विश्वास-प्रस्तुतिः
शर्माऽसीति कृष्णाजिनमादत्ते १
मूलम्
शर्माऽसीति कृष्णाजिनमादत्ते १
विश्वास-प्रस्तुतिः
अपेत्य पात्रेभ्योऽवधूनोति २
मूलम्
अपेत्य पात्रेभ्योऽवधूनोति २
विश्वास-प्रस्तुतिः
प्रत्यग्ग्रीवमास्तृणात्यदित्यास्त्वगिति ३
मूलम्
प्रत्यग्ग्रीवमास्तृणात्यदित्यास्त्वगिति ३
विश्वास-प्रस्तुतिः
सव्याऽशून्ये निदधात्युलूखलमद्रि रसि ग्रावाऽसीति वा ४
मूलम्
सव्याऽशून्ये निदधात्युलूखलमद्रि रसि ग्रावाऽसीति वा ४
विश्वास-प्रस्तुतिः
प्रति त्वेत्युभयोः ५
मूलम्
प्रति त्वेत्युभयोः ५
विश्वास-प्रस्तुतिः
हविराज्पत्यग्नेस्तनूरसीति ६
मूलम्
हविराज्पत्यग्नेस्तनूरसीति ६
विश्वास-प्रस्तुतिः
वाचं विसृजते ७
मूलम्
वाचं विसृजते ७
विश्वास-प्रस्तुतिः
यजमानश्च ८
मूलम्
यजमानश्च ८
विश्वास-प्रस्तुतिः
हविष्कृता वा ९
मूलम्
हविष्कृता वा ९
विश्वास-प्रस्तुतिः
नानाबीजेष्वन्त्ये सामर्थ्यात् १०
मूलम्
नानाबीजेष्वन्त्ये सामर्थ्यात् १०
विश्वास-प्रस्तुतिः
बृहद्ग्रावेति मुसलमादत्ते ११
मूलम्
बृहद्ग्रावेति मुसलमादत्ते ११
विश्वास-प्रस्तुतिः
स इदमित्यवदधाति १२
मूलम्
स इदमित्यवदधाति १२
विश्वास-प्रस्तुतिः
हविष्कृदेहीति त्रिराह्वयति १३
मूलम्
हविष्कृदेहीति त्रिराह्वयति १३
विश्वास-प्रस्तुतिः
अतः पत्न्यवहन्ति अन्यो वा १४
मूलम्
अतः पत्न्यवहन्ति अन्यो वा १४
विश्वास-प्रस्तुतिः
आह्वयत्याहन्त्यन्यो दृषदुपले कुक्कुटोऽसीति त्रिः शम्यया द्विर्दृषदं सकृदुपलाम् १५
मूलम्
आह्वयत्याहन्त्यन्यो दृषदुपले कुक्कुटोऽसीति त्रिः शम्यया द्विर्दृषदं सकृदुपलाम् १५
विश्वास-प्रस्तुतिः
वर्षवृद्धमसीति शूर्पमादत्ते १६
मूलम्
वर्षवृद्धमसीति शूर्पमादत्ते १६
विश्वास-प्रस्तुतिः
प्रतित्वेति हविरुद्वपति १७
मूलम्
प्रतित्वेति हविरुद्वपति १७
विश्वास-प्रस्तुतिः
परापूतमिति निष्पुनाति १८
मूलम्
परापूतमिति निष्पुनाति १८
विश्वास-प्रस्तुतिः
अपहतमिति तुषान्निरस्यति १९
मूलम्
अपहतमिति तुषान्निरस्यति १९
विश्वास-प्रस्तुतिः
वायुर्व इति अपविनक्ति २०
मूलम्
वायुर्व इति अपविनक्ति २०
विश्वास-प्रस्तुतिः
देवो व इति पात्र्यामोप्याऽभिमन्त्रयते २१
मूलम्
देवो व इति पात्र्यामोप्याऽभिमन्त्रयते २१
विश्वास-प्रस्तुतिः
त्रिः फलीकरोति देवेभ्यः शुन्धध्वं देवेभ्यः शुन्धध्वमित्येके २२
मूलम्
त्रिः फलीकरोति देवेभ्यः शुन्धध्वं देवेभ्यः शुन्धध्वमित्येके २२
विश्वास-प्रस्तुतिः
फलीकृत्य कणान्निदधाति २३
मूलम्
फलीकृत्य कणान्निदधाति २३
विश्वास-प्रस्तुतिः
पेषणोपधाने युगपत् २४
मूलम्
पेषणोपधाने युगपत् २४
विश्वास-प्रस्तुतिः
धृष्टिरसीति उपवेषमादायाऽपाग्ने इति अङ्गारान्प्राचः करोति २५
मूलम्
धृष्टिरसीति उपवेषमादायाऽपाग्ने इति अङ्गारान्प्राचः करोति २५
विश्वास-प्रस्तुतिः
आ देवयजमित्यङ्गारमाहृत्य कपालेनाऽवच्छादयति ध्रुवमसीति २६
मूलम्
आ देवयजमित्यङ्गारमाहृत्य कपालेनाऽवच्छादयति ध्रुवमसीति २६
विश्वास-प्रस्तुतिः
अमुष्येति द्विषच्छद्वेऽभिचरन् २७
मूलम्
अमुष्येति द्विषच्छद्वेऽभिचरन् २७
विश्वास-प्रस्तुतिः
अन्यत्राऽपि २८
मूलम्
अन्यत्राऽपि २८
विश्वास-प्रस्तुतिः
सव्याऽङ्गुल्याऽशून्येऽङ्गारं निदधात्यग्ने ब्रह्मेति २९
मूलम्
सव्याऽङ्गुल्याऽशून्येऽङ्गारं निदधात्यग्ने ब्रह्मेति २९
विश्वास-प्रस्तुतिः
धरुणमिति पश्चात् ३०
मूलम्
धरुणमिति पश्चात् ३०
विश्वास-प्रस्तुतिः
पुरस्ताद्धर्त्रमिति ३१
मूलम्
पुरस्ताद्धर्त्रमिति ३१
विश्वास-प्रस्तुतिः
विश्वाभ्य इति दक्षिणतः ३२
मूलम्
विश्वाभ्य इति दक्षिणतः ३२
विश्वास-प्रस्तुतिः
समं विभज्य द्वे दक्षिणतः एवमुत्तरतश्चितस्थ इति ३३
मूलम्
समं विभज्य द्वे दक्षिणतः एवमुत्तरतश्चितस्थ इति ३३
विश्वास-प्रस्तुतिः
तूष्णीं वा ३४
मूलम्
तूष्णीं वा ३४
विश्वास-प्रस्तुतिः
एवमेकादशाऽग्नीषोमीयस्य ३५
मूलम्
एवमेकादशाऽग्नीषोमीयस्य ३५
विश्वास-प्रस्तुतिः
अधिकं दक्षिणतः ३६
मूलम्
अधिकं दक्षिणतः ३६
विश्वास-प्रस्तुतिः
भृगूणामित्यङ्गारैरभ्यूहति ३७
मूलम्
भृगूणामित्यङ्गारैरभ्यूहति ३७