(दर्शपूर्णमासेष्टिः )
विश्वास-प्रस्तुतिः
पूर्वां पौर्णमासीमुत्तरां वोपवसेत् १
मूलम्
पूर्वां पौर्णमासीमुत्तरां वोपवसेत् १
विश्वास-प्रस्तुतिः
अग्न्यन्वाधानमध्वर्युर्यजमानो वा २
मूलम्
अग्न्यन्वाधानमध्वर्युर्यजमानो वा २
विश्वास-प्रस्तुतिः
ममाग्नेपृतना जयेमेत्याहवनीये समिधमादधाति ३
मूलम्
ममाग्नेपृतना जयेमेत्याहवनीये समिधमादधाति ३
विश्वास-प्रस्तुतिः
तूष्णीं द्वितीयाम् ४
मूलम्
तूष्णीं द्वितीयाम् ४
विश्वास-प्रस्तुतिः
एवमितरयोः ५
मूलम्
एवमितरयोः ५
विश्वास-प्रस्तुतिः
महाव्याहृतिभिर्वा प्राक्संस्थम् ६
मूलम्
महाव्याहृतिभिर्वा प्राक्संस्थम् ६
विश्वास-प्रस्तुतिः
तूष्णीं वा यथापूर्वम् ७
मूलम्
तूष्णीं वा यथापूर्वम् ७
विश्वास-प्रस्तुतिः
अहनि मांसमैथुने वर्जयेत् ८
मूलम्
अहनि मांसमैथुने वर्जयेत् ८
विश्वास-प्रस्तुतिः
केशश्मश्रु वपते वाऽशिखम् ९
मूलम्
केशश्मश्रु वपते वाऽशिखम् ९
विश्वास-प्रस्तुतिः
अपराह्णे व्रतोपायनीयमश्नीतः सर्पिषाऽसुहितौ १०
मूलम्
अपराह्णे व्रतोपायनीयमश्नीतः सर्पिषाऽसुहितौ १०
विश्वास-प्रस्तुतिः
अन्तरेणाऽपराग्नी गत्वा परेणाऽहवनीयं प्राङ् तिष्ठन्नग्निमीक्षमाणोऽप उपस्पृश्य व्रतमुपैत्यग्ने व्रतपत इदमहमिति वा ११
मूलम्
अन्तरेणाऽपराग्नी गत्वा परेणाऽहवनीयं प्राङ् तिष्ठन्नग्निमीक्षमाणोऽप उपस्पृश्य व्रतमुपैत्यग्ने व्रतपत इदमहमिति वा ११
विश्वास-प्रस्तुतिः
सत्यवाद्यतः १२
मूलम्
सत्यवाद्यतः १२
विश्वास-प्रस्तुतिः
कर्माऽङ्गमुत्तरे सत्यवदनम् १३
मूलम्
कर्माऽङ्गमुत्तरे सत्यवदनम् १३
विश्वास-प्रस्तुतिः
वृक्षाऽरण्यौषधीनामश्नीयाद्वा १४
मूलम्
वृक्षाऽरण्यौषधीनामश्नीयाद्वा १४
विश्वास-प्रस्तुतिः
आहवनीयगृहशाय्यधो गार्हपत्यस्य वा १५
मूलम्
आहवनीयगृहशाय्यधो गार्हपत्यस्य वा १५
विश्वास-प्रस्तुतिः
सद्यो वा प्रातः १६
मूलम्
सद्यो वा प्रातः १६
विश्वास-प्रस्तुतिः
अग्निहोत्रं हुत्वा ब्रह्माणं ब्रह्मिष्ठं भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमह इति १७
मूलम्
अग्निहोत्रं हुत्वा ब्रह्माणं ब्रह्मिष्ठं भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमह इति १७
विश्वास-प्रस्तुतिः
वृतो जपति -
अ॒हम् भूप॑तिर्, अ॒हम् भुव॑न-पतिः ।
अ॒हम् म॑ह॒तो भू॒तस्य॒ पतिः॑
भूर् भुव॒स् सुवः॑।
देव॑ सवितर्! ए॒तन् त्वा॑ वृणते
बृह॒स्पतिं॑ ब्र॒ह्माण॑म्।
तद् अ॒हम् मन॑से॒ प्रब्र॑वीमि॒,
मनो॑ गायत्रि॒यै,
गाय॒त्री त्रि॒ष्टुभे॑ ,
त्रि॒ष्टुब् जग॑त्यै॒,
जग॑त्य् अनु॒ष्टुभे॑ , ऽनु॒ष्टुप् प्र॒जाप॑तये,
प्र॒जाप॑ति॒र् विश्वे॑भ्यो दे॒वेभ्यः॑ ।
बृह॒स्पति॑र् दे॒वाना॑म्ब्र॒ह्मा ।
अ॒हम् म॑नु॒ष्या॑णाम् ।
इति १८
मूलम्
वृतो जपति - अहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिर्भूर्भुवस्स्वर्देव सवितरेतं त्वा वृणते बृहस्पतिं ब्रह्माणं तदहं मनसे प्रब्रवीमि मनो गायत्र्यै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टुभेऽनुष्टुप्प्रजापतये प्रजापतिर्विश्वेभ्यो देवेभ्यो बृहस्पतिर्देवानां ब्रह्माऽहं मनुष्याणाम् इति १८
विश्वास-प्रस्तुतिः
वाचस्पते यज्ञं गोपायेत्याह १९
मूलम्
वाचस्पते यज्ञं गोपायेत्याह १९
विश्वास-प्रस्तुतिः
अपरेण वाऽहवनीयं दक्षिणाऽतिक्रामति २०
मूलम्
अपरेण वाऽहवनीयं दक्षिणाऽतिक्रामति २०
विश्वास-प्रस्तुतिः
“अहे॑! दैधिष॒व्य+उद् अत॑स् तिष्ठ। अ॒न्यस्य॒ सद॑ने सीद॒, यो॑ ऽस्मत् पाक॑तर” इति ब्रह्म-सदनम् ईक्षते २१
मूलम्
अहे दैधिषव्योदतस्तिष्ठाऽन्यस्य सदने सीद योऽस्मात्पाकतर इति ब्रह्मसदनमीक्षते २१
विश्वास-प्रस्तुतिः
ब्रह्मसदनात् तृणं निरस्यति - निर॑स्तः॒ पा॒प्मा स॒ह तेन॒ यन् द्वि॒ष्मः। २२
मूलम्
ब्रह्मसदनात्तृणं निरस्यति निरस्तः पाप्मा सह तेन द्विष्म इति २२