विश्वास-प्रस्तुतिः
वर्तमानाऽपदेशाच्चोदनाशब्दाच्छ्रुत्यर्थाऽभावात्तवै चेति वचनान्निर्देशात्कर्मचोदकः १
मूलम्
वर्तमानाऽपदेशाच्चोदनाशब्दाच्छ्रुत्यर्थाऽभावात्तवै चेति वचनान्निर्देशात्कर्मचोदकः १
विश्वास-प्रस्तुतिः
मन्त्रो वा समभिव्याहारात् २
मूलम्
मन्त्रो वा समभिव्याहारात् २
विश्वास-प्रस्तुतिः
अर्थप्रसङ्ख्यया द्र व्योपकल्पनम् ३
मूलम्
अर्थप्रसङ्ख्यया द्र व्योपकल्पनम् ३
विश्वास-प्रस्तुतिः
चर्माण्युत्तरलोमानि प्राग्रीवाणि ४
मूलम्
चर्माण्युत्तरलोमानि प्राग्रीवाणि ४
विश्वास-प्रस्तुतिः
अवरोक्तमुत्तरं हविषि ५
मूलम्
अवरोक्तमुत्तरं हविषि ५
विश्वास-प्रस्तुतिः
एकद्र व्ये साऽज्ये वेदेनोपग्रहणम् ६
मूलम्
एकद्र व्ये साऽज्ये वेदेनोपग्रहणम् ६
विश्वास-प्रस्तुतिः
स्फ्येनाऽन्यत्र ७
मूलम्
स्फ्येनाऽन्यत्र ७
विश्वास-प्रस्तुतिः
कुशैरसत्सु ८
मूलम्
कुशैरसत्सु ८
विश्वास-प्रस्तुतिः
पाणिभ्यां जुहूं परिगृह्योपभृत्याधानमादानकालेऽसंह्रादयन् ९
मूलम्
पाणिभ्यां जुहूं परिगृह्योपभृत्याधानमादानकालेऽसंह्रादयन् ९
विश्वास-प्रस्तुतिः
वाच्यफलेषु स्वर्गः सामर्थ्यात् १०
मूलम्
वाच्यफलेषु स्वर्गः सामर्थ्यात् १०
विश्वास-प्रस्तुतिः
एककर्मणि गुणविशेषे फलविशेषः ११
मूलम्
एककर्मणि गुणविशेषे फलविशेषः ११
विश्वास-प्रस्तुतिः
दानवाचनाऽन्वारम्भणवरवरणव्रतप्रमाणेषु यजमानं प्रतीयात् १२
मूलम्
दानवाचनाऽन्वारम्भणवरवरणव्रतप्रमाणेषु यजमानं प्रतीयात् १२
विश्वास-प्रस्तुतिः
खातलूनछिन्नाऽवहतपिष्टदुग्धदग्धेषु यजुष्क्रियाऽसम्भवात् १३
मूलम्
खातलूनछिन्नाऽवहतपिष्टदुग्धदग्धेषु यजुष्क्रियाऽसम्भवात् १३
विश्वास-प्रस्तुतिः
रौद्रं राक्षसमासुरमाभिचरणिकं मन्त्रमुक्त्वा पित्र्यमात्मानं चाऽलभ्योपस्पृशेदप उपस्पृशेदपः १४
मूलम्
रौद्रं राक्षसमासुरमाभिचरणिकं मन्त्रमुक्त्वा पित्र्यमात्मानं चाऽलभ्योपस्पृशेदप उपस्पृशेदपः १४
विश्वास-प्रस्तुतिः
१०
मूलम्
१०
इति कातीये श्रौतसूत्रे प्रथमोऽध्यायः