विश्वास-प्रस्तुतिः
सञ्चरमभ्युक्ष्य प्राशित्रमवद्यति यवमात्रं पिप्पलमात्रं वाऽन्यतरत आज्यमुभयतो वाऽग्नेयात् १
मूलम्
सञ्चरमभ्युक्ष्य प्राशित्रमवद्यति यवमात्रं पिप्पलमात्रं वाऽन्यतरत आज्यमुभयतो वाऽग्नेयात् १
विश्वास-प्रस्तुतिः
भागांश्च २
मूलम्
भागांश्च २
विश्वास-प्रस्तुतिः
अध्वर्युसञ्चरेण ब्रह्मणे प्रदाय पूर्वणैकेऽप उपस्पृश्येडां पञ्चावत्तां दक्षिणतो मध्याच्च यावद्धविः स्विष्टकृद्वदाज्यम् ३
मूलम्
अध्वर्युसञ्चरेण ब्रह्मणे प्रदाय पूर्वणैकेऽप उपस्पृश्येडां पञ्चावत्तां दक्षिणतो मध्याच्च यावद्धविः स्विष्टकृद्वदाज्यम् ३
विश्वास-प्रस्तुतिः
यजमानभागं पूर्वार्द्धाद्दीर्घं प्रशीर्य पुरस्ताद् ध्रुवायाः करोति ४
मूलम्
यजमानभागं पूर्वार्द्धाद्दीर्घं प्रशीर्य पुरस्ताद् ध्रुवायाः करोति ४
विश्वास-प्रस्तुतिः
इडां होत्रे प्रदाय विसृजन्दक्षिणाऽतिक्रामति ५
मूलम्
इडां होत्रे प्रदाय विसृजन्दक्षिणाऽतिक्रामति ५
विश्वास-प्रस्तुतिः
इडां प्रतिगृह्य होतुरङ्गुलिपर्वणी अनक्ति ६
मूलम्
इडां प्रतिगृह्य होतुरङ्गुलिपर्वणी अनक्ति ६
विश्वास-प्रस्तुतिः
अवान्तरेडामादधाति पूर्ववत् ७
मूलम्
अवान्तरेडामादधाति पूर्ववत् ७
विश्वास-प्रस्तुतिः
इडां च ८
मूलम्
इडां च ८
विश्वास-प्रस्तुतिः
सर्वेऽन्वारभन्ते ९
मूलम्
सर्वेऽन्वारभन्ते ९
विश्वास-प्रस्तुतिः
इडोपहूतेत्युच्यमान आग्नेयं वर्हिषदं करोति ब्रध्न पिन्वरमाऽयुर्मे धुक्ष्व प्रजां मे धुक्ष्व पशून्मे धुक्ष्व ब्रह्म मे धुक्ष्व क्षत्रं मे धुक्ष्व विशो मे धुक्ष्व योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तस्य प्रजया पशुभिराप्यायस्वेति तं चतुर्द्धा कृत्वा १०

बर्हिषि ऋत्विग्भ्य आदिशति ११
मूलम्
बर्हिषि ऋत्विग्भ्य आदिशति ११
विश्वास-प्रस्तुतिः
उभौ वाऽविशेषात् १२
मूलम्
उभौ वाऽविशेषात् १२
विश्वास-प्रस्तुतिः
अत्र पितर इति यजमानो जपति १३
मूलम्
अत्र पितर इति यजमानो जपति १३
विश्वास-प्रस्तुतिः
विसृज्याऽमीमदन्तेति १४
मूलम्
विसृज्याऽमीमदन्तेति १४
विश्वास-प्रस्तुतिः
एकैकमाहरति १५
मूलम्
एकैकमाहरति १५
विश्वास-प्रस्तुतिः
द्यावापृथिव्योरुपह्वानेऽग्नीधे षडवत्तम् १६
मूलम्
द्यावापृथिव्योरुपह्वानेऽग्नीधे षडवत्तम् १६
विश्वास-प्रस्तुतिः
प्राश्नात्युपहूता पथिवीति १७
मूलम्
प्राश्नात्युपहूता पथिवीति १७
विश्वास-प्रस्तुतिः
आशासाने मयीदमिति यजमानो जपति १८
मूलम्
आशासाने मयीदमिति यजमानो जपति १८
विश्वास-प्रस्तुतिः
उपहूतां प्राश्नति युक्ताः १९
मूलम्
उपहूतां प्राश्नति युक्ताः १९
विश्वास-प्रस्तुतिः
यजमानश्च २०
मूलम्
यजमानश्च २०
विश्वास-प्रस्तुतिः
पवित्रयोर्मार्जयन्तेऽपरेण वेदिं सुमित्रिया न इति २१
मूलम्
पवित्रयोर्मार्जयन्तेऽपरेण वेदिं सुमित्रिया न इति २१
विश्वास-प्रस्तुतिः
यजमानस्य प्राणापानौ पातमिति प्रस्तरे ते करोति २२
मूलम्
यजमानस्य प्राणापानौ पातमिति प्रस्तरे ते करोति २२
विश्वास-प्रस्तुतिः
तूष्णीं वा २३
मूलम्
तूष्णीं वा २३
विश्वास-प्रस्तुतिः
अत्र वा ब्रह्मा प्राश्नाति २४
मूलम्
अत्र वा ब्रह्मा प्राश्नाति २४
विश्वास-प्रस्तुतिः
भागमस्मै परिहरति २५
मूलम्
भागमस्मै परिहरति २५
विश्वास-प्रस्तुतिः
यजमानभागं चाऽप्रोषिते २६
मूलम्
यजमानभागं चाऽप्रोषिते २६
विश्वास-प्रस्तुतिः
अन्वाहार्यमभिघार्योद्वास्याऽन्तरा ब्रह्मयजमानौ हृत्वा वेद्यां निधायाऽलभते प्रजापतेर्भागोऽस्यूर्जस्वान् पयस्वान् प्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानव्यानौ मे पाह्यूर्गस्यूर्जं मयि धेह्यक्षितिरसि मा मे क्षेष्टाऽमुत्राऽमुष्मिन् लोक इह चेति २७

सा दक्षिणा २८
मूलम्
सा दक्षिणा २८
विश्वास-प्रस्तुतिः
उदगुद्वासयति हविश्च २९
मूलम्
उदगुद्वासयति हविश्च २९