विश्वास-प्रस्तुतिः
वसुभ्य इति प्रतिमन्त्रम् १
मूलम्
वसुभ्य इति प्रतिमन्त्रम् १
विश्वास-प्रस्तुतिः
प्रथमं परिधिं गृहीत्वा आश्राव्याऽहेषिता दैव्या होतारो भद्र वाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि इति २

पशौ प्रेष्येति ३
मूलम्
पशौ प्रेष्येति ३
विश्वास-प्रस्तुतिः
सञ्जानाथामिति प्रस्तराऽदानम् ४
मूलम्
सञ्जानाथामिति प्रस्तराऽदानम् ४
विश्वास-प्रस्तुतिः
विधृती स्थाने कृत्वाऽनक्त्येनं व्यन्तु वय इति ५

अग्रं जुह्वामुपभृति मध्यं मूलमितरस्याम् ६

मरुतामिति नीचैर्हृत्वा तृणमादायाऽनुप्रहरति ७

हस्तेनाऽचरति ८
मूलम्
हस्तेनाऽचरति ८
विश्वास-प्रस्तुतिः
यजमानभागं च प्रोषिते ९
मूलम्
यजमानभागं च प्रोषिते ९
विश्वास-प्रस्तुतिः
क्षत्रियवैश्ययोश्च नित्यम् १०
मूलम्
क्षत्रियवैश्ययोश्च नित्यम् १०
विश्वास-प्रस्तुतिः
अहं त्वदस्मि मदसि त्वमेतन्मम त्वं योनिस्तव योनिरस्मि । ममैव सन्दिवि देवेष्वधि पुत्रः पित्र्ये लोककृज्जातवेदः स्वाहेति ११

सूक्तवाकाऽन्ते १२
मूलम्
सूक्तवाकाऽन्ते १२
विश्वास-प्रस्तुतिः
अग्नीदाहाऽनुप्रहरेति १३
मूलम्
अग्नीदाहाऽनुप्रहरेति १३
विश्वास-प्रस्तुतिः
प्रास्य तृणं चक्षुष्पा इत्यात्मानमालभते १४

संवदस्वाऽगानग्नीदगञ्च्छ्रावय श्रौषट् स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहि इति एतेषां संवदस्वाऽगञ्छ्रषडित्यग्नीच्छेषमितरो व्यत्यासं ब्रूतः १५

परिधीननुप्रहरति यं परिधिमिति प्रथममितरौ च युगपदग्नेः प्रियमिति १६

स्रुचौ प्रगृह्णाति संस्रवभागा इति संस्रवाञ्जुहोति १७

घृताची इति धुरि निदधात्यनसि चेद् ग्रहणम् १८

स्फ्ये पात्र्यां चेत् १९
मूलम्
स्फ्ये पात्र्यां चेत् १९
विश्वास-प्रस्तुतिः
यज्ञ नमश्च त इति वेदिमालभते २०
मूलम्
यज्ञ नमश्च त इति वेदिमालभते २०
विश्वास-प्रस्तुतिः
वेदं होता स्रुक्सुर्वमध्वर्युराज्यस्थालीमग्नीदादाय २१