विश्वास-प्रस्तुतिः
गार्हपत्यमुत्तरेणोदपात्रं निधायाऽलभते भूतस्त्वा भत करिष्यामीति १
मूलम्
गार्हपत्यमुत्तरेणोदपात्रं निधायाऽलभते भूतस्त्वा भत करिष्यामीति १
विश्वास-प्रस्तुतिः
ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेत्याह २
मूलम्
ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेत्याह २
विश्वास-प्रस्तुतिः
अनुज्ञान उत्तरेणाऽहवनीयं सम्प्रति निदधाति कस्त्वेति ३
मूलम्
अनुज्ञान उत्तरेणाऽहवनीयं सम्प्रति निदधाति कस्त्वेति ३
विश्वास-प्रस्तुतिः
कांस्यवानस्पत्यमार्तिकैरभिचारब्रह्मवर्चसप्रतिष्ठाकामा यथासङ्ख्यम् ५
मूलम्
कांस्यवानस्पत्यमार्तिकैरभिचारब्रह्मवर्चसप्रतिष्ठाकामा यथासङ्ख्यम् ५
विश्वास-प्रस्तुतिः
तॄणैरग्नीन्परिस्तीर्य पुरस्तात्प्रथमं द्विशः पात्राणि संसादयति ६
मूलम्
तॄणैरग्नीन्परिस्तीर्य पुरस्तात्प्रथमं द्विशः पात्राणि संसादयति ६
विश्वास-प्रस्तुतिः
यजमानो वा ७
मूलम्
यजमानो वा ७
विश्वास-प्रस्तुतिः
शूर्पाऽग्निहोत्रहवणि स्फ्यकपालं शम्याकृष्णाजिनमुलूखलमुसलं दृषदुपलमर्थवच्च ८
मूलम्
शूर्पाऽग्निहोत्रहवणि स्फ्यकपालं शम्याकृष्णाजिनमुलूखलमुसलं दृषदुपलमर्थवच्च ८
विश्वास-प्रस्तुतिः
श्रपणस्य पश्चादुत्तरतो वा ९
मूलम्
श्रपणस्य पश्चादुत्तरतो वा ९
विश्वास-प्रस्तुतिः
कर्मणे वाम् इति शूर्पाऽग्निहोत्रहवण्यादाय वाचं यच्छति १०
मूलम्
कर्मणे वाम् इति शूर्पाऽग्निहोत्रहवण्यादाय वाचं यच्छति १०
विश्वास-प्रस्तुतिः
प्रतपनं प्रत्युष्टं निष्टप्तमिति वा ११
मूलम्
प्रतपनं प्रत्युष्टं निष्टप्तमिति वा ११
विश्वास-प्रस्तुतिः
गच्छत्युर्वन्तरिक्षमिति श्रपणस्य पश्चादनस्तिष्ठत्समङ्गि १२
मूलम्
गच्छत्युर्वन्तरिक्षमिति श्रपणस्य पश्चादनस्तिष्ठत्समङ्गि १२
विश्वास-प्रस्तुतिः
धूरसीति धूरभिमर्शनम् १३
मूलम्
धूरसीति धूरभिमर्शनम् १३
विश्वास-प्रस्तुतिः
देवानामित्युपस्तम्भनस्य पश्चादीषाम् १४
मूलम्
देवानामित्युपस्तम्भनस्य पश्चादीषाम् १४
विश्वास-प्रस्तुतिः
विष्णुस्त्वेत्यारोहणम् १५
मूलम्
विष्णुस्त्वेत्यारोहणम् १५
विश्वास-प्रस्तुतिः
प्रेक्षत उरु वातायेति हविष्यान् १६
मूलम्
प्रेक्षत उरु वातायेति हविष्यान् १६
विश्वास-प्रस्तुतिः
अपहतमिति निरस्यत्यन्यत् १७
मूलम्
अपहतमिति निरस्यत्यन्यत् १७
विश्वास-प्रस्तुतिः
अविद्यमानेऽभिमृशेत् १८
मूलम्
अविद्यमानेऽभिमृशेत् १८
विश्वास-प्रस्तुतिः
यच्छन्तामित्यालभते १९
मूलम्
यच्छन्तामित्यालभते १९
विश्वास-प्रस्तुतिः
देवस्य त्वेति गृह्णात्याग्नेयं चतुरो मुष्टीन् २०
मूलम्
देवस्य त्वेति गृह्णात्याग्नेयं चतुरो मुष्टीन् २०
विश्वास-प्रस्तुतिः
एवमग्नीषोमीयम् २१
मूलम्
एवमग्नीषोमीयम् २१
विश्वास-प्रस्तुतिः
यथादेवतमन्यत् २२
मूलम्
यथादेवतमन्यत् २२
विश्वास-प्रस्तुतिः
भूताय त्वा इति शेषाऽभिमर्शनम् २३
मूलम्
भूताय त्वा इति शेषाऽभिमर्शनम् २३
विश्वास-प्रस्तुतिः
स्वरिति प्राङीक्षते २४
मूलम्
स्वरिति प्राङीक्षते २४
विश्वास-प्रस्तुतिः
दृंहन्तामित्यवरोहति २५
मूलम्
दृंहन्तामित्यवरोहति २५
विश्वास-प्रस्तुतिः
गच्छत्युर्वन्तरिक्षम् इति २६
मूलम्
गच्छत्युर्वन्तरिक्षम् इति २६
विश्वास-प्रस्तुतिः
श्रपणस्य पश्चात्सादयति पृथिव्यास्त्वेति २७
मूलम्
श्रपणस्य पश्चात्सादयति पृथिव्यास्त्वेति २७
विश्वास-प्रस्तुतिः
पात्र्यां वा स्फ्योपहितायाम् २८
मूलम्
पात्र्यां वा स्फ्योपहितायाम् २८
विश्वास-प्रस्तुतिः
धूरीषाऽरोहणानि पात्रीबिले जपति २९
मूलम्
धूरीषाऽरोहणानि पात्रीबिले जपति २९
विश्वास-प्रस्तुतिः
दृंहन्तामित्युत्थानम्। कुशौ समावप्रशीर्णाऽग्रावनन्तर्गर्भौ कुशैश्छिनत्ति पवित्रे स्थ इति ३०
मूलम्
दृंहन्तामित्युत्थानम्। कुशौ समावप्रशीर्णाऽग्रावनन्तर्गर्भौ कुशैश्छिनत्ति पवित्रे स्थ इति ३०
विश्वास-प्रस्तुतिः
त्रीन्वा ३१
मूलम्
त्रीन्वा ३१
विश्वास-प्रस्तुतिः
हविर्ग्रहण्यामपः कृत्वा ताभ्यामुत्पुनाति सवितुर्व इति ३२
मूलम्
हविर्ग्रहण्यामपः कृत्वा ताभ्यामुत्पुनाति सवितुर्व इति ३२
विश्वास-प्रस्तुतिः
ता स्थानं तयोः ३३
मूलम्
ता स्थानं तयोः ३३
विश्वास-प्रस्तुतिः
सव्ये कृत्वा दक्षिणेनोदिङ्गयति ३४
मूलम्
सव्ये कृत्वा दक्षिणेनोदिङ्गयति ३४
विश्वास-प्रस्तुतिः
प्रोक्षिता स्थ इति तासां प्रोक्षणम् ३५
मूलम्
प्रोक्षिता स्थ इति तासां प्रोक्षणम् ३५
विश्वास-प्रस्तुतिः
हविश्चाऽग्नये त्वाऽग्नीषोमाय त्वेति ३६
मूलम्
हविश्चाऽग्नये त्वाऽग्नीषोमाय त्वेति ३६
विश्वास-प्रस्तुतिः
यथादेवतमन्यत् ३७
मूलम्
यथादेवतमन्यत् ३७
विश्वास-प्रस्तुतिः
पात्राणि दैव्यायेति ३८
मूलम्
पात्राणि दैव्यायेति ३८
विश्वास-प्रस्तुतिः
असञ्चरे प्रोक्षणीर्निधाय ३९
मूलम्
असञ्चरे प्रोक्षणीर्निधाय ३९