विश्वास-प्रस्तुतिः

पत्नी वेदं मुञ्चति वेदोऽसीति योक्तम् १

मूलम्

पत्नी वेदं मुञ्चति वेदोऽसीति योक्तम् १

विश्वास-प्रस्तुतिः

प्र मा मुञ्चामि वरुणस्य पाशाद्येन मा बध्नात्सविता सुशेव । ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां मा सह पत्या दधात्विति २

मूलम्

प्र मा मुञ्चामि वरुणस्य पाशाद्येन मा बध्नात्सविता सुशेव । ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां मा सह पत्या दधात्विति २

विश्वास-प्रस्तुतिः

स्तृणात्यावेदेः ३

मूलम्

स्तृणात्यावेदेः ३

विश्वास-प्रस्तुतिः

ध्रौवं समिष्टयजुर्जुहोति देवा गातुविद इति ४

मूलम्

ध्रौवं समिष्टयजुर्जुहोति देवा गातुविद इति ४

विश्वास-प्रस्तुतिः

बर्हिः सम्बर्हिरिति ५

मूलम्

बर्हिः सम्बर्हिरिति ५

विश्वास-प्रस्तुतिः

वेद्यां प्रणीता निनयति परीत्य कस्त्वेति ६

मूलम्

वेद्यां प्रणीता निनयति परीत्य कस्त्वेति ६

विश्वास-प्रस्तुतिः

पुरोडाशकपालेन कणानपास्यत्यधः कृष्णाजिनं रक्षसामिति ७

मूलम्

पुरोडाशकपालेन कणानपास्यत्यधः कृष्णाजिनं रक्षसामिति ७

विश्वास-प्रस्तुतिः

पूर्णपात्रं निनयति परीत्य सन्ततं यजमानोऽञ्जलिना प्रतिगृह्णाति संवर्चसेति ८

मूलम्

पूर्णपात्रं निनयति परीत्य सन्ततं यजमानोऽञ्जलिना प्रतिगृह्णाति संवर्चसेति ८

विश्वास-प्रस्तुतिः

मुखं विमृष्टे ९

मूलम्

मुखं विमृष्टे ९

विश्वास-प्रस्तुतिः

विष्णुक्रमान् क्रमते दिवि विष्णुरिति प्रतिमन्त्रं पृथिव्यामितीत ऊर्ध्वो वा १०

मूलम्

विष्णुक्रमान् क्रमते दिवि विष्णुरिति प्रतिमन्त्रं पृथिव्यामितीत ऊर्ध्वो वा १०

विश्वास-प्रस्तुतिः

अस्मादन्नादिति भागमवेक्षते ११

मूलम्

अस्मादन्नादिति भागमवेक्षते ११

विश्वास-प्रस्तुतिः

अस्यै प्रतिष्ठायै इति भूमिम् १२

मूलम्

अस्यै प्रतिष्ठायै इति भूमिम् १२

विश्वास-प्रस्तुतिः

अगन्म स्वर् इति प्राङ् १३

मूलम्

अगन्म स्वर् इति प्राङ् १३

विश्वास-प्रस्तुतिः

सञ्ज्योतिषेत्याहवनीयम् १४

मूलम्

सञ्ज्योतिषेत्याहवनीयम् १४

विश्वास-प्रस्तुतिः

स्वयम्भूरिति सूर्यम् १५

मूलम्

स्वयम्भूरिति सूर्यम् १५

विश्वास-प्रस्तुतिः

वर्चोदा इति यं वा कामं कामयते १६

मूलम्

वर्चोदा इति यं वा कामं कामयते १६

विश्वास-प्रस्तुतिः

सूर्यस्येत्यावर्तते प्रदक्षिणम् १७

मूलम्

सूर्यस्येत्यावर्तते प्रदक्षिणम् १७

विश्वास-प्रस्तुतिः

ग्रहग्रहणप्रतिगरहोमेषु च १८

मूलम्

ग्रहग्रहणप्रतिगरहोमेषु च १८

विश्वास-प्रस्तुतिः

गार्हपत्यमुपतिष्ठते गृहपत इति शतं हिमा इति ब्रूयाद्वा १९

मूलम्

गार्हपत्यमुपतिष्ठते गृहपत इति शतं हिमा इति ब्रूयाद्वा १९

विश्वास-प्रस्तुतिः

सूर्यस्येत्यावर्तते प्रदक्षिणम् २०

मूलम्

सूर्यस्येत्यावर्तते प्रदक्षिणम् २०

विश्वास-प्रस्तुतिः

गच्छति प्राङुरु विष्णविति २१

मूलम्

गच्छति प्राङुरु विष्णविति २१

विश्वास-प्रस्तुतिः

ततोऽसि तन्तुरस्यनु मा तनुह्यस्मिन्यज्ञेऽस्यां साधुकृत्यायामस्मिँ ल्लोक इदं मे कर्मेदं वीर्यं पुत्रोऽनु सन्तनोत्विति पुत्रस्य नाम गृह्णाति २२

मूलम्

ततोऽसि तन्तुरस्यनु मा तनुह्यस्मिन्यज्ञेऽस्यां साधुकृत्यायामस्मिँ ल्लोक इदं मे कर्मेदं वीर्यं पुत्रोऽनु सन्तनोत्विति पुत्रस्य नाम गृह्णाति २२

विश्वास-प्रस्तुतिः

आत्मनोऽविओद्यमाने तन्तवे त्वा ज्योतिषे त्वेति वा २३

मूलम्

आत्मनोऽविओद्यमाने तन्तवे त्वा ज्योतिषे त्वेति वा २३

विश्वास-प्रस्तुतिः

आहवनीयमुपतिष्ठते तूष्णीम् २४

मूलम्

आहवनीयमुपतिष्ठते तूष्णीम् २४

विश्वास-प्रस्तुतिः

व्रतं विसृजते येनोपेयात् २५

मूलम्

व्रतं विसृजते येनोपेयात् २५

विश्वास-प्रस्तुतिः

सं यज्ञपतिराशिशेति भागं प्राश्नाति २६

मूलम्

सं यज्ञपतिराशिशेति भागं प्राश्नाति २६

विश्वास-प्रस्तुतिः

ब्राह्मणं तर्पयितवै ब्रूयाद्यज्ञमेवैतत्तर्पयतीति श्रुतेः २७

मूलम्

ब्राह्मणं तर्पयितवै ब्रूयाद्यज्ञमेवैतत्तर्पयतीति श्रुतेः २७