुतिः

आज्यस्य वा यजेत ७

मूलम्

आज्यस्य वा यजेत ७

विश्वास-प्रस्तुतिः

पुराणानां वा चरुः ८

मूलम्

पुराणानां वा चरुः ८

विश्वास-प्रस्तुतिः

प्रथमजो गौर्दक्षिणा ९

मूलम्

प्रथमजो गौर्दक्षिणा ९

विश्वास-प्रस्तुतिः

वैश्वदेवस्य च १०

मूलम्

वैश्वदेवस्य च १०

विश्वास-प्रस्तुतिः

दर्शपूर्णमासाऽनीजानो दक्षिणाग्निपक्वं चातुष्प्राश्यं ब्राह्मणान् भोजयेत् किञ्चिद्दद्यात् ११

मूलम्

दर्शपूर्णमासाऽनीजानो दक्षिणाग्निपक्वं चातुष्प्राश्यं ब्राह्मणान् भोजयेत् किञ्चिद्दद्यात् ११

विश्वास-प्रस्तुतिः

अग्निहोत्रायणिनो नवैः सायम्प्रातरग्निहोत्रहोमः १२

मूलम्

अग्निहोत्रायणिनो नवैः सायम्प्रातरग्निहोत्रहोमः १२

विश्वास-प्रस्तुतिः

तदाशिता वा पयसा १३

मूलम्

तदाशिता वा पयसा १३

विश्वास-प्रस्तुतिः

दीक्षितव्रतं च १४

मूलम्

दीक्षितव्रतं च १४

विश्वास-प्रस्तुतिः

उपसत्सु रौहिणौ कुर्वीत १५

मूलम्

उपसत्सु रौहिणौ कुर्वीत १५

विश्वास-प्रस्तुतिः

सुत्यासु सवनीयाः १६

मूलम्

सुत्यासु सवनीयाः १६

विश्वास-प्रस्तुतिः

सौम्यः श्यामाकचरुरारण्यस्य १७

मूलम्

सौम्यः श्यामाकचरुरारण्यस्य १७

विश्वास-प्रस्तुतिः

वैणवो ग्रीष्मे १८

मूलम्

वैणवो ग्रीष्मे १८

विश्वास-प्रस्तुतिः

पुनःसंस्कृतो रथो दक्षिणा क्षौमं मधुपर्को वर्षाधृतं वा वासः १९

मूलम्

पुनःसंस्कृतो रथो दक्षिणा क्षौमं मधुपर्को वर्षाधृतं वा वासः १९