विश्वास-प्रस्तुतिः

पत्नीसंयाजेभ्यो गार्हपत्यं गच्छन्ति १

मूलम्

पत्नीसंयाजेभ्यो गार्हपत्यं गच्छन्ति १

विश्वास-प्रस्तुतिः

अध्वर्युः पूर्वदक्षिणेन गार्हपत्यमेत्य पूर्वेणाऽपरेणान्तरेण पत्नीमिकेषाम् २

मूलम्

अध्वर्युः पूर्वदक्षिणेन गार्हपत्यमेत्य पूर्वेणाऽपरेणान्तरेण पत्नीमिकेषाम् २

विश्वास-प्रस्तुतिः

उपविश्य दक्षिणं जान्वाच्य ३

मूलम्

उपविश्य दक्षिणं जान्वाच्य ३

विश्वास-प्रस्तुतिः

एवं सर्वत्रोपविष्टहोमेषु ४

मूलम्

एवं सर्वत्रोपविष्टहोमेषु ४

विश्वास-प्रस्तुतिः

उपांशु चरन्ति ५

मूलम्

उपांशु चरन्ति ५

विश्वास-प्रस्तुतिः

चरणशब्दे सर्वे देवताऽन्यत्र ६

मूलम्

चरणशब्दे सर्वे देवताऽन्यत्र ६

विश्वास-प्रस्तुतिः

यजति सोमं त्वष्टारं देवानां पत्नीरग्निं गृहपतिमिति ७

मूलम्

यजति सोमं त्वष्टारं देवानां पत्नीरग्निं गृहपतिमिति ७

विश्वास-प्रस्तुतिः

तृतीयेऽन्तर्धानं पुरस्तात् ८

मूलम्

तृतीयेऽन्तर्धानं पुरस्तात् ८

विश्वास-प्रस्तुतिः

पत्न्यन्वारभतेऽध्वर्युम् ९

मूलम्

पत्न्यन्वारभतेऽध्वर्युम् ९

विश्वास-प्रस्तुतिः

शंय्वन्तं भवतीडान्तं वा १०

मूलम्

शंय्वन्तं भवतीडान्तं वा १०

विश्वास-प्रस्तुतिः

शंय्वन्ते वेदतृणमादायाऽनक्ति प्रस्तरवत्स्रुचि स्रुवे स्थाल्यां च ११

मूलम्

शंय्वन्ते वेदतृणमादायाऽनक्ति प्रस्तरवत्स्रुचि स्रुवे स्थाल्यां च ११

विश्वास-प्रस्तुतिः

अग्नीदाहाऽनुप्रहरेति १२

मूलम्

अग्नीदाहाऽनुप्रहरेति १२

विश्वास-प्रस्तुतिः

प्रास्य तृणादि पूर्ववत् १३

मूलम्

प्रास्य तृणादि पूर्ववत् १३

विश्वास-प्रस्तुतिः

शंय्वन्ते प्रगृह्णात्यग्नेऽदब्धायो इति १४

मूलम्

शंय्वन्ते प्रगृह्णात्यग्नेऽदब्धायो इति १४

विश्वास-प्रस्तुतिः

सव्येनाऽवृत्य दक्षिणाग्नौ जुहोत्यग्नय इति सरस्वत्या इति च १५

मूलम्

सव्येनाऽवृत्य दक्षिणाग्नौ जुहोत्यग्नय इति सरस्वत्या इति च १५

विश्वास-प्रस्तुतिः

उलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत्कपाले उत्प्रुषो विप्रुषः सञ्जुहोमि सत्याः सन्तु यजमानस्य कामाः स्वाहेति पिष्टलेपाञ्जुहोति १६

मूलम्

उलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत्कपाले उत्प्रुषो विप्रुषः सञ्जुहोमि सत्याः सन्तु यजमानस्य कामाः स्वाहेति पिष्टलेपाञ्जुहोति १६