विश्वास-प्रस्तुतिः
इत इन्द्र इति जुहोत्युत्तराघारम् १
मूलम्
इत इन्द्र इति जुहोत्युत्तराघारम् १
विश्वास-प्रस्तुतिः
आघार्याऽसंस्पर्शयन् स्रुचावेत्य जुह्वा ध्रुवां समनक्ति सञ्ज्योतिषेति २
मूलम्
आघार्याऽसंस्पर्शयन् स्रुचावेत्य जुह्वा ध्रुवां समनक्ति सञ्ज्योतिषेति २
विश्वास-प्रस्तुतिः
निधायेध्मसन्नहनान्यादाय ओश्रावयेत्याह ३
मूलम्
निधायेध्मसन्नहनान्यादाय ओश्रावयेत्याह ३
विश्वास-प्रस्तुतिः
अस्तु श्रौषडिति अग्नीत् ४
मूलम्
अस्तु श्रौषडिति अग्नीत् ४
विश्वास-प्रस्तुतिः
वेदिबर्हिरिध्मशकलमपच्छिद्यैके ५
मूलम्
वेदिबर्हिरिध्मशकलमपच्छिद्यैके ५
विश्वास-प्रस्तुतिः
एवं सर्वत्राऽश्रुतप्रत्याश्रुतेषु ६
मूलम्
एवं सर्वत्राऽश्रुतप्रत्याश्रुतेषु ६
विश्वास-प्रस्तुतिः
अथ प्रवृणीते अग्निर्देवो दैव्यो होता देवान् यक्षद् विद्वां इन्मानुष्वद्भरतवत् ७
मूलम्
अथ प्रवृणीते अग्निर्देवो दैव्यो होता देवान् यक्षद् विद्वां इन्मानुष्वद्भरतवत् ७
विश्वास-प्रस्तुतिः
अमुवदमुवदिति यजमानाऽर्षेयाण्याह परस्तादर्वाञ्चि त्रीणि ८
मूलम्
अमुवदमुवदिति यजमानाऽर्षेयाण्याह परस्तादर्वाञ्चि त्रीणि ८
विश्वास-प्रस्तुतिः
यावन्तो वा मन्त्रकृतः ९
मूलम्
यावन्तो वा मन्त्रकृतः ९
विश्वास-प्रस्तुतिः
पुरोहिताऽर्षेयेण वा १०
मूलम्
पुरोहिताऽर्षेयेण वा १०
विश्वास-प्रस्तुतिः
क्षत्रियवैश्ययोश्च नित्यम् ११
मूलम्
क्षत्रियवैश्ययोश्च नित्यम् ११
विश्वास-प्रस्तुतिः
मनुवदिति वा सर्वेषाम् १२
मूलम्
मनुवदिति वा सर्वेषाम् १२
विश्वास-प्रस्तुतिः
ब्रह्मण्वदा च वक्षद् ब्राह्मणा अस्य यज्ञस्य प्रावितारोऽसौ मानुष इति होतृनामग्रहणम् १३
मूलम्
ब्रह्मण्वदा च वक्षद् ब्राह्मणा अस्य यज्ञस्य प्रावितारोऽसौ मानुष इति होतृनामग्रहणम् १३
विश्वास-प्रस्तुतिः
उपांशु वा १४
मूलम्
उपांशु वा १४
विश्वास-प्रस्तुतिः
सम्मृष्टा उपविशतः १५
मूलम्
सम्मृष्टा उपविशतः १५
विश्वास-प्रस्तुतिः
अग्निर्होतेति स्रुगादापनं प्रयाजेषु सन्निधेः १६
मूलम्
अग्निर्होतेति स्रुगादापनं प्रयाजेषु सन्निधेः १६
विश्वास-प्रस्तुतिः
घृतवतीमित्युक्ते स्रुचावादायाऽतिक्रम्याऽश्राव्याऽह समिधो यजेति पञ्च प्रयाजान्समिध्हतमे १७
मूलम्
घृतवतीमित्युक्ते स्रुचावादायाऽतिक्रम्याऽश्राव्याऽह समिधो यजेति पञ्च प्रयाजान्समिध्हतमे १७
विश्वास-प्रस्तुतिः
यज यजेति शेषम् १८
मूलम्
यज यजेति शेषम् १८
विश्वास-प्रस्तुतिः
ध्रुवस्तिष्ठन् १९
मूलम्
ध्रुवस्तिष्ठन् १९
विश्वास-प्रस्तुतिः
पूर्वं पूर्वं वाऽभिक्रामम् २०
मूलम्
पूर्वं पूर्वं वाऽभिक्रामम् २०
विश्वास-प्रस्तुतिः
उपभृतो जुह्वामानयत्यनवमृशंश्चतुर्थम् २१
मूलम्
उपभृतो जुह्वामानयत्यनवमृशंश्चतुर्थम् २१
विश्वास-प्रस्तुतिः
एवं प्रवृद्धौ २२
मूलम्
एवं प्रवृद्धौ २२
विश्वास-प्रस्तुतिः
अनुयाजेषु च २३
मूलम्
अनुयाजेषु च २३
विश्वास-प्रस्तुतिः
उत्तरां जुहूमध्युह्य प्राचीमवहृत्य जुहोति २४
मूलम्
उत्तरां जुहूमध्युह्य प्राचीमवहृत्य जुहोति २४
विश्वास-प्रस्तुतिः
एवं सर्वत्र २५
मूलम्
एवं सर्वत्र २५