०५

विश्वास-प्रस्तुतिः

उपांशु काम्यदेवता १

मूलम्

उपांशु काम्यदेवता १

विश्वास-प्रस्तुतिः

आग्रयणे वैश्वदेवः २

मूलम्

आग्रयणे वैश्वदेवः २

विश्वास-प्रस्तुतिः

एककपालाश्चाऽवारुणाः ३

मूलम्

एककपालाश्चाऽवारुणाः ३

विश्वास-प्रस्तुतिः

प्राजापत्यः ४

मूलम्

प्राजापत्यः ४

विश्वास-प्रस्तुतिः

सावित्रश्चातुर्मास्येषु ५

मूलम्

सावित्रश्चातुर्मास्येषु ५

विश्वास-प्रस्तुतिः

वैश्वदेवी ६

मूलम्

वैश्वदेवी ६

विश्वास-प्रस्तुतिः

वायव्यम् ७

मूलम्

वायव्यम् ७

विश्वास-प्रस्तुतिः

तनूहवींषि ८

मूलम्

तनूहवींषि ८

विश्वास-प्रस्तुतिः

दीक्षणीयाप्रायणीयाऽतिथ्यादेवताः ९

मूलम्

दीक्षणीयाप्रायणीयाऽतिथ्यादेवताः ९

विश्वास-प्रस्तुतिः

देवसूदेविकाहवींषि १०

मूलम्

देवसूदेविकाहवींषि १०

विश्वास-प्रस्तुतिः

वायव्योऽग्नौ ११

मूलम्

वायव्योऽग्नौ ११

विश्वास-प्रस्तुतिः

मैत्रावरुणी च १२

मूलम्

मैत्रावरुणी च १२

विश्वास-प्रस्तुतिः

ऐन्द्रःसौत्रामण्यां प्रथमः १३

मूलम्

ऐन्द्रःसौत्रामण्यां प्रथमः १३

विश्वास-प्रस्तुतिः

वायोधसश्च १४

मूलम्

वायोधसश्च १४

विश्वास-प्रस्तुतिः

आग्नेयं प्रतिकाममाहरेत् १५

मूलम्

आग्नेयं प्रतिकाममाहरेत् १५

विश्वास-प्रस्तुतिः

वर्षार्थे पुनः प्रकृतौ वा ब्रूयाद् वृष्टिकामोऽस्मीति १६

मूलम्

वर्षार्थे पुनः प्रकृतौ वा ब्रूयाद् वृष्टिकामोऽस्मीति १६

विश्वास-प्रस्तुतिः

अध्वर्युं ब्रूयात् पुरोवातं च विद्युतं च मनसा ध्यायेति १७

मूलम्

अध्वर्युं ब्रूयात् पुरोवातं च विद्युतं च मनसा ध्यायेति १७

विश्वास-प्रस्तुतिः

अभ्राण्यग्नीधम् १८

मूलम्

अभ्राण्यग्नीधम् १८

विश्वास-प्रस्तुतिः

सर्वाण्येतानीति ब्रह्माणम् १९

मूलम्

सर्वाण्येतानीति ब्रह्माणम् १९

विश्वास-प्रस्तुतिः

अन्वारम्भणीयाऽग्नावैष्णव एकादशकपालः सरस्वत्यै चरुः २०

मूलम्

अन्वारम्भणीयाऽग्नावैष्णव एकादशकपालः सरस्वत्यै चरुः २०

विश्वास-प्रस्तुतिः

सरस्वते द्वादशकपालो दर्शपूर्णमासाऽरम्भे २१

मूलम्

सरस्वते द्वादशकपालो दर्शपूर्णमासाऽरम्भे २१

विश्वास-प्रस्तुतिः

पष्ठौही दक्षिणा मिथुनौ वा २२

मूलम्

पष्ठौही दक्षिणा मिथुनौ वा २२

विश्वास-प्रस्तुतिः

इन्द्रा य विमृध एकादशकपालः पौर्णमासमनु २३

मूलम्

इन्द्रा य विमृध एकादशकपालः पौर्णमासमनु २३

विश्वास-प्रस्तुतिः

आदिविकल्पः २४

मूलम्

आदिविकल्पः २४

विश्वास-प्रस्तुतिः

आदित्यश्चरुरमावास्यायाम् २५

मूलम्

आदित्यश्चरुरमावास्यायाम् २५