विश्वास-प्रस्तुतिः
परिधीन्परिदधात्याद्रार्नेकवृक्षीयान् बाहुमात्रान् पालाशवैकङ्कतकार्ष्मर्यबैल्वान्पूर्वालाभ उत्तरान् खादिरौदुम्बरान्वा मध्यमदक्षिणोत्तरान् गन्धर्व इति प्रतिमन्त्रम् १
मूलम्

प्रथमं परिधिं समिधोपस्पृश्य वीतिहोत्रमित्यादधाति २

अनुपस्पृश्य द्वितीयां समिदसीति ३
मूलम्
अनुपस्पृश्य द्वितीयां समिदसीति ३
विश्वास-प्रस्तुतिः
सूर्यस्वेति जपति आहवनीयमीक्षमाणस्तद्वचनत्वात् ४

आवृत्य वेदिं बर्हिषस्तृणे तिरश्ची निदधाति सवितुरिति ५

अन्ये वाऽयुक्तत्वात् ६
मूलम्
अन्ये वाऽयुक्तत्वात् ६
विश्वास-प्रस्तुतिः
अन्यत्राऽपि गृणार्थे ७
मूलम्
अन्यत्राऽपि गृणार्थे ७
विश्वास-प्रस्तुतिः
यूपाञ्जने च सर्पिः ८
मूलम्
यूपाञ्जने च सर्पिः ८
विश्वास-प्रस्तुतिः
पुरोडाशपयस्याधानासु चेच्छन् ९
मूलम्
पुरोडाशपयस्याधानासु चेच्छन् ९
विश्वास-प्रस्तुतिः
तयोः प्रस्तरं स्तृणात्यूर्णम्रदसमिति १०
मूलम्
तयोः प्रस्तरं स्तृणात्यूर्णम्रदसमिति १०
विश्वास-प्रस्तुतिः
अभिनिदधात्या त्वा वसव इति ११
मूलम्
अभिनिदधात्या त्वा वसव इति ११
विश्वास-प्रस्तुतिः
सव्याऽशून्ये जुहूं प्रतिगृह्य निदधाति घृताचीति १२

एवमितरे उत्तराभ्यां प्रतिमन्त्रं बर्हिष्युपभृतं ध्रुवां चाऽवकृष्टेऽनुपूर्वम् । पुरोडाशावभिघार्योद्वास्योपस्तीर्णे निधायाऽनक्ति यस्ते प्राणः पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मवान् सोम घृतवाह्नि भूत्वाऽग्निं गच्छ स्वर्यजमानाय विन्देति १४

यथादेवतमन्यत् १५
मूलम्
यथादेवतमन्यत् १५
विश्वास-प्रस्तुतिः
प्रत्यनक्ति कपालानि यानि घर्मे कपालान्युपछिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्र वायू विमुञ्चतामिति १६

तूष्णीं वा १७
मूलम्
तूष्णीं वा १७
विश्वास-प्रस्तुतिः
सङ्ख्ययोद्वासयति १८
मूलम्
सङ्ख्ययोद्वासयति १८
विश्वास-प्रस्तुतिः
प्रियेण धाम्नेति हवींषि वेद्यां कृत्वा ध्रुवा असदन्निति सर्वाण्यालभते १९

पाहि मामित्यात्मानम् २०
मूलम्
पाहि मामित्यात्मानम् २०
विश्वास-प्रस्तुतिः
अत्र वा व्रतोपायनम् अत्र वा व्रतोपायनम् २१