विश्वास-प्रस्तुतिः
पत्नीं सन्नह्यति प्रत्यग्दक्षिणत उपविष्टां गार्हपत्यस्य मुञ्जयोक्त्रेण त्रिवृता परिहरत्यधीवासोऽदित्यै रास्नेति १
मूलम्
पत्नीं सन्नह्यति प्रत्यग्दक्षिणत उपविष्टां गार्हपत्यस्य मुञ्जयोक्त्रेण त्रिवृता परिहरत्यधीवासोऽदित्यै रास्नेति १
विश्वास-प्रस्तुतिः
दक्षिणं पाशमुत्तरे प्रतिमुच्योर्ध्वमुद्गूहति विष्णोर्वेष्प इति २
मूलम्
दक्षिणं पाशमुत्तरे प्रतिमुच्योर्ध्वमुद्गूहति विष्णोर्वेष्प इति २
विश्वास-प्रस्तुतिः
न ग्रन्थिं करोति ३
मूलम्
न ग्रन्थिं करोति ३
विश्वास-प्रस्तुतिः
ऊर्जे त्वेत्याज्यमुद्वास्य पत्नीमवेक्षयति अदब्धेनेति ४
मूलम्
ऊर्जे त्वेत्याज्यमुद्वास्य पत्नीमवेक्षयति अदब्धेनेति ४
विश्वास-प्रस्तुतिः
वेद्यां करोत्यपरं प्रोक्षणीभ्यः ५
मूलम्
वेद्यां करोत्यपरं प्रोक्षणीभ्यः ५
विश्वास-प्रस्तुतिः
आहवनीये वा कृत्वा तच्छ्रापिणः ६
मूलम्
आहवनीये वा कृत्वा तच्छ्रापिणः ६
विश्वास-प्रस्तुतिः
सवितुस्त्वेत्याज्यमुत्पुनाति प्रोक्षणीश्च पूर्ववत् ७
मूलम्
सवितुस्त्वेत्याज्यमुत्पुनाति प्रोक्षणीश्च पूर्ववत् ७
विश्वास-प्रस्तुतिः
आज्यमवेक्षते तेजोऽसीति यजमानो वा ८
मूलम्
आज्यमवेक्षते तेजोऽसीति यजमानो वा ८
विश्वास-प्रस्तुतिः
स्रुवेणाऽज्यग्रहणं चतुर्जुह्वां धाम नामेति सकृन्मन्त्रः ९
मूलम्
स्रुवेणाऽज्यग्रहणं चतुर्जुह्वां धाम नामेति सकृन्मन्त्रः ९
विश्वास-प्रस्तुतिः
अष्टावुपभृत्यल्पीयोऽनुयाजाश्चेत् १०
मूलम्
अष्टावुपभृत्यल्पीयोऽनुयाजाश्चेत् १०
विश्वास-प्रस्तुतिः
चतुरन्यत्र प्रतिविभागात् ११
मूलम्
चतुरन्यत्र प्रतिविभागात् ११
विश्वास-प्रस्तुतिः
पश्वातिथ्याऽदर्शनाच्च १२
मूलम्
पश्वातिथ्याऽदर्शनाच्च १२
विश्वास-प्रस्तुतिः
न कृत्स्नोपदेशात् १३
मूलम्
न कृत्स्नोपदेशात् १३
विश्वास-प्रस्तुतिः
पश्वातिथ्ययोर्वचनात् १४
मूलम्
पश्वातिथ्ययोर्वचनात् १४
विश्वास-प्रस्तुतिः
ध्रुवायां च जुहूवत् १५
मूलम्
ध्रुवायां च जुहूवत् १५
विश्वास-प्रस्तुतिः
इध्मं प्रोक्षति विस्रंस्य वेदिं च बर्हिः प्रतिगृह्य वेद्यां कृत्वा पुरस्तादग्रन्थिं कृष्णोऽसीति प्रतिमन्त्रम् १६
मूलम्
इध्मं प्रोक्षति विस्रंस्य वेदिं च बर्हिः प्रतिगृह्य वेद्यां कृत्वा पुरस्तादग्रन्थिं कृष्णोऽसीति प्रतिमन्त्रम् १६
विश्वास-प्रस्तुतिः
शेषं मुलेषूपसिञ्चत्यदित्यै व्युन्दनमिति १७
मूलम्
शेषं मुलेषूपसिञ्चत्यदित्यै व्युन्दनमिति १७
विश्वास-प्रस्तुतिः
पवित्रे निधाय प्रणीतासु बर्हिर्विस्रंस्य पुरस्तात्प्रस्तरग्रहणं विष्णोरिति १८
मूलम्
पवित्रे निधाय प्रणीतासु बर्हिर्विस्रंस्य पुरस्तात्प्रस्तरग्रहणं विष्णोरिति १८
विश्वास-प्रस्तुतिः
ब्रह्मणे प्रदाय सन्नहनं विस्रंस्य दक्षिणस्यां वेदिश्रोणौ निधायाऽन्यैरवच्छाद्य वेदिं स्तृणात्यूर्णम्रदसमिति त्रिवृत् १९
मूलम्
ब्रह्मणे प्रदाय सन्नहनं विस्रंस्य दक्षिणस्यां वेदिश्रोणौ निधायाऽन्यैरवच्छाद्य वेदिं स्तृणात्यूर्णम्रदसमिति त्रिवृत् १९
विश्वास-प्रस्तुतिः
उपपत्या वा बहुलम् २०
मूलम्
उपपत्या वा बहुलम् २०
विश्वास-प्रस्तुतिः
अधरमूलम् २१
मूलम्
अधरमूलम् २१
विश्वास-प्रस्तुतिः
पश्चादपवर्गम् २२
मूलम्
पश्चादपवर्गम् २२
विश्वास-प्रस्तुतिः
प्रबृहं वा २३
मूलम्
प्रबृहं वा २३
विश्वास-प्रस्तुतिः
अत्रोद्वासनमाहवनीयश्रापिणः २४
मूलम्
अत्रोद्वासनमाहवनीयश्रापिणः २४
विश्वास-प्रस्तुतिः
इध्मात्समिधमादायाऽहवनीयं कल्पयत्युपर्युपरि प्रस्तरं धारयन् २५
मूलम्
इध्मात्समिधमादायाऽहवनीयं कल्पयत्युपर्युपरि प्रस्तरं धारयन् २५
विश्वास-प्रस्तुतिः
उल्मुके उदूहत्यनुयाजाश्चेत् २५
मूलम्
उल्मुके उदूहत्यनुयाजाश्चेत् २५