(पिण्डपितृयज्ञादि)
विश्वास-प्रस्तुतिः
अपराह्णे पिण्डपितृयज्ञश्चन्द्रा ऽदर्शनेऽमावास्याम् १
मूलम्
अपराह्णे पिण्डपितृयज्ञश्चन्द्रा ऽदर्शनेऽमावास्याम् १
विश्वास-प्रस्तुतिः
दक्षिणाग्नौ श्रपणं होमश्च २
मूलम्
दक्षिणाग्नौ श्रपणं होमश्च २
विश्वास-प्रस्तुतिः
परिस्तीर्य तं पूर्ववत्पात्रासादनमेकैकशः ३
मूलम्
परिस्तीर्य तं पूर्ववत्पात्रासादनमेकैकशः ३
विश्वास-प्रस्तुतिः
अपरेण गार्हपत्यं चरुमपूर्णं स्रुचं वा तूष्णीं गृहीत्वोत्तरेण दक्षिणाग्निमवहन्ति तिष्ठन् ४
मूलम्
अपरेण गार्हपत्यं चरुमपूर्णं स्रुचं वा तूष्णीं गृहीत्वोत्तरेण दक्षिणाग्निमवहन्ति तिष्ठन् ४
विश्वास-प्रस्तुतिः
सकृत्फलीकरोति ५
मूलम्
सकृत्फलीकरोति ५
विश्वास-प्रस्तुतिः
सारतण्डुलमपूर्णं श्रपयित्वाऽभिघार्योद्वास्य मेक्षणेन जुहोत्यग्नय इति सोमाय इति च ६
मूलम्
सारतण्डुलमपूर्णं श्रपयित्वाऽभिघार्योद्वास्य मेक्षणेन जुहोत्यग्नय इति सोमाय इति च ६
विश्वास-प्रस्तुतिः
प्रास्य तद्दक्षिणेनोल्लिखत्यपहता इत्यपरेण वा ७
मूलम्
प्रास्य तद्दक्षिणेनोल्लिखत्यपहता इत्यपरेण वा ७
विश्वास-प्रस्तुतिः
उल्मुकं परस्तात्करोति ये रूपाणीति ८
मूलम्
उल्मुकं परस्तात्करोति ये रूपाणीति ८
विश्वास-प्रस्तुतिः
उदपात्रेणाऽवनेजयत्यपसव्यं सव्येन वोद्धरणसामर्थ्यात् ९
मूलम्
उदपात्रेणाऽवनेजयत्यपसव्यं सव्येन वोद्धरणसामर्थ्यात् ९
विश्वास-प्रस्तुतिः
असाववनेनिक्ष्वेति यजमानस्य पितृप्रभृति त्रीन् १०
मूलम्
असाववनेनिक्ष्वेति यजमानस्य पितृप्रभृति त्रीन् १०
विश्वास-प्रस्तुतिः
उपमूलं सकृदाच्छिन्नानि लेखायां कृत्वा यथाऽवनिक्तं पिण्डान्ददात्यसावेतत्त इति ११
मूलम्
उपमूलं सकृदाच्छिन्नानि लेखायां कृत्वा यथाऽवनिक्तं पिण्डान्ददात्यसावेतत्त इति ११
विश्वास-प्रस्तुतिः
ये च त्वामन्विति चैके १२
मूलम्
ये च त्वामन्विति चैके १२
विश्वास-प्रस्तुतिः
अत्र पितर इत्युक्त्वा उदङास्त आ तमनात् १३
मूलम्
अत्र पितर इत्युक्त्वा उदङास्त आ तमनात् १३
विश्वास-प्रस्तुतिः
आवृत्याऽमीमदन्तेति जपति १४
मूलम्
आवृत्याऽमीमदन्तेति जपति १४
विश्वास-प्रस्तुतिः
अवनेज्य पूर्ववन्नीविं विस्रंस्य नमो व इत्यञ्जलिं करोति १५
मूलम्
अवनेज्य पूर्ववन्नीविं विस्रंस्य नमो व इत्यञ्जलिं करोति १५
विश्वास-प्रस्तुतिः
एतद्व इत्युपास्यति सूत्राणि प्रतिपिण्डम् १६
मूलम्
एतद्व इत्युपास्यति सूत्राणि प्रतिपिण्डम् १६
विश्वास-प्रस्तुतिः
ऊर्णा दशा वा १७
मूलम्
ऊर्णा दशा वा १७
विश्वास-प्रस्तुतिः
वयस्युत्तरे यजमानलोमानि १८
मूलम्
वयस्युत्तरे यजमानलोमानि १८
विश्वास-प्रस्तुतिः
ऊर्जमित्यपो निषिञ्चति १९
मूलम्
ऊर्जमित्यपो निषिञ्चति १९
विश्वास-प्रस्तुतिः
अवधायाऽवजिघ्रति यजमानः २०
मूलम्
अवधायाऽवजिघ्रति यजमानः २०
विश्वास-प्रस्तुतिः
उल्मुकसकृदाच्छिन्नान्यग्नौ २१
मूलम्
उल्मुकसकृदाच्छिन्नान्यग्नौ २१
विश्वास-प्रस्तुतिः
आधत्तेति मध्यमपिण्डं पत्नी प्राश्नाति पुत्रकामा २२
मूलम्
आधत्तेति मध्यमपिण्डं पत्नी प्राश्नाति पुत्रकामा २२
विश्वास-प्रस्तुतिः
प्रेतेभ्यो ददाति जीवत्पितृकोऽपि जीवाऽन्तर्हितेऽपि २३
मूलम्
प्रेतेभ्यो ददाति जीवत्पितृकोऽपि जीवाऽन्तर्हितेऽपि २३
विश्वास-प्रस्तुतिः
जीवत्पितृकस्य होमान्तम् २४
मूलम्
जीवत्पितृकस्य होमान्तम् २४
विश्वास-प्रस्तुतिः
अनारम्भो वा २५
मूलम्
अनारम्भो वा २५
विश्वास-प्रस्तुतिः
न व्यवेते जातूकर्ण्यः २६
मूलम्
न व्यवेते जातूकर्ण्यः २६
विश्वास-प्रस्तुतिः
न जीवन्तमतीत्य ददातीति श्रुतेः २७
मूलम्
न जीवन्तमतीत्य ददातीति श्रुतेः २७
विश्वास-प्रस्तुतिः
पूर्वो वाऽङ्गत्वात्पिण्डपितृयज्ञः २८
मूलम्
पूर्वो वाऽङ्गत्वात्पिण्डपितृयज्ञः २८
विश्वास-प्रस्तुतिः
प्रकरणकाललिङ्गाऽनुग्रहवचनाऽनाहिताग्निश्रुतिभ्योऽनङ्गम् २९
मूलम्
प्रकरणकाललिङ्गाऽनुग्रहवचनाऽनाहिताग्निश्रुतिभ्योऽनङ्गम् २९
विश्वास-प्रस्तुतिः
अङ्गं वा समभिव्याहारात् ३०
मूलम्
अङ्गं वा समभिव्याहारात् ३०