विश्वास-प्रस्तुतिः
उपसर्जनीरधिश्रयति १
मूलम्
उपसर्जनीरधिश्रयति १
विश्वास-प्रस्तुतिः
कृष्णाजिनमादत्ते २
मूलम्
कृष्णाजिनमादत्ते २
विश्वास-प्रस्तुतिः
तस्मिन्दृषदं धिषणाऽसीति ३
मूलम्
तस्मिन्दृषदं धिषणाऽसीति ३
विश्वास-प्रस्तुतिः
पश्चाच्छम्यामुपोहत्युदीचीं दिव इति ४
मूलम्
पश्चाच्छम्यामुपोहत्युदीचीं दिव इति ४
विश्वास-प्रस्तुतिः
दृषद्युपलां धिषणाऽसीति ५
मूलम्
दृषद्युपलां धिषणाऽसीति ५
विश्वास-प्रस्तुतिः
धान्यमसीति तण्डुलानोप्य पिनष्टि प्राणाय त्वेति प्रतिमन्त्रम् ६
मूलम्
धान्यमसीति तण्डुलानोप्य पिनष्टि प्राणाय त्वेति प्रतिमन्त्रम् ६
विश्वास-प्रस्तुतिः
दीर्घामिति प्रोहति ७
मूलम्
दीर्घामिति प्रोहति ७
विश्वास-प्रस्तुतिः
चक्षुषे त्वेतीक्षते ८
मूलम्
चक्षुषे त्वेतीक्षते ८
विश्वास-प्रस्तुतिः
पिष्यमाणेषु निर्वपत्य् अन्यो महीनामित्याज्यम् ९
म॒हीनां॒ पयो॑सि।
मूलम्
पिष्यमाणेषु निर्वपत्यन्यो महीनामित्याज्यम् ९
विश्वास-प्रस्तुतिः
पात्र्यां सपवित्रायां पिष्टान्यावपति देवस्य त्वेति १०
मूलम्
पात्र्यां सपवित्रायां पिष्टान्यावपति देवस्य त्वेति १०
विश्वास-प्रस्तुतिः
श्रपणस्य पश्चादुपविशत्यन्तर्वेदि वा ११
मूलम्
श्रपणस्य पश्चादुपविशत्यन्तर्वेदि वा ११
विश्वास-प्रस्तुतिः
उपसर्जनीरानयत्यन्यः १२
मूलम्
उपसर्जनीरानयत्यन्यः १२
विश्वास-प्रस्तुतिः
पवित्राभ्यां प्रतिगृह्णाति समाप इति १३
मूलम्
पवित्राभ्यां प्रतिगृह्णाति समाप इति १३
विश्वास-प्रस्तुतिः
संयौति जनयत्यै त्वेति १४
मूलम्
संयौति जनयत्यै त्वेति १४
विश्वास-प्रस्तुतिः
समं विभज्याऽसंहरिष्यन्नालभत इदमग्नेरिदमग्नीषोमयोरिति १५
मूलम्
समं विभज्याऽसंहरिष्यन्नालभत इदमग्नेरिदमग्नीषोमयोरिति १५
विश्वास-प्रस्तुतिः
यथादेवतमन्यत् १६
मूलम्
यथादेवतमन्यत् १६
विश्वास-प्रस्तुतिः
“इ॒षे त्वे॑"त्य् आज्यम् अधिश्रयत्य् अन्यः +++(गार्हपत्ये ऽरजस्वलायाम्, आहवनीये ऽन्यथा)+++ १७
मूलम्
इषे त्वेत्याज्यमधिश्रयत्यन्यः १७
विश्वास-प्रस्तुतिः
अपत्नीकस्याऽहवनीये तच्छ्रापिणः १८
मूलम्
अपत्नीकस्याऽहवनीये तच्छ्रापिणः १८
विश्वास-प्रस्तुतिः
घर्मोऽसीति पुरोडाशौ युगपत् १९
मूलम्
घर्मोऽसीति पुरोडाशौ युगपत् १९
विश्वास-प्रस्तुतिः
उरु प्रथा इति प्रथयति यावत्कपालमनतिपृथुम् २०
मूलम्
उरु प्रथा इति प्रथयति यावत्कपालमनतिपृथुम् २०
विश्वास-प्रस्तुतिः
अग्निष्ट इत्यद्भिर्मृशति सकृत् त्रिर्वा २१
मूलम्
अग्निष्ट इत्यद्भिर्मृशति सकृत् त्रिर्वा २१
विश्वास-प्रस्तुतिः
पर्यग्निकरोति अन्तरितं रक्षोऽन्तरिता अरातय इति सहाऽज्यम् २२
मूलम्
पर्यग्निकरोति अन्तरितं रक्षोऽन्तरिता अरातय इति सहाऽज्यम् २२
विश्वास-प्रस्तुतिः
देवस्त्वेति श्रपणम् २३
मूलम्
देवस्त्वेति श्रपणम् २३
विश्वास-प्रस्तुतिः
मा भेरित्यालभते २४
मूलम्
मा भेरित्यालभते २४
विश्वास-प्रस्तुतिः
अतमेरुरिति शृतावभिवासयति भस्मना वेदेनोपवेषेण वा २५
मूलम्
अतमेरुरिति शृतावभिवासयति भस्मना वेदेनोपवेषेण वा २५
विश्वास-प्रस्तुतिः
पात्र्यङ्गुलिप्रक्षालनमाप्तेभ्यो निनयति अभितप्य प्रत्यगसंस्यन्दमानं त्रिताय त्वेति प्रतिमन्त्रम् २६
मूलम्
पात्र्यङ्गुलिप्रक्षालनमाप्तेभ्यो निनयति अभितप्य प्रत्यगसंस्यन्दमानं त्रिताय त्वेति प्रतिमन्त्रम् २६
विश्वास-प्रस्तुतिः
अन्वाहार्यं दक्षिणाग्नावधिश्रयति २७
मूलम्
अन्वाहार्यं दक्षिणाग्नावधिश्रयति २७
विश्वास-प्रस्तुतिः
अत्र वा व्रतोपायनम् २८
मूलम्
अत्र वा व्रतोपायनम् २८