विश्वास-प्रस्तुतिः
नाभिदेशे धारणम् १
मूलम्
नाभिदेशे धारणम् १
विश्वास-प्रस्तुतिः
प्रयाजाऽनुमन्त्रणमेको ममिका तस्य योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति २
मूलम्
प्रयाजाऽनुमन्त्रणमेको ममिका तस्य योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति २
विश्वास-प्रस्तुतिः
एवं मिथुनैर्यथासङ्ख्यम् ३
मूलम्
एवं मिथुनैर्यथासङ्ख्यम् ३
विश्वास-प्रस्तुतिः
न तस्य किञ्चनेति पञ्चमे ४
मूलम्
न तस्य किञ्चनेति पञ्चमे ४
विश्वास-प्रस्तुतिः
त्विषिमानपचितिमान् यशस्वी ब्रह्मवर्चस्यन्नाद इति च ५
मूलम्
त्विषिमानपचितिमान् यशस्वी ब्रह्मवर्चस्यन्नाद इति च ५
विश्वास-प्रस्तुतिः
आगन्तूनां चतुर्थपञ्चमाभ्यां स्थानात् ६
मूलम्
आगन्तूनां चतुर्थपञ्चमाभ्यां स्थानात् ६
विश्वास-प्रस्तुतिः
प्रथमचतुर्थाभ्यां वा यथालिङ्गम् ७
मूलम्
प्रथमचतुर्थाभ्यां वा यथालिङ्गम् ७
विश्वास-प्रस्तुतिः
सर्वान्वोत्तमेनोपायित्वात् ८
मूलम्
सर्वान्वोत्तमेनोपायित्वात् ८
विश्वास-प्रस्तुतिः
एत्य जुहवाऽभिघारणं ध्रुवाया हविष उपभृतश्च ९
मूलम्
एत्य जुहवाऽभिघारणं ध्रुवाया हविष उपभृतश्च ९
विश्वास-प्रस्तुतिः
आज्यभागाभ्यां चरत्याग्नेयेन सौम्येन १०
मूलम्
आज्यभागाभ्यां चरत्याग्नेयेन सौम्येन १०
विश्वास-प्रस्तुतिः
चतुरवत्तं सवषट्कारासु ११
मूलम्
चतुरवत्तं सवषट्कारासु ११
विश्वास-प्रस्तुतिः
अनिधायाऽवदायाऽवदाय ध्रुवामभिघारयत्याप्यायतां ध्रुवा हविषा यज्ञं प्रति देवयड्भ्यः । सूर्याया ऊधो अदित्या उपस्थ उरुधारा पृथिवी यज्ञेऽस्मिन्निति १२
मूलम्
अनिधायाऽवदायाऽवदाय ध्रुवामभिघारयत्याप्यायतां ध्रुवा हविषा यज्ञं प्रति देवयड्भ्यः । सूर्याया ऊधो अदित्या उपस्थ उरुधारा पृथिवी यज्ञेऽस्मिन्निति १२
विश्वास-प्रस्तुतिः
अनुब्रूहीत्युक्त्वा नाऽपव्याहरेद्धोता चाऽश्रावणात् १३
मूलम्
अनुब्रूहीत्युक्त्वा नाऽपव्याहरेद्धोता चाऽश्रावणात् १३
विश्वास-प्रस्तुतिः
आश्रावितेऽग्नीदाप्रत्याश्रवणात् १४
मूलम्
आश्रावितेऽग्नीदाप्रत्याश्रवणात् १४
विश्वास-प्रस्तुतिः
प्रत्याश्रावितेऽध्वर्युराहोतृप्रैषात् १५
मूलम्
प्रत्याश्रावितेऽध्वर्युराहोतृप्रैषात् १५
विश्वास-प्रस्तुतिः
होता आवषट्कारात् १६
मूलम्
होता आवषट्कारात् १६
विश्वास-प्रस्तुतिः
सोमे च ग्रहं गृहीत्वोपाकरणात् १७
मूलम्
सोमे च ग्रहं गृहीत्वोपाकरणात् १७
विश्वास-प्रस्तुतिः
उपाकृत उद्गातार आहोतृप्रेषात् १८
मूलम्
उपाकृत उद्गातार आहोतृप्रेषात् १८
विश्वास-प्रस्तुतिः
होता आवषट्कारात् १९
मूलम्
होता आवषट्कारात् १९
विश्वास-प्रस्तुतिः
आग्नेयमुत्तरपूर्वार्द्धे दक्षिणपूर्वार्द्धे सौम्यम् २०
मूलम्
आग्नेयमुत्तरपूर्वार्द्धे दक्षिणपूर्वार्द्धे सौम्यम् २०
विश्वास-प्रस्तुतिः
समिद्धतमे वा २१
मूलम्
समिद्धतमे वा २१
विश्वास-प्रस्तुतिः
हविर्भ्यां च २२
मूलम्
हविर्भ्यां च २२
विश्वास-प्रस्तुतिः
पुरोडाशावन्तरेणाऽग्नीषोमा उपांश्वाज्यस्य २३
मूलम्
पुरोडाशावन्तरेणाऽग्नीषोमा उपांश्वाज्यस्य २३
विश्वास-प्रस्तुतिः
विष्णुर्वा अमावास्यायां होत्राऽम्नानात् २४
मूलम्
विष्णुर्वा अमावास्यायां होत्राऽम्नानात् २४
विश्वास-प्रस्तुतिः
यावद्धविरुत्तरार्द्धात्स्विष्टकृतः २५
मूलम्
यावद्धविरुत्तरार्द्धात्स्विष्टकृतः २५
विश्वास-प्रस्तुतिः
तत एव होमः २६
मूलम्
तत एव होमः २६
विश्वास-प्रस्तुतिः
नाऽज्यादशेषात् २७
मूलम्
नाऽज्यादशेषात् २७
विश्वास-प्रस्तुतिः
असंसृष्टामाहुतिभिः २८
मूलम्
असंसृष्टामाहुतिभिः २८
विश्वास-प्रस्तुतिः
निधाय २९
मूलम्
निधाय २९