विश्वास-प्रस्तुतिः

“इ॒दम् अ॒हं बृह॒स्पतेः॒ सद॑सि सीदामि, प्रसू॑तो दे॒वेन॑ सवि॒त्रा तद् अ॒ग्नये॒ प्रब्र॑वीमि, तद् वा॒यवे॒ तत् पृ॑थि॒व्यै।”

इति ब्रह्मसदन आहवनीयाऽभिमुख उपविशति १

मूलम्

इदमहं बृहस्पतेः सदसि सीदामि प्रसूतो देवेन सवित्रा तदग्नये प्रब्रवीमि तद्वायवे तत्पृथिव्या इति ब्रह्मसदन आहवनीयाऽभिमुख उपविशति १

विश्वास-प्रस्तुतिः

वाग्यत आऽनुयाजप्रसवात् २

मूलम्

वाग्यत आऽनुयाजप्रसवात् २

विश्वास-प्रस्तुतिः

भागपरिहरणादि वा ३

मूलम्

भागपरिहरणादि वा ३

विश्वास-प्रस्तुतिः

आवृताऽवषट्कारासु ४

मूलम्

आवृताऽवषट्कारासु ४

विश्वास-प्रस्तुतिः

अत्र वा व्रतोपायनम् ५

मूलम्

अत्र वा व्रतोपायनम् ५

विश्वास-प्रस्तुतिः

व्याहृत्य वैष्णवं मन्त्रं जपेत् ६

मूलम्

व्याहृत्य वैष्णवं मन्त्रं जपेत् ६

विश्वास-प्रस्तुतिः

अध्वर्युश्च ७

मूलम्

अध्वर्युश्च ७

विश्वास-प्रस्तुतिः

“ओ३॒म् प्रण॑य य॒ज्ञम्।
[दे॒वता॑ वर्द्धय॒ त्वम्।
नाक॑स्य पृ॒ष्ठे यज॑मानोऽस्तु ।
स॒प्त॒र्षीणां॑ सु॒कृतां॑ यत्र॑ लो॒कस्, तत्रे॒मं य॒ज्ञं यज॑मानं च धेहि।]”

+++(इत्युपांशूक्त्वा)+++

“ॐ प्रण॑य” इति प्रणीताः प्रसौति ८

मूलम्

प्रणय यज्ञं देवता वर्द्धय त्वं नाकस्य पृष्ठे यजमानोऽस्तु । सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं [यज्ञं] यजमानं [च] धेहि ॐ प्रणय इति प्रणीताः प्रसौति ८

विश्वास-प्रस्तुतिः

एवमामन्त्रित ओङ्कारेण
“प्रोक्ष यज्ञम्” इति हविषीध्माबर्हिषोश् च ९

प्रोक्ष॑ य॒ज्ञम्!
[दे॒वता॑ वर्द्धय॒ त्वम्।
नाक॑स्य पृ॒ष्ठे यज॑मानोऽस्तु ।
स॒प्त॒र्षीणां॑ सु॒कृतां॑ यत्र॑ लो॒कस्, तत्रे॒मं य॒ज्ञं यज॑मानं च धेहि।]

+++(इत्युपांशूक्त्वा)+++

ॐ प्रोक्ष॑

मूलम्

एवमामन्त्रित ओङ्कारेण प्रोक्ष यज्ञमिति हविषीध्माबर्हिषोश्च ९

विश्वास-प्रस्तुतिः

बृह॑स्पते! परिगृहाण वेदि॑म्!
सु॒-गावो॑ दे॒वाः सद॑नानि सन्त्व्,
अ॒स्यां ब॒र्हिः प्रथताम्।
सा॒ध्व् अन्त॑र्हिं॒स्रा पृथिवीदे॒वी दे॒व्यस्तु
[दे॒वता॑ वर्द्धय॒ त्वम्।
नाक॑स्य पृ॒ष्ठे यज॑मानोऽस्तु ।
स॒प्त॒र्षीणां॑ सु॒कृतां॑ यत्र॑ लो॒कस्, तत्रे॒मं य॒ज्ञं यज॑मानं च धेहि।]

इति वेदिं परिगृह्णन्तम् +++(ब्रह्मा वदति)+++ १०

मूलम्

बृहस्पते परिगृहाण वेदिं सुगावो देवाः सदनानि सन्त्वस्यां बर्हिः प्रथतां साध्वन्तर्हिंस्रा पृथिवीदेवी देव्यस्तु इति वेदिं परिगृह्णन्तम् १०

विश्वास-प्रस्तुतिः

प्रजापतेऽनुब्रूहि यज्ञम् इति सामिधेनीर् अनुवक्ष्यन्तम् ११

प्रजा॑पते ऽनुब्रूहि य॒ज्ञम्!
[दे॒वता॑ वर्द्धय॒ त्वम्।
नाक॑स्य पृ॒ष्ठे यज॑मानोऽस्तु ।
स॒प्त॒र्षीणां॑ सु॒कृतां॑ यत्र॑ लो॒कस्, तत्रे॒मं य॒ज्ञं यज॑मानं च धेहि।]

+++(इत्युपांशूक्त्वा)+++

ओ३म् अनु॑ब्रू३हि!

मूलम्

प्रजापतेऽनुब्रूहि यज्ञमिति सामिधेनीरनुवक्ष्यन्तम् ११

विश्वास-प्रस्तुतिः

देवता वर्द्धय त्वम् इति सर्वत्राऽनुषजति १२

मूलम्

देवता वर्द्धय त्वमिति सर्वत्राऽनुषजति १२

विश्वास-प्रस्तुतिः

“मि॒त्रस्य॑ त्वा चक्षु॑षा प्रती॑क्ष” इति प्राशित्रं प्रतीक्षते १३

मूलम्

मित्रस्य त्वा चक्षुषा प्रतीक्ष इति प्राशित्रं प्रतीक्षते १३

विश्वास-प्रस्तुतिः

देवस्य त्वेति प्रतिगृह्णाति १४

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑+++(=अनुज्ञायां)+++, ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्या॒म् प्रति॑ गृह्णामि ।

मूलम्

देवस्य त्वेति प्रतिगृह्णाति १४

विश्वास-प्रस्तुतिः

“पथिव्यास्त्वे"ति सादयाति उपोह्य बर्हींषि १५

पृ॒थि॒व्यास्त्वा॒ नाभौ॑ सादया॒म्य् अदि॑त्या उ॒पस्थे॑।

मूलम्

पथिव्यास्त्वेति सादयाति उपोह्य बर्हींषि १५

विश्वास-प्रस्तुतिः

पुनरादाय “देवस्य त्वे"त्य्
अनामिकाऽङ्गुष्ठाभ्याम् “अग्नेष् ट्वे"ति प्राश्नाति दन्तैर् अनुपस्पृशन्न् - अत्र चेत् +++(प्राश्नाति)+++ १६

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑+++(=अनुज्ञायां)+++, ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्या॒म् आद॑दे ।

अ॒ग्नेष् ट्वा॒स्ये॑न॒ प्राश्ना॑मि (बृह॒स्पते॒र् मुखे॑न)॥

मूलम्

पुनरादाय देवस्य त्वेत्यनामिकाऽङ्गुष्ठाभ्यामग्नेष्ट्वेति प्राश्नाति दन्तैरनुपस्पृशन्नत्र चेत् १६

विश्वास-प्रस्तुतिः

निदधाति वांऽसदेशे १७ (पश्चात् प्राशनाय)

मूलम्

निदधाति वांऽसदेशे १७

विश्वास-प्रस्तुतिः

प्रक्षाल्य पात्रं
नाभिम् आलभते -

या अ॒प्स्व् अ॒न्तर् दे॒वता॒स् ता इ॒दँ श॑मयन्तु॥
स्वाहा॑कृतं ज॒ठर॒म् इन्द्र॑स्य गछ।
घ॒सिना॑ मे॒ मा संपृ॑क्थाः!
ऊ॒र्ध्वं मे॒ नाभेः॑ सीद॥
इन्द्र॑स्य त्वा ज॒ठरे॑ सादयामि।

इति १८

मूलम्

प्रक्षाल्य पात्रं नाभिमालभते या अप्स्वन्तर्देवतास्ता इदं शमयन्तु स्वाहाकृतं जठरमिन्द्र स्य गच्छ घसिना मे मा सम्पृक्था ऊर्ध्वं मे नाभेः सीदेन्द्र स्य त्वा जठरे सादयामि इति १८

विश्वास-प्रस्तुतिः

+++(समिधम् आदाय “ब्रह्मन् प्रस्थास्यामी"त्य् अध्वर्युणामन्त्रितः)+++
“एतं त” इति समिदामन्त्रितः प्रसौति १९

ए॒तं ते॑ देव सवितर् य॒ज्ञं
प्राहु॒र्
बृह॒स्पत॑ये ब्र॒ह्मणे॑ ।
तेन॑ य॒ज्ञम् अ॑व॒, तेन॑
य॒ज्ञप॑तिं॒, तेन॒ माम् अ॑व
मनो॑ जू॒तिर् जु॑षता॒म् आज्य॑स्य॒
बृह॒स्पति॑र् य॒ज्ञम् इ॒मं त॑नोतु ।
अरि॑ष् टं य॒ज्ञँ सम् इ॒मं द॑धातु॒
विश्वे॑ दे॒वास॑ इ॒ह मा॑दयन्ताम्॥

मूलम्

एतं त इति समिदामन्त्रितः प्रसौति १९

विश्वास-प्रस्तुतिः

“प्रतिष्ठे"ति ब्रुयाद्वा २०

ओ३ं॒ प्र ति॑ष्ठ ॥

मूलम्

प्रतिष्ठेति ब्रुयाद्वा २०

विश्वास-प्रस्तुतिः

कर्माऽपवर्गे समिधम् आदधाति, जुहोत्य्, उपतिष्ठते वा -

नमः॑ कृ॒ताय॒ कर्म॑णे
अकृ॑ताय॒ कर्म॑णे नमः॑ ।
अया॑ड् य॒ज्ञं जा॒तवे॑दा॒
अन्त॑रः पूर्वो॒ ऽस्मिन् नि॒षद्य॑
स त्वं स॒निं सु-वि॒मुचा॒ विमु॑ञ्च
धेह्य् अ१॒॑स्मभ्यं॒ द्रवि॑णं जातवेदः॒
स्वाहा॑
+++(इदञ् जातवेदसे न मम)+++

इति यथेतमेत्य ।

एतद् ब्रह्मत्वम् इष्टिपश्वोः २२

मूलम्

कर्माऽपवर्गे समिधमादधाति जुहोत्युपतिष्ठते वा नमः कृताय कर्मणे अकृताय कर्मणे नमः । अयाड् यज्ञं जातवेदा अन्तरः पूर्वोऽस्मिन्निषद्य स त्वं सनिं सुविमुचा विमुञ्च धेह्यस्मभ्यं द्रविणं जातवेदः स्वाहा इति यथेतमेत्य । एतद्ब्रह्मत्वमिष्टिपश्वोः २२