विश्वास-प्रस्तुतिः

अपरेणाऽहवनीयं वेदिं खनति त्र्यङ्गुलखातां व्याममात्रीं पश्चात् त्र्यरत्निं प्राचीमपरिमितां वा प्राक्प्रवणामुदग्वा मध्यमसङ्गृहीतामभितॐऽसौ १

मूलम्

अपरेणाऽहवनीयं वेदिं खनति त्र्यङ्गुलखातां व्याममात्रीं पश्चात् त्र्यरत्निं प्राचीमपरिमितां वा प्राक्प्रवणामुदग्वा मध्यमसङ्गृहीतामभितॐऽसौ १

विश्वास-प्रस्तुतिः

आमूलोच्छेदनादोषधीनाम् २

मूलम्

आमूलोच्छेदनादोषधीनाम् २

विश्वास-प्रस्तुतिः

ओषधीनां मूलान्युच्छेत्तवै ब्रूयात् ३

मूलम्

ओषधीनां मूलान्युच्छेत्तवै ब्रूयात् ३

विश्वास-प्रस्तुतिः

आहार्यपुरीषां पशुकामस्य ४

मूलम्

आहार्यपुरीषां पशुकामस्य ४

विश्वास-प्रस्तुतिः

वेदिं परिसमूह्य वितृतीयेऽग्नीदुत्तरत उत्करं करोति ५

मूलम्

वेदिं परिसमूह्य वितृतीयेऽग्नीदुत्तरत उत्करं करोति ५

विश्वास-प्रस्तुतिः

देवस्य त्वेति स्फ्यमादाय सतृणं सव्ये कृत्वा दक्षिणेनाऽलभ्य यपति इन्द्र स्य बाहुरिति ६

मूलम्

देवस्य त्वेति स्फ्यमादाय सतृणं सव्ये कृत्वा दक्षिणेनाऽलभ्य यपति इन्द्र स्य बाहुरिति ६

विश्वास-प्रस्तुतिः

नोपस्पृशेत्पृथिव्यात्मानौ तेन स्तम्बयजुर्हरिष्यन् ७

मूलम्

नोपस्पृशेत्पृथिव्यात्मानौ तेन स्तम्बयजुर्हरिष्यन् ७

विश्वास-प्रस्तुतिः

वेद्यां तृणं निदधात्युदक् पृथिव्यै वर्माऽसीति ८

मूलम्

वेद्यां तृणं निदधात्युदक् पृथिव्यै वर्माऽसीति ८

विश्वास-प्रस्तुतिः

पृथिवि देवयजनीति तृणेऽन्तर्हिते प्रहरति ९

मूलम्

पृथिवि देवयजनीति तृणेऽन्तर्हिते प्रहरति ९

विश्वास-प्रस्तुतिः

व्रजं गच्छेति पुरीषमादत्ते । वर्षतु त इति वेदिं प्रेक्षते । बधानेत्युत्करे करोति । प्रहरणशेषो वाऽविशेषोपदेशात् १३

मूलम्

व्रजं गच्छेति पुरीषमादत्ते । वर्षतु त इति वेदिं प्रेक्षते । बधानेत्युत्करे करोति । प्रहरणशेषो वाऽविशेषोपदेशात् १३

विश्वास-प्रस्तुतिः

अपाररुमिति द्वितीयं प्रहरणादि १४

मूलम्

अपाररुमिति द्वितीयं प्रहरणादि १४

विश्वास-प्रस्तुतिः

अभिन्यस्यत्यग्नीदुत्करमररो दिवमिति १५

मूलम्

अभिन्यस्यत्यग्नीदुत्करमररो दिवमिति १५

विश्वास-प्रस्तुतिः

द्र प्सस्ते इति तृतीयम् १६

मूलम्

द्र प्सस्ते इति तृतीयम् १६

विश्वास-प्रस्तुतिः

तूष्णीं चतुर्थं सतृणम् १७

मूलम्

तूष्णीं चतुर्थं सतृणम् १७

विश्वास-प्रस्तुतिः

पूर्वं परिग्रहं परिगृह्णाति दक्षिणतः पश्चादुत्तरतश्च स्फ्येन गायत्रेणेति प्रतिमन्त्रम् १८

मूलम्

पूर्वं परिग्रहं परिगृह्णाति दक्षिणतः पश्चादुत्तरतश्च स्फ्येन गायत्रेणेति प्रतिमन्त्रम् १८

विश्वास-प्रस्तुतिः

वेद्यां त्रिरुल्लिख्याऽह हर त्रिरिति १९

मूलम्

वेद्यां त्रिरुल्लिख्याऽह हर त्रिरिति १९

विश्वास-प्रस्तुतिः

हृत्वाऽग्नील्लेखाः सम्मृशति २०

मूलम्

हृत्वाऽग्नील्लेखाः सम्मृशति २०

विश्वास-प्रस्तुतिः

पितृयज्ञाऽग्निचित्ययोर्वा तत्र दर्शनात् २१

मूलम्

पितृयज्ञाऽग्निचित्ययोर्वा तत्र दर्शनात् २१

विश्वास-प्रस्तुतिः

अत्र वेदिकरणं यथोक्तम् २२

मूलम्

अत्र वेदिकरणं यथोक्तम् २२

विश्वास-प्रस्तुतिः

उत्तरं परिग्रहं परिगृह्णाति । सूक्ष्मास्योनोर्जस्वतीति प्रतिमन्त्रम् २३

मूलम्

उत्तरं परिग्रहं परिगृह्णाति । सूक्ष्मास्योनोर्जस्वतीति प्रतिमन्त्रम् २३

विश्वास-प्रस्तुतिः

पुरा क्रूरस्येत्यनुमार्ष्टि २४

मूलम्

पुरा क्रूरस्येत्यनुमार्ष्टि २४

विश्वास-प्रस्तुतिः

अध्यधिवेदि प्रोक्षणीर्धारयति २५

मूलम्

अध्यधिवेदि प्रोक्षणीर्धारयति २५

विश्वास-प्रस्तुतिः

अन्योऽथ स्फ्यमुद्यम्याह प्रोक्षणीरासादयेध्मं बर्हिरुपसादय स्रुचः सम्मृड्ढि पत्नीं सन्नह्याऽज्येनोदेहीति यदीच्छेत् २६

मूलम्

अन्योऽथ स्फ्यमुद्यम्याह प्रोक्षणीरासादयेध्मं बर्हिरुपसादय स्रुचः सम्मृड्ढि पत्नीं सन्नह्याऽज्येनोदेहीति यदीच्छेत् २६

विश्वास-प्रस्तुतिः

यथाप्रेषितमन्यः २७

मूलम्

यथाप्रेषितमन्यः २७

विश्वास-प्रस्तुतिः

स्वयं वाऽविरोधात् २८

मूलम्

स्वयं वाऽविरोधात् २८

विश्वास-प्रस्तुतिः

सम्प्रषावचनाच्च २९

मूलम्

सम्प्रषावचनाच्च २९

विश्वास-प्रस्तुतिः

प्राक् स्तरणाद्वेदिं नाऽवमृशेत् ३०

मूलम्

प्राक् स्तरणाद्वेदिं नाऽवमृशेत् ३०

विश्वास-प्रस्तुतिः

शृतानि च हवींष्याप्रचरणात् ३१

मूलम्

शृतानि च हवींष्याप्रचरणात् ३१

विश्वास-प्रस्तुतिः

अङ्गुष्ठाऽङ्गुलिभ्यां मांससहिताभ्यामवद्यन्त्येके ३२

मूलम्

अङ्गुष्ठाऽङ्गुलिभ्यां मांससहिताभ्यामवद्यन्त्येके ३२

विश्वास-प्रस्तुतिः

आपन्नं स्तृणन् निरस्येत् ३३

मूलम्

आपन्नं स्तृणन् निरस्येत् ३३

विश्वास-प्रस्तुतिः

द्विषतो वध इति स्फ्यमुदञ्चं प्रहरति ३४

मूलम्

द्विषतो वध इति स्फ्यमुदञ्चं प्रहरति ३४

विश्वास-प्रस्तुतिः

अवनिज्य पाणी अपरेण प्रणीता स्फ्यं निदधाति ३५

मूलम्

अवनिज्य पाणी अपरेण प्रणीता स्फ्यं निदधाति ३५

विश्वास-प्रस्तुतिः

इध्मा बर्हिश्च ३६

मूलम्

इध्मा बर्हिश्च ३६

विश्वास-प्रस्तुतिः

पूर्वमिध्मम् ३७

मूलम्

पूर्वमिध्मम् ३७

विश्वास-प्रस्तुतिः

प्रणीता दक्षिणत वाऽहृत्य ३८

मूलम्

प्रणीता दक्षिणत वाऽहृत्य ३८

विश्वास-प्रस्तुतिः

स्रुवं प्रतप्य पूर्ववद्वेदाग्रैरन्तरतः प्राक्सम्मार्ष्टि अनिशित इति विपर्यस्य बर्हिर्मूलैः प्राङ्गुत्क्रम्य ३९

मूलम्

स्रुवं प्रतप्य पूर्ववद्वेदाग्रैरन्तरतः प्राक्सम्मार्ष्टि अनिशित इति विपर्यस्य बर्हिर्मूलैः प्राङ्गुत्क्रम्य ३९

विश्वास-प्रस्तुतिः

प्रतप्य प्रतप्य प्रयच्छति ४०

मूलम्

प्रतप्य प्रतप्य प्रयच्छति ४०

विश्वास-प्रस्तुतिः

अनिशितेति स्रुचः ४१

मूलम्

अनिशितेति स्रुचः ४१

विश्वास-प्रस्तुतिः

तूष्णीं प्राशित्रहरणं शृताऽवदानं पात्री च ४२

मूलम्

तूष्णीं प्राशित्रहरणं शृताऽवदानं पात्री च ४२

विश्वास-प्रस्तुतिः

सम्मार्जनान्यपास्यति ४३

मूलम्

सम्मार्जनान्यपास्यति ४३

विश्वास-प्रस्तुतिः

आहवनीये प्रासनमेके ४४

मूलम्

आहवनीये प्रासनमेके ४४