विश्वास-प्रस्तुतिः
ऋचो यजूंषि सामानि निगदा मन्त्राः १
मूलम्
ऋचो यजूंषि सामानि निगदा मन्त्राः १
विश्वास-प्रस्तुतिः
तेषां वाक्यं निराकाङ्क्षम् २
मूलम्
तेषां वाक्यं निराकाङ्क्षम् २
विश्वास-प्रस्तुतिः
मिथः सम्बद्धम् ३
मूलम्
मिथः सम्बद्धम् ३
विश्वास-प्रस्तुतिः
तेषामारम्भेऽर्थतो व्यवस्था तद्वचनत्वात् ४
मूलम्
तेषामारम्भेऽर्थतो व्यवस्था तद्वचनत्वात् ४
विश्वास-प्रस्तुतिः
मन्त्रान्तैः कर्मादिः सान्निपात्योऽभिधानात् ५
मूलम्
मन्त्रान्तैः कर्मादिः सान्निपात्योऽभिधानात् ५
विश्वास-प्रस्तुतिः
अनियमं वात्स्यः ६
मूलम्
अनियमं वात्स्यः ६
विश्वास-प्रस्तुतिः
आदिं त्वाचार्याः ७
मूलम्
आदिं त्वाचार्याः ७
विश्वास-प्रस्तुतिः
त आद्युक्ताः ८
मूलम्
त आद्युक्ताः ८
विश्वास-प्रस्तुतिः
परादिना पूर्वान्तः ९
मूलम्
परादिना पूर्वान्तः ९
विश्वास-प्रस्तुतिः
उपांशु प्रयोगः श्रुतेः १०
मूलम्
उपांशु प्रयोगः श्रुतेः १०
विश्वास-प्रस्तुतिः
न सम्प्रैषाः ११
मूलम्
न सम्प्रैषाः ११
विश्वास-प्रस्तुतिः
कौशं बर्हिः १२
मूलम्
कौशं बर्हिः १२
विश्वास-प्रस्तुतिः
अर्थात्परिमाणम् १३
मूलम्
अर्थात्परिमाणम् १३
विश्वास-प्रस्तुतिः
अयुग्धातूनि यूनानि १४
मूलम्
अयुग्धातूनि यूनानि १४
विश्वास-प्रस्तुतिः
प्रागग्रे यून उदगग्रं बर्हिराचिनोति १५
मूलम्
प्रागग्रे यून उदगग्रं बर्हिराचिनोति १५
विश्वास-प्रस्तुतिः
उदगग्रे प्रागग्रमिध्मम् १६
मूलम्
उदगग्रे प्रागग्रमिध्मम् १६
विश्वास-प्रस्तुतिः
प्रत्यग्ग्रन्थीनवगूहति १७
मूलम्
प्रत्यग्ग्रन्थीनवगूहति १७
विश्वास-प्रस्तुतिः
अष्टादशेध्मं परिधिवृक्षाणाम् १८
मूलम्
अष्टादशेध्मं परिधिवृक्षाणाम् १८
विश्वास-प्रस्तुतिः
एकविंशतिं वा १९
मूलम्
एकविंशतिं वा १९
विश्वास-प्रस्तुतिः
ततः परिधीनेके २०
मूलम्
ततः परिधीनेके २०
विश्वास-प्रस्तुतिः
अपरिमितं प्रणयनीयं त्रियूनम् २१
मूलम्
अपरिमितं प्रणयनीयं त्रियूनम् २१
विश्वास-प्रस्तुतिः
निरूप्याऽज्यं वेदोऽसीति यजमानो वेदं करोति २२
मूलम्
निरूप्याऽज्यं वेदोऽसीति यजमानो वेदं करोति २२
विश्वास-प्रस्तुतिः
कुशमुष्टिं सव्यावृत्तं वत्सजानुं त्रिवृतं मूतकार्यं वा २३
मूलम्
कुशमुष्टिं सव्यावृत्तं वत्सजानुं त्रिवृतं मूतकार्यं वा २३
विश्वास-प्रस्तुतिः
पशुब्रह्मवर्चसाऽन्नाद्यकामा यथासङ्ख्यम् २४
मूलम्
पशुब्रह्मवर्चसाऽन्नाद्यकामा यथासङ्ख्यम् २४
विश्वास-प्रस्तुतिः
आऽमुष्मादिति कर्मसु तच्च २५
मूलम्
आऽमुष्मादिति कर्मसु तच्च २५
विश्वास-प्रस्तुतिः
अन्तवचने च २६
मूलम्
अन्तवचने च २६
विश्वास-प्रस्तुतिः
प्रतिकर्मोद्धरणमप्रसङ्गे २७
मूलम्
प्रतिकर्मोद्धरणमप्रसङ्गे २७
विश्वास-प्रस्तुतिः
अपवृत्तकर्मा लौकिकोऽर्थसंयोगात् २८
मूलम्
अपवृत्तकर्मा लौकिकोऽर्थसंयोगात् २८
विश्वास-प्रस्तुतिः
अप्रकरणोत्पत्तिरनारभ्यवाद आश्रयित्वात्सर्वगुणः २९
मूलम्
अप्रकरणोत्पत्तिरनारभ्यवाद आश्रयित्वात्सर्वगुणः २९
विश्वास-प्रस्तुतिः
प्रकरणे चाऽविशेषात् ३०
मूलम्
प्रकरणे चाऽविशेषात् ३०
विश्वास-प्रस्तुतिः
दर्शनाच्च ३१
मूलम्
दर्शनाच् च ३१
विश्वास-प्रस्तुतिः
वैकङ्कतानि पात्राणि ३२
मूलम्
वैकङ्कतानि पात्राणि ३२
विश्वास-प्रस्तुतिः
खादिरः स्रुवः ३३
मूलम्
खादिरः स्रुवः ३३
विश्वास-प्रस्तुतिः
स्फ्यश् च ३४
मूलम्
स्फ्यश्च ३४
विश्वास-प्रस्तुतिः
पालाशी जुहूः ३५
मूलम्
पालाशी जुहूः ३५
विश्वास-प्रस्तुतिः
आश्वत्थ्य् उपभृत् ३६
मूलम्
आश्वत्थ्युपभृत् ३६
विश्वास-प्रस्तुतिः
वारणान्य् अहोम-संयुक्तानि ३७
मूलम्
वारणान्यहोमसंयुक्तानि ३७
विश्वास-प्रस्तुतिः
बाहु-मात्र्यः स्रुचः
पाणि-मात्र-पुष्करास्
त्वग्-बिला
हंस-मुख-प्रसेका
मूल-दण्डा भवन्ति ३८
मूलम्
बाहुमात्र्यः स्रुचः पाणिमात्रपुष्करास्त्वग्बिला हंसमुखप्रसेका मूलदण्डा भवन्ति ३८
विश्वास-प्रस्तुतिः
अरत्नि-मात्रः स्रुवो ऽङ्गुष्ठ-पर्व-वृत्त-पुष्करः ३९
मूलम्
अरत्निमात्रः स्रुवोऽङ्गुष्ठपर्ववृत्तपुष्करः ३९
विश्वास-प्रस्तुतिः
स्पयो ऽस्य्-आकृतिर्,
आदर्शाकृति प्राशित्र-हरणं
चमसाकृति वा ४०
मूलम्
स्पयोऽस्याकृतिरादर्शाकृति प्राशित्रहरणं चमसाकृति वा ४०
विश्वास-प्रस्तुतिः
चात्वालोत्करावन्तरेण सञ्चरः ४१
मूलम्
चात्वालोत्करावन्तरेण सञ्चरः ४१
विश्वास-प्रस्तुतिः
प्रणीतोत्कराविष्टिषु ४२
मूलम्
प्रणीतोत्कराविष्टिषु ४२