विश्वास-प्रस्तुतिः
दर्शेष्टौ सान्नाय्यनिरूपणम् । श्वो नोदेतेत्यदृष्टे वा पर्णशाखां छिनत्ति शामीलीं वा इषे त्वोत्यूर्जे त्वेति वा १
मूलम्
दर्शेष्टौ सान्नाय्यनिरूपणम् । श्वो नोदेतेत्यदृष्टे वा पर्णशाखां छिनत्ति शामीलीं वा इषे त्वोत्यूर्जे त्वेति वा १
विश्वास-प्रस्तुतिः
छिनद्मीति वोभयोः साकाङ्क्षत्वात् २
मूलम्
छिनद्मीति वोभयोः साकाङ्क्षत्वात् २
विश्वास-प्रस्तुतिः
यथोक्तं वा । सन्नमयामीति वोत्तरे ३
मूलम्
यथोक्तं वा । सन्नमयामीति वोत्तरे ३
विश्वास-प्रस्तुतिः
बहुलपलाशामशुष्काग्रां प्रागुदीचीमन्यतमां वा ४
मूलम्
बहुलपलाशामशुष्काग्रां प्रागुदीचीमन्यतमां वा ४
विश्वास-प्रस्तुतिः
व्रतमुपैति ५
मूलम्
व्रतमुपैति ५
विश्वास-प्रस्तुतिः
यथोक्तं वा ६
मूलम्
यथोक्तं वा ६
विश्वास-प्रस्तुतिः
मातृभिर्वत्सान्संसृज्य वत्सं शाखयोपस्पृशति वायव स्थेति ७
मूलम्
मातृभिर्वत्सान्संसृज्य वत्सं शाखयोपस्पृशति वायव स्थेति ७
विश्वास-प्रस्तुतिः
उपायव स्थेति चैके ८
मूलम्
उपायव स्थेति चैके ८
विश्वास-प्रस्तुतिः
देवो व इति मातॄणामेकां व्याकृत्य ९
मूलम्
देवो व इति मातॄणामेकां व्याकृत्य ९
विश्वास-प्रस्तुतिः
ऐन्द्रं भवति माहेन्द्रं वा १०
मूलम्
ऐन्द्रं भवति माहेन्द्रं वा १०
विश्वास-प्रस्तुतिः
यजमानस्य पशूनित्यग्न्यगारस्याऽन्यतरस्य पुरस्ताच्छाखामुपगृहति ११
मूलम्
यजमानस्य पशूनित्यग्न्यगारस्याऽन्यतरस्य पुरस्ताच्छाखामुपगृहति ११
विश्वास-प्रस्तुतिः
मूलादुपवेषं करोति वेषोऽस्युपवेषो द्विषतो ग्रीवा उपवेड्ढि वेशाँ अग्ने सुभग धारयेह । ऋद्धाः कर्मण्या अनपायिनो यथाऽसन्निति १२
मूलम्
मूलादुपवेषं करोति वेषोऽस्युपवेषो द्विषतो ग्रीवा उपवेड्ढि वेशाँ अग्ने सुभग धारयेह । ऋद्धाः कर्मण्या अनपायिनो यथाऽसन्निति १२
विश्वास-प्रस्तुतिः
सान्नाय्ये शाखासंयोगात् १३
मूलम्
सान्नाय्ये शाखासंयोगात् १३
विश्वास-प्रस्तुतिः
उपधानाद्वोभयोः १४
मूलम्
उपधानाद्वोभयोः १४
विश्वास-प्रस्तुतिः
वसोः पवित्रमिति पवित्रमस्यां बध्नाति कुशौ १५
मूलम्
वसोः पवित्रमिति पवित्रमस्यां बध्नाति कुशौ १५
विश्वास-प्रस्तुतिः
त्रिवृद्वा १६
मूलम्
त्रिवृद्वा १६
विश्वास-प्रस्तुतिः
यवाग्वाऽग्निहोत्रहोमः सन्नयतस्तां रात्रिम् १७
मूलम्
यवाग्वाऽग्निहोत्रहोमः सन्नयतस्तां रात्रिम् १७
विश्वास-प्रस्तुतिः
हुत उपसृष्टां प्रब्रूतादित्याह १८
मूलम्
हुत उपसृष्टां प्रब्रूतादित्याह १८
विश्वास-प्रस्तुतिः
प्रोक्ते द्यौरसीति स्थाल्यादानम् १९
मूलम्
प्रोक्ते द्यौरसीति स्थाल्यादानम् १९
विश्वास-प्रस्तुतिः
मातरिश्वन इत्यधिश्रयति २०
मूलम्
मातरिश्वन इत्यधिश्रयति २०
विश्वास-प्रस्तुतिः
वसोः पवित्रमिति पवित्रमस्यां करोत्युदग्वा २१
मूलम्
वसोः पवित्रमिति पवित्रमस्यां करोत्युदग्वा २१
विश्वास-प्रस्तुतिः
वाग्यतो दोहयत्यशूद्रे ण २२
मूलम्
वाग्यतो दोहयत्यशूद्रे ण २२
विश्वास-प्रस्तुतिः
स्थाल्यन्वारब्धे देवस्त्वेत्यासिच्यमाने जपति २३
मूलम्
स्थाल्यन्वारब्धे देवस्त्वेत्यासिच्यमाने जपति २३
विश्वास-प्रस्तुतिः
कामधुक्ष इति प्रश्नः २४
मूलम्
कामधुक्ष इति प्रश्नः २४
विश्वास-प्रस्तुतिः
प्रोक्ते सा विश्वायुरित्याह २५
मूलम्
प्रोक्ते सा विश्वायुरित्याह २५
विश्वास-प्रस्तुतिः
एवमितरे उत्तराभ्यां प्रतिमन्त्रम् २६
मूलम्
एवमितरे उत्तराभ्यां प्रतिमन्त्रम् २६
विश्वास-प्रस्तुतिः
विसृष्टवागुत्तरा अनन्वारब्धे २७
मूलम्
विसृष्टवागुत्तरा अनन्वारब्धे २७
विश्वास-प्रस्तुतिः
यावत्स्वमधिकारात् २८
मूलम्
यावत्स्वमधिकारात् २८
विश्वास-प्रस्तुतिः
तिस्रो वा नित्यत्वात् २९
मूलम्
तिस्रो वा नित्यत्वात् २९
विश्वास-प्रस्तुतिः
आदिसामर्थ्यात् ३०
मूलम्
आदिसामर्थ्यात् ३०
विश्वास-प्रस्तुतिः
दर्शनाच्च ३१
मूलम्
दर्शनाच्च ३१
विश्वास-प्रस्तुतिः
परिक्षालनमानयति सम्पृच्यध्वमृतावरीरूर्मिणा मधुमत्तमाः । पृञ्चतीर्मधुना पयो मन्द्रा धनस्य सातय इति ३२
मूलम्
परिक्षालनमानयति सम्पृच्यध्वमृतावरीरूर्मिणा मधुमत्तमाः । पृञ्चतीर्मधुना पयो मन्द्रा धनस्य सातय इति ३२
विश्वास-प्रस्तुतिः
उद्धास्याऽतनक्ति प्राग्घतशेषेणेन्द्र स्य त्वेति ३३
मूलम्
उद्धास्याऽतनक्ति प्राग्घतशेषेणेन्द्र स्य त्वेति ३३
विश्वास-प्रस्तुतिः
सोदकेनाऽपिदधात्यमृन्मयेन विष्णो हव्यमिति ३४
मूलम्
सोदकेनाऽपिदधात्यमृन्मयेन विष्णो हव्यमिति ३४
विश्वास-प्रस्तुतिः
निधाय वत्साऽपाकरणं पूर्ववत् ३५
मूलम्
निधाय वत्साऽपाकरणं पूर्ववत् ३५
विश्वास-प्रस्तुतिः
प्रातराग्नेय ऐन्द्रा ग्नश्च द्वादशकपालोऽसन्नयतः ३६
मूलम्
प्रातराग्नेय ऐन्द्रा ग्नश्च द्वादशकपालोऽसन्नयतः ३६
विश्वास-प्रस्तुतिः
निरूप्याऽज्यं प्रातर्दोहनमन्यस्मिन् ३७
मूलम्
निरूप्याऽज्यं प्रातर्दोहनमन्यस्मिन् ३७
विश्वास-प्रस्तुतिः
परिक्षालनान्तं कृत्वा सायन्दोहनमाहृत्य प्रातर्दोहं श्रपयित्वाऽमिघार्योद्वास्योः भावनक्ति ३८
मूलम्
परिक्षालनान्तं कृत्वा सायन्दोहनमाहृत्य प्रातर्दोहं श्रपयित्वाऽमिघार्योद्वास्योः भावनक्ति ३८
विश्वास-प्रस्तुतिः
शृतस्याग्रेऽवद्यतीति श्रुतेः ३९
मूलम्
शृतस्याग्रेऽवद्यतीति श्रुतेः ३९
विश्वास-प्रस्तुतिः
समस्य मार्जनम् ४०
मूलम्
समस्य मार्जनम् ४०
विश्वास-प्रस्तुतिः
इन्द्रा ग्न्योरिति व्यूहनम् ४१
मूलम्
इन्द्रा ग्न्योरिति व्यूहनम् ४१
विश्वास-प्रस्तुतिः
सह शाखया प्रस्तराऽनुप्रहरणम् ४२
मूलम्
सह शाखया प्रस्तराऽनुप्रहरणम् ४२
विश्वास-प्रस्तुतिः
परिधिभिः सहोपवेषं जुहोति जुहोमि त्वा सुभग सौभगाय पुरुतमं पुरुहूत श्रवस्येति ४३
मूलम्
परिधिभिः सहोपवेषं जुहोति जुहोमि त्वा सुभग सौभगाय पुरुतमं पुरुहूत श्रवस्येति ४३
विश्वास-प्रस्तुतिः
पौर्णमासवदन्यदसद्यः ४४
मूलम्
पौर्णमासवदन्यदसद्यः ४४
विश्वास-प्रस्तुतिः
सोमयाजी सन्नयेत् ४५
मूलम्
सोमयाजी सन्नयेत् ४५
विश्वास-प्रस्तुतिः
कामादितरः ४६
मूलम्
कामादितरः ४६
विश्वास-प्रस्तुतिः
त्रिंशतं वर्षाणि दर्शपूर्णमासाभ्यां यजेत ४७
मूलम्
त्रिंशतं वर्षाणि दर्शपूर्णमासाभ्यां यजेत ४७
विश्वास-प्रस्तुतिः
पञ्चदश दाक्षायणशज्ञी ४८
मूलम्
पञ्चदश दाक्षायणशज्ञी ४८
विश्वास-प्रस्तुतिः
अग्निहोत्रमेव वा जुहुयात् ४२
मूलम्
अग्निहोत्रमेव वा जुहुयात् ४२