विश्वास-प्रस्तुतिः
समस्योल्मुके समिधमादाय ब्रह्मन्प्रस्थास्यामि समिधमाधायाग्निमग्नीत्सम्मृड्ढीति १
मूलम्
समस्योल्मुके समिधमादाय ब्रह्मन्प्रस्थास्यामि समिधमाधायाग्निमग्नीत्सम्मृड्ढीति १
विश्वास-प्रस्तुतिः
एषा त इति होताऽनुमन्त्रयते २
मूलम्
एषा त इति होताऽनुमन्त्रयते २
विश्वास-प्रस्तुतिः
अजानति यजमानः ३
मूलम्
अजानति यजमानः ३
विश्वास-प्रस्तुतिः
सम्मार्ष्टि पूर्ववदपरिक्रामं सकृत्सकृत्ससृवांसमिति ४
मूलम्
सम्मार्ष्टि पूर्ववदपरिक्रामं सकृत्सकृत्ससृवांसमिति ४
विश्वास-प्रस्तुतिः
ब्रह्माऽनुज्ञातोऽनुयाजैस्त्रिभिश्चरत्यौपभृतं समानीय ५
मूलम्
ब्रह्माऽनुज्ञातोऽनुयाजैस्त्रिभिश्चरत्यौपभृतं समानीय ५
विश्वास-प्रस्तुतिः
अतिक्रम्याऽश्राव्याऽह देवान्यजेति ६
मूलम्
अतिक्रम्याऽश्राव्याऽह देवान्यजेति ६
विश्वास-प्रस्तुतिः
यज्ञ यजेत्युत्तरौ ७
मूलम्
यज्ञ यजेत्युत्तरौ ७
विश्वास-प्रस्तुतिः
देवान्देवानिति वा सर्वत्र नियमशब्दात् ८
मूलम्
देवान्देवानिति वा सर्वत्र नियमशब्दात् ८
विश्वास-प्रस्तुतिः
विकृतिदर्शनाच्च ९
मूलम्
विकृतिदर्शनाच्च ९
विश्वास-प्रस्तुतिः
प्रतीचो जुहोति १०
मूलम्
प्रतीचो जुहोति १०
विश्वास-प्रस्तुतिः
उपसत्सु च ११
मूलम्
उपसत्सु च ११
विश्वास-प्रस्तुतिः
ध्रुवः १२
मूलम्
ध्रुवः १२
विश्वास-प्रस्तुतिः
चतुर्थं समानीय प्राचीम् १३
मूलम्
चतुर्थं समानीय प्राचीम् १३
विश्वास-प्रस्तुतिः
अभिचरन्ननुयाजाऽनुमन्त्रणम् अशन्यमुं जहि ह्लादुन्यमुं जहि उत्कुष्यमुं जहि इति १४
मूलम्
अभिचरन्ननुयाजाऽनुमन्त्रणम् अशन्यमुं जहि ह्लादुन्यमुं जहि उत्कुष्यमुं जहि इति १४
विश्वास-प्रस्तुतिः
एवं प्रवृद्धो समं विभजेत् १५
मूलम्
एवं प्रवृद्धो समं विभजेत् १५
विश्वास-प्रस्तुतिः
स्वस्थानाऽन्त्येन वोपायित्वात् १६
मूलम्
स्वस्थानाऽन्त्येन वोपायित्वात् १६
विश्वास-प्रस्तुतिः
एत्य जुहूपभतौ व्यूहत्यग्नीषोमयोरिति जुहूं प्राचीं दक्षिणेनोत्तानेनाऽग्नीषोमौ तमितीतरेणेतरां नीचा प्रतीचीम् १७
मूलम्
एत्य जुहूपभतौ व्यूहत्यग्नीषोमयोरिति जुहूं प्राचीं दक्षिणेनोत्तानेनाऽग्नीषोमौ तमितीतरेणेतरां नीचा प्रतीचीम् १७
विश्वास-प्रस्तुतिः
यथादेवतमन्यत् १८
मूलम्
यथादेवतमन्यत् १८
विश्वास-प्रस्तुतिः
अध्वर्युर्वाऽनूज्जयत्वयं यजमानो वाजस्यैनमिति पूर्वे यमयं यजमानो द्वेष्टि यश्चैनं द्वेष्टीत्युत्तरे १९
मूलम्
अध्वर्युर्वाऽनूज्जयत्वयं यजमानो वाजस्यैनमिति पूर्वे यमयं यजमानो द्वेष्टि यश्चैनं द्वेष्टीत्युत्तरे १९
विश्वास-प्रस्तुतिः
अभ्युक्ष्य जुह्वा परिधीननक्ति यथापूर्वम् २०
मूलम्
अभ्युक्ष्य जुह्वा परिधीननक्ति यथापूर्वम् २०