(दर्शपूर्णमासेष्टिः उत्तरार्धः)
विश्वास-प्रस्तुतिः
होतृषदनं कृत्वाऽपरेण वेदिं श्रोणिं वोत्तरेणेध्मात्समिधमादायाऽग्नये समिध्यामानायाऽनुब्रूहीत्याह १
मूलम्
होतृषदनं कृत्वाऽपरेण वेदिं श्रोणिं वोत्तरेणेध्मात्समिधमादायाऽग्नये समिध्यामानायाऽनुब्रूहीत्याह १
विश्वास-प्रस्तुतिः
होतरित्येके २
मूलम्
होतरित्येके २
विश्वास-प्रस्तुतिः
प्रथमस्थानेन प्राक् स्विष्टकृतः ३
मूलम्
प्रथमस्थानेन प्राक् स्विष्टकृतः ३
विश्वास-प्रस्तुतिः
मध्यमेनेडायाः ४
मूलम्
मध्यमेनेडायाः ४
विश्वास-प्रस्तुतिः
शेषमुत्तमेन ५
मूलम्
शेषमुत्तमेन ५
विश्वास-प्रस्तुतिः
सन्तन्वन्निव मेऽनुब्रूहीत्याह यजमानः ६
मूलम्
सन्तन्वन्निव मेऽनुब्रूहीत्याह यजमानः ६
विश्वास-प्रस्तुतिः
अङ्गुष्ठाभ्यां चाऽवबाधते पाद्याभ्यां वेदमहममुमवबाध इति द्वेष्यम् ७
मूलम्
अङ्गुष्ठाभ्यां चाऽवबाधते पाद्याभ्यां वेदमहममुमवबाध इति द्वेष्यम् ७
विश्वास-प्रस्तुतिः
अभावे द्विषन्तं भ्रातृव्यमिति वा ८
मूलम्
अभावे द्विषन्तं भ्रातृव्यमिति वा ८
विश्वास-प्रस्तुतिः
यावत्सामिधेनि वेदेदमहं तावतिथेन वज्रेणेति ९
मूलम्
यावत्सामिधेनि वेदेदमहं तावतिथेन वज्रेणेति ९
विश्वास-प्रस्तुतिः
प्रतिप्रणवमाधानम् १०
मूलम्
प्रतिप्रणवमाधानम् १०
विश्वास-प्रस्तुतिः
समिद्ध इति प्रागतः सर्वमिध्ममेकवर्जमनुयाजाश्चेत् ११
मूलम्
समिद्ध इति प्रागतः सर्वमिध्ममेकवर्जमनुयाजाश्चेत् ११
विश्वास-प्रस्तुतिः
अनुवचनान्ते वेदेनाऽहवनीयं त्रिरुपवाज्य स्त्रुवेण पूर्वमाघारमाघार्याऽह अग्निमग्नीत्सम्मृड्ढीति १२
मूलम्
अनुवचनान्ते वेदेनाऽहवनीयं त्रिरुपवाज्य स्त्रुवेण पूर्वमाघारमाघार्याऽह अग्निमग्नीत्सम्मृड्ढीति १२
विश्वास-प्रस्तुतिः
इध्मसन्नहनैरनुपरिधि सम्मार्ष्टि अग्ने वाजजिदिति त्रिस्त्रिः परिक्रामम् १३
मूलम्
इध्मसन्नहनैरनुपरिधि सम्मार्ष्टि अग्ने वाजजिदिति त्रिस्त्रिः परिक्रामम् १३
विश्वास-प्रस्तुतिः
तूष्णीमुपरि १४
मूलम्
तूष्णीमुपरि १४
विश्वास-प्रस्तुतिः
अपरमाहवनीयादञ्जलिं करोति नमो देवेभ्यः स्वधा पितृभ्य इति दक्षिणत उत्तानम् १५
मूलम्
अपरमाहवनीयादञ्जलिं करोति नमो देवेभ्यः स्वधा पितृभ्य इति दक्षिणत उत्तानम् १५
विश्वास-प्रस्तुतिः
अप उपस्पृश्य सुयमे म इति जुहूपभृतावादायोत्तरां जुहूं कृत्वा दक्षिणाऽतिक्रामत्यङ्घ्रिणा विष्णविति १६
मूलम्
अप उपस्पृश्य सुयमे म इति जुहूपभृतावादायोत्तरां जुहूं कृत्वा दक्षिणाऽतिक्रामत्यङ्घ्रिणा विष्णविति १६
विश्वास-प्रस्तुतिः
परिधीनपरो सञ्चरो होष्यतः १७
मूलम्
परिधीनपरो सञ्चरो होष्यतः १७
विश्वास-प्रस्तुतिः
सव्येनेतो दक्षिणेनाऽमुतः १८
मूलम्
सव्येनेतो दक्षिणेनाऽमुतः १८
विश्वास-प्रस्तुतिः
वसुमतीमित्यवस्थाय १९
मूलम्
वसुमतीमित्यवस्थाय १९