[[विवाहपद्धतिः Source: EB]]
[
[TABLE]
[TABLE]
[TABLE]
[TABLE]
संमति.
<MISSING_FIG href="../books_images/1684821628.jpg"/>
इह खल्वशेषधरातले समुपात्तजनुषामनेकजातीयानां मनुजानां संस्कारदीक्षाविधौ भारतीभूषणा-नामुरीकृतवेदबोधिताऽखिलविधीनां हिजानामेव प्राधान्यमिति सुनिपुणानां निश्चितमेव तेषु च प्रचलिता यद्यपि बहुविधाः संस्कारविधयो निबन्धेषूपलभ्यन्ते यथा विज्ञानेश्वराचार्यैरष्टाचत्वा-रिंशत्संस्कारा उपवर्णिता अन्यैश्चषोडश अपरैस्तु तेषां दश एव मुख्या इति त एवेदानीन्तनैः प्रायशोऽनुष्ठीयन्ते पद्धतयश्चतत्तत्कर्म्मसामग्र्यसम्पादिका बाहुल्येन दशानामेव संस्काराणां मुद्रिता उपलभ्यन्ते आस्तां निर्द्दिष्टपक्षाणामन्यतमस्योपादेयतायास्तदितराणामनुपादेयतायाश्चविचारो नाम सर्वेषां यत् सुनिश्चितप्रायं कर्म्मसु विवाहसंस्कारविधेः प्राधान्यं तददृष्टशास्त्रव्यवहाराणामन्त्यजादि-जातीनामपि समानमेवेति तत्प्रधानं कर्म्म सततमनुष्ठीयमानमप्यालस्यादिदूषितचित्तैः पल्लवग्राहि-पाण्डित्ययुतैरुपेक्षया पध्दतिपुस्तकाशोधनपरैर्विकलतां नीतमिव दृष्ट्वा देशोपकारबुद्ध्या त्रैवर्णिका-न्मुख्यतमेनोक्तेन विवाहसंस्कारेण साङ्गोपाङ्गेन वैधेनालं कर्त्तुश्रीमान्मे हरचन्द्राभिधो लवपुरी-यसंस्कृतपुस्तकालयाध्यक्षो बद्धपरिकरस्सभुदयौक्षीत् उद्यमश्चास्य निभृतमहाशयो लक्ष्यते यतस्त्रि-वर्ग्गसाधनं स्वनुष्ठितमेतत्संस्कारकर्म्म “भार्य्यात्रिवर्गकरणं शुभशीलयुक्तं शीलं शुभं भवति लग्नवशेन तस्याः” इति पूर्वाचार्य्यैरुपबृंहितप्रायम् अथास्मिन्कर्म्मणि शुभोद्योगशालिनोऽस्य प्रोत्सा-हादिसम्वर्द्धनगुणग्राहितयैतत्पुस्तकपरिकयेण स्वस्वोपकारप्रत्युपकृतिपरैः प्रशंसावादैः पारितोषि-करूपैः सत्हृदयमुख्यैः परितोषो विधेयः सचापरदेशोपकारिकार्य्यनिर्मापणविधौ तस्याश्रान्तमनोवृ-त्तिमुद्भावयेदिति चक्रवृत्त्येव परिणामतःपुनः पुनरपि स्वदेशहितान्यु-द्भावयेदिति शम्।
श्री पण्डित गुरुप्रसाद
प्रधान अध्यापक
पंजाब यूनिवर्सिटी लाहौर.
॥ॐ श्रीगणेशाय नमः॥
अथ सटीका विवाहपद्धतिः
<MISSING_FIG href="../books_images/1684821696.jpg"/>
संधिविग्रहमन्त्रेन्द्रो रुद्रदेवतनूद्भवः।
भूमिपालशिरोरत्नरञ्जिताङ्घ्रिसरोरुहः॥१॥
श्रीगणेशाय नमः॥ अथ विवाहपद्धतिटीका लिख्यते॥
अथ तावन्मङ्गलाचरणम्.
मदोन्माद्यदुद्दामदिग्दन्तितुण्डो मदोन्माद्यदिन्दिन्दिरालीविराजन्॥ अनायासमायासमानाशयन्नःस पायादपायादुमायास्तनूजः॥१॥ या कृता रामदत्तेन शुभा वाजसनेयिनाम्॥ विवाहपद्धतिस्तस्याष्टीकां कुर्वे सुखाप्तये॥२॥ अस्याः पूर्वेकृता टीका केनचिन्नृवरेण या। साऽपभ्रष्टा चिरंकालान्मूर्खहस्तगता सती॥३॥ तामालोच्य स्वबुद्ध्याहं तथा मन्त्रार्थदीपिकाम्। पद्धत्यर्थेपठित्वैनां सुखाय कलयाम्य-हम्॥४॥ विवाहपद्धतेर्व्याख्या कृता यत्नाद्विलोक्यताम्। उल्लसिष्यन्ति ये सन्तो दूषयिष्यन्ति चा-परे॥५॥ तत्र तावत् पद्धतिकारकृतवस्तुनिर्देशरूपविघ्नविनाशनस्वरूपनिरूपणमङ्गलस्य विवरणं क्रियते सन्धिविग्रहेत्यादि युग्मम्॥ सन्धिः परस्परमेलनं विग्रहो विरोधो यमनु परस्परामर्दरूपं युद्धं सम्पद्यते सन्धिश्चविग्रहश्चतयोर्मन्त्रः स्वाभिप्रेतसाधनोचितो विचारः तत्रेन्द्रः ईश्वरः कुशाग्रबुद्ध्या द्व-योरुचितप्रवृत्तिज्ञानसमर्थः रुद्रदेव आद्यो यो महादेवः तस्य तनूद्भवः आत्मजः यद्यपि तनूद्भव इति यौगिकलक्षणेनौरसे तनये वर्तते तथापि रूढिवृत्त्या क्षेत्रजेऽपि पुत्रे वृत्तिरस्य सम्भवति सरसिजवत्। अयं भावः। यथा सरसिजशब्दो यौगिकत्वेन जलजे प्रवृत्तस्तथा च रूढिवृत्त्या स्थलजेऽपि तद्वत्- अत्र प्रमाणम्. शब्दग्रहो
संधिविग्रहकृच्छ्रीमद्वीरेश्वरसहोदरः।
महन्महत्तरः श्रीमान् विराजति गणेश्वरः॥२॥
श्रीमता रामदत्तेन मन्त्रिणा तस्य सूनुना।
पद्धतिः क्रियते धर्म्या रम्या वाजसनेयिनाम्॥ ३॥
व्याकरणोपमानकोशाप्तवाक्याद्व्यवहारतश्चेतिवचनादाप्तवाक्याच्छब्दग्रहे सिद्धे महाकाव्यकारक-त्वान्महाकवेर्भारवेराप्तत्वेन वाक्यं प्रमाणं तदेव दर्शयति-उत्फुल्लस्थलनलिनीवनादमुष्मादुद्भूतः सरसिजसम्भवः पराग इति। भूमिपालेति॥ राज्याधिकारे प्रतिदिनं बहुतरेषु राज्यकार्येषूत्पद्यमान-प्रत्यूहसन्दोहनिवारणाय प्रतिक्षणं नमन्तो ये भूमिपालामहीपतयस्तेषां यानि शिरसो रत्नानि मुकुट-मणयः तैः रञ्जितौ अतिविचित्रीकृतौअङ्घ्रिसरोरुहौपादपङ्कजौ यस्य सः॥१॥
सन्धिविग्रहेति॥ संधिविग्रहौ देवसेनानीत्वेन करोतीति असौ स चासौ श्रीमद्वीरेश्वरः कार्त्तिकेयस्त-स्य सहोदरो भ्राता दैत्यदानवरणाजिरेषु कृतास्त्रत्वेन श्रीमतःशूरपदावाप्तिलब्धकीर्तिरूपकान्तियुता-ये वीरा वह्न्यन्तकरवीन्दुवरुणाः तेषां ईश्वरः युद्धेषु प्रवर्त्तकः इति महन्महत्तर इति महान्तो ये व्यास-वसिष्ठादयस्तेषु ये महान्तो ब्रह्मादयस्तेष्वतिशयेन महान् प्रणम्यत्वेन सर्व्वकार्येषु पूज्यत्वेन महत्तरः अत एव श्रीमान् सर्वसम्मतत्वेन लब्धकान्तिर्गणेश्वरो गणानामधिपतिः श्रीगणेशदेवो विराजति सर्वत्रौ-त्कर्ष्यादधिकं शोभत इत्यर्थः॥२॥
** श्रीमतेति**॥ श्रीमता वेदज्ञानजनितपाण्डित्यकान्तियुतेन रामदत्तेन रामदत्ताभिधानेन मन्त्रिणा संहितामन्त्रज्ञेन तस्य सूनुनेति तस्य पूर्वोक्त्तगुणविशिष्टस्य गणेशस्य सिंहो देवदत्त इतिवद्गौणीलक्षणया गणेशाभिधाने तत्पितरि तत्पदप्रवृत्त्या गणेशस्य रामदत्तजनकस्य सूनुना पुत्रेण वाजसनेयिनां यजुर्वे-दकात्यायनसूत्रमाध्यंदिनीयशाखावतां
तत्र क्रमः॥ तावत्पूगीयज्ञोपवीतदानम् तत्र कन्याभ्राता पुरोधा अन्यो ब्राह्मणो वा कश्चित्।
द्विजादीनां धर्म्या धर्मादनपेता रम्या मनोहरा पद्धतिः विवाहपद्धतिः पाणिग्रहणसाधिका पूर्वोत्तरक्र-मकर्तव्यहस्तक्रियावाक्यसमुदायवेदमन्त्रप्रणालिकापद्धतिः क्रियते कल्प्यत इति भावः॥३॥ विवाहे सति परकन्यागमनजन्यमहापापनिवृत्तिपूर्वकपितृतुष्टिहेतुसन्ततिवृद्धिस्वीयसुखपुण्यफलरूपधर्मोप-हितत्वाद्धर्म्येति विशेषणम्. विवाहे कृते कामभोगप्रवृत्तावपि परिवादाभावेन रम्येति॥
** तत्र क्रम** इति॥ तत्र पद्धतौ यः क्रमः शास्त्रैर्निरूपितः स एव मुख्यः न तदतिरिक्तः स्वकपोल-कल्पितो न्यूनाधिको विधेयः एतेन तदतिक्रमे दोषः यथोक्तक्रम एव विधेयो न पूर्वोत्तरविपर्यासः। त-त्र कन्यादानमाहात्म्यंम्। भूमिदानं वृषोत्सर्गोदानं गजसुवर्णयोः। उभयतोवदनागोश्चतुलाया दानमु-त्तमम्। कन्यादानं जीवदानं शरणागतपालनम्। वेददानं महाराज महादानानि वै दश इति। तत्रापि च महाबाहो कन्यादानमनुत्तमम्। कन्यादानात्परं दानं न भूतं न भविष्यति॥ इति राजमार्तण्डे नि-रूपणात् युगान्तरेष्वश्वमेधो यथा च क्रतुराणमतः। विधिवत्कन्यकादानमश्वमेधसमं कलौ॥ इति गो-विन्दराजोक्तम्॥ तिस्रः कोट्योर्धकोटी च तीर्थानां वायुरब्रवीत्। दिवि भुव्यन्तरिक्षे च कलौ ते सन्ति जाह्नवि। वेदतन्त्रप्रणीतानि यानि मन्त्राणि सर्वशः॥ वेदमातुर्जपे तेषां फलं प्रोक्तं कलौ युगे। राजसू-योश्वमेधश्चमहादानानि यानि च। तेषामपि फलं प्रोक्तं कन्यादाने कलौ युगे॥ इति पद्मपुराणोक्तम्॥ चिन्तामणीनां गिरयः कल्पवृक्षाः सहस्रशः। व्रजाश्चकामधेनूनां तत्र गच्छेद्दुहितृदः॥ काञ्चनानि च हर्म्याणि नद्यः पायसकर्दमाः। फलान्यमृतकल्पानि तत्र गच्छेद्दुहितृदः। इति मार्कण्डेयप्रोक्तम्॥ यतो महाफलदं कन्यादानं
उदङ्मुखः प्रत्यङ्मुखो वा उपविश्य प्राङ्मुखस्य
वरस्य गन्धाक्षतैरर्च्चितस्य मुखदत्तखार्ज्जूरा
दि-फलस्य स्वयं पूगीफलयज्ञोपवीतमादाय।
अतस्तद्दानं त्रिधा। वाग्दानं कन्यादानं खट्वादिपारिबर्हदानं च इति त्रिधा दानं यदाह वृद्धमनुः। वरं सम्पूज्य खार्जूरं फलं दत्वा मुखे तथा। तस्मिन्कालेऽग्निसांनिध्ये पिता तुभ्यं प्रदास्यति॥ इति प्र-तिज्ञया यच्चकन्याभ्रात्रादिना च सा। वाचा यद्दीयते तुल्ये वाग्दानं प्रथमं स्मृतम्॥ वरं सम्पूज्य विधि-ना वेद्यामग्निं निधाय च। दात्रा प्रदीयते यच्चकन्या सङ्कल्पवाक्यतः। द्वितीयं कन्यकादानं तत्तु प्रोक्तं महर्षिभिः॥ वधूवरौ च खट्वायां मण्डपे सन्निवेश्य च। पारिबर्हेमहद्दत्वा जलेन च विसर्ज्जनम्। तृतीयं कन्यकादानं व्यासाद्या मुनयो जगुरिति॥ तत्र प्रथमं वाग्दाने विधिः॥ तत्र कन्याभ्रातेति॥ ऋत्विक् पुरोहितः पुत्रो भार्य्योभृत्यः सखा तथा। एतद्द्वारा कृतं यच्च तत्कृतं स्वयमेव हि॥ इति मनुस्मरणा-त्। कन्याभ्राता कन्याप्रदपुत्रः पुरोधाः सोऽपि कन्याप्रदस्यैव अन्यो ब्राह्मणो वा कश्चिदिति तस्यैवर्त्वि-गादिरित्यर्थः स तत्र गत्वा॥
** उदंङ्मुख इति**॥ उदङ्मुखः उत्तराभिमुखः प्रत्यङ्मुखः पश्चिमाभिमुखो वा स्थित्वेत्यर्थः॥ पूज्य-श्च प्राङ्मुखो यत्रोदङ्मुखः पूजको भवेत्। अर्च्चयेत् देवमभित इति प्रत्यङ्मुखश्चसः। इति मनुवच-नात्॥ प्रत्यङ्मुखं स्थापयेत्तु देवं पूज्यं तथैव च। पूजकः सम्मुखस्तस्य इति धर्म्मानुशासनम्॥ इति वरस्य पूज्यत्वेन प्रत्यङ्मुखत्वे संसिद्धेऽपि प्रत्यङ्मुखं स्थापयेत्तु देवं पूज्यं वरं विना। वरस्तु प्राङ्मु-खः पूज्यः पूजकः स्यादुदङ्मुखः॥ इति व्यासस्मृतिः। प्रत्यङ्मुखान्पूजनीयदेवांस्तत्सम्मुखस्थितः। अर्च्चयेन्नित्यमेवेत्थं विधिरित्येव सम्मतः। स्थित्वा चाभिमुखं नार्च्चेच्छम्भुं
तस्मिन्कालेऽग्निसांनिध्ये स्नातः स्नाते ह्य
रोगिणि॥ अव्यङ्गेऽपतितेऽक्लीबे पिता तुभ्यं
प्रदास्यति॥ इति पठित्वा हस्ते दद्यात्।
जामातरं तथा॥ इन्द्रं चोदङ्मुखं स्थाप्य स्वयं प्राङ्मुखसंस्थितः। उदङ्मुखोर्च्चयेद्दाता वेदिस्थं प्रा-ङ्मुखं वरम्॥ इति पराशरवचनात् प्राङ्मुखवरस्य पूर्वेगन्धाक्षतैरर्च्चितस्य मुखदत्तखार्ज्जूरादिफल-स्य खार्जूरादिफलभक्षणमपि मङ्गलार्थम्। यतः। नालिकेरफलं चैव तदन्तर्भक्ष्यमप्युत। खर्जूरादिफ-लं राजन् विवाहे मङ्गलप्रदम्। इति भृगुवचनात् विवाह इत्युपलक्षणं विवाहादिसर्वमङ्गलकार्य्येष्वपी-त्यर्थः॥ स्वयमिति॥ स्वयं कन्याभ्रात्रादिः पूगीयज्ञोपवीतमादाय गृहीत्वा इति पठित्वा इति वक्ष्यमा-णमुच्चार्य्य वरस्य हस्ते दद्यात् वरवृतिं कुर्य्यादित्यर्थः। ययोरेव समं वित्तं ययोरेव समं कुलम्। तयो-र्विवाहो मैत्री च न तु पुष्टविपुष्टयोरिति महाभारते व्यासोक्त्या। सुशीलश्चारुबुद्धिश्चव्यवहारपटुः क्ष-मी। उदारो वाक्पटुर्वाग्मी गुणयुक्तो वरो मतः॥ परम्पराप्तसम्बन्धकुलजातो महाकविः। कान्तः सु-लक्ष्मणः श्रीमान् मातृपितृयुतो वरः॥ इति गोविन्दराजोक्तवरलक्षणसम्पन्नस्य वरस्य वृतिं कुर्य्यात् इति॥
अथ वरवृतौप्रतिज्ञावाक्यमाह॥
** तस्मिन् काले** इति॥ तस्मिन् प्रसिद्धे सर्वाभीष्टे काले विवाहसमये तच्छब्दस्य पूर्वप्रसिद्धयोः परामर्शकत्वात्। अतः तस्मिन् प्रसिद्धे विवाहे सति। किञ्चाग्निसान्निध्येऽग्निसामीप्ये सति अग्निं साक्षी-कृत्येत्यर्थः। किञ्चारोगिणि सति। वाताश्मरीकुष्टमेहमहोदरभगन्दराः। अर्शश्चग्रहणी चैव महारोगाः सुदुस्तराः। इति चिकित्साशास्त्रोक्तरोगरहिते सतीत्यर्थः। किञ्चाव्यंगे सति व्यङ्गरहिते सति व्यङ्गत्वं द्विविधं योनिजातिसम्बन्धकृतमेकं देहाङ्गभङ्गकृतञ्चापरं इति। तत्र धृता विवाहिता दासीति त्रिविधा निषिद्धस्त्रियस्तासु धृता विधवा या प्रीत्या चाटुकारादिना स्वगृहमानीय केन चिद्भार्य्याभावेन रक्षिता सा धृता उच्चते। विवाहिता पूर्वमपि विवाहविधिना कुत्रचिद्विवाहिता तत्र तत्पतिमरणेन बालविधवा-त्वे सति लोभोपहितचेतसो महाज्ञानयुक्तास्तत्पितरः कुत्रचिद्देशे गत्वा कुमारीवेशेन तां प्रदर्श्य तत्र केनाऽपि पुनर्विवाहिता विवाहितेत्युच्यते। दासी मूल्यकीता पूर्वेगृहपरिचारिका पश्चाद्यौवनाक्रान्तदे-हां तामालोक्य कामवशात्तामङ्कमारोप्य
भार्य्याभावेन गृहे रक्षिता सा दासीत्युच्यते तदुद्भवसन्ततिस-म्बन्धकरकुलसम्बन्धे कृते योनिव्यङ्गत्वं स्वजातेर्हीनजात्या सम्बन्धे कृते जातिव्यङ्गत्वम् एतद्द्वयमेव लक्षीकृत्य योनिजातिसंबन्धकृतमेकं व्यङ्गत्वमुक्तम् चक्षुश्चरणकटिभग्नत्वेनान्धपङ्गुप्रभृतिकं देहव्य-ङ्गत्वं तदभावोऽव्यङ्गत्वं तस्मिन् सति एतल्लक्षणैरहिते त्वयि सतीति तात्पर्य्यार्थः। किञ्चाऽपतिते स-ति। ब्रह्महा1 मद्यपस्तेनस्तथैव गुरुतल्पगः। एते महापातकिनो यश्चतैस्सह संवसेत्॥ इति। ब्रह्महत्या-दिके पापे जातिभ्रंशकरे तथा। वृषलीगमनेऽत्यर्थेसावित्रीविरहेऽपि च। अभक्ष्यभक्षणे चैव पतितो भवति ध्रुवम्॥ इति कालादर्शादौपतितत्वनिरूपणात्तल्लक्षणरहितेऽपतिते सतीत्यर्थः। किञ्चाक्लीबे क्लीबत्वरहिते सति। भस्मनि होमकरणात्षंढे कन्याप्रदानतः। कुलधर्म्मपरित्यागान्नरके नियतं वसे-त्॥ इत्यापस्तम्बवचनात्त्वयि षण्ढलक्षणरहिते सति पिताऽस्या जनकस्तुभ्यं प्रदास्यति कन्यादानं करिष्यति पूर्वोक्तदूषणेषु एकेनाऽपि दोषेण दुष्टे त्वयि सति न दास्यतीति प्रतिज्ञादृढत्वं क्रियते। इत्थं प्रतिज्ञादार्ढ्येन वरस्य हस्ते पूगीयज्ञोपवीतदानं पुरोहितब्राह्मणादिद्वारा पूग्यादिदानपक्षे पितेत्यस्य स्थाने दातेत्युच्चारयेत्
ॐ ऋतवस्था ऋतावृधा ऋजुष्यस्था ऋतावधा घृतच्युतो मधुच्युतो विराजो नाम कामदुघाः अक्षीयमाणाः॥ इति पठित्वा शिरस्यक्षतादिकं दद्याद्वरः भ्रातृव्यतिरि-क्तदानपक्षे पितेत्यत्र दातेत्युच्चारयेत्। अथ सर्वेभ्यो वेदाध्ययनश्रवणक्रियाव्यतिरि-क्तक्रियानिवृत्तयेऽक्षतानि दत्वा तारस्वरेण वेदोच्चारणं कुर्य्यात्.
ॐ ऋतवस्था इति॥ भोः कन्याप्रदाः यूयं ऋते सत्येऽवतिष्ठन्ति इति ऋतवस्थाः सत्यप्रतिज्ञाः किञ्च ऋतावृधाः ऋतेन सत्येन आसमन्तात् वर्धेतीति ऋतावृधा इगुपधेति कः प्रत्ययः। किञ्च ऋजुष्ये सन्मार्गे तिष्ठन्तीति ऋजुष्यस्थाः। ऋजौ ऋजुष्यं सरलं कोमलं मृदुकञ्च तदिति रंतिकोषः। किञ्च ऋतावधाः ऋताः सत्या अवधयो मर्य्यादाः समया वा येषां ते मर्यादापालका इत्यर्थः। डान्तः प्रयोगः। किञ्च घृतच्युतः यद्गृहेषु भूरितरविद्यमानत्वेन घृतानि श्र्व्योतन्तीति घृतच्युतः घृतशब्देन दुग्धदधित-क्रपायसनवनीतादिकं लक्ष्यते। किञ्च मधुच्युतः मधूनि मधुराणि गुडशर्करादीनि सर्वाणि स्रावयन्ति विकिरन्ति यद्गृहेषु ते मधुच्युतश्र्व्युतिर्क्षरणे क्विबन्तं पदम्। किञ्च विराजः विशेषेण राजन्ते इति वि-राजः विपूर्वो राजृ दीप्तौ क्विबन्तं पदं नामेति प्रसिद्धम्। किञ्च कामदुघाः कामा मानोऽभिलषिता विषयास्तेषां दुधाः प्रपूरका इत्यर्थः। किञ्च अक्षीयमाणाः कदाचिदपि ये न क्षीयन्ते अक्षीणकोषभा-ण्डाराः। ईदृशा भवन्तो भवन्त्विति आशिषो दत्वा पूग्यादि शिरसि निधापयेद्वरः। इति शिरसि स्थापनेन भवत्सम्बन्धेन वयं सर्वेषामुत्तमाङ्गेषु मुकुटमणय इव भविष्याम इति सूचितम्.
** अथ सर्वेभ्य इति**॥अथाक्षतदानप्रयोजनपूर्वकशिष्टाचारत्वेनाक्षतदानमाह॥
ॐ गणानां त्वा गणपतिँहवामहे प्रियाणां त्वा प्रियपतिँहवामहे निधीनां त्वा निधिपतिँ हवामहे वसो मम आहमजानि गर्भध मा त्वमजासि गर्भधम्॥१॥
अथशब्दो मङ्गलार्थोऽनन्तरार्थश्च ग्रन्थादौ मङ्गलमाचरणीयमिति शिष्टाचारः शिष्टाचारप्रतिपालनाय मङ्गलार्थोयमथशब्दः अनन्तरार्थाथशब्दे तु अनन्तरं निषेकादिनवकर्म्मानन्तरं विवाहारम्भ इति एव-मर्थ ऊहनीयः अथ मङ्गलहेतुकविवाहारम्भसमये वेदोच्चारणम् तारेण स्वरेण कण्ठस्वरेण हस्तस्व-रेण च यथामति कुर्यात् तथा च योगियाज्ञवल्क्यः। स्वरस्तु द्विविधः प्रोक्तो वेदोच्चारणकर्म्माणि।क-ण्ठस्वरो हस्तस्वरो गौणमुख्यप्रभेदतः॥ तारस्वरेण द्वावेव भवेतामिति निश्चयः॥ वेदस्योच्चारणं कु-र्य्यात् यथामति च वेदवित्। सर्वविघ्नविनाशाय सर्वारम्भेषु सिद्ध इति॥ किं कृत्वा सर्वेभ्यस्तत्रागत्य स्थितेभ्यो हस्तेष्विति शेषः। अक्षतानि दत्वा कस्यै? वेदाध्ययनश्रवणक्रियाव्यतिरिक्तक्रि-यानिवृत्तये वेदस्याध्ययनं पठनम् श्रवणं पठनज्ञानाभावे आकर्णनपरत्वञ्च तद्रूपा याः क्रिया इति ताभ्यो भिन्ना-स्तद्व्यतिरिक्ता याः क्रियास्तासां निवृत्तये परित्यागायेत्यर्थः। अथ वेदोच्चारणं विघ्नविध्वंसकगणेशस्तु-तिपूर्वकषडंगान्तर्गतशिवसंकल्पात्मकाध्यायस्य वेदत्वेनोच्चारणं इत्यर्थः॥
** गणानां त्वेति**॥ हे मम वसो मदीयधन श्रीगणेशदेव गणानां पतिं त्वात्वां हवामहे आवाहयामः। व्हेञ् आव्हाने स्पर्धायाञ्च भ्वादिगणे व्हयतीत्यादिरूपं दृशेः पश्यादेशवत् व्हयतेर्हवादेशेन हवामहे-प्रयोगनिष्पत्तिः गण्यन्ते प्रशस्तत्वेनेति गणाः श्रेष्ठास्तेषां मध्ये ये गणाः प्रशस्ततरास्तेषां पतिमीश्वरमि-त्यर्थः। सकलप्रशस्ततरेश्वरमिति
नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गृ-त्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमः २
भावः। किञ्च प्रियाणां प्रेष्ठानामिन्द्रादिदेवानां यज्ञाधिपतित्वेन तेषां ये प्रेयांसः कार्तिकेयादयः तारका-दिवधजनितसुखहेतुभूतत्वात् तेषां पतिं युद्धारम्भे त्वदाराधनेन विघ्नध्वंसपूर्वकविजयप्रदत्वेन पतिफ-लप्रदातारमीश्वरं त्वा हवामहे। किञ्च निधीनां निधिपतिं त्वा हवामहे निधयो धनादीनि तेषां मध्ये ये निधयोऽतिशयानन्तसुखभोगप्रवर्त्तिका योगसिद्धयस्तेषां पतिं दातारं त्वा हवामहे मदीये कार्य्ये जनि-तजायमानजनिष्यमाणानेकविधप्रत्यूहसन्दोहविध्वंसनपूर्वककार्य्यसिद्धिहेतवे गणेशाह्वानमन्त्ररूप-स्तुतिः क्रियते इति भावः। किञ्च गणपते अहं त्वयाऽजानि उत्पादितः कीदृशोऽहं। गर्भधम् मात्रा ग-र्भे धीयते यः स गर्भधम्। लिङ्गव्यत्ययः छान्दसः गर्भध इत्यर्थः। किञ्च हे अज अनादे त्वं गर्भधं गर्भ-धो मासि न भवसि एतेन जन्मविकारकथनेन तदुत्तरत्वेन सर्वेषां यथाक्रमसम्भवात् षड्भावविकर-वान् परतन्त्रः शरीरीति व्यज्यते त्वं तु विकाराभाववान् निर्विकारत्वेन स्वतन्त्रः ईश्वरः अत एव सर्वे विधातुं समर्थ इति सूचितम्॥
** नमो गणेभ्य इति**॥ वः युष्माकं गणेभ्यो नमः गणपतिभ्यश्च वो युष्मभ्यं नमः वःपदस्य तन्त्रत्वेन द्विविभक्त्यन्तार्थवत्त्वं एवं वो युष्माकं व्रातेभ्यो राशीभूतेभ्यः समूहेभ्यो नमः व्रातपतिभ्यश्च वो युष्मभ्यं नमः तथा वो गृत्सेभ्यो विघ्नकरेभ्योऽथवा विषयलम्पटेभ्यो मेधाविभ्यो वा नमः गृत्सपतिभ्यस्तत्पालके-भ्यश्च वो नमः तथा च वो विविधरूपेभ्यो विकृतरूपेभ्यो वा नमः यद्वा वो विरूपेभ्यो विशिष्टरूपेभ्यो नमः विश्वरूपेभ्यः
सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्त दैव्याः॥
पूर्वेषां पन्थामनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन्॥३॥
सर्वरूपेभ्यश्चवो युष्मभ्यं नमोऽस्तु सर्वत्र व इत्यादेशविशेषस्य द्व्यर्थत्वमेव ज्ञेयम्॥ इति गणेशस्तुतिः॥
अथर्षिसृष्टिप्रतिपादकमन्त्रव्याख्या ऋषिनिरूपणमन्त्रोऽपि मङ्गलप्रदः॥
** सहस्तोमा इति॥** सप्त ऋषयो भरद्वाजकश्यपगौतमात्रिविश्वामित्रजमदग्निवसिष्ठाः। पूर्वेषां क-ल्पान्तराणि कारिणां पन्थानं अनुदृश्यावलोक्यान्वालेभिरे अन्वारभन्त सृष्टिं कृतवन्त इत्यर्थः। रलयोः सावर्ण्यमिति अन्वालेभिर इति अलङ्कारार्थेरस्य लः। ऋषयः कीदृशाः। सहस्तोमाः। स्तोमा चिकीर्षा तया सह वर्त्तमानाः। यद्वास्तोमाः कारणसमुदायास्तैः सहिताः सृष्टिकारणसमुदायसमन्वितत्वेनापि तेषां चिकीर्षैव स्फुटायते। चिकीर्षोविना तेषां कारणसमुदायैकीकरणं न घटते। पुनः कीदृशाः सह-छन्दसः छन्दोभिः सहिताः सर्वज्ञा इति एतेन तेषां ज्ञानवत्त्वं प्रतिपादितम्। पुनः कीदृशा आवृतः आशब्देन कर्म्मोच्यते तद्वृतः अथवा आवर्तयन्ति स्वकर्माणीत्यावृतः श्रद्धासत्यप्रधानानां तपो-रूपात्मकर्म्मणां अनुष्ठातारः। एतेन विशेषणेन कृतिमत्त्वं तेषां निरूपितम्। पुनः कीदृशाः सहप्रमाः। प्रमाणसंसाधितं यथार्थज्ञानं प्रमा तया सह वर्त्तमानाः सहप्रमाः समासे सत्यपि सहस्य सादेशाभावः छान्दसः एतैर्विशेषणैः चिकीर्षाज्ञानकृतिमत्त्वं कर्त्तृत्वं इति कर्त्तृत्वलक्षणं घटते तेन तेषामपि सृष्टि-कर्त्तृत्वं प्रतिपादितम्। पुनः कीदृशा दैव्याः प्रजापतित्वेन देवताभिमानिनः ईश्वरत्वेन सृष्टिं कर्त्तुसमर्था इत्यर्थः। पुनः
यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य
तथैवेति॥ दूरंगमं ज्योतिषां ज्योतिरेकं
तन्मे मनः शिवसङ्कल्पमस्तु॥४॥
कीदृशाः धीरा धियं रान्ति गृह्णन्ति इति धीराः एतेन ज्ञानसृष्टिरुक्ता। अयं भावः। कर्त्तृभिः प्रथमं बुद्ध्याज्ञानकोटिपदार्थाः सृज्यन्ते पश्चान्मनोमयकल्पितानुसारेण द्रव्यमयाः सृज्यन्ते इति कथमन्वा-रेभिरे रथ्यो न रश्मीन् रथे साधुः रथ्यः सारथिः नकार उपमार्थः रश्मीनिव अथवा अनरश्मीन् रथरश्मीन् अनः शकटे च मातरि इति सकारलोपश्छान्दसः यथोत्तमसारथिरिष्टदेशप्राप्त्य-र्थेअश्वनियमनाय रश्मीनन्वारभते एवं तेऽपिकारणैः स्वसृष्टिं कृतवन्त इत्यर्थः॥ इति ऋषिसृष्टिवर्ण-नेन ऋषिस्तुतिरपि मङ्गलार्थैवेत्यर्थः॥३॥ इति मङ्गलरूपस्तुतिः सम्पूर्णा॥ अथ शिवसङ्कल्पव्याख्या सा मङ्गलार्थैव शिवसङ्कल्पपदेनैव मङ्गलबोधात्॥
** यज्जाग्रत इति**॥ यन्मनो जाग्रतः पुरुषस्य दूरमुदैति दूरं गच्छति नानाविषयेषु सञ्चरतामिन्द्रियाणां सहकारित्वेनेतस्ततस्संचारित्वादित्यभिप्रायः। उरप्यर्थे तन्मनः सुप्तस्य निद्रितस्यापि तथैवेति जाग्रज्जन्यः स्वप्न इत्युक्तेः। स्थूलेन्द्रियेषु स्वस्वगोलकेषु विश्रान्तेषु व्यापाराभावेऽपि स्वकल्पितविष-येषु सूक्ष्मेन्द्रियैः सह तथैव प्रसरसम्भवात्। कीदृशं मनः दैवं देवस्वरूपं पुनः कीदृशं मनः ज्योतिषां तैजसानामिन्द्रियाणामेकं मुख्यं अद्वितीयं सर्वकार्य्याणां तदधीनत्वात् इति भावः। पुनः कीदृशं दूरं-गमं दूरगामि व्यवहितविषये साधारणप्रवृत्तित्वात् तन्मे मम मनः शिवसङ्कल्पमस्तु शिवाः सत्त्वा-त्मकाः सङ्कल्पा वृत्तयो यस्य तत् यद्वाशिवः सङ्कल्पोऽभिलाषो ब्रह्मलोकादौ वासो यस्य तत्॥
येन कर्म्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदधेषु धीराः॥ यदपूर्वेयक्ष्यमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु॥५॥
यत् प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु॥ यस्मान्नर्ते किञ्चन कर्म्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु॥६॥
** येन कर्म्माणीति**॥ येन मनसा अपसो मनीषिणः कर्म्मकुशलास्तपस्विन इत्यर्थः। अप इति कर्मनाम [निघं० २.१] अपसस्तत्र कुशलत्वे ‘अस्मायामेधास्रजो विनिः’ इति विनिः। अपस्विन्-शब्दस्तस्मिन् “विन्मतोर्लुक्” इति इष्ठनोऽभावेऽपि छान्दसो विन्प्रत्ययस्य लुक् तेन अपसः कर्म्मव-न्तः कर्म्मकुशलाः यज्ञे कर्म्माणि कृण्वन्तीत्यर्थः। स्वादिगणे रूपम्॥ कीदृशा मनीषिणः विदधेषु धी-राः पण्डिताः विधीयन्ते कल्प्यन्ते इति विदधा यज्ञाः यज्ञसाधनानि वा ज्ञानानि वा तेषु। किञ्च यन्मनः अपूर्वेन पूर्वेकारणं यस्य तत् नित्यमित्यर्थः। न्यायमते मनसो नित्यत्वात् वेदेषु वेदान्तमतस्य प्रधानत्वात् अपूर्वमद्भुतं वेति। किञ्च यक्ष्यं पूज्यं तथा च प्रजानां प्रकर्षेण जायन्ते इति प्रजा देहास्ते- षामन्तरन्तर्वर्त्ति तन्मे मनः शिवसङ्कल्पमस्तु इत्यर्थः॥
** यत्प्रज्ञानमिति**॥ यन्मनः प्रज्ञानं बुद्धिरूपम् सर्वव्यवहारहेतुकं ज्ञानं मनस एव निश्चयात्मिका वृत्तिर्बुद्धिः प्रकृष्टं स्वरूपात्मकं ज्ञानं यस्मात् तत्प्रज्ञानं इति वा वैराग्येण संसृतेरुपरतत्वेन निर्विकारे मनसि सति शुद्धबोधेद्धा वृत्तिर्भवतीति उत समुच्चये यन्मनः चेतः चित्तं चेतनाया उपलब्धेर्हेतुः स्मरणात्मकं ज्ञानं। धृतिश्चधैर्य्येयत् अन्तः अन्तरि-
येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम्॥ येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु॥६॥ यस्मिन्नृचः सामयजूँषि यस्मिन् प्रतिष्ठिता रथनाभावि-वाराः॥ यस्मिंश्वित्तँ सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु॥७॥
न्द्रियं यत् ज्योतिः सुखाद्युपलब्धिसाधनत्वेन सुखादीनां प्रकाशकं सुखं दुःखं धृतिरधृतिः संशयं विपर्य्ययकामः सर्वेमन एवेति श्रुतेः। यच्च प्रजासु (उक्तव्याख्यानुसारेण देहेषु) जनेषु वा विनाशध-र्म्मिषु अमृतमविनाशि भवत्यनेन तस्य ब्रह्मांशभूतजीवाङ्गित्वमुक्तम् यस्मान्मनस ऋते किञ्चन कर्म्म न क्रियते। केनापीति शेषः। सर्वकर्म्मकारणं मन एवेति भावः। तन्मे मनः शिवसङ्कल्पमस्तु॥
** येनेदमिति॥** येन मनसा इदं वर्त्तमानं भूतमतीतं भविष्यद्भावि सर्वेभुवनं प्रपञ्चजातं परिगृहीतं परितः सर्वतो ज्ञातं त्रिकालसम्बद्धवस्तुषु भवति मनःप्रवृत्तमित्यर्थः। कीदृशेन येन अमृतेन नित्येन सुखेन वा येन मनसा सप्त होतारो यस्मिन् स सप्तहोता अग्निष्टोमोनाम यज्ञस्तायते विस्तार्य्यते तन्मे मनः शिवसङ्कल्पमस्तु। यस्मिन्मनसि ऋचः ऋग्वेदः साम सामवेदः यजूंषि यजुर्वेदः नाम एते प्रतिष्ठि-ता आश्रिताः सन्ति सर्वेषां वेदानामधिष्ठानं यदित्यर्थः। कस्मिन् के इव रथनाभौ शकटचक्रमध्यदेशी-यस्थूलकाष्ठे आरा उभयतो नेम्यन्तर्गतालं वायमानाः काष्ठका इव यस्मिन् सर्वेप्रजानां चित्तं संज्ञानं ओतं सम्बद्धम् तन्मे मनः शिवसङ्कल्पं शिवसङ्कल्पात्मकं शान्तव्यापारं अस्त्वित्यर्थः॥
सुषारथिरश्वानिव यन्मनुष्यान्नेनीयते भीषुभिर्वाजिन इव हृत्प्रतिष्ठं यदजरं जविष्ठंतन्मे मनः शिवसङ्कल्पमस्तु॥८॥
[ अ. २५.कं. १८]
अथ स्वस्त्ययनोच्चारणम्॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः॥ स्वस्ति न-स्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥१॥
** सुषारथिरिति**॥ यन्मनो मनुष्यान् लोकान्मनुष्यान् इत्युपलक्षणम् सर्वानेव देवदानवर्षिप्रभृतीन् स्थूलसूक्ष्मान् जीवान् नेनीयते हिताहितविषयेषु अतिशयेन प्रवर्त्तयति निवर्तयति च कः कानिव सुषा-रथिरुत्कृष्टसारथिरभीषुभिः रश्मिभिरश्वानिव यथोत्कृष्टसारथिरश्वान् प्रग्रहनियन्त्रितान् समेषु स्वहित-विषयेषु प्रवर्तयति विषमेषु निवर्त्तयति च कीदृशानश्वान् वाजिनः वेगवतः शीघ्रानेकगतिशालिनः यन्मनो हृत्प्रतिष्ठं हृदये प्रतिष्ठं आसीनमुपलभ्यमानमिति यावत् तत्रैव ज्ञानोत्पत्तेः। यच्च मनोऽजरं नित्यं प्रौढं जविष्ठं अतिशयजवशालि वेगवदित्यर्थः। तन्मे मनश्शिवसङ्कल्पमस्तु॥८॥ इति शिवसङ्क-ल्पव्याख्या सम्पूर्णा॥
अथ स्वस्त्ययनोच्चारणम्।
** स्वस्ति न इति॥** इन्द्रः नोऽस्मभ्यं स्वस्ति अविनाशं शुभं दधातु ददातु कीदृशः वृद्धश्रवाः वृद्धं महत् श्रवः कीर्त्तिर्यस्य सः। पूषा नः स्वस्ति दधातु कीदृशः विश्ववेदाः विश्वं सर्वेवेदो धनं यस्य विश्वं वेत्तीति वा विश्ववेदाः तार्क्ष्यो रथो गरुडो वा नः स्वस्ति दधातु कीदृशः
[ अ. ३६. कं. ३६. ]
पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः पयस्वतीः प्रदिशः सन्तु म-ह्यम्॥२॥
[ अ. ५. कं . २१ ]
विष्णो रराटमसि विष्णोः श्नप्त्रे स्थो विष्णोः स्यूरसि॥ विष्णोर्ध्रुवोसि वैष्णवमसि विष्णवे त्वा॥३॥
अरिष्टनेमिः अरिष्टा अनुपहिंसिता नेमिश्चक्रधारा पक्षो वा यस्य सः बृहस्पतिः देवगुरुर्नोऽस्मभ्यं स्वस्ति ददातु॥१॥
** पय इति॥** हे अग्ने त्वं पृथिव्यां पयो रसं धाः धेहि स्थापय दधातेर्लुङि मध्यमपुरुषैकवचने रूपम् बहुलंछन्दस्यमाङ्योगेऽपि(६-४-७५) इत्यडभावः। ओषधीषु च पयो धाः। दिवि स्वर्गे च पयो धाः। अन्तरिक्षे च पयो धाः। किञ्च मह्यं मदर्थे प्रदिशः दिशो विदिशश्चपयस्वतीः पयस्वत्यो रसयुताः सन्तु॥२॥
** विष्णो इति॥** हेदर्भमय मालाधारवंश त्वं विष्णोः विष्णुत्वेनोपचरितस्य हविर्धानमण्डपस्य रराटमसि ललाटस्थानीयोऽसि हे रराट्यन्तौ युवां विष्णोः विष्णुनामकस्य हविर्धानमण्डपस्य श्न-प्त्रेस्थः ओष्ठसन्धिरूपे भवथः। हे लस्यूजनि (बृहत्सूचि) त्वं विष्णोर्हविर्धानस्य स्यूरसि। सीव्यन्तेऽ-नेनेति स्यूः सूचिः। षिवु तन्तुसन्ताने क्विपि च्छ्वोरित्यूठ्। हे रज्जुग्रन्थे त्वं विष्णोः हविर्धानस्य ध्रुवोऽसि ग्रन्थिर्भवसि। हे हविर्धान त्वं वैष्णवमसिविष्णुदेवताकत्वेन तत्सम्बन्धि भवसि। तस्माद्विष्णवे विष्णु-प्रीत्यर्थेत्वा त्वां स्तौम्यथवा स्पृशामीति शेषः॥३॥
[अ. १४. कं. २०.]
अग्निर्देवता वातो देवता सूर्य्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवता आदित्या देवता मरुतो देवता विश्वेदेवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता॥४॥
[अ. ३६. कं. १७.]
द्यौः शान्तिरन्तरिक्षँशान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्वँशान्तिः शान्तिरेव शान्तिः सा मा शान्ति-रेधि॥५॥
अग्निरिति॥ या त्वं अग्न्यादिदेवतारूपासि तां त्वामुपस्तौमीति स्मरामीति वेति सर्वत्र योज्यम्। अग्न्यादी नां देवतात्वं प्रसिद्धम्॥४॥
** द्यौरिति॥** द्युलोकरूपा या शान्तिः अन्तरिक्षरूपा च या शान्तिः पृथिवी भूलोकरूपा या शान्तिः आपोजलरूपा या शान्तिः ओषधयः ओषधिरूपा या शान्तिः वनस्पतयः वृक्षरूपा या शान्तिः विश्वेदेवाः सर्वदेवरूपा या शान्तिः ब्रह्मत्रयीलक्षणं परं वा तद्रूपा या शान्तिः सर्वेसर्वजगद्रूपा या शान्तिः शान्तिरेव शान्तिः या स्वरूपतः शान्तिः सा शान्तिः मा मां प्रति एधि अस्तु पुरुषव्यत्ययः। महावीरप्रसादात्सर्वेशान्तिरूपं मां प्रत्यस्त्वित्यर्थः। यद्वाद्यौरित्यादिषु विभक्तिव्यत्ययः सप्तम्यर्थे प्रथमा दिव्यन्तरिक्षे पृथिव्यामप्स्वौषधीषु वनस्पतिषु विश्वेदेवेषु ब्रह्मणि सर्वस्मिंश्चया शान्तिः सा मां प्रत्यस्त्वित्यर्थः॥५॥
[अ. ३०. कं. ३.]
विश्वानि देवसवितर्दुरितानि परासुव॥ यद्भद्रं तन्न आसुव६
[अ. १६. कं. ४८]
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः॥
यथा शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्न नातुरम्॥७॥
[अ. २. कं. १२]
एतं ते देव सवितर्यज्ञं प्राहुर्बृहस्पतये ब्रह्मणे॥
तेन यज्ञमव तेन यज्ञपतिं तेन मामव॥८॥
** विश्वानीति॥** हे देवसवितः विश्वानि सर्वाणि दुरितानि पापानि परासुव दूरे गमय यद्भद्रं कल्याणं तन्नोऽस्मान् प्रति आसुवआगमय।
** इमा इति॥** वयमिमा अस्मदीया मतीः बुद्धीः रुद्राय शङ्कराय प्रभरामहे प्रहरामहे समर्पयामो रुद्रं स्मराम इत्यर्थः॥ (हग्रहोर्भश्छन्दसीति भादेशः) कीदृशाय तवसे महते बलवते वा उभयत्र तवःशब्दः पठितः [निघं० २.८.३.३.] कपर्दिने जटिलाय क्षयद्वीराय क्षयन्तो निवसन्तो वीराः शूरा यत्र स क्षयद्वीरस्तस्मै शूरयुक्तायेत्यर्थः॥ क्षयन्तो नश्यन्तो वीरा रिपवो यस्मादिति वा। द्विपदे पुत्रादये चतुष्पदे गवादिपशवे सप्तमी वा द्विपदचतुष्पदविषये यथा येन प्रकारेण शं सुखमसत् भवति अस्मिन् ग्रामेऽस्मिन् वा संस्थाने विश्वं सर्वे प्राणिजातं पुष्टं सम्मृद्धमनातुरं निरुपद्रवं स्वस्थं च यथा असत् स्यात् तथा मतिं हरे समर्पयाम इत्यर्थः॥७॥
** एतमिति॥** हे देव दांतादिगुणयुक्त हे सवितः प्रसवितः। एतं यज्ञमिदानीं क्रियमाणमिमं मखं ते तुभ्यं त्वदर्थेप्राहुर्यजमानाः कथयन्ति
[अ. २. कं. १३.]
मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञँ समिमं दधातु विश्वे देवास इह मादयंतामों प्रतिष्ठ॥ एष वै प्रतिष्ठानाम यज्ञो यत्रैतेन यज्ञेन यजन्ते सर्वमेव प्रतिष्ठितं भवति॥९॥
अनुज्ञापयन्तीत्यर्थः। किञ्च त्वया प्रेरितो देवानां यज्ञे यो ब्रह्मा तस्मै ब्रह्मणेबृहस्पतये च प्राहुः। बृह-स्पतिर्वै देवानां ब्रह्मा। तदधिष्ठित एवायं मानुषो ब्रह्मत्वं करोति। किञ्च तेन हेतुना त्वदीयत्वेन यज्ञमव रक्ष। तथा तेनैव हेतुना यज्ञपतिं यजमानं चाव रक्ष। तथा तेनैव हेतुना मां ब्रह्माणमव पालय॥८॥
** मन इति॥** किञ्च मन आज्यस्य जुषतां कर्म्मणि षष्ठी। मनः घृतं सेवताम्। हे सवितस्त्वदीयं चित्तं यज्ञसम्बन्धिन्याज्ये स्थापयेत्यर्थः। किम्भूतं मनः जूतिः जवतेर्गतिकर्म्मणो जूतिरिति क्तिन्प्रत्ययान्तो निपातः स्त्रीत्वं छान्दसम्। अतीतानागतवर्त्तमानकालगतपदार्थेषु गमनशीलं हिमनः जवते शीघ्रं गच्छतीति जूतिः। किञ्च बृहस्पतिरिमं यज्ञं तनोतु विस्तारयतु ब्रह्मत्वात्। तत इमं यज्ञमरिष्टं हिंसार-हितं कृत्वा संदधातु [इडाभक्षणेन हि मध्ये यज्ञो विच्छिन्न इत्येवमुच्यते] किञ्च विश्वेदेवासः सर्वे देवा इह यज्ञकर्म्मणि मादयन्ताम्। मद तृप्तौ चुरादिः। तृप्यन्ताम्। एवं प्रार्थितः सविता देवः ओम्प्रति-ष्ठेत्यनुज्ञां प्रयच्छतु। ओमित्यङ्गीकारार्थः तथास्तु प्रतिष्ठ प्रयाणं कुरु यजमानस्याभिप्रेतं प्रयाणं कर्मा-र्थमुद्यममवगम्य सविता देवोऽङ्गीकृत्य तत्र प्रेरयतीत्यर्थः॥ एष इति॥ वै निश्चयेन नाम प्रसिद्धौ एष यज्ञः पूजनं प्रतिष्ठा सक्रियारूपं स्तुत्या भवतीति भावः। यत्र यस्मिन्कर्म्मणि एतेन उक्तप्रकारकस-त्क्रियारूपपूजनेनयजन्ते यजमानाः पूजयन्ति सर्वमेव निश्चयेनाखिलं तत्कर्म प्रतिष्ठितं लब्धास्पदं निर्विघ्नतया परिपूर्णमिति यावत् भवति सम्पद्यते इत्यर्थः॥९॥
सुप्रतिष्ठिता वरदा भवन्तु देवाः॥१॥ इति स्वस्त्ययनं सम्पूर्णम्॥
अथ विवाहः। तत्र कन्याहस्तेन षोडशहस्तपरिमितं मंडपं विधाय तद्दक्षिणस्यां दिशि पश्चिमां दिशमा-
** सुप्रतिष्ठिता इति॥** देवा द्योतनादिशीलाः सुप्रतिष्ठिताः सुसत्कृत वरदाः स्वाभीष्टफलदातारो भवन्तु स्युरिति॥१०॥ इति स्वस्त्ययनव्याख्या समाप्ता॥
अथ विवाहः॥ अथ स्वस्त्ययनकरणानन्तरं विवाहविधिर्लिख्यते इत्यर्थः। तत्र कन्याहस्तेनेति तच्छब्दस्य तु पूर्वपरामर्शकत्वेऽपि बुद्धिस्थपरामर्शकत्वेन तत्र विवाहगृहे अङ्गनभूमौ कन्याहस्तेन षोडशहस्तपरिमितं मंडपं विधाय कल्पयित्वा तद्दक्षिणस्यां दिशि मंडपाद्दक्षिणे पश्चिमां दिशमाश्रित्य नैर्ऋतीमभिव्याप्येत्यर्थः। मंडपसंलग्नं मंडपसमीपवर्तीत्यर्थः॥ उत्तराभिमुखं उत्तरास्यतो गमागमद्वारं यस्य तत् ईदृशं कौतुकागारं कुलरीतिकरणार्थेकुलवधूकुलरूढाकुमारिकासहितं कन्यास्थितये स्थानं च विधाय मंडपाच्च बहिरैशान्यां मंडपाद्बहिर्मध्येऽत्रापि मंडपसंलग्नमेव बोध्यम्। ऐशान्यामी-शानमभिव्याप्येत्यर्थः। जामातृचतुर्हस्तपरिमितां वरचतुर्हस्तपरिमितां वरकरचतुष्टयमात्रायामविस्ता-रवतीं सिकतादिपरिष्कृतां सिकतादिविकीर्णोतुषकेशशर्करादिरहितां वर्ज्जितां शून्यवेणुनिर्मितां सावकाशत्वक्सारविहितां वेदीं अग्नेर्वितानार्थेस्तंभचतुष्टयरूपां वेदिकां कारयेदिति तत्र मंडपादिवि-धाने प्रमाणान्याह। तथा च ब्रह्मपुराणे
श्रित्य मंडपसंलग्नमुत्तराभिमुखं कौतुकागारं च मंडपाद् बहिरैशान्यां जामातृचतुर्ह-स्तपरिमितां सिकतादि-
वृन्दाविवाहप्रस्तावे ब्रह्मवचनम्। तत्र प्रथमं स्तम्भनिखनने प्रमाणमाह। सूर्य्येङ्गनासिंहघटेषु शैवे स्तं-भोलिकोदण्डमृगेषु वायौ॥ मीनाजकुम्भे निर्ऋतौ विवाहे स्थाप्योग्निकोणे वृषयुग्मकर्के॥ इति मुर्हूत्त-चिन्तामणौ रामेण प्रोक्तम्। अथ ब्रह्मपुराणवाक्यम्. विवाहोत्सवयज्ञेषु मंडपं कल्पयेत्सुधीः। सर्ववि-घ्नविनाशाय सर्वेषां चित्ततुष्टये।१। चतुःस्तम्भसमायुक्तं चतुर्द्वारं सुशोभनम्। अनेकवर्षिकायुक्तं तोर-णैः समलङ्कृतम्.। विहङ्गैः कृत्रिमैर्जुष्टं कूजद्भिर्वातयोगतः। मनो हरद्भिः सर्वेषां प्रेक्षकाणां समन्त-तः। शिल्पकर्म्मातिनिपुणं विश्वकर्म्मविनिर्म्मितम्। चित्रितं चित्रकारैश्चरञ्जितं रागकारिभिः। मण्डितं मणिभिः पुष्पैर्दन्तैर्वस्त्रैरलङ्कृतम्। सवितानं विधातव्यं तत्प्रकृष्टेन वाससा। दक्षिणस्यां पराभागे क-ल्पयेन्मंडपान्तिके।विवाहे कौतुकागारं नारीशालां तथाध्वरे। मंडपाद्बहिरैशान्यां वेदीञ्चैवाग्निहेतवे। तथा च पराशरः। यज्ञोत्सवविवाहेषु विधायादौ च मंडपम्। धर्म्मदिक्पश्चिमे भागे कौतुकागारमु-त्तमम्। लेपितं शुद्धमृदया शुद्धये च सुशोभनम्। अधिष्ठितं सुकुम्भेन निश्छिद्रेण दृढेन च। चतुरान-नदीपेनाधिष्ठितेन सुशोभिना। घृतेन तिलतैलेन ज्वलता वा दिवानिशम्। विधातृप्रतिमां तत्र कन्या प्र-यतमानसा। ब्रह्मचर्य्यव्रतवती स्नाता चैकाग्रमानसा। एकवस्त्रा च स्वमनः संयम्यालीसमन्विता। ध्या-येच्चतुर्मुखीमष्टभुजां च कमलासने। तिष्ठन्तीं कर्म्मफलदां समर्थोयोगसेविताम्। रूपयौवनसौभाग्य-लब्धये यशसे तथा। गृहाधिपत्यसिद्ध्यर्थेवश्याय गृहपुष्टये। सर्वविघ्नविनाशाय विवाहे मङ्गलाय च। पितुश्च श्वशुरस्यापि यशसे चार्थसिद्धये। विवाहकौतुकं हस्ते बिभ्रती कन्यकावृता। कौतुकागारमध्या-सेदित्याद्याथर्वणी श्रुतिः॥ इति तथा चापस्तम्बः। विधायमंडपं पूर्वेविवाहे चाध्वरे तथा।
परिष्कृतां तुषकेशशर्करादिरहितां शून्यवेणुनिर्मिता वेदीं च कारयेत्॥
तदैशान्यां बहिस्तस्माद्वेदीं कुम्भञ्च मंडपे। गणेशं स्थापयेन्मध्ये कृत्वा तिलकमण्डलम्। वेद्याञ्च स्था-पयेद्वह्निं साक्षित्वायार्चनाय च। तथा च कश्यपपराशरौ। मंडपा-द्बहिरैशान्यां सदा कुर्य्याच्च वेदिका-म्। अग्न्यर्थञ्च विवाहादौ कृतादित्रियुगेषु वै। कलौ सङ्कोचतः कुर्य्याद्बहिर्वेदीं च मण्डलात्। अन्येषु यु-गेषु त्रिषु कृतादिषु मंडपाद्बहिरित्यनुसारेण मण्डपाद्बहिरेव वेदीकरणं कलियुगे तु मण्डलाद्बहिर्न मं-डपाद्बहिरिति पकारस्थाने लकारोच्चारणं सर्वत्र वाक्येष्विति कलियुगेऽन्ययुगेषु च व्यवस्था महद्भिः स्थापिता सैव मन्तव्येत्यर्थः। मरीचिरपि कृते भोगे मनोमोद उदारत्वं गमिष्यति। कलौ जनस्तु सङ्को-चं धर्म्मकार्य्ये विशेषतः। देशधर्म्मादिसङ्कोचाद्वेदी स्यान्मण्डलाद्बहिरिति मण्डलात्तिलकनाममण्डला-त्। विवाहादौ लिखेभित्यं तिलकं नाममण्डलमिति कात्यायनाभिधानात्। मंडपे तिलकंनाम मंडलञ्च विधीयते तस्माद्बहिर्वेदीं विदध्यात् इत्याशयः। सर्वतोभद्रतिलकयोर्लक्षणं कात्यायनेनोक्तम्। सूर्य्याद-यो ग्रहा यत्र राजन्ते मध्यसंस्थिताः। इन्द्रादयः प्रतिदिशं स्वस्वभागेष्ववस्थिताः॥१॥ बहिः शिवसुता-द्याश्चसर्वतोभद्रमुच्यते। विघ्नराजो भवेद्यत्र मध्ये नान्यस्तु कश्चन।२। सुमहत्सुन्दरं चैव तिलकं नाम मण्डलम्। उच्यत इति शेषः। गृहारामप्रतिष्ठायां दुर्गाहोमे नवग्रहे। सर्वतोभद्रकं कुर्य्यान्मण्डपे तिल-कं लिखेत्। इति ब्रह्मपुराणे वेदीपरिमाणं निरूपितम्। यवोदरैरङ्गुलमष्टसंख्यैर्हस्तोऽङ्गुलैः षड्गु-णितैश्चतुर्भिः॥ स्यान्मण्डपं षोडशहस्तमात्रं तत्तूर्य्यभागेन च वेदिका स्यात्। तथा च मरीचिः। वेदी बहिः स्याद्यदि मंडपाच्च तत्तूर्य्यभागेन च वेदिका सा॥ वेदी यदा मण्डलतो बहिः स्यात्सा वेदिका ह-स्तमिताग्रदिष्टा।वेदीस्वरूपं मनुराह सर्वत्र वेदी चतुरङ्गुलोच्छ्रिता विनिर्मिता सैकतमृत्तिकादिभिः॥ द्विधा तु सा केवलवेदिकात्मिका परा युता स्तम्भचतुष्टयेन या॥ इति। स्तम्भचतुष्टयेत्युपलक्षणं तेनोप-रितनकाष्ठकचतुष्टयेनापि युता इति भावः। विवाहस्योभयपक्षे तुल्ययोगक्षेमत्वात् वरपक्षेऽपि विवाह-दिने कर्त्तव्यतां निरूपयति॥
विवाहदिने कृतनित्यक्रियेण यजमानेन
** विवाहदिन इति॥** विवाहदिने सर्वकार्य्याणि गौणत्वेन विधाय मुख्यत्वेन स्नात्वा तावत्कृतनित्य-कियेण याजमानेन पूजकत्वेन प्रसिद्धेन जामातृपित्रा वरजनकेनेत्यर्थः। जामातृपित्रेति विवाहकाले सर्वेषां वरपक्षीयस्वपक्षीयाणां पूजकत्वेन कन्यापितुर्मुख्यत्वात् जामातृपित्रेतिकन्यापितुर्मुख्यत्वसूच-नायैवेत्यलं तेन मातृपूजापूर्वकं सर्वासां मातृृणां पूजनं विधाय आभ्युदयिकं नांदीमुखं नाम श्राद्धं कर्त्तव्यम्। आभ्युदयिककालनिरूपकप्रमाणानि श्राद्धविवेके आभ्युदयिकश्राद्धप्रस्तावे। कन्यापुत्र-विवाहेषु प्रवेशे नववेश्मनि। चूडाकर्मणि बालानां नामकर्म्मादिके तथा। सीमन्तोन्नयने चैव पुत्रादिमु-खदर्शने इत्यादि। अथाभ्युदायिकविधौ कात्यायनः। नात्रापसव्यकरणं पितृतीर्थञ्च नेष्यते। पात्राणां पूरणादीनि दैवेनैवाभिकारयेत्। शातातपः। सर्ववृद्धौ हि पितरः पूजनीयाः प्रयत्नतः। सव्येन चोपवी-तेन ऋजुदर्भेण धीमता। पितॄणां रूपमास्थाय देवाश्चाभंसमश्नुते। तस्मात्सव्येन दातव्यं वृद्धिश्राद्धेषु नित्यशः। मातृश्राद्धं तु पूर्वेस्यात् पितृश्राद्धं ततः परम्। ततो मातामहश्राद्धं वृद्धौ श्राद्धत्रयं स्मृतम्। त्रिष्वैवैतेषु युग्मांश्चब्राह्मणान् भोजयेच्छुचिः। प्रदक्षिणञ्च सव्येन प्रदद्याद्दैवपूर्वकम्.॥ विष्णुपुराणे॥ देवतीर्थेन वै पिण्डान् दद्यात्कायेन वा पुनः। द्राक्षामलकमूलानि यवांश्चाथ निवेदयेत्। शङ्खः। दधि-बदराज्याक्षतैर्मिश्राः पिण्डा मधुविवर्ज्जिताः। स्वधाशब्देन रहिता दातव्याः
जामातृपित्रा मातृपूजापूर्वकमाभ्युदयिकं कर्त्तव्यम्।
पितृतृप्तये। प्र॒जां पुष्टिं धनं धान्यं यशः स्वर्गमरोगिताम्। नृणां श्राद्धैः सदा प्रीताः प्रयच्छन्ति पिताम-हाः। इत्याभ्युदयिकं फलम्। गणेशपूजनं मातृकापूजनं वसोर्धारा च तदङ्गत्वेन पूर्वमेव विधेयानि अथ कन्यापक्षेऽपि विवाहदिने कर्त्तव्यतां निरूपयति। कन्यापितेति। कन्यापिता गौणानि चान्यानि कर्माणीति ज्ञात्वा मुख्यत्वेन शौचहीनं क्रिया यथा इति कथनात् प्रथमं शुचिः शौचादिकं विधाय स्नात्वा धर्म्माधिकारी स्यादिति विधिबलात्स्नातः कृतस्नानः शुक्लाम्बरधरः श्वेतधौतोत्तरीयादिवस्त्रधृक् कृतनित्यक्रियः कृता नित्यक्रियाः सन्ध्यादिकर्म्माणि येन सः तदनन्तरं मातृपूजाऽऽभ्युदयिके कु-र्य्यात्। मातृपूजेत्युपलक्षणम् आभ्युदयिकाङ्गानि वरदराजं मातृकाः श्रियं देवीं प्रतिष्ठाप्य सम्पूज्य वसुधारां दत्वा आभ्युदयिकं कुर्य्यादिति भावः॥ गौरी पद्मा शची मेधा सावित्री विजया जया। देवसेना स्वधा स्वाहा मातरो लोकमातरः॥१॥ हृष्टिः पुष्टिस्तथा तुष्टिस्तथात्मकुलदेवता। इति मातृृः प्रणवादि-चतुर्थ्यन्तनामभिरावाह्य। मनो जूतिर्जुषतामिति ऋचाक्षतैः युगपद्गणेशश्रीसहिताःप्रतिष्ठाप्य कौसुंभसू-त्रावृतदूर्वाङ्कुरमयीं रक्षिकां विधाय तदुपरि एकैकां स्थापयित्वा पाद्यार्घ्यादिभिराभ्युदयिकश्राद्धं कुर्य्यात् तत्पद्धतिश्चश्राद्धविवेक इति। अथार्हणवेलायामिति अथशब्दो मङ्गलार्थे। अर्हणवेलायां वरार्च्चनकाले अर्हणवेलां हृदि समाधाय तस्याः पूर्वमेव वरार्हणवेला यथा न नश्येदिति हृदि कृत्वा ततः पुरस्तादेव पञ्चसप्तघटिकाऽवसरमभिव्याप्य वरमानाय्य तावद्वरस्य पूजाया अङ्गत्वेन समीची-नत्वेन च मंडपे प्रथमं सर्वविघ्नहरत्वेन सर्वकार्य्यसाधकत्वेन च श्रीगणेशं कुम्भञ्च सम्पूज्येति शेषः। तदनु उदङ्मुखो यजमानः कन्यादाता प्राङ्मुखं वरमूर्ध्वजानुं आगमनकर्तृत्वेनोर्द्धमेव तिष्ठन्तं स-म्बोधयेदिति भार्या। त्रिवर्गकरणं शुभशीलयुक्ता शीलं शुभं भवति लग्नवशेन तस्याः। तस्माद्विवाहस-मयः परिचिन्त्यते हि तभिघ्नतामुपगताः शुभशीलधर्म्माः॥ इति रामोक्तलग्नवेलां हृदि समाधाय विचार्य्य पूजार्थेवरस्याभिमुखत्वाय सावधानत्वाय सम्बोधनम्। तदेवाह।
ॐ साधु भवानास्तामर्च्चयिष्यामो भवन्तमिति
** साधुभवानिति।** भवान् पूज्यत्वेन प्रसिद्धः साधु सुखं यथा भवति तथा तावदास्तां तिष्ठतु भवन्त-मर्च्चनीयं यावदर्च्चयिष्यामः बहुवचनं सकुटुम्बाभिप्रायेणैवेति। यथोक्तम् भाष्ये। आहरन्ति विष्टरं पाद्यमर्घमाचमनीयम् मधुपर्केइति यजमानपुरुषा इति शेषः॥ यत्र वा अर्हन्नागच्छति सर्वगृह्या वै तत्र चेष्टयन्ते इति श्रुतिः अर्च्चयिष्याम इति प्रतिज्ञायते। तेन वरयोग्यमेवैतदित्यभिप्रायं मनसि निधाय। अ-स्यार्च्चनीयत्वे प्रमाणमाह भाष्ये। षडर्घ्याभवन्ति आचार्य्यऋविग्वैवाह्योराजा प्रियः स्नातक इति। आचार्य्य उपनयनपूर्वकं वेदवेदाङ्गस्याध्यापको गुरुरित्यर्थः॥ ऋत्विक् श्रौतस्मार्त्तादिकर्म्मार्थेवृतो ब्र-ह्मादिः वैवाह्मो वरः प्रियो मित्रं उत्कृष्टजातिः समानजातीयो वा न त्वपकृष्टजातीयः प्रियोऽर्ध्य इति भावः॥ स्नातको वेदमधीत्य समावृतः सन् स्नातः। तस्याचार्य्योऽर्घदानं तावत्करोति नान्यः इति॥ अ-न्यत्प्रमाणमाह प्रतिसंवत्सरमर्हयेयुर्यक्ष्यमाणाः ऋत्विज इति अस्यार्थः प्रतिसंवत्सरानन्तरमागताना-चार्य्यादीनर्घादिना सदार्चयेदिति विधिः प्रति संवत्सरमाचार्य्यादयोऽर्च्चनीयाः पुनः यक्ष्यमाणायागं क-रिष्यन्तो यजमानास्तु ऋत्विजः सम्वत्सरादर्वागपि अर्च्चयेयुरिति।
अर्च्चयेति वरेण प्रत्युक्ते प्रतिज्ञासङ्कल्पं कुर्य्यात्। ॐमद्य तत्सदित्यादिकालज्ञानं कृत्वाऽमुकगोत्रोऽमुकशर्म्मा श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थममुकगोत्राया अमु-कप्रवराया अमुकनाम्न्याः कन्याया विवाहोत्सवनैमित्तिकवरपूजनमहं करिष्ये। ततो दाता ॐशन्नो देवीति जलं मन्त्रयेत् लाजाश्चेति लाजा मन्त्रयित्वा तज्जलेन पादप्रक्षालनम्। तत्रादौ दक्षिणपादप्रक्षालनम्। तत्र मन्त्रः। दक्षिणपादमवनेनिज इदमहमस्मिन्कुले ब्रह्मवर्च्चसं ददामि। उत्तरपादमवनेनिजइदमपितेजोवीर्य्यमन्त्रा-भ्यां प्रजाः पशून् ब्रह्मवर्च्चसं ददामि। इति तावत् पादौ प्रक्षाल्य पश्चाद्विष्टरपाद्या-दिदानं। वरोपवेशनार्थेशुद्धमासनं दत्वा विष्टरमादाय विष्टरो विष्टर इत्यादिक-
** अर्च्चयेतीति।** इति तस्य पूज्यत्वं संसाध्य वरेणार्च्चयेति प्रत्युक्ते वरपूजादिप्रकारमाह। वरोपवेशनार्थमिति। वरोपवेशनार्थेशुद्धमासनं दत्वा विष्टरदानं। तत्राह मनुः। पूजको यजमानस्तु दत्वादौ शुद्धमासनम्। तस्योपवेशनार्थेतु विष्टरं प्रददेत्पुनः।१। यथान्यायं यथोद्दिष्टं वराय विधिपूर्व-कम् इति। शुद्धासनलक्षणं प्राह मरीचिः। शणसूत्रादिनोतं च निर्मितं शोधितैः शरैः। मुख्यं स्थूलतमं रम्यं प्राहुः शुद्धं सुखासनम्।१। तथा च पराशरः। सिंहासनंसुवर्णादिधातुना निर्मितं शुभम्। दारुभिर्निर्मितं चाथ शरैर्वा शुद्धमासनम् इति। दारुभिरिति शुद्धैश्चन्दनदेवदारुप्रभृतिभिरिति भावः। विष्टरमादायेति। यजमानो विष्टरमादायपञ्चविंशतिदर्भतृणमयं कूर्चेगृहीत्वा विधिना दद्यादिति। वि-ष्टरलक्षणं गृह्यपरिशिष्टे। पञ्चाशता भवेद्ब्रह्मा तदर्धेन तुविष्टरः।
स्य कपिल ऋषिस्त्रिष्टुप् छन्दो विष्टरो देवता विष्टरदानेविनियोगः। ॐविष्टरो वि-ष्टरो विष्टरःइत्यन्येनोक्ते विष्टरःप्रतिगृह्यतामिति दाता वदेत्। विष्टरं प्रतिगृह्णामी-त्यभिधाय वरो विष्ठरमुदगग्रमुभयपाणिभ्यामादाय।
ऊर्ध्वकेशो भवेद्ब्रह्मा लम्बकेशस्तु विष्टरः॥ दक्षिणावर्त्तको ब्रह्मा वामावर्त्तस्तु विष्टरः॥ यद्वा। पञ्चविं-शतिदर्भाणां वेण्यग्रे ग्रन्थिभूषितम्। विष्टरं सर्वयज्ञेषु लक्षणं परिकीर्तितमिति॥१॥ विष्टरस्त्रिवृता दर्भ-कूर्च्चक इति वा॥ इति विष्टरलक्षणम्। अथ विष्टरदाने यथा विधिस्तत्र प्रमाणमाह सुमन्तुः। विष्टरप्र-भृतीनन्यस्त्रिस्त्रिवारं वदेत्करे। दातुर्निरीक्ष्य दाता तु विष्टरः प्रतिगृतह्यताम्॥ विष्टरं प्रतिगृह्णामीत्यभि-धायाददेद्वरः। तमुत्तराग्रमादाय मन्त्रेणोपविशेत्स्वयम्। विष्टरप्रभृतीन् पाद्यार्घाचमनीयमधुपर्कानिति। तथा च गृह्यपरिशिष्टे। अन्यस्त्रिस्त्रिः प्राह विष्टरादीनिति। विष्टरइत्यादिकस्य कपिल इति। विनियोगं विना मन्त्रः पङ्के गौरिव सीदतीति विनियोगमुच्चार्य्य मन्त्रपाठः कर्त्तव्यः। विनियोगमाह। ऋषिच्छ-न्दोदेवतानां कर्म्मणे विनियोजनम्। विनियोगः स आदिष्टो मन्त्रे मन्त्रे प्रयुज्यते॥ इति। अन्यस्त्रिस्त्रि-र्विष्टरादीन्प्राहेति गृह्यपरिशिष्टे निरूपणात् विष्टरो विष्टरो विष्टर इति त्रिवारं अन्येन अर्च्चकादपरेण वा दातृप्रतिग्रहीत्रोर्भिभेन पुरोधसा उपाध्यायेन वा उक्ते सति। वारत्रयकथनं तु श्रवणादित्रयवत् शा-स्त्रोक्तविष्टरलक्षणयाथात्म्यसाक्षात्कारायैवेति विष्टरत्वे सिद्धे विष्टरः प्रतिगृह्यतामिति दाता वदेत् इत्यर्थः। वस्तुयाथात्म्ये विज्ञाते वस्तुदानमिति न्यायात्। प्रशस्तादुत्तमं दानं प्रतिगृह्णाति सत्तमः। प्रति-ग्राह्युन्मुखीभूय विपर्य्ययमतोऽन्यथा॥ इति हारीतवचनात् दातुः प्रशस्तत्वसिद्धये दानस्य चोत्तमत्व-प्राप्त्यैउन्मुखीभूय वरो विष्टरं प्रतिगृह्णामीत्यभिधाय विष्टरं प्रतिगृह्णाति। विष्टरमुदगग्रमुभयपाणिभ्यां गृहीत्वा ततो वरः किङ्कुर्य्यादित्यपेक्षायामाह। विष्टरमुदङ्मुखेन यजमानेन तिष्ठता दत्तं पूर्वे गृही-त्वा शुद्धादासनात्पश्चिमभागे प्राङ्मुखस्तिष्ठन्नर्घ्यः पूर्वोक्तलक्षणं विष्टरं पाणिभ्यामुदगग्रमादाय
ॐवर्ष्मोऽस्मीत्यस्याथर्वणवाग्दाल्भ्य ऋषिरनुष्टुप्छन्दो विष्टरो देवता विष्टरोपवे-शने विनियोगः। ॐवर्ष्मोऽस्मि समानानामुद्यतामिव सूर्य्य इमं तमभितिष्ठामि यो मां कश्चाभिदासतीत्यनेनैनमुदगग्रमासनोपरि निधायाभ्युपविशति।
वर्ष्मोऽस्मीति मन्त्रपाठान्मन्त्रितमेनमुदगग्रमासने निधायाभ्युपाविशेत्।एनमभ्युपविशतीति पाठे एनं विष्टरं विवृतीकृत्वोपविशतीत्यर्थः। वर्षोऽस्मि समानानामिति। आत्मानमर्च्यत्वायार्घ्यः स्तौति कुलज्ञानाचारवपुर्वयोग्रहैरहं समानानां सजातीयानां मध्ये वर्ष्मः श्रेष्ठः ज्येष्ठो वा आच्छादको वा। आच्छादके तथा ज्येष्ठे श्रेष्ठे वर्ष्म इतीरितः। इति हलायुधेऽनेकार्थेषु। अस्मि भवामि केषां क इव उद्यतामुदयं गत्वा प्रकाशं कुर्वतां ग्रहनक्षत्रतारकादीनां मध्ये सूर्य इव स्थितः किञ्च इमं विष्टरं तं पुरुषमुद्दिश्य विष्टरबद्धमभिलक्षीकृत्याभिभूय वा तिष्ठामि अधःकृत्वोपर्य्युपविशामि। तं कं यः कश्चन मां अभिदासति हिनस्ति उपक्षीणं कर्तुमिच्छति इति वा दास सेवायां अभिपूर्वो दास हिंसार्थ इति कर्केण व्याख्यातम्। दसु उपक्षये इत्यस्य धातोर्वा रूपम्। इत्युपवेशनविधिः। आसीनायासने तस्मिन्पादयोर्विष्टरं तथा। दद्यादन्यं ततो दाता पादौ प्रक्षाल्य यत्नतः॥१॥ इति भृगुक्त्या पादौ प्रक्षाल्य विष्टरदानम्। विष्टर इति मन्त्रेण विदधाति इति भविष्योक्त्याऽपि प्रथमं पाद्यदानमिति पाद्यं पद्भ्या-माकमणीयमिति लक्षणेन द्वितीयं विष्टरमपि पाद्यं भवति। किंच पाद्यं पादार्थमुदकं पाद्यमित्येव पू-ज्यपूजाऽवसरे व्यासादिभिर्निरूपणात् विष्टराद्यतिरिक्तमेव पाद्यनिर्धारणम्। पादप्रक्षालनार्थे ताम्रा-दिपात्रस्थमुदकं सुखोष्णं तथा च आचारचन्द्रोदये। दत्वोपवेशनायादावासनं विष्टरं तथा। पादप्रक्षा-लनायाम्भः स्थितं ताम्रादिभाजने।१। पाद्यद्वयं विष्टरवद् दद्याद्दक्षिणसव्यतः। पाद्यान्ते विष्टरं देयं पूर्वे-ण विधिना पुनः।२। इति। ताम्रं पैत्तलकं लौहमौपलञ्च द्विजादितः। पात्रं पाद्यजलायोक्तं ताम्रं वा सर्ववर्णकम्॥३॥ इति पाद्यपात्रमुक्तं सुमन्तुना॥ पाद्यार्थमुदकं कोष्णं ताम्रपात्रे च संस्थितम्। तेन प्र-क्षालयेत्पादं विधिना च तथापरम्॥४॥ इत्यापस्तम्बवचनात्। यजमानोऽञ्जलिना पाद्यमादायेत्यर्थः॥
ॐपाद्यं पाद्यं पाद्यमित्यन्येनोक्ते पाद्यं प्रतिगृह्यतामिति दाता वदेत्। पाद्यं प्रतिगृ-ह्णामीत्यभिधाय वरः यजमानाञ्जलितोञ्जलिना पाद्यमादाय वरः॥ विराजो दोहोऽ-सीतिमन्त्र्यस्य प्रजापतिर्ऋषिरनुष्टुप्छन्दआपो देवता पादप्रक्षालने विनियोगः।ॐविराजो दोहोसि विराजो दोहमशीयमयि पाद्यायै विराजो दोहेति दक्षिणचरणं प्रक्षाल्यानेनैव क्रमेण वामचरणप्रक्षालनम्। ततः पूर्ववद्विष्टरान्तरं गृहीत्वा पूर्वोक्ते-नानेनैव प्रकारेण पूर्वोक्तमन्त्रेणैव चरणयोरधस्तादुत्तराग्रं वरः कुर्यात्।
** पाद्यं पाद्यं पाद्यमिति॥** पाद्यस्याऽपि पूर्ववद्विधिः अतः सुगमम्। विराजो दोहोऽसीति पादयोर्ज-लक्षेपे मन्त्रोऽस्यार्थः। प्राणधारणादिगुणैः सकलसौहृद्येन विविधतया राजते यः स विराट् तस्य विरा-जः विशिष्टदीप्तेः
ततो दूर्वाक्षतपुष्पचन्दनयुतार्घपात्रमादाय यजमानः। ॐअर्घ इत्यादिविष्णुर्ऋषि-स्त्रिष्टुप्छन्दो विष्णुर्देवतार्घदाने विनियोगः। ॐअर्घोऽर्घोऽर्घइत्युक्तेऽन्येनार्घः प्र-तिगृह्यतामिति दाता वदेत्। ॐअर्घेप्रतिगृह्णामीत्यभिधाय।
दोहोऽसि। परिणतः रससारोऽसीत्यर्थः। यतः पुराणेष्वपि विराट्पुरुषशरीरादेव जलोत्पत्तिर्निरूपि-ता। आपो नारा इति प्रोक्ता आपो हि नरसूनवः॥ इति। हे उदक अहं तं त्वां विराजो दोहं अशीय अश्नुवै प्रतिगृह्णामीत्यर्थः। अश्भोजनदीप्त्यादानेषु। इत्यस्य धातोराशिषि लिङि रूपम्। अशीयेति विकरणलोपः छान्दसः। किञ्च मयि विषये मद्विषया पाद्या पादयोः साध्वी सपर्य्या तस्यै तदर्थेहे विराजोदोह मन्त्रसंस्कृतजल मच्चरणप्रक्षालनयोग्यं भवेत्यर्थः। मन्त्रपठनकाल एव चरणप्रक्षालनं न तु मन्त्रान्ते। अनेनैव विधिना द्वितीयपादं प्रक्षाल्य पूर्ववद्विष्टरान्तरं दद्यात्। ब्राह्मणस्य दक्षिणं प्रथमं क्षत्रियवैश्ययोः सव्यं (वामं) प्रथमं। ब्राह्मणो दक्षिणं पादं पूर्वेप्रक्षालयेत्सदा। क्षत्रादि प्रथमं सव्यमिति धर्म्मानुशासनम्।१। इति पद्मपुराणवचनात्। इति पाद्यविधिः सम्पूर्णः॥
** अथार्घविधिः।** अर्घतेऽनेनेत्यर्घ इत्याप एव मन्त्रलिङ्गात्। अर्घशब्देनोदकपात्रमेवेति कर्काचार्य्यः। गन्धपुष्पाक्षतकुशतिलशुभ्रसर्षपदधिदूर्वान्वितं सुवर्णादिपात्रस्थमुदकमिति गृह्यादिषु। कुशचन्दनपु-ष्पाणि चाक्षता उदकं तथा। पयो दधि तथा रुक्ममष्टाङ्गोऽर्घः करग्रहे॥ इति पुराणे ब्रह्मवा-क्येनार्घलक्षणमुक्तम्। प्रतिवर्णेपात्रभेदोऽपि तस्यैवोक्तेः। यत उक्तम्। कांस्यपात्रं भवेद्विप्ने स्वर्णपा-त्रं तु भूमिपे। रौप्यपात्रं भवेद्वैश्ये लोहपात्रञ्च शूद्रके॥१॥ इति अर्घदानप्रतिग्रहादिकमपि विष्टरवदेव पूर्वे कृत्वाऽग्रिमविधानमाह।
वरो यजमानहस्तार्घं गृहीत्वा। आपः स्थ इत्यादिमन्त्रस्य सिन्धुद्वीप ऋषिरनुष्टुप्छ-न्दोऽर्घाक्षतादिधारणे विनियोगः। ॐआपः स्थ युष्माभिः सर्वान्कामानाप्नुवानीति शिरसि किञ्चिदक्षतादिकं धृत्वा॥
आपः स्थेति मन्त्रार्थः। हे आप इति शेषः। यतो यूयं आपः स्थ आपो भवथ अप्शब्द आप्लृ व्याप्ता-विति धातोः आप्नोतेः क्विप् वा ह्रस्वश्चेति सर्वेषां अमृताज्यपयोदधिमधुफलपुष्पपत्रयवसान्नशुचिपुष्टि-तुष्टिष्टिहतृप्त्यादीनां हेतुत्वं या आप्नुवन्तीत्यापः हेतवः यतो यूयं आपः स्थ सर्वत्र हेतवः स्थ अस् भुवी-त्यस्य लटि मध्यमपुरुषबहुवचनं तस्मात् युष्माभिः कृत्वाहं सर्वानशेषान् अभीष्टार्थान् आप्नुवानि ल-भेय। इति मन्त्रं पठित्वाऽर्घात्किञ्चित्पुष्पमक्षतं वा गृहीत्वाऽर्घेस्वशिरसि क्षिपेत्। यत उक्तम्। दातु-रर्घ्योऽर्घमादाय तस्माच्छिरसि धारयेत्। मन्त्रान्ते सर्वकामः सन् किञ्चित्पुष्पादिकं वरः॥ इति कामधेनुकारवचनात्। ततोऽऽर्घ्योऽर्घेगृहीत्वोपमौलि समानीय निनयन्नभिमन्त्रयते इति भाष्यवचना-त्। अस्यार्थः। प्रतिगृहीतमर्घे शिरसाऽभिवन्द्य निनयन्नमयन् भूमौ प्रवाहयन्अभिमन्त्रयतेऽर्घ्योवरः समुद्रं वः इति मन्त्रेण न तु मन्त्रान्त इति। तथा च पराशरः। गृहीत्वार्घेवरस्तस्मात्पुष्पं दत्वा स्वमूर्द्ध-नि। करयुग्मेन तं भूयो मौलिपर्य्यन्तमानमेत्। शनैरानम्येशदिशि तं मन्त्रेण समुत्सृजेत् इति। मन्त्रेण समुद्रं व इति मन्त्रेणेत्यर्थः। समुद्रं व इति मन्त्रार्थः॥ हे आपः साधितार्थान् वो युष्मान् अहं समुद्रं प्र-हिणोमि कारणतां नयामि अतो यूयं मत्प्रहिताः स्वां योनिं रसतां स्वकारणभूतं समुद्रं वा अभिलक्षी-कृत्येत्यर्थः। गच्छत व्रजत किञ्चयुष्मत्प्रसादादस्माकं वीराः भ्रातरः पुत्राश्चारिष्टाः सन्तु रिष्टा हिंसा त-दर्थेकर्म्म वा रिष्टं न रिष्टं येषां तेतदनुपहिताः सन्त्वित्यर्थः।
समुद्रं व इत्यादिमन्त्रस्याथर्वण ऋषिर्बृहती छन्दो वरुणो देवताऽर्घजलप्रवाहे विनियोगः। ॐसमुद्रं वः प्रहिणोमि स्वां योनिमभिगच्छत अरिष्टास्माकं वीरा मा परासेचिंमत्ययः ४ इत्यर्घपात्रस्थजलमैशान्यां त्यजन् पठेत्। ततआचमनीयमादाय यजमानः आचमनीयमित्याप स्तम्बऋषिरुष्णिक्छन्दः आपो देवता आचमनीयदाने विनियोगः। आचमनीयमाचमनीयमाचमनीयमित्यन्येनोक्ते आचमनीयं प्रतिगृह्य-तामिति दाता वदेत्
किञ्च मत्पयः मत्पूजार्हेअंब्वादि मङ्गलजलं मा परासेचि अपगतं मास्तु मापगच्छत्वित्यर्थः। तदिहैव तिष्ठतु सदैवाहमर्घ्योभवानीत्यर्थः॥ इत्यर्घविधिः॥
** अथाचमनविधिः॥** आचमनीयमाचमनार्थेकमण्डलुसम्भृतं शुद्धं जलं। आचमनलक्षणमाह। गोकर्णाकारं करं कृत्वा तत्र स्थापितस्य चुलुकमात्रस्य जलस्य पानं त्रिःकृत्वा ब्रह्मादितीर्थेनाचमनम् यत उक्तं॥ पूताभिः प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः। त्रिवारमद्भिराचामेद्द्विजादिः शुद्धिहेतवे॥ इत्याचारचन्द्रोदये। अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः। हृत्कण्ठतालुगाभिश्चयथासङ्ख्यं द्विजातयः। इत्याचारादर्शे। द्विजादिर्ब्रह्मतीर्थेन त्रिः पिबेदम्बुवीक्षितम्। इत्यपि तत्रैव। तत आचमनी-यमिति ततोऽर्घविधेरनन्तरं यजमानः आचमनीयं पूर्वोक्तलक्षणलक्षितं शुद्धकमण्डलुसम्भृतं जलं ताम्रमयार्घपात्रे कृतं आदाय पूर्ववद्विनियोगपाठोऽन्येनाचमनीयमिति त्रिरुक्तिर्दात्राचमनीयदानं अ-र्घ्येणाचमनीयप्रतिग्रहणादिकं कृत्वा अर्घमाचमनीयजलं वामकरधृतताम्रमयार्घपात्रेण दक्षिणहस्ते सकृदाचमितुमुचितं धृत्वा विनियोगपूर्वकं मन्त्रं पठित्वा सकृदाचामेत्।
आचमनीयं प्रतिगृह्णामीत्यभिधाय वरो यजमानहस्तादाचमनीयं गृहीत्वा। आमा-गन्निति परमेष्ठी। ऋषिर्बृहती छन्दः आपो देवता अपामुपस्पर्शने विनियोगः ॐआ-मागन्यशसा स
ᳪँ
सृज
वर्च्चसातम्माकुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टं तनूनाम्॥ इत्यनेन सकृदाचामेत् द्विस्तूष्णीं आचामेत्।
मन्त्रं पठित्वेति मन्त्र आमागन्नित्यादि ज्ञेयम्। मन्त्रार्थः। तत्र परमेष्ठी बृहतीमाह आचमने अप्सु अपा-मधिपस्तिष्ठतीति श्रुत्यनुसारेण आचमनाय हस्ते धृतजलं समीक्ष्य तत्र वरुणं ध्यात्वा आशंसार्थया सा-मवेदर्चा वरुणं प्रार्थयते। आमागभिति। हे जलेश वरुण तं मा एवंरूपेण स्थितं पूर्वोक्तप्रकारेण स्थि-तं त्वामाश्रितं मा मां यशसा आमा सह आमा सहार्थेऽव्ययम् सहभावं सामीप्यं वा आगन् आगमय यशस्विनं कुर्वित्यर्थः। आगन्निति प्रार्थनायां लोट् मध्यमपुरुषैकवचनम्। प्रत्ययलोपश्छान्दसः। मो नो धातोरिति मकारस्य नकारादेशः। आङ्पूर्वो गम्लृ गतौ इति धातुस्तस्य रूपम्। किञ्च ब्रह्मवर्च्चसा ब्रह्मवर्च्चसेन संसृज संसृष्टं कुरु ब्रह्मतेजः संसर्गिणं कुर्वित्यर्थः। ब्रह्मवर्च्चसेत्युपलक्षणम्। क्षत्रियवैश्य-योः स्वस्वतेजसा संसृजेति भावः। किञ्च प्रजानां प्रशस्तजनानां प्रियं प्रेष्ठं कुरु। किञ्च पशूनां गवाश्वा-दीनामधिपतिं स्वसत्त्वेन स्वामिनं कुरु। किञ्च तनूनां शरीराणां अरिष्टं अहिंसकं सुखजनकं वाकुरु रिष्टं हिंसाकर्म्म। निषिद्धं कर्म्म हिंसा स्यादिति वसिष्ठः। अनभ्यासस्तुवेदानां त्यागात्सत्कर्म्मणां गवा-म्। गुरुगङ्गाम्बुविप्राणां निन्दा गोहत्ययासमा।१। इति बृहत्पराशरस्मरणात्। न तु वाङ्मनोभी रिष्टं वा कुर्य्यामित्याशयः। यद्वातनूनां शरीरावयवानां अरिष्टं आपद्रहितं कुर्वित्यर्थः रिष्टमापत्तस्य अभावं कु-रु।
ततो यजमानः कांस्यपात्रस्थदधिमघुघृतानि समादायान्येन कांस्यपात्रेण पिधाय कराभ्यामादाय मधुपर्केति मधुच्छन्द ऋषिर्बृहती छन्दो मधुभुग्देवता मधुपर्कदाने विनियोगः।
इति मन्त्रेण सकृदाचामेत्। तदनन्तरं हिस्तूष्णीं मन्त्रपाठं विनैवाचा-मेत्॥ इत्याचमनविधिः॥
** ॥अथ मधुपर्कविधिः॥** तत आचमनविधेरनन्तरं यजमानः कांस्यपात्रस्थदधिमधुघृतानि अन्येन कांस्यपात्रेण पिहितान्यादाय गृहीत्वा मधुपर्केऽन्योक्तिं मधुपर्कदानवाक्यं च विष्टरादिवत्कुर्यात्। प्रतिग्रहे तु विशेषः। मधुपर्कप्रतिग्रहे विशेष इति पूर्वेयदुक्तं तत्राह। मधुपर्कमसम्प्रतीक्ष्य प्रतिगृ-ह्णाति विवेकहीनजीवो बुद्ध्वापश्चात्त्यजति तेन प्राप्नोति पापसन्दोहमिति। बृहत्पराशरः। मधुपर्केप्रतिगृह्य पीत्वा तं यस्तु सन्त्यजेत्। तेन पापं महाघोरं तं तु नाशु प्रतिग्रहेत्॥ न दोषो मनुरित्याह सम्प्रतीक्ष्य प्रतिग्रहे। अतः सम्प्रतीक्ष्य प्रतिगृह्णीयादिति भावः। अथ मधुपर्कलक्षणं भाष्ये प्रोक्तम्। दधिमधुघृतमथ पिहितं कांस्येनेति। तथा च स्मृतिः। संशोधितं दधि मधु कांस्यपात्रे स्थितं घृतम्। कांस्येनान्येन संछन्नं मधुपर्कमितीर्यते॥ शोधनमपि तत्रैव बृहत्प राशरेणोक्तम्। दधिक्राम्णेति दध्नश्चवस्त्राभिष्कासनञ्च यत्। मधुव्वातेति तिसृभिर्मधुनः शोधनं स्मृतम्॥ आज्यमग्ना-वधिश्रित्य वह्निनानुसृते घृते। घृतं घृतेति मन्त्रेण वस्त्रपूतञ्च शोधनम्॥ एतच्छोधनमेतेषां मधुपर्कविधौ मतम्। अन्यत्र मधुपर्कात्तु वस्त्रपूतं हि केवलम्॥ इति। मधुपर्के दध्यादिपरिमाणं। सर्पिश्च पलमेकन्तु द्विपलं मधु कीर्त्तितम्। पलमेकं दधि प्रोक्तं मधुपर्कविधौ बुधैः॥
ॐ मधुपर्क्कोमधुपर्को मधुपर्क इत्यन्येनोक्ते ॐ मधुपर्कः प्रतिगृह्यतामिति दाता वदेत्। मधुपर्कं प्रतिगृह्णामीत्यभिधायैव वरः ॐ मित्रस्येति प्रजापतिर्ऋषिः पंक्ति-श्छन्दो मित्रो देवता मधुपर्कदर्शने विनियोगः॥ ॐ मित्रस्य त्वा चक्षुषा प्रतीक्ष्य इति दातृकरस्थमेव मधुपर्कं निरीक्ष्य देवस्य त्वेति ब्रह्मा ऋषिर्गायत्री छन्दः सविता देवता मधुपर्कग्रहणे विनियोगः।
इति मधुपर्कबृहत्परिमाणं बृहत्पराशरेणोक्तम्। सर्पिरेकगुणं प्रोक्तं शोधितं द्विगुणं मधु। मधुपर्कवि-धौ प्रोक्तं सर्प्पिषा च समं दधि। इति लघ्वापस्तम्बेन लघु परिमाणं दर्शितम्। एतेन पलनियमं विहाय यावत् परिमाणं माषटङ्काख्यपरिमाणमाज्यं संशोध्य कांस्यपात्रे संस्थापितं तावदेव परिमाणं दधि त-द्द्विगुणं मध्विति यद्यपि स्यात्तथापि नैतयोर्वाक्ययोर्विरोधः। यतो बृहत्पराशरेण मर्य्यादा दर्शिता। पलपरिमाणादधिकं सर्प्पिर्न स्यात्। इत्यात्यन्तिकी मर्य्यादा तेन दर्शिता। न्यूनपरिमाणन्तु आपस्त-म्बेन सर्पिरेकगुणं माषटङ्केत्युक्तम्। नाधिकमिति तात्पर्य्यम्। इति। किञ्च प्रतिगृहीतं मधुपर्कमपीत्वा त्यागे महाघोरपापसम्भवः। रोमकीटादिदूषितमधुपर्कपानेऽपि महाघोरपापसम्भवः। अतो यजमान-करस्थमेव निर्दोषज्ञापनार्थेनिरीक्षेत। यदि निर्दुष्टं तदा प्रतिगृह्णीत। ग्रहणाभावेऽपि प्रतिगृह्णामीत्यभि-धानन्तु यजमानमानायैव केवलं। मधुपर्कत्यागजान्दोषान् दर्शयति स्मृतिसारमहार्णवप्रभृतिषु। यत उक्तम्। रोमभिस्तु भवेत्कुष्ठी मक्षिकाभिर्दरिद्रिता। कीटकैश्चभवेदन्धस्तदर्थेहि निरीक्षणम्॥ गवां दुग्धे तु रोमाणि घृतमध्ये तु मक्षिकाः।मधौ च कीटकाः स्युर्वै तदर्थेहिनिरीक्षणम्॥ किञ्च मधुपर्कनिरीक्षणेऽदृष्टमपि फलम् तदेव दर्शयति॥ पुंभिश्चयत्कृतं पापं बाल्ययौवनवार्द्धके। तत्सर्वे नाशयेत्पापं मधुपर्कोऽवकाशने इति तत्र स्मृतिषु दर्शनात्। अवकाशने पिधानमुद्घाट्यावलोकन इत्यर्थः॥ मधुपर्क इति मधुपर्क इति त्रिरन्येनोक्ते मधुपर्कः प्रतिगृह्यतामित्याह दाता। अर्घ्येण प्रतिगृ-ह्णामीति केवलं वाङ्मात्रेणोच्यते एव नतु विष्टरादिवत्तत्क्षणमेव प्रतिगृह्यते॥ अस्यायमाशयः॥ प्रतिगृ-ह्यतामिति दात्रोक्ते प्रतिगृह्णामीत्यभिधाय वरो यजमानहस्तगतमेवोद्घाटितं कृत्वा मित्रस्येति मन्त्रे-णार्घेप्रतीक्षते॥ मित्रस्येति॥ हे पधुपर्क त्वा त्वां मित्रस्य सूर्य्यस्य चक्षुषा प्रतीक्ष्ये पश्यामि। अहमा-दित्येन चक्षुर्दानेनानुगृहीतः त्वां पश्यामीत्यर्थः॥ ततो रोमादिभिरदुष्टं निरीक्ष्य यजमानदत्तं मधुपर्के देवस्य त्वेति मन्त्रेण दक्षिणहस्तेन प्रतिगृह्णाति वरः॥
ॐदेवस्य त्वा सवितुः प्रवसेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीत्यभिधाय वरो मधुपर्कंगृहीत्वा वामहस्ते कृत्वा ॐनमः श्यावास्यायेति प्रजापतिर्ऋषिर्गायत्री छन्दः। सविता देवता मधुपर्क्कालोडने विनियोगः।
** देवस्य त्वेति।** हे मधुपर्क अहं त्वा त्वां प्रतिगृह्णामि कस्मिन् सति सवितुर्देवस्य प्रसवेऽभ्यनुज्ञाने सति सवितुः सम्मते इति यावत्। प्रपूर्वःसूरभ्यनुज्ञाने इत्याह कैयटः। काभ्यां ग्रहणं अश्विनोरश्वि-नीकुमारयोर्बाहुभ्यां तथा च पूष्णः आदित्यस्य हस्ताभ्यां प्रतिगृह्णामीत्यर्थः। अयं भावः। सूर्य्यस्यानुग्र-हात् अश्विनीकुमारदत्तशक्तिम्यां बाहुभ्यां तथा पूषदत्तशक्तिभ्यां कराभ्यां गृह्णामीत्यर्थः। इति दक्षिणे-नादायसव्ये कृत्वा सव्ये पाणौ स्थितं तं दक्षिणहस्तानामिकया तन्मूललग्नदक्षिणहस्ताङ्गुष्ठया नमः श्यावास्यायेति मंत्रेण प्रदक्षिणं त्रिवारमालोडयति इति भाष्यकारवचनात्। तदेव दर्शयति। सव्ये पा-णौ कृत्वा तं दक्षिणहस्तानामिकया त्रिः प्रयौतीति किं त्रिवारमालोडयेदित्यर्थः। मधुपर्केसमादाय दे-वस्य त्वेति मंत्रतः। यजमानदत्तं दक्षेण सव्ये पाणौनिधापयेत्। दक्षहस्तानामिकया त्रिः समालोड-येद्वरः। तन्मूलेंऽङ्गुष्ठमादाय मधुपर्कञ्च सर्वगम्। ॐ नमः श्यावास्यायेति मंत्रेणैव विचक्षण इति वा-मनपुराणवचनात्।
ॐनमःश्यावास्यायान्नशने यत्त आविद्धं तत्ते निष्कृन्तामीति अनामिकयात्रिः प्रदक्षिणमालोड्य १
** ॐ नमः श्यावास्यायेति।** अथ मंत्रार्थः ॐनमः श्यावास्यायेति जठराग्निञ्च सम्बोधयति हे अग्ने तुभ्यं नमः। कीदृशाय तुभ्यं श्यावास्याय कपिशमुखाय ते तव अन्नशने अन्नाशने अद्यते इत्यन्नं तस्य अशनं भक्षणं तस्मिन्नन्नाशने ह्रस्वः छान्दसः अकारलोपेन। तथा च तेऽन्नशनेऽन्नभक्षणकाले तत्र यत् आविद्धं निषिद्धं अभक्ष्यभक्षणजन्यपापजनकत्वेन संक्लिष्टदं यत् अदनीयं तभिष्कृन्तामि निरस्यामि यच्छुद्धमन्नं तत्त्वमश्नुहीत्यर्थः। इत्यनामिकयेति। इति मंत्रेण अङ्गुष्ठलग्नमूलकयादक्षहस्तानामिकया त्रिःप्रदक्षिणमालोड्य।अनामिकाङ्गुष्ठेन च त्रिर्निरूक्षयतीति सूत्रबलात्अनामिकाङ्गुष्ठाभ्यां भू-मौ किञ्चिन्निक्षिप्य पुनस्तथैव द्विः प्रत्येकं निःक्षिपेत्। एतदेव विवृणोति। अनामिकाङ्गुष्ठेनेति। अना-मिका च अङ्गुष्ठश्चअनामिकाङ्गुष्ठं समाहारद्वन्द्वेएकवद्भावः। तथा च। दक्षिणहस्तानामिकाङ्गु-ष्ठाभ्यां त्रिर्निरूक्षयति। त्रिवारमपसारयति पात्राद्बहिर्निर्गमयतीत्यर्थः।
अनामिकाङ्गुष्ठाभ्या भूमौ किञ्चिन्निक्षिप्य पुनस्तथैव द्विः प्रत्येकं निक्षिपेत्।
त्रिः प्रयौति। अनामिकाङ्गुष्ठेन च त्रिर्निरूक्षयतीति सूत्राभ्यां प्रयवणनिरूक्षयोर्युगपन्निरूपणात्। मं-त्रलिङ्गाच्च। प्रयवणनिरूक्षणयोरव्यवधानात्। प्रतिप्रयवणं प्रतिनिरूक्षणञ्च मंत्राभ्यासः तथा च। नमः श्यावास्यायेति मंत्रस्य प्रतिप्रयवणं प्रति निरूक्षणमधिकृत्य षड्वारं मंत्रपाठः। विलोडनत्रये त्रिवारं मंत्रपाठः। विलोडनानन्तरं भूमिनिःक्षेपणेऽपि त्रिवारं मंत्रपाठः मंत्रपठनानन्तरमालोडनभूम्याक्षेपण-योरभिधानात्। तथा योगियाज्ञवल्क्यः। संविधाय करस्थं तं मंत्रेणालोड्य निक्षिपेत्। त्रिस्त्रिर्वारं भाष्य-बलान्मन्त्राभ्यासकृतिस्तथेति। आपस्तम्बः। प्रतिप्रयवणं कुर्य्यात्तथाप्रतिनिरूक्षणम्। मन्त्राभ्यासं सूत्र-कारभाष्यकारनिरूपणात्। सव्ये पाणौ तं कृत्वा त्रिः प्रयौति अनामिकाङ्गुष्ठेन च त्रिर्निरूक्षयतीति सूत्रं। सव्ये पाणौ तं मधुपर्केस्थितं कृत्वा दक्षिणहस्तानामिकया त्रिः प्रयौति प्रदक्षिणं त्रिवारमालोड-यति। नमः श्यावास्यायेति मंत्रेण तमेव विलोडितं तद्दक्षिणाऽनामिकाङ्गुष्ठाभ्यां मंत्रेण त्रिर्निरूक्षय-ति। अपसारयति पात्राद्बहिर्निर्गमयतीति भाष्यकारविवरणम् इति। तत आचारात् इति ततोऽनन्तरं आचारात् देशकुलाचारात्। कन्यायै मधुपर्केद्रष्टुं दद्यात्। कन्याऽपि मधुपर्के सम्यगवलोकयेदि-त्यर्थः। नार्य्यो हि सूक्ष्मतरालोकने चतुरा अतो रोमादिनिरीक्षणार्थे दद्यादिति भावः। यद्यपि गृहीतम-धुपर्कत्यागे पूर्वेदोष एवोक्तस्तथापि त्यागदोषाद्रोमादिभक्षणदोषोऽधिकः। अतो निरीक्षणं मधुपर्क-ग्रहानन्तरमयुक्तं यतो ग्रहणत्यागप्रायश्चितं कुर्य्यात् भक्षयेदिति विधिर्ज्ञायत इति तात्पर्य्यम्। आचारा-दिति कथनाभ विधिरकरणे प्रत्यवायाभावादित्येके। वेदधर्मान्देशधर्मान्कुलधर्मोश्च शाश्वतान्। धर्म-शास्त्राविरुद्धांश्च न त्यजेद्ज्ञानदुर्बलः।
ततआचारान्मधुपर्क्केकिञ्चित्कन्यायै द्रष्टुं दद्यात्।
इत्याचारत्यागनिषेधात्। प्रत्यवायशङ्कयानाचारत्यागोऽपीत्यन्य इति भावः। यन्मधुनो मधव्यमिति। तस्य त्रिस्त्रिः प्राश्नाति यन्मधुन इति मंत्रेणेति सूत्रम्। तस्य मधुपर्कस्यैकदेशं तस्येत्यवयवलक्षणा षष्ठी। तेन तस्यावयवमेकदेशमादाय यन्मधुनो मधव्यमिति मन्त्रेण सकृत्प्राश्य पुनरनेनैव मंत्रेणो-च्छिष्टाद्द्वितीयवारं प्राश्य तथैव तृतीयवारं प्राश्नातीति। तस्य त्रिः प्राश्नातीति सूत्रे त्रिः शब्दानुवृत्तौ पुनस्त्रिर्ग्रहणं एकद्रव्ये क्रियावृत्तौ सकृन्मंत्रवचनशङ्काव्युदासार्थमिति। तस्य त्रिस्त्रिः प्राश्नाति यन्मधुन इति मंत्रेणमधुमतीभिर्वा मधुपर्कप्राशनं प्रत्र्यृचम् अनामिका-ङ्गुष्ठाभ्यामेवेति केचिदिति यावत्सूत्र-मित्यर्थः। ननूच्छिष्टः कथं मंत्रमुच्चारयेदित्याशङ्कायामाह। मधुपर्के च सोमे च अप्सु प्राणाहुतीषुच। दन्तलग्ने चेक्षुदण्डे नोच्छिष्टो भवति द्विज इति स्मरणात्। मधुपर्कभक्षणेनोच्छिष्टाभावान्न मन्त्रोच्चारणे दोष इति। अथ मंत्रार्थः। यन्मधुन इति। भो देवा मधुनो मकरन्दस्य यत्तन्मधव्यं मधुनि साधु यत्तन्म-धव्यं परममुत्कृष्टं रूपं रूपयति प्रकाशयति देहसंघा-तमिति रूपम्। अन्नाद्यं व्रीह्यादिवत् प्राणधार-कम् अन्नोपादानकम्वा अन्नादिरसकदम्बम्वा तेन मधुनो मधव्येन परमेणोत्कृष्टेन रूपेण देहसङ्घा-तप्रकाशकेन अन्नद्येन अन्नोपादानकेन रसेन सर्वरूपापन्नेन अहं परमः सर्वेभ्यो गुणाधिकः मधव्यः मधुपर्क्कार्हः अन्नादः सदन्नभोक्ता असानि भवानि इति मन्त्रेण वारत्रयं मधुपर्कप्राशनं प्रति प्राशने चैतन्मन्त्रपाठ इति मूलकारवचनात्॥ मधुमतीभिर्वा मधुपर्कप्राशनं प्रत्यृचं मधुवातेति तिसृभिर्वा मधुपर्कप्राशनं प्रत्यृचं मधुपर्कप्राशनं मधुवातेत्यादि तिसृभिर्वा अनामिकाङ्गुष्ठाभ्यामेवेति केचित्॥ तथा च पराशरः। यन्मधुनेति मन्त्रेण त्रिस्त्रिरर्घ्यः पिबेन्मधु मधुमतीभिः प्रत्यृचं मधुवातेत्यादितिसृभिः मधु मधुपर्के नामैकदेशे
ॐ यन्मधुनो मधव्यं परमँ रूपमन्नाद्यं तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्ये-न परमो मधव्योन्नादोसानीति॥९॥ इत्यनेन वारत्रयं मधुपर्कप्राशनं प्रतिप्राशने चैतन्मन्त्रपाठः। ततो मधुपर्कशेषमसंचरदेशे धारयेत्।
ॐ यन्मधुन इत्यस्य कौत्स ऋषिर्जगतीछन्दः। मधुपर्क्कोदेवता। मधुपर्कप्राशने विनियोगः।
नामग्रहणमिति न्यायात्। तथा च कात्यायनः। प्राश्नाति मधुपर्केत्रिः पठन् यन्मधुनेति त्रिः। यद्वा मधुमतीभिर्मधुवातेत्यादितिसृभिः प्रत्यृचं मधुपर्कप्राशनं अनामिकाङ्गुष्ठाभ्यामेवेति केचित् तन्न समीचीनम्। मधुपर्कप्राशनस्य परमपवित्रतानिदानत्वात् तदेव दर्शितं मनुना। गङ्गोदकं पञ्चगव्यं म-धुपर्केकुशोदकम्। अन्तर्गच्छेत्तु यस्यांहो हित्वा सर्वाधिकरिकृत् इति। मधुमतीत्यादीनां मधुच्छन्द-ऋषिस्त्रिष्टुप्छन्दो मधुप्रदो देवता मधुपर्कप्राशने विनियोगः। मधुमतीर्न्न
इषस्कृधि यत्ते सोमादा-भ्यभाम जागृवि तस्मै ते सोम सोमाय स्वाहा स्वाहोर्वन्तरिक्षमन्वेमि स्वाङ्कृतोऽसि इति। मन्त्रार्थः। हे सोम त्वं नोऽस्माकं इषोऽन्नानि मधुमतीः मधुररसोपेताः कृधि कुरु। हे सोम ते तव अदाम्यम-हिंस्यं जागृवि जागरणशीलं यन्नामास्ति सोमेति हे सोम तस्मै तन्नामवते तुभ्यं सोमाय स्वाहा। दत्तम-स्तु स्वाहेत्यक्षरद्वयमुक्त्वा निष्क्रमेत् उरु विस्तीर्णमन्तरिक्षमन्वेमि अनुगच्छामि हे प्राण त्वं स्वयमेव कृतोऽसि स्वयमुत्पन्नोऽसीति यावत्। (अ० ७- कं-२) मधुवातेत्यादीनां गौतम ऋषिगायत्री छन्दो विश्वे देवा देवता। मधुपर्कप्राशने विनियोगः। ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः। माध्वीर्नः सन्त्वोषधीः। मधुनक्तमुतोषसो मधुमत्पार्थिवः
रजः। मधुद्यौरस्तु नः पिता। मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्य्यः। माध्वीर्गावो भवन्तु नः। मन्त्रार्थः। ऋतं यज्ञमिच्छतीति ऋतायन् तस्मै ऋतायते यजमा-नाय वाता वायवो मधु मधुमन्तो रसवन्तो वान्त्विति शेषः। सिन्धवः स्यन्दमाना नद्यः समुद्रावा मधु मधुमत् रसवत् उदकं क्षरन्ति स्रवन्तु। “तिङान्तिङ्” इति लोटो ‘लडादेशः। औषधीः औषधयः नोऽ-स्माकं माध्वीः मधुररसोपेताः सन्तु नक्तं रात्रिर्नोऽस्माकं मधु मधुमत् मधुररसोपेतमानन्दकरमस्तु। उताऽपि च उषसो दिवसा अपि मधुमन्तः सन्तु। पार्थिवं रजः पृथिवीलोको मातृभूतो मधुमत् मधुर-रसोपेतमस्तु। पिता पितृभूतो द्यौः द्युलोको मधुमान् मधुररसोपेतोऽस्तु। वनस्पतिरश्वत्थादिर्नोऽस्मा-कं मधुमान् रसवान् यज्ञसाधनभूतोऽस्तु। सूर्य्योमधुमान् सन्तापराहित्यलक्षणमाधुर्य्यरसोपेतोऽस्तु।गावः यज्ञसाधनभूताः रश्मयः नोऽस्माकं माध्वीर्मधुमत्यो रसवत्यो भवन्तु। रसो वै मध्विति श्रुतेः। वा-तादीनि रसवन्त्यस्माकं भोग्यानि भवन्त्विति सर्वोऽर्थः। [अ. १३. कं. २७-२८-२९] इति मधुमतीभिर्वा मधुवातादिभिर्वा मधुपर्कप्राशने चेमौ विनियोगौ विनियोज्याविति ज्ञेयम्। मधुपर्कशेष-प्रतिपत्तिमाह। पुत्रायान्तेवासिने वोत्तर आसीनायोच्छिष्टं दद्यात् सर्व्वेवा प्राश्नीयात् प्राग्वा संचरे निनयेत्। इति सूत्रा-णि मधुपर्कशेषसन्धारणे प्रमाणानि पुत्राय सूनवे अन्तेवासिनेः उपनयनप्रभृतिविद्यार्थित्वेनाचार्य्यकुल-वासिने शिष्याय कीदृशाय उत्तर आसीनाय इत्युभयोर्विशेषणम्। आभ्यामुच्छिष्टं मधुपर्के प्रयच्छेत्। उच्छिष्टं प्राशितशेषामित्यर्थः। वा पक्षान्तरे स्वयं स्वयमेव सर्वेप्राश्नीयात्। वा पक्षान्तरे प्राक् पूर्व्वस्यां दिशि असंचरे जनसंचावरर्जितेदेशे निनयेत्त्यजेत्। अत्र पक्षान्तरकल्पना तु पूर्वपूर्वाऽसम्भवे उत्तरो-त्तरप्रतिपत्तिं कुर्य्यदिति भाष्यकारविवरणम्। जयरामभाष्यकारेण तु विकल्पेऽपि व्यवस्था कृता व्य-वस्था त्वनियमितस्य नियमनम्। तदेव दर्शयति। आचार्यः शिष्याय ऋत्विक्प्रयपुत्राय वरतातौ सर्वे प्राश्नीयातां राजा सञ्चरदेशे पूर्वस्यां दिशि निनयेदिति॥ सर्वेषां वा सर्वे पक्षा इत्यन्ये तथा चापस्तम्बः। शिष्याय शेषमाचार्यः पुत्रायर्त्विक्प्रियाय च। शेषं तातो व नोज्झेत्प्राग्राजा संचरे त्यजेत्। सर्वे पुत्राय वा शेषं दद्युः शिष्याय तम्विना।
ततस्त्रिराचामेद्वरः वाङ्मेआस्येऽस्तु नसोर्मे प्राणोऽस्तु अक्ष्णोर्मे चक्षुरस्तु कर्णयोर्मे श्रोत्रमस्तु वाह्वोर्मे
दद्युः शिष्यं विना पूर्वेऽसञ्चरेऽद्युश्च सर्वत इति॥ अस्यार्थः सर्वे वा शेषं मधुपर्केपुत्राय दद्युः तं विना पुत्रं विना येषां पुत्रः पार्श्वे नास्ति वा येषां पुत्रो विद्यते नैवते च शिष्याय दद्युः शिष्यं विना येषां शिष्यः पार्श्वे नास्ति येषां वा विद्यते नैव ते च पूर्वे पूर्वस्मिन्दिग्भागेऽसंचरेऽसंचरदेशे निक्षिपेयुः। च विकल्पेऽथवेत्यस्यार्थे। अथवा सर्वतः इति सर्वे मधुपर्कमद्युर्भक्षयेयुरित्यर्थः। आचमनीयमाचमनीय-मित्यादिनाच मनविधिनाऽऽचान्तो-ऽपि पूर्वेअथ च मधुपर्के च सोमे च नोच्छिष्टो भवति द्विज इत्या-दि स्मृतिबलात् मधुपर्के भक्षितेऽप्यशुचित्वाभावेनाचमनाप्राप्तावाह। अनाचान्तस्येन्द्रियस्पर्शनमनु-चितमिति स्मृत्युक्तिबलात्। मधुपर्कानन्तरं वाङ्म आस्ये इत्येवमादिभिर्मन्त्रैर्यथालिङ्ग इति रत्नाकरे आचम्य आचमनं कृत्वेति सूत्रभाष्ययोर्निरूपणात्। एकवचनेन यद्यपि सकृदत्र जलभक्षणं ध्रियते त-थापि शास्त्रबलादाचम्य आचामेदाचमनं कृत्वा इत्यादिपदैस्त्रिवारमेव जलभक्षणं कर्त्तव्यम्। अतएव मूलकारेण ततस्त्रिराचामेदित्याचमनस्वरूपाभिधानमेव कृतं न तु नववारं जलभक्षणमिति। यथाचा-रादर्शे ब्रह्मपुराणीयवचनम् शौचानन्तरस्थले। पादयोर्द्वेगृहीत्वा तु सुप्रक्षालितपाणिना। त्रिराचम्य त-तः शुद्धं स्मृत्वा विष्णुं सनातनम्॥ आचमनस्वरूपमाह हस्तगं प्रथमात्तीर्थाद्दक्षिणात्रिः पिबेज्जलम्। अशब्दमनवस्रावमबहिर्जान्वबुद्भुदम्॥ इति नरसिंहपुराणे। दक्षिणन्तु करं कृत्वा गोकर्णाकृतिवत्पु-नः। त्रिः पिबेद्वीक्षितं तोयमास्यं द्विः परिमार्ज-येत्॥ हारीतः अन्तरूर्वोररत्नी कृत्वा त्रिरपोऽशब्दं पिबेदित्यर्थः। याज्ञवल्क्यः। अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्भुदैः। हत्कण्ठतालुगाभिश्च यथा-संख्यं द्विजातयः। शुद्धेयुः स्त्री च शूद्रश्चसकृत्स्पृष्टाभिरन्ततः।
बलमस्तु उर्वोर्मेओजोऽस्तु अरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सह सन्त्विति प्रत्येकं सर्वगात्राणि संस्पृशेत्।
अन्तत ओष्ठप्रान्तेन सकृत्स्पृष्टाभिर्न तु त्रिवारं भक्षिताभिरद्भिरित्यर्थः। गौतमः। हृदयस्पृशस्त्रिरपः आचामेत्। पाणिं चाभ्युक्ष्य खानि चोपस्पृशेत् शीर्षण्यानि मूर्ध्द्नि दद्यात्करम् इति। हृदयस्पृश इति ब्राह्मणपक्षे। आचमनीयतीर्थमाह मनुः। ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत्। कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन॥ विप्र इति आचमनकर्तृमात्रोपलक्षणम्। अत्र संभवे ब्रह्मतीर्थेनैवाचमनम् नि-त्यकालमिति श्रवणात् व्रणादिना ब्रह्मतीर्थविरोधे कायत्रैदशिकाभ्यामिति व्यवस्थाविकल्पः पित्र्यन्तु सदा निषिद्धं न कदाचनेत्यभिधानात्। तीर्थान्याह याज्ञवल्क्यः। कनिष्टादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च। प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्। आदेशिनी तर्जनी एवं सर्वत्र स्मार्तवचनसिद्धं त्रिवारं हस्त-स्थजलभक्षणरूपमाचमनं कृत्वाङ्गन्यासं कुर्य्यात्। वक्ष्यमाणमन्त्रैरिति। अथाङ्गन्यासविधिः तत्र सूत्रा-णि। आचम्य प्राणान् संस्पृशति वाङ्मे आस्ये नसोः प्राणोऽक्ष्णोश्चक्षुः कर्णयोः श्रोत्रं बाव्होर्बलमूर्वोरोजो रिष्टानि मेङ्गानि तनूस्तन्वा मे सह इति। अथैतेषां सूत्राणां भाष्यम्। आचम्य प्राणानिन्द्रियस्थानानि संस्पृशति सजलमालभते तद्यथा वाङ्मे आस्येऽस्त्विति मुखं कराग्रेण अङ्गुलित्रयमेव कराग्रं नसोर्मे प्राणोऽस्त्विति तर्जन्यङ्गुष्ठाभ्यां युगपद्दक्षिणादिनासारन्ध्रे अक्ष्णोर्मे चक्षुर-स्त्विति मध्यमाङ्गुष्ठाभ्यां युगपद्दक्षिणादिचक्षुषी कर्णयोर्मे श्रोत्रमस्त्विति अनामिकाङ्गुष्ठाभ्यां दक्षिणोत्तरौ कर्णौ बाव्होर्मे बल-मस्त्विति अङ्गुष्ठकनिष्ठाभ्यां दक्षिणोत्तरबाहू उर्वोर्मे ओजोऽस्त्विति सम्मीलितकराङ्गुलहस्तेनोरू अरिष्टानि मेऽङ्गानि तनूस्त्वन्वा मे सह सन्त्विति शिरः प्रभृतीनि पादान्तानि सर्वाण्यङ्गान्युभाभ्यां ह-स्ताभ्यामालभते मे इत्यस्य सर्वत्रानुषङ्गः।
ततो यजमानद्वारा गौर्गौर्गौरिति पाठः। अत्र वरय जमानाभ्यां तृणच्छेदनमाचारो न तु विधिः। अत एव पद्धतिषु ततो वरस्तृणं यजमानेन सह गृहीत्वाऽग्रिममन्त्रम्पठे-त्। मातारुद्राणामिति मन्त्रस्य
अस्त्वित्यध्याहारः साकांक्षत्वात्। आचम्येति पदस्यायमभिप्रायः। अनाचान्तस्य प्राणायतनस्पर्शनं माभूदित्याचम्येति अङ्गानि तनूरिति बहुवचनात्सन्त्विति बहुवचनस्यैवाध्याहारः। अथ मन्त्रार्थः। मम वाक् वागिन्द्रियमास्ये वदनेऽस्तु नसोर्नासिकयोः प्राणः प्राणवायुः अक्ष्णोर्नेत्रगोलकयोश्चक्षुरिन्द्रियं श्रो-त्रं श्रवणेन्द्रियं बलं शक्तिः ओजः सामर्थ्येमे मम तन्वा देहस्य तनूरङ्गानि च सहयुगपत् अरिष्टानि व्याध्यादिपीडारहितानि दुःखाद्यनुपहितानि सन्त्वित्यध्याहारः। अङ्गन्यासे। दक्षः प्रक्षाल्य हस्तौ पादौ च त्रिः पिबेदम्बु वीक्षितम्। सम्वृत्याङ्गुष्ठमूलेन द्विः प्रभृज्यात्ततो मुखम्। सम्वृत्य तिसृभिः पूर्वमास्य-मेवमुपस्पृशेत्। अङ्गुष्ठेन प्रदेशि-न्या घ्राणं पश्चादनन्तरम्। मध्यमाङ्गुष्ठयोगेन चक्षुःश्रोत्रे पुनः पुनः। अङ्गुष्ठानामिकाभ्याञ्च स्पृशेत्स्कन्धौ ततोऽग्रतः। तिसृभिस्तर्जनीमध्यमानामिकाभिः। तथा च श-ङ्खः। तर्ज्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापुटद्वयम्। मध्यमाङ्गुष्ठयोगेन स्पृशेन्नेत्रद्वयं ततः। अङ्गुष्ठा-नामिकायाश्च योगेन श्रवणे स्पृशेत्। कनिष्ठाङ्गुष्ठयोगेन स्पृशेत्स्कन्धद्वयं ततः। स्पृशेदालभेतेत्यर्थः। प्रत्ये-कंसर्वगात्राणि शिरःप्रभृतीनि हस्तद्वयेन संस्पृशेदित्यर्थः। इत्याचमनविधिः॥
ततो यजमानद्वारेति। अत्र वरयजमानाभ्यां तृणच्छेदनमाचारो न तु विधिः। अत एव पद्धतिषु ततो वरस्तृणं यजमानेन सह गृहीत्वाऽग्रिममन्त्रम्पठेदित्येव लिखितमिति। आचान्तोदकाय शासमा-दाय गौर्गौर्गौरिति त्रिः प्रत्याह। इति सूत्रम्।
ब्रह्मा।ऋषिस्त्रिष्टुप्छन्दः शौरिर्देवताऽभिमन्त्रणे विनियोगः। ॐमाता रुद्राणां दुहिता वसूनाँस्वसादित्यानाममृतस्य नाभिः प्रनु वोचं चिकितुषे जनाय मागामना-गामदितिं वधिष्ट मम चामुष्य चपाप्मा हतः॥
आचान्तोदकग्रहणात् पुनराचमनमित्येके। अपरे त्वाहुः। आचान्तमुदकं येन स आचान्तोदकस्तस्मै। तादर्थ्येचतुर्थी तदर्थेशासं शस्त्रमादाय तादार्थ्ये चेति पश्वालभनस्य तदर्थत्वात् खङ्गं गृहीत्वा यजमा-नः गौर्गौर्गौरालभ्यतामित्याह ब्रवीति। ततोऽर्घ्यस्तुतं प्रत्याह। मातारुद्राणामितीमं मन्त्रम्। अस्यार्थः। अहं चिकितुषे चेतनावते जनाय यजमानाय। नुवितर्के। छन्दसि व्यवहिताश्चेति प्रवोचं ब्रवीमि। अ-ट्लोपः छाम्दसः किं वदसीत्याकाङ्क्षायामाह। मां तोष्टुमिति शेषः। यूयं मां तोष्टुं मत्सन्तुष्ट्यै मा गां वधिष्ट। न माङ्योग इत्यडभावः। मा गां हत इत्यर्थः। गां कीदृशीं अनागां अनागसं अनपराधां। पुनः- कीदृशीं। अदितिं अखण्डनीयां दितिः खण्डनं हिंसा यस्यां नास्ति तां। ब्राह्मणं गां तथा कन्यां हन्या-दज्ञानतोऽपि यः। निरये भृज्यते तावद्यावदिन्द्राश्चतुर्द्दश इति स्मृतिवचनात्। यतः सा रुद्राणां माता श्रीमहारुद्रो नन्दिकेश्वररूपेण ऋषिभीतः तद्गर्भद्वारा आविर्बभूवेत्यर्थः। बहुवचनन्तु रुद्रोत्कृष्टतया। किञ्च। वसूनां दुहिता पुत्री देवदानवेषु समुद्रं मथितुमुद्यतेषु तत्र प्रयासबाहुल्येन श्रमितेषु अतएवास-मर्थतया पहारितमनस्केषु सत्सु श्रीमता विष्णुना स्वयमेव सा समुद्रमथनद्वारा जनिता। अतो विष्णु-पुत्रीति प्रकृते वसूनां विष्णोरंशभूतानां पुत्रीत्वङ्गवि विष्णुपुत्रीत्वेनैव सम्पभम् इतिभावः। अत एव वै-ष्णवी सुरभी मातेत्यादि श्रूयते।
ॐउत्सृजत तृणान्यत्तूद्धृत्योत्सृजेत् इति ब्रूयात्। उ-
किञ्चादित्यानां स्वसा भगिनी देवानामपि विष्णोरुद्भवत्वात्। नारायणात् द्वादशादित्या इति श्रुतेः। अमृतस्य देवभक्ष्यस्य क्षीरस्य नाभिराश्रयः उत्पत्तिस्थानमिति यावत्। तथा च गावः सर्वेषां ममापि च सर्वथा अहिंस्याः। अत्र च गोरभिमन्त्रणे पक्षद्वयत्वेन मन्त्रेऽपि तस्योभयविधत्वं तदेव दर्शयति आल-म्भनपक्ष उत्सर्गपक्षश्चेति द्वयम्। तत्र यद्यालभेत गां तदा माता रुद्राणां इत्यादि वधिष्टेत्यन्तं मन्त्रं प-ठित्वा अग्रे मम चामुष्य यजमानस्य पाप्मान ᳪ
हिनोमीति पठेत्। उत्सर्गपक्षेतु अर्घ्योयदि गामुत्स्र-ष्टुमिच्छेत्तदा माता रुद्रणामित्यादि वधिष्टेत्यन्तं पठित्वा अग्रे मम चामुकशर्मणो यजमानस्य च पाप्मा हतः हंतु॥
ॐउत्सृजत तृणान्यत्तु इति ब्रूयात्। ॐमित्यन्तमुपांशु पठित्वोत्सृजत तृणान्यत्तु इत्यन्त-मुच्चैः पठेत्। नन्वेष पक्षो न समीचीनः सूत्रविरोधात्। तदेव सूत्रं दर्शयति। नत्वेवामाँऽसोर्घ्यः स्यादधियज्ञम-धिविवाहं कुरुतेत्येव ब्रूयात् इति। सूत्रार्थः। नत्विति तु शब्दः पक्षव्यावृत्तौ अर्घ्यो वरादिरमांसः पाश्वा-लम्भविवर्ज्जितो नैव स्यात्। न च यद्यालभेत यद्युत्सृसृक्षेदित्यनेन सूत्रद्वयेन गवालम्भने विकल्प इति वाच्यम्। नत्वेवामांसोऽर्घ इत्यनेनार्घमात्रे एव पदेनावधारणार्थेन गवालम्भनस्य नियमेन व्रीहीनवह-न्यादेवेतिवदवश्यं विधानात्। न च तथा सति द्वयोर्विरोधादप्रामाण्यं स्यादिति वाच्यम्। व्यवस्थाया विहितत्वात्। व्यवस्थामाह। यस्माद्यज्ञविवाहयोरमांसोऽर्घो न भवतीति स्मर्य्यते तस्माद्यज्ञमधिकृत्य विवाहञ्चाधिकृत्य च पाप्मानं हिनोमीत्येव वक्तव्यम्। यज्ञविवाहवर्ज्यमम्यत्र पश्वालम्भे विकल्पः। इति कर्काचार्य्यः। आपरे त्वेवमाहुः। यद्यपि यज्ञविवाहयो रेवालम्भस्यावश्यकत्वेन विधानम्। तथापि गो-वाजिनरमेधाश्च विवाहे गोर्वधस्तथा। परक्षेत्रे सुतोत्पत्तिः कलावेतानि वर्ज्जयेत्।
त्सृजेत्तु तामिति तृणं छिन्द्यादित्युत्सृजेत् त्यजेत्।
अग्निहोत्रं गवालम्भं संन्यासं पैतृके पलम्। देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्ज्जयेत्। इति कालादर्शादिनानाधर्मशास्त्रप्रबन्धेषु लिखितत्वात्। तथाच मनुः। न परं पातकं घोरं कलौ गोहत्यया समम्॥ इति बह्वीषु स्मृतिषु निरूपणात्। कलौ गवालम्भस्य प्रतिषेधात् गोप्रतिनिधित्वेन पश्वन्तर-स्यैवालम्भ इति प्रतिनिधित्वमाह। गवालम्भे स्मार्तः पशुः पायसम्वा इति श्रुतेः। स्मार्तः पशुः वार्धुषुको रक्तवर्णोऽजो निरूपितः। अजशब्दवाच्येऽपि देवानामृषीणाञ्च व्यासीयमहाभारते शान्तिपर्वणि वि-वादो निरूपितः। देवाश्चाऽजपदवाच्यो मेषः पशुरिति प्राहुः। अतोर्घ्यायाजादिमांस एवाभिहितो यज्ञ-विवाहादिषु कलौ अजादिहवनमपि विधिना अविधिहतस्य मांसभक्षणे दोषावाप्तेरिति ज्ञेयम्। ऋषयस्तु नीवाराद्युत्पन्नंगोधूमतण्डुलमाषादि संसाधितप्रशस्ततरविचित्रं मनुष्यान्नं घृतखण्डाद्युपे-तमजशब्दवाच्यं प्राहुः। तथा च विवाहादिषु अर्घ्याय गोधूमादिसंसाधितघृतखण्डादिसंस्कृतविचित्र-स्वादुमन्मिष्टमन्नमेव सपरिवाराय भक्ष्यं देयमिति॥ अयं भावः। यद्यपि मधुपर्के गवालम्भ आचार्य्ये-णोक्तः। तथापि अस्वर्ग्यत्वाल्लोकविद्विष्टत्वान्नविधेयः। अस्वर्ग्येलोकविद्विष्टं धर्ममप्याचरेन्नत्विति याज्ञवल्क्यादिस्मृतिषु निषेधदर्शनात्। कलौ निषेधादेवास्यास्वर्ग्यत्वसिद्धिः तथा च योगियाज्ञवल्क्यः। वाचाऽपि नवदेद्धीमान् गवामालम्भनं कलौ। मधुपर्केऽपि वै दद्यादर्घ्यायान्नं, सुसंस्कृतम्। गोधूममा-षमुद्गानां घृतखण्डादिभिः शुभैरिति। शुभैः शुद्धैः घृतखण्डदिभिस्सुसंस्कृतमित्यर्थः। तथा च बृहत्प-राशरः। कलौ वाङ्मात्रगोमेधो निरये प्राप्नुयान्नरम्। पितृभिः सह धर्मात्मा नैव कुर्यादतश्चतम्। इति। तथा च गौर्गौर्गौरित्यादितृणान्यत्वित्यन्तं कर्म गोसमुत्सर्गे विदध्याभान्यथेत्येके। अपरे तु। पद्धतिलि-खितविधित्यागो नोचितो विधिलोपप्रसङ्गात्।
यद्यपि सकृत्संवत्सरस्येति तथाप्यसकृत्संवत्सरस्य सोमेन यजेत् कृतार्घ्याएवैनं याजयेयुर्नाकृतार्घ्या इति श्रुतेः। चत्वारः पाकयज्ञा हुतोऽहुतः
अतो यत्र गौः साक्षादागता तत्रालंभतामिति पदाभावेनैव यजमानो गौर्गौगौरित्येताववन्मात्रमेव पठेत्। ततो वरो मातारुद्राणामित्यादि मम चामुष्य शर्मणो यजमानस्य पाप्मा हतः ॐ उत्सृजत तृणान्यत्त्वित्यन्तं पठित्वा गां समुत्सृजेत्। साक्षाद्गोरभावे कुशमयीं गां विधाय तत्र तदुपरि पूर्ववद्विधिं विधाय तृणान्यत्त्वित्यन्तं पठित्वा मोचयित्वोद्धृत्य कुशान् समुत्सृजेदिति तथा चापस्तम्बः। ऋष्युद्दिष्टं कलौ नैव पापं गोहत्यया समम्। अतो विवाहे यज्ञे च गामानीय समुत्सृजेत् इति। गोरभावे कुशमयीं कृत्वा तत्र विधिं चरेत्। गामुद्धृत्य कुशान्पश्चात्प्रणिपत्य समुत्सृजेत्। इति सुमन्तुः। ऋषिप्रणीतं न कलौ पापं गोहत्यया समम्। वाचाऽपि गां हिनोम्युक्त्वा प्रायश्चितं समाचरेत्। तेनैवाऽहितो मन्त्रे पूर्वपक्षः कलौ युगे। गां च साक्षात्समानीय यथाविधि समुत्सृजेत्। गोसमुत्सर्ज्जनाशक्तौ विप्रमानीय तत्र वै। ततश्च गौर्गौरित्यादि तस्योपरि विधिं चरेत्। मातेत्यादि पठित्वा च भक्ष्यं दत्वा समुत्सृजेत्। गोब्राह्मणयोस्तुल्यत्वात् ब्राह्मणस्य गौर्गौरित्युत्त्का वाऽपि न दोषः विधिपरिपूर्णता चेति। तत्र ब्रह्मवैव-र्ते। विधाय वाऽपि गां कौशीं विधिं तत्र समाप्य च। समुद्धृत्य च तां कौशीमैशान्यां तान् कुशान् क्षि-पेत्। इति यक्ष्यमाणा ऋत्विजः इत्युक्तम्। तभियममाह।
यद्यपीति॥ यद्यपि सम्वत्सरस्य मध्ये यजमानो गुर्वादीन्सकृत् यजेतेत्युक्तम्। तथापि यदि संवत्स-रस्य मध्ये पुनः सोमेन यजेत् तदा कृतार्घ्याएवर्त्विजस्तं याजयेयुर्न पुनरकृतार्घ्या इति। अतःपरिस-म्वत्सरानिति संवत्सरोपर्य्येव यजद्भिः ऋत्विजोऽर्घ्याइति यदुक्तं तदपवादोऽपि जातः कृतोऽर्घो येषां ते कृतार्घ्याएव सन्तः याजयेयुर्यज्ञं कारयेयुः नाकृतार्घ्यायाजयेयुरिति श्रुतिवचनात् सोमेन यजेतेत्य-नेन सोमयागार्थमेव वृता ऋत्विजोऽर्घ्याइति गम्यते न यागान्तरार्थे।
प्रहुतप्राशित इति पञ्चसु बहिःशालायां विवाहे चूडाकरणेउपनयने केशान्ते सीमन्तोन्नयने उपलिप्त उद्धृत उल्लिखितेऽवोक्षितेऽग्निमुपसमाधाय निर्मन्थ्यमेके विवाहे॥
चत्वार इति पच्यते श्रप्यते ओदनादिकमस्मिभिति पाको गृह्याग्निः तत्र पाकेनान्यत्रेति भावः। पाके यज्ञाः पाकयज्ञाः यतो वैवाहि-केऽग्नौ कुर्वीत ग्राह्यं कर्म्म यथाविधि। पञ्चयज्ञविधानञ्च पक्तिञ्चान्वाहि-कीं गृहीति मनुना दैनंदिनपाको गृह्येऽग्नौ समर्प्यते ते चत्वारः पाकयज्ञा भवन्तीति शेषः। कोऽस्या-भिसन्धिरुच्यते विवाह उपक्रान्तः तत्र बहिःशालायां कर्मेष्यते तत्प्रसङ्गेनान्यत्रापि यत्र यत्र बहिःशाला तदर्थमभिधीयते चतुःप्रकाराः पाकयज्ञाः तानाहुः हुत इति यत्र होममात्रं सायंप्रातः होम एव कियते स हुतः यथा नित्यहोमः अहुतश्चेति यत्र न होमःहोमबलिरहितं कर्म्म यथा प्रस्तारारोहणम्। प्रसुत इ-ति यत्र होमो बलिकर्म्म भक्षणं च यथा यज्ञादिकर्म्म प्राशित इति यत्र प्राशनमात्रं न होमादिः न होमो न बलिः यथा सर्वासां गवांपयसा पायसं श्रपयित्वा ब्राह्मणान् भोजयेदिति श्रुतेः। यथा सर्वगोपयसः पायसश्रपणानन्तरं ब्राह्मणभोजनमित्थं चतुर्विधाः पाकयज्ञाः। पञ्चस्विति। पञ्चसु विवाहादिसंस्कार-कर्म्मसु बहिःशालायां गृहाद्या बहिःशाला तस्यां। बहिःशाला तु मण्डप इति कोशोक्त्यामण्डपे इति यावत्। तस्यां कर्म्म भवति। एषु बहिःशालाकार्य्येत्यर्थः बहिःशब्दसामर्थ्यादग्निर्लौकिक एव ज्ञेयो यथा विवाहे परिणयने चूडाकरणे क्षौरकर्म्मणि उपनयने मेखलाबन्धे केशान्ते गोप्रदानकर्म्मणि सीमन्तो-न्नयने गर्भसंस्कारकर्म्मणि एतेषां पञ्चानां बहिःशालायामनुष्ठानम्।
उदगयन आपूर्य्यमाणपक्षे पुण्याहे कुमार्य्याः पाणिं गृह्णीयात् तिसृषूत्तरासु मघानु-राधाकरमूलरेव-
अन्यत् गृहाभ्यन्तरे मुख्यशालायामेव उपलिप्ते गोमयोदकेन उद्धृते स्फ्येन स्रुवेण वा उल्लिखिते तिसृभी रेखाभिः अवोक्षिते उदकेनाभ्युक्षिते बहिःशालागृहयोरन्यतरस्मिन्प्रदेशेऽग्निमुपसमाधाय अग्निं लौकिमावसथ्यं वा उपसमाधाय स्थापयित्वा। अयञ्च लेपनादिविधिर्नापूर्वः अपि तु परिसमूह्येत्यादि-पूर्वोक्तस्यौवानुवादः ततश्चात्रानुक्तमपि परिसमूहनं उद्धरणञ्च भवति। यत्र क्वचन होमस्तत्र सर्वत्र एष एव विधिरिति वचनात्। अत्राऽपि विवादमाह एके परिसमूहनादेरकृतत्वात् उपलिप्त उद्धृता-वोक्षित इति वाक्यं परिसमूहादिव्युदासार्थमित्याहुः। अपरे तु यतो गृह्यस्थालीपाककर्म्मणि परिस-मूहनाद्युक्तम् अतोऽगृह्यार्थोऽयमारम्भः विवाहादयश्चाग्निविषयाः यत्र वैवाहिकोऽग्निस्तदीयमेव कर्म तत्रेष्यत उपग्रहविशेषात्। तस्मादगृह्यार्थमुपलिप्त उद्धृतावोक्षितग्रहणम्। इति प्राहुः तदपि न। यत्र क्वचिद्धोमः तत्रैवैषविधिरित्यनेन नित्यप्राप्तत्वात्। कथंतर्हीदमुक्तम्। श्रूयतां सूत्रकृतोऽयमभिप्रायः। यत्र क्वचिद्धोम इत्यनेन परिसमूहनादीनां प्राप्तिस्तेषामग्न्यर्थत्वात् यत्र यत्राग्नेःस्थापनं तत्रतत्र ते कर्त्त-व्या इति। तथा च लिङ्गं। उद्धृते वावोक्षितेऽग्निमादधीतेति। तस्मादेष एव विधिर्यत्र क्वचिद्धोम इत्यनेन स्थालीपाकादिषु परिसमूहनादेरप्राप्तिस्तत्प्राप्त्यर्थमिदम् उद्धृतावोक्षितग्रहणमुक्तम्। निर्म-न्थ्यमेके विवाहे। एके आचार्य्या विवाहे पाणिग्रहे निर्मन्थ्यमारणेयमग्निं वैवाहिकहोमाधिकरणमिच्छ-न्ति अपरे लौकिकाग्निमेवात्रेच्छन्ति अतो विकल्पः। मतभेदेन विभाषेति वचनात्। अथ विवाहाख्यं कर्माह। उदगयने मृगादिराशिषट्कस्थिते खौ विना वैसारिणमापूर्य्यमाणपक्षे शुक्लपक्षे तिसृषु उत्त-राफल्गुनीआषाढाभाद्रपदासु च पुनर्मघानुराधाकरमूलरेवतीषु च पुनः स्वातौ मृगशिरसि रोहिण्यां वा वाशब्दः पुनरर्थे।
तीषु च स्वातौ मृगशिरसि रोहिण्यां वा त्रिषु त्रिषूत्तरादिषु स्वातौमृगशिरसि रोहि-ण्यां वा तिस्रो ब्रा-
तथा गर्गः। ध्रुवानुराधामृगमूलरेवतीकरं मघास्वातिरदूषणो गणः। खेरमीनोमकारादिषङ्ग्रही करग्र-हे मङ्गलदा मृगीदृशाम्। इति। मकारादिं समारभ्य षण्णां ग्रहाणां राशीनां समाहारो मकरादिषट्ग्र-ही कीदृशोऽमीनः चैत्रमासरहितः अदूषणो वेधादिदूषणरहितः पुण्याहे ज्योतिःशास्त्रोक्तविष्ट्यादि-दोषरहिते कुमार्य्या अनन्यपूर्वायाः कन्यायाः पाणिं गृह्णीयात् पाणिंहस्तं स्वगृह्योक्तविधिना गृह्णी-यात्। उदगयनादौ देवान् कुर्वीतेति श्रुत्यागम्यते। आपूर्य्यमाणपक्षोऽपि देवानामेव। य आपूर्य्यते अर्द्धमासः स देवानामिति श्रुतेः। पुण्याह इति स्मरणात् सर्वेदेवविषयमेतदित्यवगम्यते। कुमार्य्या ग्र-हणं विंशतिप्रसूताव्युदासार्थेतेन विंशतिप्रसूतायाः स्मृत्यन्तरविहितस्य पुनर्विवाहस्यानियमः। याव-द्विंशतिवर्षशब्दानां प्रवृत्तिर्यस्यां भवति साष्टाविंशतिवार्षिकी यावत् तावत् प्रसूताऽपि संजातकन्या-बालकाऽपि यदास्यात्तथापि तस्या विवाहः। अष्टाविंशतिवर्षपर्य्यन्तं दुहितृपुत्रवत्यपि यदीच्छां करोति तदान्येन पाणिं गृह्णीयादिति तस्याः पुनर्भूविवाहविधानेन विवाहः। तस्मिन्नायनपक्षादिनियमः नक्षत्र-नियमस्त्वस्ति। तन्नियममाह। त्रिषु त्रिषूत्तरादिषु इति। उत्तराफाल्गुन्याषाढाभाद्राआदिर्येषां तान्युत्त-रादीनि तेषु कतिषु त्रिषु तथाहि उत्तराहस्तचित्राउत्तराश्रवणधनिष्ठा उत्तरारेवत्यश्वनीति त्रितयत्रिकं स्वातौ वा मृगशिरसि रोहिण्याम्वा वाशब्देन शुभविवाहनक्षत्रेषु नक्षत्रत्रिकमेव तदधिपतीनां वायुच-न्द्रविधातॄणां सार्वजनीनत्वात्। अमङ्गलविवाहे नक्षत्रत्रयमेवगृह्यते।
ह्मणस्य वर्णानुपूर्व्येण द्वे राजन्यस्यैका वैश्यस्य सर्वेषाᳪ शूद्रामप्येके मन्त्रवर्ज्जम्॥
विवाहस्यास्य मङ्गलविवाहादुत्तरत्वेन उत्तराणां तिसृणां ग्रहणमिति। उक्तद्वादशनक्षत्राणामन्यतमे-ऽन्यपूर्वायाः पुनर्भूविवाहः सामान्येनोक्त इति। कुमार्य्याः पाणिं गृह्णीयादिति सामान्येनोक्तम् पूर्वमि-दानीं विशेषेणाह। तिस्रो ब्राह्मणस्येति। ब्राह्मणस्य द्विजाग्न्यस्य वर्णानुपूर्व्येण वर्णक्रमेण तिस्रो ब्राह्म-णक्षत्रियावैश्या इति विवाह्याःभवेयुः। राजन्यस्य क्षत्रियस्य द्वेक्षत्रियावैश्ये विवाह्ये भवेतां। वैश्यस्य एका वैश्या एव विवाह्याभवेत्। वर्णानुपूर्व्येणेति आनुपूर्व्यग्रहणात् व्युत्क्रमो निषिद्ध इत्यर्थः। सर्वेषा-मिति। सर्वेषां ब्राह्मणक्षत्रियविशां एके आचार्याः शूद्रामपि विवाह्यांमन्यन्ते। तत्र विशेषमाह। मन्त्र-वर्ज्जे। मन्त्ररहितं यथा भवति तथा। अत्र द्विजातीनामपि शूद्रापरिणयने आचार्य्येण मन्त्रवत्क्रिया-निषेधात्। शूद्रस्य तु शूद्रापरिणयने यन्मन्त्रवद्धोमादि कर्म्म कुर्वन्ति तदशास्त्रीयम्। एके द्विजातीनां शूद्राविवाहं न मन्यन्ते शूद्राया धर्मकार्य्येष्वनधिकारात्। अनधिकारत्वमेव दर्शयति। रामा रमणायो-पेयते न धर्म्माय कृष्णजातीयेति निरुक्तकारपारस्कराचार्य्यवचनात्। अतो रमणार्थेशूद्रापरिणयनं पक्षे एव एवं सति षण्मासदीक्षासंवत्सरदीक्षानन्तरं अग्निं चित्वा प्रथमं न रामामुपेयात् इति कथं निषे-ध उपपद्यते प्राप्तिपूर्वको निषेध इति न्यायात्। यदि रामोढा न स्यात्तदाऽग्निचितः कथं तत्प्रथमगमनं प्रतिषिध्येत तस्माच्छूद्रापरिणयनं भोगार्थेइच्छया कुर्वतो न शास्त्रातिक्रमः धर्म्मप्रजारत्यर्थो हि विवा-होऽन्यः भोगार्थ एव शूद्राया विवाह इति। अथ प्रसङ्गात् धृताया भार्याया’ अपि विवाहो निरूप्यते। अथान्यपतिविधानविधिः। तत्र प्रमाणं धर्म्मशास्त्रे। पत्यौ नष्टे मृते क्लीबे पतिते व्रजिते तथा। पञ्चस्वा-पत्सु नारीणां पतिरन्यो विधीयते इति।
तत्र शुभदिने पतिम्वरा स्वाभिलषितं वरं देवरादिकमन्यं वा स्वाभीष्टं पवित्रचरितं जितेन्द्रियं पुरुषं फलपुष्पादिकमादाय मन्त्रपाठपूर्वकं वराय स्वयं ब्राह्मणद्वारा वा दद्यात्। तत्र मन्त्रः। ॐ अस्मिन्का-लेऽग्निसांनिध्ये स्नाता स्नाते ह्यरोगिणि। दास्येऽहन्तुभ्यमात्मानं भोगार्थेस्वर्गसिद्धये॥ इति मन्त्रेण॥
वृतोऽसीति तस्मै स्वयं फलयुष्पादिकं दत्वा पतिं वृणुयात् ब्राह्मणाद्वारा वरणे तु। आत्मानं दास्यते सेति भोगार्थेस्वर्गसिद्धये। इति मन्त्रेण फलपुष्पादिना वृतोऽसीति तयेति फलपुष्पादिकं दत्वा ब्राह्मणद्वारा पतिं वृणुयात्। ततो वृतोऽस्मीत्युक्त्वा फलपुष्पादिकमादाय पुष्पाणि शिरस्याधाय फलं भक्षयेत्। अथ कस्मिंश्चित्पर्वणि अन्यस्मिन्वा शुभदिने गोमयाद्युपलिप्तभूमिविशेषे स्नातं वरं समुपवेश्य स्वयमपि स्नात्वा नवीनवासांसि परिधाय भूषणालङ्कारादिनात्मानमलंकृत्वा तत्समीपे स-मुपविश्य आचान्ता सा पतिम्वरा दक्षहस्तेन जलगन्धपुष्पैरपवित्रः पवित्रो वेत्यादिनात्मानं प्रसिञ्च्य व-रपतिम्वरयोर्मङ्गलार्थेब्राह्मणस्तावद्गणपतिं षोडशमातृकानवग्रहसहितं विधाय भगवन् गणपतिरसी-ति गणराजं प्रतिष्ठाप्य कलशञ्च संस्थाप्य स्वस्त्ययनं कुर्यात्। ततो जलाक्षतादिकमादाय पतिम्वरा अद्यतत्सदित्यादि सङ्कल्पं विधायात्मनः पूर्वकं गोत्रं समुच्चार्याऽमुकगोत्राऽमुकदेवी स्ववरणीयपति-समन्विताया मम सर्वदुःखशोकप्रध्वंसपूर्वकैहिकामुष्मिकसर्वाभीष्टसाधनाय स्वशरीरप्रदानमहं क-रिष्ये इति प्रतिज्ञाय पुनर्जलादिकमादाय अद्य तत्सदिति पठित्वा अमुकगोत्राऽमुकदेवीस्ववरणीयप-तिसमन्विताया मम समस्तदुःखशोकप्रत्यूहसमुदायप्रध्वंसपूर्वकसर्वाभीष्टसंसाधनाय कर्तव्यस्वप्रदा-ननिर्विघ्नसमाप्तिहेतवे गणपतिप्रभृतिमातृनवग्रहपूजनमहं करिष्ये इति पठित्वोत्सृजेत्। अथ गणानां त्वेति मन्त्रेण गणपतिमक्षतैः प्रतिष्ठाप्य ॐ आवाहयाम्यहं देवं
गणेशं शिवनन्दनम्। इत्यादि-नाआवाह्य आसनपाद्यार्घाचमनस्नानवस्त्रकौसुंभसूत्रगन्धपुष्पधूपदीपनैवेद्यदक्षिणान्तं सम्पूज्य ॐ सुमुखश्चैकदन्तश्चेत्यादि पठित्वा प्रणमेत्। अथवा ब्राह्मणद्वारा उभयो रक्षाविधानम्। ततो गौरी पद्मा शची मेधा सावित्री विजया जया। इत्यादिना अक्षतैर्मातृृःप्रतिष्ठाप्य आवाहनादिषोडशोपचारैः सम्पू-ज्य माया कुण्डलिनीत्यादिपठित्वा प्रणमेत्। अथ आकृष्णेन रजसेत्यादिनवभिः ऋग्भिरक्षतैर्नवग्रहान् प्रतिष्ठाप्य तथैव ब्रह्मजज्ञानमित्यादिमन्त्रैस्त्रिभिरक्षतैरेव ब्रह्मविष्णुरुद्रानपि प्रतिष्ठाप्य आवाहनादि-षोडशोपचारैः सम्पूज्य हस्तौ समानीय ॐ ब्रह्मामुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च। गुरुश्चशुक्रः शनिराहुकेतवः सर्वे ग्रहाः शान्तिकरा भवन्तु इति पठित्वा प्रणमेत्। अथ कलशं स्वपि-धानेन पिहितं पूर्वस्थापितं चतुर्द्दिशिकृततिलकं कौसुंभसूत्रनद्धमङ्गलं पञ्चरत्नसमन्वितं गले कृताश्व-त्थशमीपत्रं दधि हरिद्रामङ्गलबिंदुभिरञ्चितं सव्यहस्तधृताक्षतेभ्यः दक्षहस्तेन अक्षतानादाय ॐ ऋग्वे-दाय नमः यजुर्वेदाय नमः सामवेदाय नमः अथर्ववेदाय नमः कलशाय नमः कलशकुम्भाय नमः रु-द्राय नमः समुद्राय नमः तैरक्षतप्रक्षेपैरेव एभिर्मन्त्रैः सम्पूज्य हस्तौ समानीय संप्रार्थयेत्। देवदानवस-म्वादे मथ्यमाने महोदधौ। उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम्। त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः। त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः॥ शिवः स्वयं त्वमेवासि त्वं विष्णु-स्त्वं प्रजापतिः। आदित्या वसवो रुद्रा विश्वे देवाः सपैतृकाः। त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफ-लप्रदाः॥ त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव। सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा॥ ब्रह्मणा निर्मितस्त्वं हि मन्त्रैश्चैवामृतोपमैः। प्रार्थयामि च त्वां कुम्भ वांछितार्थेप्रयच्छ मे। इति सम्प्रार्थ्य षोड-षोपचारैः सम्पूजयेत्। एवं पतिम्वरा देवान्
गणेशादीन् सम्पूजयेत्। अथ वरो विघ्नध्वंसपूर्वकं स्वस्य मङ्गलादिप्राप्तये सकलजगज्जगत्कार्यसंसाधनाय च गणेशादीन् सम्पूजयेत्। तेनैवोक्तविधिना तत्र प्रतिज्ञासङ्कल्पस्तु विशेषः। ॐ अद्य तत्सदित्यादि कालज्ञानं कृत्वा अमुकगोत्रोऽमुकशर्मापरपूर्व-भार्याङ्गसङ्गजपापाभावपूर्वकस्वर्गजनकधर्माऽव्रिरुद्धभोगसुखावाप्तये शास्त्रविधिना पूनर्भूस्वीकर-णमहं करिष्ये। पुनः अद्य तत्सत् अमुकगोत्रोऽमुकशर्मा परपूर्वभार्याङ्गसङ्गजपापाभावपूर्वकस्वर्गज-नकधर्माविरुद्धभोगसुखावाप्तये शास्त्रविधिना पूनर्भूस्वीकरणनिर्विघ्नसमाप्तये गणेशमातृकानवग्रह-कुम्भपूजनमहं करिष्ये। इति प्रतिज्ञासङ्कल्पवाक्यं विधाय पूर्वोक्तविधिना गणेशादीन् सम्पूजयेत्। एवमुभयत्र सम्पूजने कृते अथ पतिम्वरा वरस्य चरणौ प्रक्षाल्य प्राङ्मुखी वराभिमुखी वा भूत्वा ह-स्तौ समानीय त्वं विष्णुः कमलाकान्तः साक्षादव्यय ईश्वरः। तुभ्यमात्मप्रदानेनाऽऽवां भवेतामपापि-नौ॥ धर्मः सत्यं तपः सत्यं सत्यं शास्त्रं शिवाज्ञया। तेन सत्येन देवेश न भवेत्पापमावयोः इति सम्प्रा-र्थ्य वरसम्वरणसामग्री मङ्गलसूत्रगन्धपुष्पस्रक्पौरुषेयसमस्तवस्त्राणि न्यूनाधिकवस्त्राणि वा यज्ञोप-वीताक्षतकमंडलुपानपात्रपुरुषभूषणानि कर्णकुण्डलकण्ठसूत्राङ्गदकङ्कणमुद्रिकामुद्रा गृहीत्वा ता-म्रपात्रेण जलं दक्षिणहस्तेनादाय वामहस्ते सामग्र्यं निधाय ॐ अद्यतत्सदित्यादिकालज्ञानं कृत्वाऽमु-कगोत्रामुकदेवी स्वस्य कायिकवाचिकमानसिकजनितजन्यजनिष्यमाणसकलदुरितसमुदायविनाश-पूर्वकश्रुतिस्मृतिपुराणोक्तपुण्यफलाक्षयब्रह्मलोकादिकसुखाप्तिकामशास्त्रोक्तविधिना आत्मसम्प्रदा-नार्थमनयावरणसामग्न्याऽमुकगोत्रममुकशर्माणं वरमहं वृणे। वृतोऽस्मीति प्रतिवचनं ततो मङ्गलसूत्रे-ण वरं करे बद्ध्वा गन्धं ललाटे तस्य कृत्वा पुष्पमालां गले परिधाय यज्ञोपवीतं दत्वा भूषणानि व-स्त्राणि च भूषयित्वा वासयित्वा च नमस्कुर्यात्। ततो वरस्य दक्षिणाङ्गुष्ठं प्रक्षाल्याचामेत्। आच
म्य हस्तौ समानीय अद्यअभृति तव दासी भवामीति ब्रूयात्। अथ सा पतिम्वरावामहस्तेन सव्यस्तनं गृ-हीत्वा अथवामकरं स्वहृदये न्यस्य दक्षिणहस्तेन जलगन्धाक्षतानि गृहीत्वा ॐमद्यतत्सत्। जंबूद्वीपे भारतखण्डे कलियुगे वर्तमाने आर्यावर्ते पुण्यबृहस्पतिक्षेत्रेऽमुकायनगते सूर्येऽमुकर्तावमुकमासेऽमु-कपक्षेऽमुकतिथावमुकवासरेऽमुकयोगमुहूर्तवर्तमानेऽमुकगोत्रामुकदेवीयोषिज्जन्मनि बालविधवा-त्वप्रदायकमेरुमन्दराचलप्रतिनिध्यनेकजन्मार्जितदुरितपुञ्जनिवृतिपूर्वकस्वधवसंयुताक्षयब्रह्मलोकान-न्दभोगोत्तरममरावतीभोगोत्तरमकण्टकपृथिवीराज्यभोगावसानेलब्धब्रह्माद्वयज्ञानतोनिरतिशयानन्द-रूपमुक्तिलब्धये इमं पाञ्चभौतिकं स्वीयं कलेवरमभयदैवतकं त्वदुपभोगार्थममुकगोत्रायवमुकशर्म-णे तुभ्यमहं सम्प्रददे। ॐ स्वस्तीति प्रतिवचनम्। ततो दक्षिणाद्रव्यमादाय ॐमद्यतत्सत् कृतैतत्सक-लदुरितक्षयपूर्वकसमस्तभोगावाप्तिपरिणाममुक्तिसुखावाप्तिहेतवे स्वयं दत्तात्मशरीरदानप्रतिष्ठार्थे सुवर्णमग्निदैवतकं रजतं वा चन्द्रदैवतकं ताम्रं वा अर्कदैवतकं फलम्वा वनस्पतिदैवतकं अमुकगो-त्रायामुकशर्मणे वराय दक्षिणां तुभ्यमहं सम्प्रददे। ततः प्रतिग्रहीता तस्याः स्तनं हृदयं दक्षिणहस्तेन स्पृशेत्। ततो वरस्तत्रैव स्थानेऽन्यस्मिन्वा स्थाने तद्दिने दिनान्तरे वा कुण्डे स्थण्डिले वा पञ्च भूसं-स्कारान् कृत्वाऽग्निं संस्थाप्य जलपात्रं किञ्चिन्निधाय समिद्धतमेऽग्नौ आज्याहुतिं कुर्य्यात् ॐ प्रजापये स्वाहा इदं प्रजापतये ॐ अग्नये स्वाहा इदमग्नये ॐ इन्द्राय स्वाहा इदमिन्द्राय ॐ सोमाय स्वाहा इ-दं सोमाय। अथ व्याहृतिहोमः। ॐ भूः स्वाहा इदं भूः ॐ भुवः स्वाहा इदं भुवः ॐ स्वः स्वाहा इदं स्वः। एता महाव्याहृतयः। ॐ त्वन्नोऽग्ने इत्यादिमन्त्रैः पञ्चाहुतयः। एष होमो द्विजानामेव न तु शूद्रा-णां व्याहृत्यादिहोमः। ततो नमो भगवते वासुदेवाय स्वाहा इदं भगवते ॐ विष्णवे स्वाहा इदं विष्णवे ॐ नृसिंहाय स्वाहा इदं नृसिंहाय ॐ नारायणाय स्वाहा इदं नारायणाय ॐ अच्युताय स्वाहा इदम-च्युताय ॐ भौमाय स्वाहा इदं भौमाय इति विष्णुहोमः। ततो दशदिक्पालहोमः ततो नवग्रहहोमः स्वस्वनामभिश्चतुर्थ्यन्तैः स्वाहान्तैर्होमः इदमिति प्रक्षेपः। ततोऽग्नयेस्विष्टकृते स्वाहा इदमग्नये स्विष्ट-कृते इति स्विष्टकृद्धोमः। अथ पूर्णाहुतिं कुर्य्यात् ॐ मूर्द्धानमिति मन्त्रेण। तत उपविश्य त्र्यायुषं कु-र्य्यात् आत्मानं पतिंवरां च। ततः पतिंवरायै वरो योषिते परिधानवस्त्रं परिधापयित्वा कञ्चुकीञ्च परि-धापयेत्। उत्तरीयं सदशं च परिधापयित्वा भूषणैर्भूषयित्वा च कुंकुमरञ्जितं कार्पासमुत्तरीयं यदि वा चतुःकोणं चतुर्द्दिशं मध्यभागे इति नवस्थानतो रञ्जितमुत्तरीयं अन्यन्मनोरमं वा पट्टवस्त्रं पीतकौशेयं वा वरो गृहीत्वा। शरीरावरकं वासो लज्जायाः करणं परम्। लज्जायास्ते सुखायाहं क्षिपाम्येतत् तवो-परि। इतिमन्त्रेण पतिम्वरोपरि विस्तार्य क्षिपेत्। पतिम्वरा च तद्वस्त्रेण सर्वाण्यङ्गान्याच्छादयित्वाऽग्निं प्रणमेत्। ततः कलशं प्रणमेत्। ततो वरं प्रणमेत्। दिवा सूर्य्येप्रणमेत् रात्रौ ध्रुवमरुन्धतीञ्च प्रणमेत्। एवं प्रणम्य वरेण सह पतिम्वरा अग्निं सप्तवाराणि प्रदक्षिणीकृत्य यानि कानि च पापानि जन्मान्तर-कृतानि च। तानि सर्वाणि नश्यन्तु प्रदक्षिणपदेपदे इति मन्त्रेण वरमग्रे कृत्वा ग्रन्थिबन्धनं विधायाग्नेः सप्त प्रदक्षिणा विहिताः। तत उपविश्य संश्रवं प्राश्य आचम्य विवाहकारकाय ब्राह्मणाय पुरोधसे च यथाशक्तिसङ्कल्पं कृत्वा दक्षिणां दद्यात्। अथ किञ्चिद्भक्ष्यद्रव्यमादाय वरो ग्रासान्प्रतिमन्त्रान्ते पति-म्वरायै भोजयेत्। अथ मन्त्राः। प्राणैस्ते प्राणान् सन्दधामि १ अस्थिभिरस्थीनि सन्दधामि २ त्वचा ते त्वचं सन्दधामि ३मांसैस्ते मांसान् सन्दधामि ४ मम वाचमेकमना जुषस्व ५। ॐ सर्वभूताधिवासः श्रीविष्णुरीशः सनातनः। सन्तुष्टोऽनेन यागेन सिन्धौ पापमुपक्षिपेदिति सम्प्रार्थ्य भगवन्नावयोरङ्गसङ्ग-जन्यं पापं क्षाराम्बुधौ प्रक्षिप्य संसारादुत्तारयेत्युक्त्वा नमेत्। ब्राह्मणेभ्य आशीर्वचनपूर्वकं प्रसादमादा-य यथासुखं विहरेत्। इति पुनर्भूविधानं प्रासङ्गिकमभिधायेदानीं प्रस्तुतमनुसरामः।
ततो वेदिकायां तुषकेशशर्कराभस्मादिरहितां चतुरस्त्रां भूमिं कुशैः परिसमूह्य तानैशान्यां परित्यज्य गोमयोदकेनोपलिप्य स्फ्येन स्रुवेण वा प्रागग्रप्रादेशमितमुत्त-रोत्तरक्रमेण त्रिरुल्लिख्योल्लेखनक्रमेणाऽनामिकाङ्गुष्ठाभ्यां मृदमुद्धृत्य जलेना-
तत इति ततो गोरुत्सर्गानन्तरं पूर्वञ्च यथाविधिनिरूपितायां वेदिकायां तुषकेशशर्कराभस्मादिरहितां चतुरस्रां चतुष्कोणान्वितचतुरस्राकारां भूमिं कुशैः परिसमूह्य परिसमूंहनं कृत्वा तान्कुशानैशान्यां परित्यज्य गोमयोदकेनोपलिप्य। अत्यन्तजीर्णदेहाया वन्ध्यायाश्चविशेषतः। रोगार्त्तनवसूताया न गो-मयमुपाहरेत्॥जलाशयादन्त्यजाद्यैः कारितादस्थिचर्म्मभिः। कृमिकीटादिभिर्दुष्टान्नैवोदकमुपाह-रेत्॥ कृमिहीनं सुवर्णस्थं मलमूत्राद्यदूषितम्। सुस्वादु शुद्धसंस्थानादुदकन्तु समाहरेत् इति॥ कूपात् प्रस्रवणात् वानात् सरसो देवप्रग्रहात्। नद्यादिसङ्गमात्तीर्थादुदकं समुपाहरेत्। इति धर्म्मशास्त्रोक्त-शुचिगोमयोदकाभ्यां उपलेपनं विधाय। स्फ्येन स्रुवेण वा प्रागग्र्यप्रादेशमितं प्रागग्राश्व प्रादेशप्रमाणा-श्चयथा स्यात्तथा पश्चिमतः आरभ्योर्ध्द्वेनिष्क्रान्ताः प्रागग्राः वितस्तिपरिमाणाः प्रादेशमिताः एतावन्मात्रं यथा स्यात्तथा उत्तरोत्तरक्रमेण दक्षिणत आरम्योत्तरतस्त्रिरुल्लिख्य तिस्रो रेखा विधाय उल्लेखनक्र-मेण दक्षिणत उत्तरोत्तर इत्यर्थात्अनामिकाङ्गुष्ठाभ्यां रेखातो मृदमुद्धृत्य जलेनाभ्युक्ष्य सिक्त्वा ज-लं गृहीत्वा पादावभिषिञ्चेत् तत्र तद्देशे तूष्णीं न केनाऽपि मन्त्रेणेत्यर्थः कांस्यपात्रस्थमपरपात्रेण पि-हितं वह्निंलौकिकं निर्मथितं वा प्रत्यङ्मुखं स्थापकः स्वयं प्राङ्मुखः प्रत्यङ्मुखं यस्मिन्पात्रे स्थितो वह्निस्तत्पात्रं स्वाभिमुखं कृत्वा उपसमाधाय स्थापयित्वा तद्रक्षणार्थेवह्निरक्षणाय कञ्चिन्नियुज्य क-स्मैचिदृत्विजे आदेशं कृत्वा यथायं नोपशमेदिति विधेयमित्यादिश्येत्यर्थः।
भ्युक्ष्य तत्र तूष्णीं कांस्यपात्रस्थं पिहितं वह्निं प्राङ्मुखंः प्रत्यङ्मुखमुपसमाधाय तद्रक्षार्थेकञ्चिन्नियुज्य कौतुकागाराद्वरः कन्यामानीय मण्डप उपवेश्य अथैनां वा-सः परिधापयति। ॐ जरांगच्छेति मन्त्रस्य प्रजापतिर्ऋषिस्त्रिष्टुप् छन्दस्तन्तवो दे-वता वस्त्रपरिधाने विनियोगः॥
वरः कौतुकागारान्मण्डपे कन्यामानीय वक्ष्यमाणमन्त्राभ्यां वाससी परिधापयतीत्यर्थः। अथैनामिति अथाऽग्निस्थापनानन्तरं एनां कुमारीं वासः अहतं सदशं वस्त्रं परिधापयति परिहितं कारयति वरः जरां गच्छेति मन्त्रं पठित्वा। कुमारी च स्वयं परिधत्ते तदनुसरणेनेति सदशं नूतनं वस्त्रं मञ्जिष्ठादिसु-रञ्जितम्। अहतं तद्विजानीयादित्युक्तं पूर्वसूरिभिरिति वासोलक्षणेन शुभं वस्त्रं ज्ञायते “ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम्। अहतं तद्विजानीयात्सर्वकर्म्मसु पावनम्” इति ब्रह्मपुराणीयवचनात्। चैलव-स्त्रं ज्ञायते ईषद्धौतं अरजकादिधौ तमिति। अथ मन्त्रार्थः। हे आयुष्मति सम्पूर्णायुःसम्पन्ने त्वं जरां निर्दुष्टं वृद्धत्वं मया सह गच्छ प्राप्नुहि चिरकालजीविनी भवेत्यर्थः। किञ्च वासो मया सम्पादितं वस्त्रं परिधत्स्व परिधेहि वस्त्रायुक्ता माकदाचिदपि भवेत्यर्थः।
ॐ जरांगच्छ परिधत्स्व वासो भवाकृष्टीनामभिशस्तपावा शतञ्च जीव शरदः सुव-र्च्चा रयिश्च पुत्राननुसंव्ययस्वाऽऽयुष्मतीदं परिधत्स्व वासः इति मन्त्रेण परिधानव-स्त्रं परिधापयेद्वरः॥ अथोत्तरीयंवासः समादाय वरोऽग्रिममन्त्रेण परिधा-
आकृष्टीनामिति प्रथमार्थे षष्ठी। किञ्च त्वं आकृष्टी भव मनोहरा भवेत्यर्थः। आकृष्यते मनो लोचनानि अनयेत्याकृष्टी “आकृष्टी स्यान्मनोहरा” इति कोशोक्तिः। किञ्च अभिशस्तपावा भव अभिशस्तमभि-शापः शंस प्रमादे इत्यस्य धातोरभिशस्तेति रूपम्। अभिशस्तेः अभिशापात्पातीति अभिशस्तपावा भव सात्विकस्वभावात्सौम्यत्वेन प्रसिद्धस्य शमोपेतस्यास्मत्कुलस्य कस्मिश्चित्कर्म्मणि कयचिदापि केनचिदपि कलहकरणेनोपालम्भकारयित्री मा भवेत्यर्थः। बालस्वभावेनागतक्रूरत्वं विहाय अतिस-ङ्कुचितेन्द्रियकश्वशुरगृहनिवासव्यवहारविधोनन सौम्यस्वभावा भवेत्यर्थः यद्वा अभिशस्तं प्रमादः तस्मात्पावा रहिता भव। प्रमादतां विहाय गृहकर्म्मादौ प्रयताभवेत्यर्थः। किञ्च आकृष्टीनामित्यव-धारणे षष्ठी नतु प्रथमार्थे। तदा च आकर्षन्ते कामादिभिर्नरान् इति आकृष्ट्यो नार्य्यः तासां मध्ये त्व-मभिशस्तपावा भवेत्येवमन्वयः। शरदः शतं पूर्णायुर्वर्षाणि जीवस्व प्राणधारणयाऽधिस्त्रिव्यापारवती भव सुवर्च्चाःकिञ्च पातिव्रत्यतेजोभिः शोभनदीप्तियुक्ता भूत्वा रयिं धनं पुत्रांश्च अनुसंव्ययस्व संवृणु धारयस्व उत्पाद्यराशीकुर्वित्यभिप्रायः। इदं वेदिकायां मया दत्तं वासः परिधत्स्व परिधेहीत्यर्थः। अत्र प्रथमं यत्परिधत्स्व वास इति तन्मा कदाचिदपि वस्त्रवियुक्ता भवेत्याशंसायां वाक्यं अन्ते च यत् इदं परिधत्स्व वास इति तत्प्रेरणे अतो न पुनरुक्तिदोष इति भावः।
अथोत्तरीयमिति। अथ वस्त्रपरिधानानन्तरं उत्तरीयं वासः परिधापयति
पयेत्। याआकृतन्नित्यादि मन्त्रस्य प्रजापतिर्ऋषिर्जदती छन्दो विधात्र्यो देवता व-स्त्रधारणे विनियोगः। ॐ या आकृतन्नवयन् या अतन्वत याश्च देव्यस्तन्तूनभित-स्ततंथ तास्ता देवीर्जरसे संव्ययस्वायुष्मतीदं परिधत्स्व वासः॥
वरः या आकृतन्निति मन्त्रेण। अत्र परिधापयतीति णिजन्तस्य कारितार्थत्वात् परिधत्स्व वास इति म-न्त्रस्यापि तदर्थत्वात् परिधापयितान्य इत्यवगम्यते। स किं वरः अध्वर्युर्वा इति संशयः। तत्राध्वर्युः कर्मसु वेदयोगादिति परिभाषाबलात् अध्वर्युः परिधापयतीति चेत् तन्न। स्मार्तेषु कर्मसु अध्वर्योः कर्तृत्वयोगाभावात्। समाख्ययाहि अध्वर्योः कर्मसु योगः समाख्यो वेदयोगात्। न च स्मृतिर्वेदः स्मर-णादेव स्मृतीनां प्रामाण्यं न पुनर्वेदमूलत्वेन अतः समाख्याया अभावात् स्वयं पाकयज्ञेषु अतो वर एव परिधापयिता ननु पूर्णपात्रो दक्षिणावरेणेति पाकयज्ञेषु परिकयार्थादक्षिणा श्रूयते सा च दक्षिणापरि-क्रेतव्याऽभावेनोपपद्यते अतस्तदन्यथाऽनुपपत्त्याऽन्यस्य कर्तृत्वं कल्प्यताम्। नैतदेवम् अन्यस्य कृताऽकृतावेक्षणरूपस्य ब्रह्मकर्मपरिक्रेतव्यस्य कर्तुर्विद्यमानत्वात् परिक्रयार्थदक्षिणाश्रवणस्योपप-त्तेः। किञ्च वचनाऽभावे परः परस्य कर्म कर्तेन प्रभवतीति। यतोऽत्र पाकयज्ञेषु स्वतोऽन्यकर्तृत्व-विधायकं न वचनमस्ति अतो नान्यस्य कर्तृत्वकल्पनेत्यर्थः। श्रौतवत्समाख्याऽपिनास्ति। ननु स्मृतीनां वेदमूलत्वात् यद्वेदमूलं स्मार्तेकर्म तद्वेदसमाख्ययाऽन्यस्य कर्तृत्वं कल्प्यताम् यतः स्मृतयोऽप्यनिश्चि-तवेदमूला एव अतो न विज्ञायते किं वेदमूलमिदं कर्म यद्वेदसमाख्या अन्यस्य कर्तृत्वं कल्प्येत। किंच परकर्तृत्वे मन्त्रलिङ्गविरोधोऽपि स एव निरूपयति
इति मंत्रेण अहतवासो धौतं वा मौत्रेणाच्छादयीतेति श्रुत्युनुसारेण वरोऽप्येतादृशे वाससी अत्र परिधत्ते परिधास्यै इत्यादिमन्त्राभ्यां परिधास्यै इत्यादिमन्त्रस्याथर्वण ऋषिस्तृष्टुप् छन्दः तन्तवो देवता वासःपरिधाने विनियोगः। ॐ परिधास्यै यशो-धास्यै दीर्घायुष्ट्वाय जरदृष्टिरस्मि शतञ्च जीवामि
मामनुव्रता भव प्रजापतिष्ट्वा नियुनक्तु मह्यं अमोहमस्मि इत्यादि सा नः पूषा शिवतमेत्यादयो वैवाहिका मन्त्रा आत्मलिङ्गाः ते च परकर्तृत्वे विरुध्यन्ते। तस्मात् पाकयज्ञेषु स्वस्यैव कर्तृत्वमिति सिद्धम्। अथोत्तरीयं वासो या आकृतन्नित्यादिमन्त्रेण परिधापयतीत्यनुवर्तते अथ मन्त्रार्थः। देवीरिति प्रथमार्थे द्वितीया। या देवी र्देव्यः इदं वास आकृतन् कर्तितवत्यः। कृती कर्तने या देव्योऽवयन् वीत-वत्यः व्येज् तन्तुसन्ताने तन्तुसन्तानं कृतवत्यः मध्यमप्रतिबन्धेन पृथक् २ स्थापिता नपि एकत्रीकु-र्वन्त्यः यास्तन्तून् सूत्राणि अतन्वन् तिर्य्यक् कृत्वा विस्तारितवत्यः ओ तवत्य इत्यर्थः। चकारात् यादे-व्यः तंतून् अभितः उभयोः पार्श्वयोरपि ततंथ तेनुः तुरीवेमादिव्यापारेण ग्रथितवत्यः प्रोतवत्य इत्यर्थः। तास्तत्तत्सामर्थ्यदात्र्यो देव्यः स्वकार्येरूपवदिदं वासःत्वा त्वां जरसे दीर्घकालनिर्दुष्टजीवनाय संव्ययस्व परिधापयन्ति पुरुषादिव्यत्ययः छान्दसः अतो हे आयुष्मति इदं एतादृशं वासः परिधत्स्व उत्तरीयत्वेन वृणु अत्र वरोऽपि परिधास्यै इति यशसामेति मन्त्राभ्यां वाससी परिधत्ते अहतं नवीनं सदंशं अनुपहितं। ननु अधौतवस्त्रो यः कुर्यान्नित्यनैमित्तिकीं क्रियाम्। न क्रियाफलमाप्नोति वृथा त-स्य परिश्रमः। इति वचनात्कथमधौतं धारयेत्तत्राह अमौत्रेण धौतम्वा परिदध्यात्। मौत्रो रजकस्तद्व्य
शरदः पुरूची रायस्पोषमभिसंव्ययिष्ये इति पठित्वा वरः परिधत्ते। अथोत्तरीयं आच्छादयतीति सूत्रम्। ॐ यशसामेत्यादि मन्त्रस्य प्रजापतिर्ऋषिर्जगती छन्दो विधात्र्यो देवता वासोधारणे विनियोगः। ॐ यशसा मा द्यावापृथिवी यशसेन्द्राबृह-स्पती यशो भगश्च माविदद्यशो मा प्रतिपद्यतामिति पठित्वोत्तरीयं परिधत्ते।
तिरिक्तेन धौतं वास आच्छादयीत। अर्थ मन्त्रार्थः हे वासोदेवते परिधास्यै अनेकशुभवस्त्रपरिधानाय तथा यशोधास्यै कीर्त्याधानाय तथा दीर्घायुष्ट्वाय निर्दुष्टचिरजीवनाय च इदं वासः संव्ययिष्ये परिधा-स्ये किम्भूतोऽहं वासोदेवतानुग्रहेण जरदृष्ट्रिरायुःपरिपाकवान् पुनः किम्भूतोऽहं पुरूची पुरुभिर्बहु-भिः पुत्रधनादिभिः उचः संयोगोऽस्ति यस्य सः पुरूची। उच समवाये इत्यस्य धातो रूपं प्रथमैकव-चनम्। किम्भूतं वासः रायस्पोषं रायो धनादिसमृद्धिः तस्य पोषं पुष्टिकरमित्यर्थः। किञ्चैतत्सम्बन्धे-नाहं शरदः शतं वर्षाणि जीवामीत्यर्थः। इति पठित्वा वरः परिधत्ते। अथोत्तरीयमिति उत्तरीयं वासः आच्छादयीतेत्यनुषङ्गः यशसामेति मन्त्रेण। मन्त्रार्थः हे वासोदेवते द्यावापृथिवी द्यावाभूमी यशसायु-क्ते मा मां अविन्दत् अविन्दतां व्याप्नुतामिति यावत्। विद्लृ लाभे इत्यस्य रूपम्। विभक्तिवचनव्य-त्ययेनान्वयः। तथा इन्द्राबृहस्पती यशसा युक्तौ मा अविंदन् अविन्दतामिति पूर्ववत्। तथा च भगः सूर्योऽपि यशसा युक्तो माविन्दत् अविन्दतामिति पूर्ववत्। तथाच भगः सूर्योऽपि यशसा युक्तो माविं-दत्। तच्चैतैः सम्पादितं यशो मा मां प्रतिपद्यतां मां प्राप्नुयात् मयि सर्वदातिष्ठत्विति तात्पर्यम्। यद्वा तद्यशो मा प्रतिपद्यतां मेति निषेधार्थेऽव्ययम्। प्रतिरित्युपसर्गस्तु अपोपसर्गार्थे तथा सति तद्यशो मत्तो मापयातु इत्यर्थः।
ततः कन्याया वरस्य च द्विराचमनम्। ततः कन्याप्रदेन परस्परं समंजेथामिति प्रेषि-तयोः परस्परं सम्मुखीकरणम्। समंजन्त्विति मन्त्रस्याऽथर्वण ऋषिरनुष्टप् छन्दो विश्वेदेवा देवता मैत्रीकरणे विनियोगः। ॐ समंजन्तु विश्वे देवाः समापो हृदयानि
मत्त इति पदस्याध्याहारः वस्त्रद्वयाभावे एकमेव वासश्चेत् तदाऽपि परिधानमन्त्रं पठित्वा वस्त्राद्यर्द्धे परिधायाचम्य उत्तरार्द्धेगृहीत्वा उत्तरीयमन्त्रं पठित्वोत्तरीयं स्कन्धे निधायाचामेत्। इति द्विराचमन-स्योभयथा प्राप्तिरित्यभ्यधिको भेद इति। किञ्चैतन्मन्त्रद्वयं स्वकर्तृकपरिधाने बोद्धव्यं परकर्तृकपरि-धाने तु येनेशयेति मन्त्रांतरमित्यविरोधः। अथैनौ वधूवरौ कन्यापिता समञ्जयति परस्परं सम्मुखीक-रोति। समंजन्तु विश्वेदेवा इति मन्त्रेण। समञ्जनञ्च युवां परस्परं समंजेथामिति प्रेषितयोः परस्परं सम्मुखीकरणम्। तथा च वासांसि परिधायैतावाचांतौ यदि तिष्ठतः। सन्मुखीकरणं कुर्यात्तयोस्तु दुहि-तुः पिता इति। तथा च सुमन्तुरपि। पिता तु प्रेषणेनैव सम्मुखीकरणञ्चरेत्। मन्त्रलिङ्गात्तु मन्त्रस्तु प-ठनीयो वरेण चेति सत्यपि कारितत्वे वरस्यैव मन्त्रपाठो मन्त्रलिङ्गात्। कारितत्वञ्च सन्निधानात्कन्या-पितुरेव सन्निहितत्वं ह्यस्य तु प्रदातृत्वात्। मन्त्रपाठोऽपि कन्यासम्मुखमेव। अथ मन्त्रार्थः। हे कन्ये विश्वेदेवाः समस्ता देवताः तथासमापः शुद्धा आपो नौ आवयोर्हृदयानि मनांसि तद्धर्मान् संकल्पादी-न्वा समंजन्तु गुणातिशयाधानेन संस्कुर्वन्तु। तथा संमातरिश्वा अनुकूलो वायुः तथा संधाता अनुकूलः प्रजापतिः। सम् इति अप्यर्थे देष्ट्री उपदेशकर्त्रीदेवता, सावित्री अपि धर्मार्थकाममोक्षेषु धियो यो नः प्रचोदयात् इति श्रुत्या धर्माद्युपदेशकर्त्री गायत्री मन्त्राधिदेवता अपि नौ हृदयानि दधातु धर्मार्थका-ममोक्षेषु सुस्थितानि करोतु।
नौ संमातरिश्वा संधाता समुदेष्ट्री दधातु नौ इति वरः पठेत्। ततः कन्याप्रदकर्तृकं ग्रन्थिबन्धनम्॥ अथ कन्यादानम्। दाता शङ्खस्थदूर्वाक्षतफलपुष्पचन्दनजला-न्यादाय अथ कन्याप्रदः जामातृदक्षि-
तथा च याज्ञवल्क्यः। या योजयति भूतानां बुद्धिवृत्तिं पुनः पुनः। धर्मार्थकाममोक्षेषु तस्यै सावित्रि ते नमः। इति स्मृतिवचनादपि धर्माद्युपदेष्ट्री सावित्री एव नान्या इति। ननु वरवाक्ये कन्ये इति सम्बो-धनमनुचितं तत्राह। एतावत्कालपर्यन्तमेव तु कन्याशब्दप्रवृत्तिः एतदनन्तरं वधूशब्दप्रवृत्तिर्भविष्यि इति संसाधनायैव सम्बोधनदानम्। अर्थात् एतावत्पर्यन्तं ममाऽपि नत्वमिति इतरलोकवत् ममापि कन्याकथने न दोषः यतो वाग्दानेन न कन्यात्वं निर्वर्तते वरदानोचिताकन्या इति कन्या लक्षणानिवृ-त्तेः पूर्ववरस्य व्यङ्गत्वसम्भवेऽन्यवरदानोचितत्वस्य लक्षणस्य विद्यमानत्वात्। तथा चोक्तम्। आप्रदा-नाद्भवेत्कन्या चाऽभिषेकाद्वधूः स्मृता। सुमङ्गल्याचतुर्थ्या तु यथात्रेर्वचनन्तथा। अभिषेकानन्तरं सुम-ङ्गली वधूशब्दप्रवृत्तिः। तथा च नारदः। दशवर्षा भवेत्कन्या सम्प्रदाने वधूर्भवेत्। साङ्गुष्ठग्रहणे भा-र्या पत्नी चातुर्थकर्म्मणि। एतच्छब्दप्रवृत्तिप्रयोजनमाह कन्यादर्शनमात्रं स्याद्वरस्य वचनं नहि। वध्वा दर्शनसंस्पर्शभाषणं मुनिभिः स्मृतम्। वामभागे स्थितिः प्रोक्ता भार्याया धर्मकर्मसु। सर्वम्भोगविला-सादि पत्न्या सह समाचरेत् इति। ततः कन्याप्रदेति ततः कन्यावरयोः सम्मुखीकरणानन्तरं कन्याप्र-दकर्तृकं ग्रन्थिबन्धनम्। कन्याप्रदः कन्याप्रदाता कर्ता यस्य तत् ग्रन्थिबन्धनं द्रव्यपुष्पफलाक्षतादि कन्यावासि निक्षिप्य ग्रन्थिं बध्वा वरवस्त्रेण कन्याप्रदो ग्रन्थिबन्धनं कुर्य्यादित्यर्थः।
णकरोपरि कन्यादक्षिणकरं निधाय दाताहं वरुणो राजा द्रव्यमादित्यदैवतं विप्रो-ऽसौ विष्णुरूपेण
तथा च योगियाज्ञवल्क्यः। कन्यकासु दशे पार्श्वे द्रव्यपुष्पाक्षतानि च। निक्षिप्य तानि संबद्ध्वा वरव-स्त्रेण संयुजेत्॥ वस्त्रैः संयोज्य तौ पूर्वेकन्यादानं समाचरेत्। दानेन युक्तयोः पश्चाद्विध्यात्पाणिपीड-नम् इति। अथ कन्यादानम्। अथ ग्रन्थिबन्धनानन्तरं कन्यादानं तत्र विधिः। दाता शङ्खस्थेत्यादि प्रगृह्णात्वयं विधिरिति दाता पठेदित्यन्तं मूलकारेणैव दर्शितः स तु सुगम एवेति। तत्र प्रमाणानि। तथा च बृहत्पाराशरः। कन्यादानसमारम्भे दाता शङ्खे समाददेत्। दूर्वाक्षतफलं पुष्पं चन्दनं जलमेव च। जामातृदक्षिणकरोपरि कन्यादक्षिणकरं निधाय कृत्वा दाताहमित्यादिवाक्यं दाता पठेत्। कन्या-दानं ततः कुर्य्याद्यथोक्तं प्रब्रुवन्वचः इति। वचः सङ्कल्पवाक्यं इति। सङ्कल्पवाक्येऽपि विशेषमाह ऋ-ष्यशृङ्गः। अद्येत्यादि यथाकालज्ञानं कृत्वा तु दैशिकम्। सप्तम्यन्तन्तु षष्ठ्यन्तं गोत्रं प्रवरमेव च। वे-दादिवत्समुच्चार्य्य प्रपितामहपूर्वकम्। संज्ञाऽभिधानं चार्घस्य चतुर्थ्यन्तं वरन्तथा। द्वितीयान्तन्तु क-न्याया नाम सङ्कीर्त्तयेद्बुधः॥ पितृगोत्रादिवत्याश्च फलसंङ्कीर्त्तनं ततः। पत्नीत्वेन तुभ्यमहं ददे इति स-मुत्सृजेत्। ननु सर्वत्र वाक्ये तु पितृपूर्वकसम्बन्धकथनाऽभिधानत्वे सिद्धे प्रपितामहपूर्वकमिति वाक्ये कथमिति चेत्तत्राह। प्रपितामहपूर्वकमेव विवाहादौ वाक्यमृषिभिः प्रोक्तं प्रमाणन्तत्र ब्रह्मपुराणे। ना-न्दीमुखे विवाहादौ प्रपितामहपूर्वकम्। वाक्यमुच्चारयेत्प्राज्ञोऽप्यन्यत्र पितृपूर्वकमिति। प्रपितामहादि-सम्बन्धनिरूपणमपि अमुगोत्रस्याऽमुकप्रवरस्यामुकवेदिनोऽमुकसूत्रिणोऽमुकशाखिनोऽमुकाऽभि-धानस्य प्रपौत्रायेत्यादिकमपि यत् तत्रिवारं वाक्यं पठेत्।
प्रतिगृह्णात्वयं विधिः। इति दाता पठेत्। विप्रातिरिक्तग्रहीतृपक्षे विप्रोऽसावित्यत्र वरोऽसाविति पठेत्।
तथैव निरूपणात्। तथा च कर्म्मदीपिकायाम्। कन्यावरौ युतौ कृत्वा दाता स्वर्गादिसिद्धये। कन्या-दानस्य वाक्ये तु द्वयोः सम्बन्धकीर्तनम्। प्रपितामहादिमारभ्य गोत्रप्रवरादिसंयुतम्। कुलसम्बन्धक-रणं त्रिस्त्रिवारमुदीरणमिति। कर्म्मकन्दल्यामपि सम्बन्धमाभाषणपूर्वमाहुरिति आभाषणं परस्परम-भिमुखीभूय पुनःपुनर्वार्त्ताकरणम् तदेव पूर्वे मुख्यं यत्र तत्सम्बन्धमाहुरित्यर्थः। अन्यत्राऽपि।मैत्री स-प्तपदी प्रोक्ता सप्तवाक्याथवा भवेत्। सत्तराणान्तुत्रिपदी सत्तमानां पदेपदे इति वचनात्। द्वयोर्योनि-सम्बन्धजमैत्रीकरणे त्रिवारोच्चारणमेव। योनिसम्बन्धजा मैत्री तत्तुल्या नापरास्मृता। अन्याश्चोत्पद्य न-श्यन्ति नित्या मैत्रीयमुच्यते॥ योनिसम्बन्धजा मैत्री वैरत्वेऽपि न नश्यतीति धर्म्मवचनात्। सम्बन्धाना-न्तु सर्वेषां योनिसम्बन्धमुत्तमम्। अन्यत् क्रोधे विनश्येत इदं तु न विनश्यति। इति भृगुवचनात्। अथ कन्याप्रदानयोगो लिख्यते। उत्तरत्र पित्रा प्रत्ता इति सूत्रस्मरणात्। उत्तरत्र वाग्दानानन्तरं पित्रा जन-केन प्रत्ता विधिपूर्वकमर्घ्यमर्च्चयित्वा सङ्कल्पदत्ता वरगोत्रा तदधीना तदर्द्धशरीरा तत्कृतमर्धधर्म्मग्रह-णवती तद्गृहाधिष्ठात्री तत्सर्वसम्पत्स्वामिनी स्यादिति सूत्रार्थः। अथ कन्यादानसङ्कल्पवाक्यं लिख्य-ते॥ सर्वदानेभ्यः कन्यादानस्यैवोत्कृष्टत्वात्सङ्कल्पवाक्यस्याप्युत्कृष्टत्वमेव प्रदर्शितमिति तात्पर्य्यम्। कन्यादानात्परं दानं न भूतं न भविष्यति इति वच-नात्। तथा च गौतमः स्मरति। अश्वमेधः क्रतुवरो यथा यज्ञेषु चोत्तमः। एवं सर्वेषु दानेषु कन्यादानं प्रशस्यत इति। तथा च सूतसंहितायाम्। अश्वमेधस-हस्रस्य वाजपेयशतस्य च। एककन्याप्रदानेन फलमाप्नोति ना
कलाविति। सुमन्तुस्तु। यत्पुण्यं कोटि-यज्ञानां वेदपारायणे फलम्। कोटितीर्थस्नानजञ्च कन्यादानं ततोऽधिकमिति। एकविंशति वंश्याना-मात्मना सह भूपते। एकस्मात्कन्यकादानाद्ब्रह्मलोकमनश्वरम्॥ एकस्मिन्कन्यकादाने सर्वेकर्म्म स-माप्यते इति युधिष्ठिरंप्रति श्रीकृष्णवाक्यम्॥ अथ सङ्कल्पः। ॐ हरिः श्रीविष्णुः पुण्डरीकाक्षः पुनातु अद्य तत्सत् ब्रह्म अथानन्तवीर्य्यस्य श्रीमदादिनारायणस्याचिन्त्याऽपरिमितानन्तशक्तिसमन्वितस्य स्वकीयमूलप्रकृतिपरमशक्त्या प्रक्रीडमानस्य सच्चिदानन्दसन्दोहरूपे स्वात्मनि सर्वाऽधिष्ठाने स्वा-ज्ञानकल्पितानां महाजलौघमध्ये परिभ्रम्यमाणानामनेककोटिब्रह्माण्डानामेकतमेऽस्मिन् ब्रह्माण्डेऽ-व्यक्तमहदहङ्कारपृथिव्यप्तेजोवाय्वाकाशादिभिर्दशगुणोत्तरैरावणैरावृते आधारशक्तिश्रीकूर्म्मवराह-धर्म्मानन्ताष्टदिग्गजादिप्रतिष्ठिते ऐरावतपुण्डरीकवामनकुमुदाञ्जनपुष्पदन्तसार्वभौमसुप्रतीकाख्याष्ट-दिग्दन्तिशुण्डादण्डोत्तण्डितैतद्ब्रह्माण्डखण्डयोरन्तर्गतभूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनलोकतपोलोकसत्यलोकाख्यानां सर्वज्ञसर्वशक्तिसमन्वितसर्वोत्तमसर्वाधिपश्रीचतुर्मुखप्रभृतिस्वस्वलोकाधिष्ठा-तृपुरुषाधिष्ठितानामधोभागे फणिराजस्य शेषस्य सहस्रफणामण्डलैकफणोपरिसर्षपैककणायमान-महीमण्डलान्तर्गतातलवितलसुतलतलातलमहातलरसातलपातालानां स्वस्वाधिष्ठात्रधिष्ठितानामुपरि-तने सुमेरुमन्दिरमन्दराचलनिषधहिमगिरिशृङ्गवद्धेमकूटदुर्द्धरपारियात्रशैलमहाशैलमहेन्द्रसह्याद्रि-मलयाचलविन्ध्यर्क्षमूकचित्रकूटमैनाकमानसोत्तरत्रिकूटोदयाच़लास्ताचलपर्य्यन्तानेकाभिधानाद्रिगणप्रतिष्ठितायां जम्बूप्लक्षशाल्मलीकुशक्रौञ्चशाकपुष्कराख्यसप्तद्वीपवत्यां लवणेक्षुसुरासार्प्पिर्दधिक्षीर-शुद्धोदकाख्यसप्तसागरसमन्वितायां समस्तभूरेखायां कमलकदम्बगोलकाकारायां वर्त्तमाने कुवल-यकोशान्तर्गतदलवद्विराजमाने उत्तरकुरुहिरण्मयरम्यकभद्राश्वकेतुमालेलावृतहरिवर्षकिम्पुरुषभार-ताख्यनवरखण्डवति जम्बुद्वीपे सर्वेभ्योऽप्यतिरिक्तसारवति देवादिभिरप्यभीष्टसुकृतक्षेत्रभूतहेतुना-भिलषिततमे अङ्गवङ्गकलिङ्गकालिङ्गकाम्बोजसौवीरसौराष्ट्रमहाराष्ट्रवङ्गालोत्कलमगधमालवनेपाल-केरलचोरलगौडमलपाञ्चालसिंहलमत्स्यद्रविडद्राविडकर्णाटराटवशूरसेनकौङ्कणटोंकणपाण्ड्यपुलि-न्ध्रान्ध्रद्रौणदशार्णविदेहविदर्ब्भमैथिलकेकयकोशलकुन्तलमैन्ध्रुवजावलसार्वसिन्धुशालभद्रमध्यदेशप-र्वतकाश्मीरपुष्टाहारसिंधुपारसीकगान्धारबाल्हीकप्रभृतिबहुविधदेशविशेषसम्पन्ने दण्डकारण्यमहा-रण्याद्वैतारण्यकामुकारण्यसैन्धवारण्यप्रभृत्यनेकारण्यवति श्रीगङ्गायमुनासरस्वतीगोदावरीनन्दाल-कनन्दामन्दाकिनीकौशिकीनर्म्मदासरयूकर्म्मनाशाचर्मण्वतीक्षिप्रावेत्रवतीकावेरीफल्गुमार्कण्डेयरा-मगङ्गाशतद्रुविपाशैरावतीचन्द्रभागावितस्तासिन्धुदृषद्वतीप्रभृत्यनेकनदनदीवति कुरुक्षेत्रहरिद्वारक्षेत्र-मालक्षेत्रादिबहुक्षेत्रान्विते भारतखण्डे तत्रापि मध्यरेखाकुरुक्षेत्रादमुकदिग्भागे अमुकामुकनदीमध्ये श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरेऽष्टाविंशे कलौ युगे कलिप्रथमचरणे आर्य्यावर्त्ते पुण्यबृहस्पतिक्षेत्रे शुभसंवत्सरेऽस्मिन्नमुकायनगतसूर्य्येऽमुकर्त्तावमुकमासेऽमुकपक्षेऽमुकतिथावमुकवासरे यथा योग-करणमुहूर्त्ते वर्त्तमाने चन्द्रतारानुकूले पुण्येऽहनि अमुकगोत्रस्य यथोक्तप्रवरस्यामुकवेदिनोऽमुकशा-खिनोऽमुकसूत्रिणोऽमुकशर्म्मणः प्रपौत्राय अमुकगोत्रस्य यथोक्तप्रवरस्यामुकवेदिनोऽमुकशाखिनो-ऽमुकसूत्रिणोऽमुकशर्म्मणः पौत्राय २ अमुकगोत्रस्य यथोक्तप्रवरस्याऽमुकवेदिनोऽमुकशाखिनोऽमु-कसूत्रिणोऽमुकशर्म्मणः पुत्राय ३. अमुकगोत्रस्य यथोक्तप्रवरस्याऽमुकवेदिनोऽमुकशाखिनोऽमुक-सूत्रिणोऽमुकशर्म्मणः प्रपौत्रीं १ अमुकगोत्रस्ययथोक्तप्रवरस्याऽमुकवेदिनोऽमुकशाखिनोऽमुकसू-त्रिणोऽमुकशर्म्मणः पौत्रीम् २ अमुकगोत्रस्याऽमुकवेदिनोऽमुकशाखिनोऽमुकसूत्रिणोऽमुकशर्म्मणः पुत्रीम् ३ इत्येवं गोत्रप्रवरादिनिरूपणपूर्वकप्रपितामहादिसंज्ञासम्बन्धकथनम्।
ॐ स्वस्तीति वचनमुक्त्वा द्यौस्त्वा ददातु पृथिवी त्वा प्रतिगृह्णात्विति मन्त्रेण क-न्याहस्तं वरः प्रतिगृ-
त्रिरावर्त्य अमुकगोत्राय यथोक्तप्रवरायामुकवेदिनेऽमुकशाखिनेऽमुकसूत्रिणेऽमुकशर्मणे ब्राह्मणाय वराय अमुकगोत्रां यथोक्तप्रवराममुकनाम्नीमिमां कन्यां यथाशक्त्यालंकृतां महद्वस्त्रद्वयावृतां विवाह-दीक्षितां प्रजापतिदैवतकां गङ्गावालुकाभिः सप्तर्षिमण्डलपर्य्यन्तराशीकृतरेणुपुञ्जस्य मध्याद्वर्षसह-स्रावसाने एकैकवालुकापकर्षणेन सर्ववालुकापकर्षणपरिमितकालपर्य्यन्तं ब्रह्मलोकनिवाससिद्ध्य-र्थेतिलैः सूर्यमण्डलं यावद्राशीभूततिलगिरितो वर्षसहस्रावसाने एकैकतिलापकर्षणेन सर्वतिलापक-र्षणसंमितकालपर्यन्तं सूर्यलोकनिवाससिद्ध्यर्थेयवैश्चन्द्रमण्डलपर्यन्तं कृतयवराशितो वर्षसहस्राव-साने एकैकयवापकर्षणेन सर्वयवापकर्षणपरिमितकालपर्यन्तं चन्द्रलोकनिवाससिद्ध्यर्थे माषैर्ध्रुवम-ण्डलपर्यन्तं राशीकृतमाषेभ्यो वर्षसहस्रावसान एकैकमाषापकर्षणसंमितकालं यावद्विष्णुलोकरुद्र-लोकध्रुवलोकनिवाससिद्ध्यर्थेगन्धर्वाप्सरोगणमण्डितहंसपारावतशुकसारिकारुतनादितकिङ्किणी-शतसमलंकृतदिव्यविमानेन मनोऽभिलषितदेशगमनपूर्वकगिरिनदीनदसिन्धुद्वीपदिव्यदेशनन्दनचै-त्ररथप्रभृतिस्थानेषु स्वाभिलषितभोग्यविषयोपभोगार्थेमया सह दशपूर्वेषां दशावरेषां मद्वंश्यानामग्नि-ष्टोमातिरात्रवाजपेयपुण्डरीकाश्वमेधक्रतुशतफलजन्यब्रह्मलोकनिवासार्थेपत्नीत्वेन तुभ्यमहं सम्प्रददे इति शंखवस्थद्रव्ययुतजलेन सहकन्याहस्तं वरहस्ते दद्यात्। इति सङ्कल्पविधिः॥
ॐस्वस्तीति
वरश्च
ॐ स्वस्तीत्युक्त्वासङ्कल्पजलादिकमादाय द्यौस्त्वा ददात्विति मन्त्रेण कन्या-हस्तं प्रतिगृह्णीयात्। ततः कन्यापिता दानप्रतिष्ठार्थेसुवर्णे गोमिथुनं वा दक्षिणां दद्यात्। अत्राचाराद-न्यदपि सुवर्णरजतताम्रगोमहिषीग्रामादिकं यौतुकत्वेन कन्यायै यथासम्भवं ददाति
ह्णीयात्। ततः कन्याप्रदः अद्य कृतैतत्कन्यादानयथोक्तफलावाप्तये कन्यादानप्रति-ष्ठार्थमिदं हिरण्य-
अन्येऽपि बान्धवादयो यथासम्भवं यौतुकं चात्र प्रयच्छन्ति। केचित्तु होमान्ते प्रयच्छन्ति केचिद्वधूवर-विसर्ज्जने खट्वादिसर्वदानादिकं कुर्वन्तीति देशाचारतो व्यवस्था बोध्या। तथा चोक्तम्। कन्याप्रदान-न्तु विधाय तातस्तद्दक्षिणां गोमिथुनं सुवर्णम्। दत्वा प्रदद्याद्वरणं वरार्थेवस्त्राणि पात्राणि विभूषणानि। तत्रैव देयानि बहुश्रुता जगुर्वाल्मीकिजाबालिपराशराद्याः। होमान्त आहुर्भुगुनारदाद्या विसर्ज्जने व्या-समरीचिकौत्सा इतिमतभेदेनविभाषेतिवचनाद्देशाचारकुलधर्म्मानुसारेण ये यथा कुर्वन्ति ते तथैव कुर्य्युरित्यर्थः। द्यौस्त्वेति मन्त्रस्य विनियोगाद्यभावः प्रतीकमात्रत्वात् मन्त्रस्येति हेतोः। अथ मन्त्रार्थः। दीव्यन्तीति द्यौर्लोकः त्वा त्वामदात् तव दानेन स्वर्गसाधकोऽभूत्। पृथ्वी प्रथितुं शीला देवता त्वा प्रतिगृगृह्णातु पुत्रपौत्रादिविस्तारेण त्वां प्रथयित्री भवतु एष तात्पर्य्यार्थः। हे कन्ये तवायं पिता त्वां दत्वा तत्संभवपुण्यातिशयेन स्वर्ग्गादिषु निरतिशयानन्दंभोक्ष्यमाणोऽवस्थितः। अथ प्रथयितुं शीला पृथ्वी यथा त्वया प्रसन्ना प्राक्तनपुण्यवश्या त्वां पुत्रपौत्रादिविस्तारे गणने गौणीलक्षणया पृथ्वी अयं वर एव त्वा त्वां प्रथयितुं प्रतिगृह्णातु। त्वत्प्रतिग्रहमकार्षीत् इति मन्त्रेण कन्याकरं गृह्णीयात्। ततः कन्याप्रदेन कन्यादानप्रतिष्ठार्थेदत्तां दक्षिणां प्रतिगृ ह्यवरः कामस्तुतिं कुर्य्यात् कोदादिति अदात् दत्तवान् इति स्वयमेव वरेण कृतः प्रश्नः अथोत्तरं कामः अदात् कामायादात् यतः काभो दाता कामः प्रतिग्रही-ताऽतो हे काम अभिलषित एतत्ते कन्यादानप्रतिग्रहादिकं तत्र कामशब्देनेच्छाऽभिधीयते यत इच्छयैव दीयते प्रतिगृह्यते च तथा च तत्प्राधान्यप्रतिपादनेन दातृत्वं प्रतिग्रहीतृत्वञ्च कामस्यैवोक्तं तेन कामस्तुतिर्वाक्यार्थः। अस्य महाप्रतिग्रहत्वं ज्ञात्वा मनसि प्रतिग्रहस्य सन्तापं विधाय कामस्तुति-मकरोत्।
मग्निदैवतकममुकगोत्रायाऽमुकशर्मणेब्राह्मणाय वराय दक्षिणां तुभ्यमहं सम्प्रददे इति दक्षिणां गोमिथुनं वा दद्यात्। ॐ स्वस्तीति वरः प्रतिब्रूयात्॥
धन्यो महाबलोऽयं कामो येन विश्वविजयिनाऽप्रतिग्राही क्षत्रियादिरपि प्रतिग्राहीकृत इति पित्रा प्रत्ता-मादाय गृहीत्वा निष्क्रामतीति सूत्रबलात् पित्रा जनकेन प्रत्तां सङ्कल्प्यदत्तामादाय प्रतिग्रहविधिना प्र-तिगृह्य गृहीत्वा हस्ते धृत्वा निष्क्रामति गृहमध्यान्मण्डपादग्निसमीपं गन्तुं यदैषीत्यादिना करोत्वमुक-देवीत्यन्तेन मन्त्रेण निष्क्रामतीति पित्रा प्रत्तामादाय गृहीत्वेति प्रतिग्राही अतिग्राहिणोरित्युभयग्रहण-मप्रतिग्रहस्यापि प्रतिग्रहविधिना दानं यथा स्यादिति अप्रतिग्रहाश्चान्ये इति शब्दस्य निरुक्तिः मन्त्रे च दीव्यते क्रीडते स्वर्गादौ कन्यादानजन्यपुण्यातिशयेनेति कन्याप्रदाता तत् पित्रादिर्द्यौरिति सिद्धम्। हे कन्ये द्यौस्त्वत्प्रमाता पित्रादिस्त्वा त्वां ददातु अदादित्यर्थः अत्र छन्दसिव्यत्ययेनेति लुङर्थे लोट् इति वचनात्। पित्रा प्रत्तामित्यत्र पितेत्युपलक्षणम् दात्रा प्रत्तामिति। पिता पितामहो भ्राता स्वकुल्यो जननी तथा। कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः॥ इति याज्ञवल्क्येन अन्येषामपि कन्यादानेऽधिकार-स्मरणात्। यदेषीति मन्त्रस्यार्थः। हे कन्ये यद्यतस्त्वं पितृगृहात् दूरं एषि आगच्छसि मनसाऽनुकूलया मनोवृत्त्या दिशः प्राच्याद्या अनुपवमानो वायुरिव वा शब्दः उपमार्थः अतः स वायुः त्वा त्वां मन्मनसां मदेकनिष्ठचित्तां करोतु किंभूतः हिरण्यपर्णः हिरण्यं जर्जरवत्पर्णेपतनं यस्य सः विशिष्टः आश्रयत्वेन प्रसिद्धः कर्ण एव करर्ण यस्य सः कार्य्यस्य वायोः करणस्याकाशस्य कार्य्यकारणसम्बन्धात् वायोः कर्णाश्रयत्वम् विकर्ण एव वैकर्णःस्वार्थेऽण् असाविति मन्त्रान्ते वरेण कन्यानामग्रहणम् हे अमुकदे-वीति यद्वा हे कन्ये त्वं यद्यस्मान्मन्मनोमय्या वृत्त्या दूरं एषि अत्यन्तं चिन्तयसि धातूनामनन्तार्थत्वात् पितृकुलतो बहिर्भूता कुत्राऽनेन नीतेति मनसा दूरं गच्छसि अतिशयेन सोत्कण्ठा भवसीति यावत्। तत्र दिशः प्राच्याद्या अनु अनन्तरं पवमानः पवनश्चहिरण्यपर्णः सूर्य्यश्चहिरण्यं हिरण्मयं पर्णेरश्मयो यस्य सः प्रकाशबाहुल्यात् वैकर्णोऽग्निश्चविकर्णेकोटरं तस्मिन्भवः वैकर्णः वा शब्दः समुच्चये। ते सर्वे दिग्वायुसूर्य्यादयः त्वा त्वां मन्मनसां मद्गतहृदयां करोतु कुर्वन्त्विति वचनव्यत्ययः छान्दसः। सेयं कन्यकोत्कण्ठा निवृत्तिः स्वहृदयैक्याशंसा च वाक्यार्थः। अथैनौ समीक्षयतीति सूत्रबलात् कन्यापिता एनौ वधूवरौ समीक्षणक्रियां कारयति अघोरचक्षुरित्यादिमन्त्रैःकारिते अर्थे बद्धेषणौ युवां परस्परं समीक्षेथामिति कन्याप्रदः प्रेरयतीति तात्पर्य्यार्थः। मन्त्रपाठस्तु मन्त्रलिङ्गाद्वस्स्यैव। अथ मन्त्रार्थः। हे कन्ये त्वं अघोरचक्षुः सौम्यदृष्टिरपापदृष्टिरिति वा एधि भव तथा अपतिघ्नी अकार्य्यकरणेन पत्यर्थघा-तिनी मा भव। एतस्मात्संस्कारात् विवाहसंस्कारात् पशुभ्यः पशुवदाश्रितेभ्यः शिवा हितैषिणी भव सुमनाः प्रसन्नचेताः सुवर्च्चाः सुप्रभावयुक्ता वीरसूः सत्पुत्रजनित्री देवकामा देवान् अग्न्यादीन् कामय-ते सेवार्थमिच्छतीति यद्वादेवं देवनं क्रीडनं कामयते इति सा स्योना सुखवती नोऽस्माकं शं सुखं दुःखविनाशशीलत्वेन सुखरूपा भव द्विपदे मनुष्यवर्गाय मनुष्यवर्गमुपकर्त्तुेतथा चतुष्पदे पशुवर्गाय पशुवर्गमुपकर्त्तुं शं सुखहेतुर्भवेत्याशंसा। अथ कन्यास्तुतिमाह सोम इति हे कन्ये त्वां सोमश्चन्द्रो वि-विदे जन्मदिने लब्धवान् कीदृशः सोमः प्रथम आद्यस्ते तव पतिः रक्षकः जन्मदिनतःप्रभृति सार्द्धे व-र्षद्वयं यावत्। चन्द्रो मदीया मे रक्षणीयेति लब्धवान् विविद इति विद्लृ लाभ इति धातो रूपम्।
ॐ सोमोऽददद् गन्धर्वाऽय गन्धर्वोदददग्नये। रयिञ्चपुत्रांश्चादादग्निर्मह्यमथो इमाम्। सानः पूषा शिवतमामीरयसा नः ऊरू उशती विहर यस्यामुशन्तः प्रहराम शेफं यस्यामु कामा बहवो निविष्ठ्यै इति
ततः सार्द्धवर्षद्वयानन्तरं गन्धर्वः सूर्य्यःगन्धर्व इति सूर्य्यस्य नाम॥बोध्यम्। गन्धर्वदेवतां बालां विविदे चन्द्रमसैव प्रतिपोष्य दत्तां त्वां लब्धवान्। मया सर्वथेयमध्यापनीयेति अतः उत्तरः द्वितीयोऽयं तव पतिः ततः पञ्चवर्षानन्तरं अग्निरपि तावत्कालं सार्द्धसप्तवर्षपर्य्यन्तं विविदे संस्काररूपां विद्यामध्या-पयित्वा लब्धवान्। मया सर्वथेयं शोध्येत्येवं विविदे। अतोऽयमग्निस्तव तृतीयः पतिः। तथा सोमग-न्धर्ववन्हिभिः प्रतिपोष्याध्याप्यपरिशोध्य च त्यक्तां सार्द्धसप्तवर्षानन्तरं ते तव तुरीयश्चतुर्थश्चिरकाल-भोगाय पतिर्मनुष्यजः मानुषोऽहमेवेत्यर्थः। यथाहुः। पूर्वेस्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववन्हिभिः। प्रति-पोष्याध्याप्य शोध्य परित्यक्तां नरो भजेत् इति। अत एव सार्द्धसप्तवर्षान्ते कन्या परिणेयेति भावः। ननु किमिदानीं चतुर्णामियं पत्नी नेत्याह। सोमो दददिति। अथ मन्त्रार्थः। सोमश्चन्द्रः त्रिंशन्मासान् भुक्त्वा प्रतिपोष्य संस्कारतया रूपं दत्वा गन्धर्वः सूर्य्यः तस्मै अददत् ददौ। सोऽपि तावत्कालं भु-क्त्वा संस्कारत्वेनाध्याप्याग्नयेऽददत् सचाग्निर्मह्यमिमामदात् दत्तवान् न केवलमिमां किन्तु पुत्रान् सुतान् रयिं चधनं चकाराद्धर्मादिकम् अदददिति सम्बन्धः तथा च सोमगन्धर्ववन्हिभिः सौन्दर्य्यादि-कदानादिना भुक्ताः स्त्रियो रूपस्वरमेध्यत्वसम्पन्नाः। उक्तञ्च। सोमो रूपं ददौ। स्त्रीणां गन्धर्वस्तु शुभां गिरम्। पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्यतइति। सा न इति चतुर्थमन्त्रस्य व्याख्यानं क्रियते। या जगच्चक्षुः पूषादेवता सा इमां कल्याणगुणशीलां कृत्वा नोऽस्मान् प्रतीरय ईरयतु अस्मा-स्वनुरक्तां करोत्वित्यर्थः।
वरः पठित्वा परस्परं निरीक्षेथाम् ततोऽग्निं प्रदक्षिणीकृत्य पश्चादग्नेरहतवस्त्रवेष्टित-तृणपूलकं कटं वा निवेश्य तदुपरि दक्षिणचरणं दत्वा वधूं दक्षिणतः कृत्वा तामुप-वेश्य पुष्पचन्दनताम्बूलवासांस्यादाय।
ईरयेति शपो दर्शनं विभक्तेरदर्शनञ्च छान्दसम् सा नोऽस्मत्तः उशती सुखं पुत्रांश्च कामयमाना उरु सक्थिनी विहर विवृणोतु प्रसारयत्वित्यर्थः। विहरेति उपसर्गेण धात्वर्थः प्रसारणे सम्भूतः। उपसर्गेण धात्वर्थो बलादन्यत्र नीयते इत्युक्तेः। मध्यमपुरुषप्रयोगः छान्दसः। ऊरूप्रसारणे प्रयोजनमाह। य-स्यां स्त्रियां स्त्रियामित्युपलक्षणम् स्त्रीयोनाविति भावः। उशन्तः पुत्रान् सुखञ्चेच्छन्तः शेफं शिश्नं प्रह-राम प्रवेशयाम। प्रहरामेत्यत्राप्युपसर्गबलादेव प्रवेशनमर्थः। पुच्छे शेफञ्च लिङ्गे तु शेफं केशे भगे त-था। भगलिङ्गोद्भवे केशे शष्पन्तु समुदीरितमिति कोशोक्तिः। यस्याञ्च कन्यायां उ एवार्थे यस्यामेव बहवः कामाः धर्म्मपुत्ररतिसुखादिरूपाः सम्भवन्ति कस्यै निविष्ट्यै अग्निहोत्राद्युपासनयान्तःकरण-शुद्धिद्वारा सायुज्यमुक्तये इत्यर्थः। इति चतुरो मन्त्रान्वरः पठेत्। पठनानन्तरं परस्परं निरीक्षेथां क-न्यावराविति शेषः। प्रदक्षिणमग्निं पर्य्याणीयैके इति सूत्रम्। अस्यार्थः एके आचार्य्य अग्निं प्रदक्षिणं पर्य्याणीय कन्यां त्रिः प्रदक्षिणां कारयित्वा वासः परिधानं समंजनं समीक्षणञ्च कथयन्ति एके अन्ये तु समीक्षणानन्तरं कथयन्तीति। एके इति कथनात् मतभेदेन विभाषा अतो नान्ये इति विकल्पसिद्धौ नियमं दर्शयन्ति सूत्रेण। पश्चादग्नेस्तेजनीं कटं वा दक्षिणपादेन प्रहृत्योपविशतीति सूत्रम्। अस्यार्थः पूर्वमग्निं पर्य्याणीय अग्नेः पश्चादग्निकार्य्यानन्तरं तेजनीं अहतवस्त्रवेष्टिततृणपूलकं वा तृणमयं कटं त-तोऽन्यतरं दक्षिणपादेन प्रहृत्य आक्रम्य तदुपरि पादं कृत्वा दक्षिणपादेन नोल्लंघयेत् इत्यर्थः।
ॐ तत्सदद्यकर्त्तव्यविवाहहोमकर्मणि कृताकृतावेक्षणरूपब्रह्मकर्म्मकर्त्तुममुकगो-त्रममुकशर्म्माणं ब्राह्मणमेभिः पुष्पचन्दनताम्बूलवासोभिर्ब्रह्मत्वेन त्वामहं वृणे इति ब्रह्माणं वृणुयात्। वृतोऽस्मीति प्रतिवचनम्। यथा विहितं कर्म्म कुर्विति वरेणोक्ते
उभयोः संस्कारार्थत्त्वात्सवधूक इत्यर्थः। वधूं दक्षिणतः कृत्वा। अर्थात् वधूं दक्षिणपार्श्वे नीत्वा स्वयं दक्षिणपादाक्रमणनिरूपणेनैव वध्वा सव्यपदेन तेजनीप्रहरणं सिद्ध्यति आकमणयोस्तुल्यत्वादाक्र-मणमेव न तु पादस्पर्शमात्रम् प्रहरणम्। तां वधूमुपवेश्य वरोऽप्युपविश्य वरणसामग्रीं पुष्पचन्दना-दिकमादाय ब्रह्माणं वृणुयादिति सम्बन्धः। तत्र ब्रह्मणो वरणे वाक्यं दर्शयत्यद्येत्यादिना। अथ कुश-कण्डिकायाः कृत्यमाह। तत्र वरः कर्म्मस्थानमागत्य चन्दनागुरुदेवदारुप्लक्षाश्वत्थवरणादियाज्ञिकवृ-क्षोद्भवासने प्रागग्रानुदगग्रान्वाकुशान् दत्वा तत्रोपविश्य वाग्यतः शुद्धायां भूमौ सप्तविंशत्यङ्गुलम-ण्डलं परिलिख्य परिसमुह्योपलिप्योल्लिख्योद्धृत्याभ्युक्ष्याग्निमुपसमाधाय दक्षिणतो ब्रह्मानमास्तीर्य्य प्रणीय परिस्तीर्य्यार्थवदासाद्य पवित्रे2 कृत्वा प्रोक्षणीः संस्कृत्यार्थवत्प्रोक्ष्य निरूप्याज्यमधिश्रित्य पर्य्यग्नि कुर्य्यात् इति सूत्रम्। अस्यार्थः परिसमूह्य त्रिभिर्दर्भैः पांशुनपसार्य्य परिसमूहनं व्यासोऽप्याह। त्रिभि-र्दर्भैर्महाराज पांशूनामपसारणम्। परिसमूहनञ्चैतद्विज्ञेयं कर्म्मकोविदैरिति। परिसमूहनादयस्त्रिस्त्रि-रित्यन्ये। दैवे परिसमूहनादिस्त्रिस्त्रिः पित्र्येचसकृत्सकृत् इति कर्कः। उपलिप्येति गोमयोदकेनोपले-पनं कृत्वाउपलेपनमपि भूमिभेदेन द्विधा तत्र संवर्त्तः। भूमिश्चापि द्विधा होमे कृताचैवाकृता तथा। कुण्डाकारालेपितायाऽकृता भूमिः प्रकीर्तिता॥
करवाणीति ब्रह्मा ब्रूयात्। ततो वरोऽग्नेर्दक्षिणतः शुद्धमासनं दत्वा तदुपरि प्रागग्रा-न्कुशानास्तीर्य। ब्रह्माणमग्निप्रदक्षिणक्रमेणानीय अत्र त्वं मे ब्रह्मा भवेत्यभिधाय कल्पितासने समुपवेशयेत्॥
सिकतादिविहिता या स्यादुच्चा तु पूर्वभूमितः। कृता सा भूमिका ज्ञेया तत्र लेपस्तु सेचनम्। दर्शवद्ध-स्तसंघर्षैः कृतायां लेपनं स्मृतम्॥ आलिख्येति स्पयेन प्रागग्रा उदक्संस्थाः स्थण्डिलपरिमाणाः प्रादे-शपरिमिता वा तिस्रो रेखाः कृत्वा। आलेखनं मनुरप्याह। खादिरं करमात्रञ्च खङ्गाकारं तथैव च। व-दने गोपदाकारमुद्दिष्टं स्फ्यं स्वयम्भुवा। तेन त्रिलेखाकरणं प्रागग्रं चोत्तरोत्तरम्॥ तदालेपनकं प्रोक्तं संस्कारो होमकर्मणि इति उद्धृत्येति अनामिकाङ्गुष्ठाभ्यां यथा कमोल्लिखिताभ्यो लेखाभ्यः पांशू-नुद्धृत्य। उद्धरणमाह संवर्त्तः। पांशूनादाय रेखाभ्य आलेखनयथाक्रमम्॥ अङ्गुष्ठानामिकाभ्यां च प्रक्षेपस्तु बहिर्भवेत्। तमुद्धरं विदुः प्राज्ञाः संस्कारे ये च कोविदाः। इति॥ अभ्युक्ष्येति मणिकाद्भिर-भिषिच्य रलाम्बुभिरुन्मृज्य यदि वा मणिकाः स्थूलबिन्दव इति कोशोत्क्या स्थूलबिन्दुरूपाभिरद्भिर-भिषेचनं कृत्वा। अभ्युक्षणमाह पराशरः। उद्धरणानन्तरं यत्सुरत्नार्णाभिषेचनम्। अभ्युक्षणं तदाहुर्वा स्थूलबिन्द्वभिषेचनम् इति॥ अग्निमुपसमाधायेति इत्थं पञ्चभूसंस्कारविधानानन्तरं अग्निमुपसमाधाय कर्म्मसाधनभूतं लौकिकं दिव्यं वा स्मार्त्तेश्रौतं वा आत्माभिमुखं कांस्यपात्रेण समाधाय स्थापयित्वा। एते संस्कारास्तु पूर्वमेवाग्निसमाधानसमये कृताः तत्रैवोचितत्वात्। तदेवाह सूत्रार्थनिरूपणेभाष्यकारः तत्र परिसमूह-नादयः पञ्च भूमिशुध्यर्थेधार्य्या इति केचित्।
तदयुक्तम्। नह्यशुद्धदेशे अग्निस्थापनप्र-वृत्तिरुचितेति तस्मादद्यर्था एवेत्यपरे अतो यत्राग्नेः स्थापनं तत्रैव ते कर्त्तव्या इति भावः। अथानन्तरसं-स्कारानाह तत्र सूत्राण्याह। दक्षिणतो ब्रह्मासनमास्तीर्य्य प्रणीय परिस्तीर्य्यर्थवदासाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्यार्थवत्प्रोक्ष्य निरूप्याज्यमधिश्रित्य पर्य्यग्निकुर्य्यात्। स्नुवं प्रतप्य संमृज्याभ्युक्ष्य पुनः प्रतप्य निदध्यादाज्यमुद्वास्योत्पूयावेक्ष्य प्रोक्षणीञ्च पूर्ववदुपयमनान्कुशानादाय समिधो निधाय पर्य्यु-क्ष्यजुहुयात् एष एव विधिर्य्यत्र क्वचिद्धोमः कर्त्तव्यः॥ दक्षिणतो ब्रह्मासनमास्तीर्य्येति ततो वरोऽग्नेर्द्द-क्षिणतः शुद्धमासनं विधाय तदुपरि प्रागग्रान्कुशानास्तीर्य्य आस्तीर्येति अत्र ब्रह्मण आसनमात्रं स्यान्न ब्रह्मोपवेशनम्। आस्तरणोपदेशात्। क्वचिच्चोपवेशनविधानाद्दक्षिणतो ब्रह्मोपवेशनं तन्न अदृष्टप्रस-ङ्गात् नह्यदृष्टार्थेकश्चिदासनप्रकल्पनं कुर्य्यात्। तदा ब्रह्मासनव्यपदेशानुपपत्तेश्च तस्माद्ब्रह्मोपवेशना-र्थमासनं स्तरणञ्च यत्तूक्तम् दक्षिणतो ब्रह्माणमुपवेश्येति तदुदपात्रस्थापनावसरविधित्सया प्रस्तुतब्र-ह्मोपवेशनं अस्यैव ज्ञापनं ब्रह्मासनमास्तीर्य्येति। अस्यार्थः। तस्याग्नेर्दक्षिणतो ब्रह्मणे आसनं वरणादि-यज्ञियदारुनिर्म्मितं पीठमास्तीर्य्य कुशैः स्तृत्वा तत्रावरणाभरणाभ्यां पूर्वसम्पादितं कर्म्म तत्त्वज्ञं ब्राह्म-णं तदभावे पञ्चाशत्कुशनिर्म्मितं अग्नेरुत्तरतः प्राङ्मुखमासीनं स्वयमुदङ्मुख आसीनोऽनुलेपनपु-ष्पमाल्यवस्त्रालङ्कारादिभिः सम्पूज्याऽमुककर्म्मणि कृताकृताऽवेक्षणरूपब्रह्मकर्म्मकर्त्तुममुकशर्म्मा-णं त्वामहं वृणे वृतोऽस्मीति प्रतिवचनम्। यथाविहितं कर्म्म कुर्विति ब्रूयात् करवाणीति प्रतिवचनम्। ततोऽमुकशर्म्मन्नमुकगोत्र ब्रह्मन् त्वं मे ब्रह्मा भवेति भवानीत्युक्तवन्तं तस्मिन्नासने पूर्वकल्पिते समु-पवेशयेदिति। प्रणीयेति प्रणीय अप इति शेषः अपां हिप्रणयनं सर्वार्थे दृष्टं तद्वदत्रापि सर्वार्थानामपां प्रणयनम्। तद्यथा अग्नेरुत्तरतः प्रागग्रकु
शैरासनद्वयं कल्पयित्वा वारणं द्वादशाङ्गुलदीर्घे चतुर-ङ्गुलविस्तरं चतुरङ्गुलखातञ्चमसं सव्यहस्ते कृत्वा दक्षिणहस्तोद्धृतपात्रस्थोदकेन पूरयित्वा प-श्चिमासने निधायालभ्य पूर्वासने स्थापयित्वा। परिस्तीर्य्येति। परिस्तीर्य्य किंअग्निं तदेव विशदयति बर्हिर्मुष्टिमादाय तच्चतुर्भागेन प्रागग्रैर्बर्हिभिः ईशानादिराग्नेयान्तं ब्रह्मणोऽग्निप्रर्य्यन्तं नैर्ऋत्याद्वायव्यान्तं अग्नितः प्रणीतापर्य्यन्तं अग्नेः परिस्तरणं कृत्वेत्यर्थः। अर्थवदासाद्येति। प्रयोजनवत्पात्राणि आसाद्येत्य-र्थः। प्रयोजनं च कार्य्यक्रमेण मुख्यक्रमानुरोधात्। यावद्भिः पदार्थैः प्रयोजनं तावतः पदार्थान् द्वन्द्वं प्राञ्चः उदगग्रानग्नेरुत्तरतः पश्चाद्वाआसाद्य तद्यथा पवित्रच्छेदनानि त्रीणि कुशतरुणानि पवित्रे। साग्रे अनन्तरगर्भे द्वेकुशतरुणे। प्रोक्षणीपात्रं वारणं द्वादशाङ्गुलदीर्घेकरतलसम्मितखातं पद्मपत्राकृति कमलमुकुलाकृति वा आज्यस्थाली तैजसी मृण्मयी वा• द्वादशाङ्गुलविशाला वा प्रादेशोच्चा। तथैव चरुस्थली सम्मार्जनकुशास्त्रयः। तदुपयमनकुशास्त्रिप्रभृतयः। समिधस्तिस्रः पालाश्यः प्रादेशमात्राः। तत्र देवलोक्ताः कारिकाः। प्रणीता नैर्ऋते भागे तद्वायव्यगोचरे। वारणं संविजानीयात् सर्वकर्म्मसु कारयेत्। सर्वसंशोधनार्थोदपात्रं वारणमिष्यते। द्वादशाङ्गुलदीर्घञ्चकरतलोन्मितखातकम्। पद्मप-त्रसमाकारं मुकुलाकारमेव वा। इति। तैजसी मृण्मयी वापि आज्यस्थाली प्रकीर्त्तिता। द्वादशाङ्गुल-विस्तीर्णा प्रादेशोच्चा प्रमाणतः॥३॥ चरुस्थाली तथैवापि दीर्घोच्चा तु प्रमाणतः। नानयोरन्तरं यस्मा-द्द्रव्यसंस्कारणार्थक इति। एता-श्चतस्रः कारिकाः श्रुत्यनुरुद्धाः आपस्तम्बवसिष्ठदेवलपराशरऋषि-भिः क्रमतः प्रोक्ता विज्ञेयाः। संमार्गा इति। संमृज्यते स्नुवो यैस्ते संमार्गाः। सम्पूर्वकाद्यञ् प्रत्ययान्तो मृजूषशुद्धावित्यस्य प्रयोगः सम्मार्जनार्थास्त्रयस्त्रिसंख्याकाः कुशाः त्रय एव नाधिका न न्यूनाः तत्र कात्यायनोक्तसूत्रानुविद्धा
व्यासस्मृतिकारिकाः स्रुवसंमार्जनार्थन्तु कुशत्रयमुदीरितम्। स्रुवाङ्गत्रयशु-द्ध्यर्थेसूत्रे प्रोक्तास्त्रयस्ततः ५ इति। उपयमनकुशास्त्रिप्रभृतयः। उपयमनार्थमाख्यातास्त्रिषण्नवमि-ताः कुशाः। वेणीरूपा निरोधार्थी निरोधे बहुभिः सुखम् इति भृगुवचनात्। समिधस्तिस्रः पालाश्यः। प्रादेशमात्र्यः। अग्नेर्नैवेद्यपू-जार्थेनिक्षिपेत्काष्ठकत्रयम्॥ पालाशजञ्च प्रादेशमात्रं दैर्घ्येण स्थूलता। क-निष्ठिकासमं ध्यात्वाविधिमग्नौ क्षिपेच्च तत्॥ इति पाराशरवचनात्। स्रुवो ब्रह्महस्तः तस्य लक्षणमाह कात्यायनः। स्रुवस्तु ब्रह्महस्ताख्यः स्कन्धान्तो बाहुरुच्यते। स्वाहाकारस्वधाकारवषट्कारसमन्वितः। दण्डाकारो भवेन्मूले स्यादरत्न्यां तु तत्समः। सकङ्कणस्तु दण्डाग्रे हस्ताकारस्ततो बहिः॥ अष्टाङ्गलि-परीमाणं मूलादभ्यन्तरे त्यजेत्। दशांगुलिपरीमाणमारभ्याऽकङ्कणावधिः। हस्तमात्रं भवेद्धस्तः स्रुव इत्यभिधीयते। खादिरः शैंशिपोवाऽपि ह्यन्यो वा पुण्यवृक्षजः॥ धावकोऽपि समाख्यातो होमार्थे मुनि-भिः कृतः इति। प्रसङ्गात्पुष्करमप्याह। खादिरो हस्तमात्रः अङ्गुष्ठपर्वमात्रखातपरिणाहवर्त्तुलः पु-ष्करः। तदुक्तं मुनिना नारदेन। अङ्गुष्ठपर्वमात्रं वर्तुलखातपरिणाहसंयुक्तः खादिरो हस्तमात्रः कर-संज्ञश्चहोमविधौइति। आज्यं तत्तु गव्यं तथाच श्रुतिः। गव्यमाज्यं जुहुयात् तदभावे माहिषेयमिति। तथाच स्मृतिः। गव्यमाज्यं हुतं नित्यमभावे माहिषं स्मृतमिति। चरुश्चेद्व्रीहितण्डुलः शर्करा घृतसंयु-क्तश्चरुर्दैवे च पैतृके॥ व्रीहितण्डुलसंसिद्धो मुख्यः प्रोक्तः सुरर्षिभिरित्याचारचन्द्रोदये। षट्पञ्चाशद-धिकमुष्टिशतद्वयपरिमिततण्डुलपूर्णपात्रं ब्रह्मणो दक्षिणापरार्द्धाबहुभोक्तृपुरुषाहारक्षमतण्डुलपूर्ण-पात्रं मध्यमदक्षिणा तण्डुलान्नपूर्णपात्रं अवरदक्षिणा यथाशक्ति हिरण्यादि द्रव्यम्वा’ दक्षिणामतान्तरे-ण पूर्णपात्रलक्षणमा-ह। पलद्वयन्तु प्रसृतं मुष्टिरेकं पलं स्मृतम्। अष्टमुष्टिर्भवेत्कुञ्चस्ते चेदष्ठौतु पुष्क-लम्॥ पुष्कलानि च चत्वारि पूर्ण
पात्रं तदुच्यते। इति। पवित्रे कृत्वेति। प्रथमस्थापितत्रिकुशतरुणै-रग्रतः प्रादेशमात्रं विहाय द्वे कुशतरुणे प्रच्छिद्य। प्रोक्षणीःसंस्कृत्येति। प्रोक्षणीपात्रं प्रणीतासन्निधौ निधाय तत्र पात्रान्तरेण हस्तेन वा प्रणीतोदकमाक्षिप्य पवित्राभ्यामुत्पूय पवित्रे प्रोक्षणीपात्रे निधाय द-क्षिणहस्तेन प्रोक्षणीपात्रमुत्थाप्य सव्यहस्ते कृत्वा तदुदकं दक्षिणेनोच्चाल्य प्रणीतोदकेन प्रोक्ष्य। प्रो-क्षणीजलेन यथा सादितवस्तुसेचनमिति निरूपयति। अर्थवत्प्रोक्ष्येति अर्थवन्ति प्रयोजनवन्ति आज्य-स्थाल्यादीनि पूर्णपात्रपर्य्यन्तानि प्रोक्षणीस्थाभिरद्भिरासादितक्रमेणैकैकशः प्रोक्ष्य असञ्चरे प्रणीता-ग्न्योरन्तराले प्रोक्षणीं निधापयेत्। निरूप्याज्यमिति। आसादितमाज्यं आज्यस्थाल्यां पश्चादग्नेर्निहिता-यां निरूप्य प्रक्षिप्य चरुश्चेच्चरुस्थाल्यां प्रणीतोदकेनासिच्य आसादितांस्तण्डुलान्प्रक्षिपेत् अधिश्रित्ये-ति ८ तत्र यदाज्यं तद्ब्रह्माधिश्रयति तदुत्तरतश्चरुं स्वयमधिश्रयति तत्र क्रमः ब्रह्माज्यं गृहीत्वा स्वयञ्च चरुमेवं युगपदग्नावारोपयेतामिति आरोप्य च पर्य्यग्नि कुर्य्यात्। ज्वलदुल्मुकमादाय प्रदक्षिणमाज्यच-र्वोः समन्तात्तस्य भ्रामणं पर्य्यग्निकरणम्। तथा च श्रुतिः। पर्यग्नि कुर्वन् ज्वलदुल्मुकमादाय प्रदक्षिण-माज्यचर्वोः समन्तात् भ्रामयेत् इति पर्यग्नि करणम्। स्रुवं प्रतप्येति स्रुवं दक्षिणेनादाय प्राञ्चमधोमुख-मग्नौ तापयित्वा सव्ये पाणौ कृत्वा दक्षिणेन संमार्जनम्। तत्राग्रैर्मूलतोऽग्रपर्यन्तं सम्मृज्य मूलैरग्रमार-भ्य अधस्तान्मूलपर्यन्तमिति। अभ्युक्ष्येति प्रणीतोदकेनाभिषिच्य पुनः पूर्ववत्प्रतप्य दक्षिणतो निदध्या-त्। स्रुवस्यायं संस्कारो होमार्थः एवञ्च दृष्टार्थता तत्संस्कारस्य अतः संस्कारविस्मरणे प्रायश्वित्तपूर्वकं प्रागन्त्यहोमः कार्यः। ऊर्ध्वन्तु प्रायश्चित्तमात्रम् प्रोक्षण्युदकेनाभ्युक्षणमिति यदाह गार्ग्यः स्रुवे संस्कार-म्विस्मृत्य प्रायश्चित्तं शतं जपः। सावित्र्याः प्राक्तथान्ये च होमो व्याहृतिभिस्तथा। प्रायश्चित्तं विधायैव संस्कारोभ्युक्षणं स्मृतम् इति। आज्यमुद्वास्येति आज्यमुत्थाप्याग्नेः सकाशाच्चरोः पूर्वेणाग्नेरुत्तरतोऽव-स्थापयित्वा आज्यमग्नेः पश्चाच्चरोः पूर्वेणानीयाग्नेरुत्तरतो निधाय चरुं चाग्नेः पूर्वेणाज्यस्य पश्चादानीया-ज्यस्योत्तरतो निधाय एवं त्रिचतुरादीन्यन्यान्यपि हवींष्युद्वासयेत्। अधिश्रितानां पूर्वेणोद्वासितानां पश्चि-मतो हविष उद्वासनमिति याज्ञिकसम्प्रदायात्। उत्पूयेति तदेवाज्यमुत्पूय पवित्राभ्यां अनामिकाङ्गु-ष्ठाभ्यां गृहीताभ्यां पवित्राभ्यां द्रव्यविलोडनमुत्पवनमिति श्रुत्युक्त्या यथोक्तं आज्यमुत्पूय अवेक्ष्येति आज्यमवलोक्य आज्यावलोकनमपद्रव्यमपाकर्त्तेसत्यपद्रव्ये तन्निरसनं निरस्य चाज्यं पुनरुत्पूय प्रो-क्षणीश्चपूर्ववदिति पवित्राभ्यामुत्पूय तास्वेव पवित्रनिधानंचशब्दादाज्यमपि पूर्ववदेव अतः पवित्राभ्या-मित्युक्तम्। प्रोक्षणीसंस्कारश्चपर्युक्षणार्थः स्रुवसंस्कारश्चहोमार्थः। तत्संस्कारस्यादृष्टार्थता माभूदिति उपयमनान्कुशानादायेति उपयमनानुपग्रहार्थीयान् दर्भान् दक्षिणपाणिना गृहीत्वा सव्ये यथाविधि निधाय समिधो निधाय इति। पूर्वस्थापितास्तिस्रः समिधः घृतेनाभिघार्य तिष्ठन् प्रक्षिप्य यादृश्यो समि-धो निरूपितास्ताः प्रोक्ता व्यासकात्यायनवसिष्ठगौतमभरद्वाजैः। पलाशखदिराश्वत्थशम्युदुम्बरजा समित्। अपामार्गार्कदूर्वाग्निं कुशाश्चेत्यपरे विदुः॥१॥ सत्वचः समिधः स्थाप्या ऋजुश्लक्ष्णाः समास्त-था। शस्ता दशाङ्गुलास्तास्तु द्वादशाङ्गुलिकास्तु ताः॥ ॥२॥ आर्द्राः पक्वाः समच्छेदास्तर्ज्जन्यङ्गु-लिवर्तुलाः॥ अपाटिताश्च विशिखाः कृमिदोषविवर्ज्जिताः॥३॥ ईदृशीर्होमयेत्प्राज्ञः प्राप्नोति विपुलां श्रियम्। इति पर्युक्ष्य जुहुयादिति प्रोक्षण्युदकेन सपवित्रदक्षिणहस्तचुलुकेन गृहीतेन अग्निमीशानादि उदगन्तं परिषिच्य जुहुयात्। आघारादीन् संस्रवधारणार्थेपात्रं प्रदक्षिणप्रणीताग्न्योर्मध्ये निदध्यात् एष एव विधिरिति। यत्र क्वचन लौकिके श्रौतस्मार्तकेऽग्नौ होमस्तत्र एष एवपरिसमूहनादिपर्युक्षणपर्यन्तो विधिः न मन्त्राः समाम्नायाऽभावात्।
अन्वारब्ध आघारावाज्यभागौ महाव्याहृतयः सर्वप्रायश्चित्तं प्राजापत्यँ स्विष्टकृच्चैत-न्नित्यँसर्वत्र प्राङ्महाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदाज्याद्धविः। सर्वप्रायश्चित्तं प्राजाप-त्यान्तरमेतदवापस्थानं विवाहेः अग्न्याधेयदेवताभ्यः स्थालीपाकँ श्रपयित्वाज्यभागा-विष्ट्वाज्याहुतीर्जुहोति इति सूत्राणि निरूपितानि॥
यत्र क्वचिद्धोमः इति शान्तिकपौष्टिकादिष्वपि क्वचिद्वहणञ्चगृह्याग्निव्यतिरेकेणापि यथास्यादिति। इति श्रीकुशकण्डिकाविधिः॥ अन्वारब्धआघारावाज्यभागाविति। अत्र वैवाहिकहोमप्रसङ्गेन सर्वक-र्मसाधारणीं परिभाषां करोत्याचा-र्यः। अन्वारब्धो यथा ब्रह्मणा दक्षिणहस्तेन दक्षिणहस्तस्थकुशेन वाऽनुस्पृष्टः आघारौ आघारसंज्ञिके आज्याहुती पूर्वोत्तराघारे प्रतिनिगद्य होमत्वं यथामनसा। प्रजाप-तये स्वाहा इदं प्रजापतयेमनसा त्यागोऽपि। इन्द्राय स्वाहा इदमिन्द्राय। आज्यभागौ आज्यभागसं-ज्ञकौहोमौआग्नेयसौम्ये यथा। अग्नये स्वाहा इदमग्नये। सोमाय स्वाहा इदं सोमाय। महाव्याहृतयः भूराद्यास्तिस्रो यथा। ॐभूः स्वाहा इदमग्नये इदं भूर्वा इति त्यागः। ॐभुवः स्वाहा इदं वायवे इदं भुव इति वा। ॐस्वः स्वाहा इदं सूर्याय इदं स्व इति वा। सर्वप्रायश्चित्तं सर्वप्रायश्वित्तसंज्ञिकाः पञ्चाहुतयः। यथा त्वन्नोऽग्नेइत्यादिमन्त्रपञ्चकं सर्वप्रायश्वित्तसंज्ञकं इति। प्राजापत्यम् प्रजापतिदेवताको होमः। यथाप्रजापतये स्वाहा इदं प्रजापतये। स्विष्टकृच्चेति स्विष्टकृद्धोमः। यथाग्नयेस्विष्टकृते स्वाहा इदमग्न-ये स्विष्टकृते। चकारः सर्वसमुच्चयार्थः इत्युपरिष्टाद्वक्ष्यति।
अथ होमः। अथ ब्रह्मणान्वारब्धो जुहुयात्। तत्राघारादारभ्य द्वादशाहुतिषु दत्ताहु-त्यनन्तरं स्रुवावस्थितहुतशेषघृतस्य प्रोक्षणीपात्रे प्रक्षेपः। ॐ प्रजापतये स्वाहा इदं प्रजापतये इति मनसा इन्द्राय स्वाहा इदमिन्द्राय इत्याघारौ। अग्नये स्वाहा इदमग्न-ये ॐ सोमाय स्वाहा इदं सोमाय इत्याज्यभा-
नित्यं एतच्चर्तुर्द्दशाहुतिकं नित्यं सर्वत्र सर्वकर्मसु भवति यत्र होमोऽस्ति। यथा घृताक्तानि कुशेन्धना-नि जुहुयादिति। यत्र पुनः प्रस्तरारोहणलांगलयोजनादौ होमो नास्ति तत्रै तन्न भवति। अन्ते विहितस्य स्विष्टकृद्धोमस्य कर्म्मणस्थानान्तरमाह। प्राङ्महाव्याहृतिभ्य इति यत्राज्यव्यतिरिक्तमन्यद्धविर्भवति यज्ञादाविव तत्र महाव्याहृतिहोमात्प्राक् स्विष्टकृद्धोमः अन्यत्र सर्वाहुत्यन्ते भवति। सर्वप्रायश्चित्तमि-ति। सर्वप्रायश्चित्तेति सूत्रारम्भो राष्ट्रभृदादीनामागन्तुकत्वादन्ते निवेशो माभूदिति। तेन सर्वप्रायश्वित्तं त्वन्नोऽग्ने इत्यादि पञ्चमन्त्रकं प्राजापत्यान्तहोमः तयोरन्तरं मध्ये वक्ष्यमाणहोमस्य स्थानं विवाहे एव। अत्र पूर्वोक्तसूत्रं केषांचिन्मन्त्राणामुपयोगार्थेपठति अग्न्याधेय देवताभ्य इति। अग्न्याधेयदेवताभ्य इति वक्तुमशक्यम्। वक्ष्यत्यन्ग्न्याधेयदेवताभ्यो हुत्वा जुहोतीति तर्हि किमर्थमुक्तं बहुत्वविशिष्टानामत्र दे-वतात्वं यथा स्यादिति। किञ्च द्वेऽग्न्याधेयदेवते स्त एव तयोरेव देवतात्वं माभूदिति पुनर्ग्रहणाद्बह्वीना-मेव देवतात्वम्। श्रपयित्वेति श्रपणोपदेशान्नाश्रितासादनं आज्यभागाविष्ट्वेति किमर्थमुक्तम्। उच्यते। आघारादीनां चतुर्द्दशाज्याहुतीनां क्रम उक्तः तत्रेहाष्टानामनिर्द्दिष्टावसराणामवसरविधानार्थम्। इति विवाहसूत्रनिरूपणम्। अथ होममन्त्रव्याख्या। तत्र प्रथममृष्यादिकं सर्वेषां
गौ। ॐभूः स्वाहा इदं भूः ॐ भुवः स्वाहा इदं भुवः ॐ स्वः स्वाहा। इदँ स्वः इति महाव्याहृतयः। ॐ त्वन्नोऽग्ने वरुणस्य विद्वान्देवस्य हेडो अवयासि सीष्ठा यजिष्ठो वन्हितमः शोशुचानो विश्वाद्वेषाँसि प्रमुमुग्ध्यस्मत्स्वाहा इदमग्नीवरुणाभ्याम्॥१॥ ॐ स त्वन्नोऽग्नेऽवमो भवोतिनोदिष्ठोऽस्या उषसो
निरूप्यते तज्ज्ञानस्यौपाधिकत्वात्। तत्र त्वन्नोऽग्नेइति सत्वन्नोऽग्ने इति द्वयोर्वामदेव ऋषिस्त्रिष्टुप् छन्दोऽग्नीवरुणौ देवते सर्वप्रायश्वित्तहोमे विनियोगः। अयाश्चाग्नेरित्यस्य वामदेव ऋषिस्त्रिष्टुप् छन्दः अग्निर्देवता सर्वप्रायश्चित्तहोमे विनियोगः। ये ते शतमित्यस्य शुनःशेप ऋषिस्त्रिष्टुप् छन्दो वरुणो दे-वता वरुणीयपाशोन्मोके विनियोगः। इत्येतेषां सर्वप्रायश्चित्तहोमे विनियोगः। अथैतन्मन्त्रव्याख्या। तत्र त्वन्नोऽग्नेरिति हे अग्ने त्वमस्मिन् कर्म्मणि वैगुण्यादेव वरुणस्य देवस्य हेडः क्रोधमवयासिसीष्ठा अपनयेत्यर्थः हेडस्शब्दःसकारान्तः क्रोधवाचकः। हे़डोहेलनमित्युक्तन्। हेडः क्रोधे तमोगुणे इत्य-नेकार्थकोशे। कथंभूतस्त्वं नोऽस्मान् विद्वान् कर्म्मसाक्षित्वेन जानन्। यद्वानोऽस्मान्प्रमत्तान् मन्दम-तीनिति जानन् किञ्च न केवलं वरुणक्रोधमपनय किन्तु अस्मत् इति अस्मभ्यं विश्वाद्वेषाᳪ
सि सर्वाणि भोग्यानि प्रमुमुग्धि प्रमोचयेत्यर्थः अस्मत् कृतावज्ञाः क्षमयित्वाऽस्मभ्यं परमविलासजनितसुखानि प्रा-पयेत्यर्थः। यजिष्ठः यागेषु सर्वेभ्योऽतिशयेनोत्तमः। पुनः कीदृशः। वन्हितमः सकलयज्ञांशभागिभ्यः स्वस्वांशप्रापणेन सातिशयः। पुनः कीदृशः। शोशुचानः उत्तरोत्तरदीप्यमानः॥१॥ सत्वन्न इति। हे अग्ने स त्वन्नोऽस्माकं अवमो भव अवितृतमो भव पालनोद्यततमो भव अव रक्षणे इत्यस्य अवमः अ-वशब्दादतिशयेऽर्थे तमप्रत्ययः।
‘व्युष्टौ अवयक्ष्वनो वरुणँ रराणो व्रीहि मृडोकँ सुहवो न एधि स्वाहा। इदमग्नीवरु-णाभ्याम्॥२॥ अयाश्चाग्नेस्यनभिशस्तिपाश्चसत्यमित्वमया असि
तस्यतः छान्दसः तकारलोपेअवम इति जातम्। कथम्भूतस्त्वं ऊतिनोदिष्ठः पालकत्वेन निरूपितः। ऊतियूतीति निपातनात् इति। अव रक्षणे यु मिश्रणे अनयोः ऊतियूतिप्रयोगौअवधातोरूतीति निपा-ततः सिद्धशब्दस्य तृतीयैकवचने रूपम् ऊतिनेति। उदिष्ठः इति पृथक् पदम्। कदा अवमो भवेत्य-पेक्षायामाह। अस्या उषसो व्युष्टौ आङ् मर्य्यादायां एवार्थे वा अस्या इति कोऽर्थः अस्यैव दिवसस्य अद्यतनदिवसस्यैव उषस्य प्रभातस्य व्युष्टौ समाप्तौ अथवा व्युष्टाविति पञ्चम्यर्थे सप्तमी। आङ् च मर्यादायां तदा अस्य दिनस्य उषसो व्युष्टेः प्रभातमारभ्येत्यर्थः न केवलमेतदेव किन्तु आगत्य नोऽ-स्मान् सुहवः सुखाह्वानः एधि भव आहूतः सुखेनागच्छेत्यर्थः एधीति अस् भुवीत्यस्य रूपम्। न केवलं त्वं आगच्छ किन्तु आगत्य मृडीकं सुखकरं नो व्रीहि अस्मत्सम्बन्धि व्रीह्यादिकं रराणः ददानः सन् वरुणं यज्ञाधिष्ठातारं अव यक्ष्व पूजयेत्यर्थः स्वाहासहितो भव। अस्मद्विहितं स्वस्वभक्ष्यं देवोद्दिष्टं ह-विर्द्देवेभ्यः प्रापयेत्याशंसावाक्यार्थः रराण इति रा दाने इत्यस्य यङ्लुङन्तस्य शानच्प्रत्यये रूपम्॥२॥ अयाश्चाग्नेऽस्येति। हे अग्ने त्वं अया असि न यातीत्ययाः। या प्रापणे अस्मात् क्विप् अया इति सर्वत्र बाह्याभ्यन्तरेऽवस्थितः असि भवसि। यद्वाहे अग्ने त्वं अयाः जानासि सर्वामन्तर्बहिर्वृत्तिं सर्वेषां जानासीति भावः। अया इति इण् गतावित्यस्य रूपं लुङि अस्य साधनं मन्त्रस्यार्थेविधायान्ते निरूपयिष्यामीति किंभूतस्त्वं अनभिशस्तिपाः अभिशस्तिरभिशापो न
अया नो यज्ञं वहास्य यानो धेहि भेषजँस्वाहा इद मग्नये॥३॥ ये ते शतं वरुण ये सहस्त्रं यज्ञियाः पाशा
येषां ते अनभिशस्तयः तान् अविद्यमानाभिशस्तीन् पातीति आत्मसात्कृत्वा शोधयतीति अनभिश-स्तिपाः प्रायश्चित्तानुष्ठानेन कर्मानुष्ठानात् परिपालक इत्यर्थः। अत्र यद्यपि डान्तत्वे नाकारान्तः शब्दो भवति तथापि छन्दसि डस्च् इति सकारान्तः अनभिशस्तिपाशब्दः। किञ्च हे अग्ने यत् त्वमयाः शु-भावहो विधिरसि तत्सत्यमित्सत्यमेव इत् इत्यव्ययं एवार्थे अवधारणे इति भावः। शुभावहविधिवाच-काऽयशब्दस्य ह्रस्वत्वेप्यया इति दीर्घः छान्दसः। हे अया सर्वत्रावस्थित नोऽस्माकं अयाः सुमनाः स्वाश्रयो वा भूत्वायज्ञं वहासि वहसीत्यर्थः। हकारस्य दीर्घत्वं छान्दसं। यद्वायज्ञं यज्ञसम्पादितं चरु-पुरोडाशादिवस्तुजातं कृपालुत्वेन देवेभ्यः सम्पादयसि तस्मान्नो भेषजं सुखजननदुःखध्वंसनरूपम-पूर्वेधेहि देहीति प्रार्थना। बिभ्यत्यस्मादिति भेषः सच् प्रत्ययान्तः रोगवाचकः तं जयतीति भेषजस् तं चकारावुत्कर्षसूजनार्थौवहास्ययानो धेहि भेषजमिति क्रियापदद्वयं आद्यन्ते विद्योतनार्थम्। प्रथममेव यत् अया इति तदिण्गतावित्यस्य लुङ् मध्यमपुरुषैकवचने इसि इति स्थिते भूते सिरिति सिच् पर-स्मैपदे सीति सिलोपे इणो गादेशाभावः छान्दसः धातोर्गुणः अङ्गादादावडित्यडागमः स्वरादित्वात् द्वितीयोऽडागमः। वर्णव्यत्ययः गुणस्यायादेशे अया इति गत्यर्थो ज्ञानार्थेऽपीति ज्ञानार्थः॥३॥ ये ते श-तमिति। हे वरुण ते तव ये शतंपाशाः बहुशतसंख्याताः पाशाः ये च सहस्रसंख्याताः पाशाः पापानि बन्धनहेतुत्वात्। किम्भूता यज्ञियाः यज्ञप्रत्यूहोत्पन्नाः। पुनः किम्भूताः। वितताः विस्तीर्णाः। पुनः कि-म्भूताः। महान्तः कोटिशः प्रयत्नेनापि अपरिहार्याः तेभिस्तैः पाशैः पाशितान्नोऽस्मान् अद्य अस्मिन्नेवा-हनि इदानीमेव सविता मुञ्चतु मोचयतु न केवलं सवितोत विष्णुरूपेन्द्रो मुञ्चतु मोचयत्वित्यर्थः।
वितता महान्तस्तेभिर्न्नोऽद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा इदं वरुणाय सवित्रे विष्णवे विश्वेभ्योमरुद्भयःस्वर्केभ्यः॥४॥ उदुत्तमं वरुण पाशमस्म-दवाधमं विमध्यमँ श्रथाय अथाव्वय मादित्यव्रते तवानागसोऽदितये स्याम स्वाहा इदं वरुणाय। एताः सर्वप्रायश्चित्तसंज्ञकाः॥५॥
उत विश्वेदेवा सर्वा देवता मुचन्तु किञ्च मरुतो वायवो मुञ्चन्तु किञ्च स्वर्काः सुष्ठवः सुष्ठु हृदयाः अ-र्काः आदित्याः मुञ्चन्तु मोचयन्वित्यर्थः सवित्रादयो मुञ्चन्त्विति कोऽर्थः अकरणाऽयथाकरणाऽन्यथा-करणजन्यप्रत्यवायाभिभूतान्नोऽस्मान्पावयन्त्वित्यर्थः। यद्वा स्वर्का इति विशेषणम्। किम्भूताः सवि-त्रादयः स्वर्काः स्वर्गगाः स्वधिता वा आहुतिग्रहणात्तुष्टाः सवित्रादयोऽस्मान् सर्वतः पावयन्त्विति भा-वः। तेभिरिति तच्छब्दस्य तृतीयाबहुवचने बहुलं छन्दसीत्यैसादेशनिषेधे बहुवचने एत्वे सति स्यादेवे-त्यवसेयम्॥४॥ उदुत्तमं वरुणेति। उत्तममध्यमाधमाः त्रिविधा हि वरुणपाशाः तत्र हे वरुण उदिति यदर्थे। हे वरुण यत्तव उत्तमं पाशमस्ति अस्मात् उत्तमात्पाशात् नोऽस्मानिति शेषः। अव रक्ष अ-स्माद्दारुणात्पाशादस्मान्रक्षेत्यर्थः किञ्च अधममर्वाचीनं पाशं श्लथ स्वस्थान एव निःशेषेण उच्छ्वासितं कृत्वा निवारयेत्यर्थः। मध्यमपदेन व्यवहितोऽपि वि उपसर्गः श्लथेत्यनेन सम्बन्ध्यते तेन विश्लथ उच्छ्वासयेति भावः। अथ च मध्यमं पाशं उत्तमाधमयोरन्यत्पाशम् अप अपाकुरु श्लथ समीपे यत् अपेति
पदं तस्यार्थः अपाकुर्विति॥ कीदृशं पाशं अव्वयं अम्मयमित्यर्थः। मयट्प्रत्ययस्य मकारस्य वकारादेशः छान्दसः एवं कृतेसति हे आदित्य अदितेः पुत्र वरुण व्रते ब्रह्मचर्ये च वयं तव अनागसः निरपराधाः सन्तः अदितये अदीनत्वायै स्याम अदीना भवाम इत्यर्थः। दीनतायां दितिः प्रोक्ता दितिः स्याद्दैत्यमातरीति अनेकार्थः। होमकर्माणि पराशरः। आधारावाज्यभागौ च महाव्याहृतयस्तथा। स-र्वप्रायश्चित्तसंज्ञा पञ्चैवाहुतयस्तथा॥१॥ प्राजापत्यं स्विष्टकृतोऽग्नेर्होमश्च सर्वतः। होमकर्म्मण्याहुतीनां चतुर्द्दशकमीरितम्॥२॥ सर्वतः होमकर्म्मणि सर्वत्र यत्र होमो विहितस्तत्र सर्वत्र एतदाहुतीनां चतुर्द्द-शकमवश्यं समुदीरितमस्तीत्यर्थः॥५॥ तत्र सूत्राणि प्रमाणयति॥ एतन्नित्यं सर्वत्र। प्राङ्माहाव्याहृति-भ्यः स्विष्टकृदन्यच्चेदाज्याद्धविः। सर्वप्रायश्चित्तप्राजापत्यांतरमेतदवापस्थानं विवाहे। अथैषां सूत्राणा-मर्थेव्याख्याति एतन्नित्यमिति। एतदाघारादिस्विकृदवसानं सर्वत्र सर्वेषु होमात्मकेषु कर्म्मसु नित्यं यत्र होमाभावस्तत्र नास्ति। यथा प्रस्तरारोहणलाङ्गलयोजनपायसब्राह्मणभोजनेषु॥ अन्ते विहितस्य स्विष्टकृद्धोमस्य कर्म्मविशेषे स्थानान्तरमाह। प्राङ्महाव्याहृतिभ्य इति महाव्याहृतिभ्यः प्राक् पूर्वे स्वि-ष्टकृद्यागो भवति। चेद्यदि आज्यात्सकाशादन्यदपि चरुप्रभृतिहविर्भवति तथापि केवलाज्यभागे स-र्वाहुतिशेषे भवति सर्वप्रायश्चित्तेति। सर्वप्रायश्चित्तं त्वन्नोऽग्नेइत्यारभ्य उदुत्तममित्यन्तमाहुतिपञ्चकं प्राजापत्यं प्राजापत्याहुतिः। सर्वप्रायश्चित्तञ्च प्राजापत्यञ्च सर्वप्रायश्चित्तप्राजापत्ये तयोरन्तरं सर्वप्राय-श्चित्तप्राजापत्यान्तरं एतदवापस्थानं कस्मिन्विवाहे अवापस्थानं अवापश्च अन्यत्र विहितस्य होमस्य ज-पादौ कर्मणि कर्मान्तरे प्रक्षेपः तस्य स्थानं विवाहे एतत्। अवापस्य आगन्तुकत्वेन न्यायादन्ते निवेशो युक्तः। तन्निवृत्त्यर्थमेवमाह।
ततोऽन्वारम्भम्विना राष्ट्रभृद्धोमः पारस्करवचनात्।
अथ विवाहहोममप्याह सांख्यायनः। विवाहे होमयेन्नित्यं राष्ट्रभृद्द्वादशाहुतीः। जयाहुतीर्दश त्रींश्च हो-मयेत्तत्र चेच्छया॥ अष्टादशापि जुहुयादभ्यातानाहुतीस्तथा॥ इच्छयैव तत्र सूत्रं प्रमाणयति। विवाहे एव राष्ट्रभृत इच्छञ्जयायानभ्यातानांश्चजानन् येन कर्मणेर्त्सेदिति वचनात्॥ सूत्रार्थेनिरूपयति। वि-वाह एवेति। राष्ट्रभृतः राष्ट्रभृत्संज्ञकान् ऋताषाडित्यादिद्वादश मन्त्रानिच्छन्नपि विवाह एव जुहोति। जयान्मन्त्रलिङ्गाच्चित्तं च स्वाहा चित्तिश्चेत्यादि प्रजापतिजयानिंद्रायेत्याद्यन्त्यान्। जयाख्यमन्त्रांस्त्रयो-दशसङ्ख्याकान् शेषान् अग्निर्भूतानामधिपतिरित्यादीन् अष्टादशसङ्ख्याकान् अभ्यातानसंज्ञकान् तांश्च तांश्वेच्छयैव विवाहे संजुहोति। जानन् शब्दो विकल्पार्थः चशब्दो राष्ट्रभृद्भिः सन्नियोगार्थः। यद्वा खण्डान्वयः। विवाह एवेति। विवाह एव विवाहहोमकर्मण्येव राष्ट्रभृतः राष्ट्रभृत्संज्ञिका आहुतीरावपे-दित्यध्याहारः। जयाभ्यातानांश्चेति पाठे जयाश्चअभ्यातानाश्चजयाभ्यातानास्तान्। जयाभ्यातानांश्च आवपेत्। किंकुर्वन् इच्छन् राष्ट्रभृज्जयाम्यातानैः होमफलं कामयन्। अत्र किंप्रमाणमिति। येन कर्म-णेर्त्सेदिति। येन कर्मणा यस्मिन्कर्मणि ओप्यत्वेन यत्फलं भवतीति जानन् विदन् तत्कर्मफलमिच्छन् तस्मिन्कर्म्मणि आवपेदिति श्रुतिवचनादित्यर्थः। जयाभ्यातानांश्चेच्छया जुहोतीति कुतः येन कर्म्मणा ईर्त्सेत् ऋद्धिमिच्छेत्तत्र जयान् जुहुयात् इति वचनात् ततश्चान्यत्रापि ऋद्धिमिच्छता जयहोमः कार्य्यः इति गम्यते। चित्तं चेत्यत्र केचिच्चतुर्थ्यन्तेन प्रयोगमिच्छन्ति तदयुक्तम्। नह्येतानि देवतापदानि कि-न्तु मन्त्रा एव। मन्त्राणां च यथाम्नातानामेव प्रयोग इष्यते इति। स्वाहाकारस्त्वन्ते भवत्येव आहुतीनां स्वाहाकारप्रदानमिति श्रुतिः त्यागे तु भवत्येव चतुर्थ्यन्तम् \। अमन्त्रत्वात्त्यागस्य॥१॥ अथ विवाहसा-
क्षिकाग्न्यर्थमाहुतित्रयं चापि कार्य्यमेव। तत्राह साङ्ख्यायनः। आहुतित्रितयं दद्याद्विवाहे साक्षिका-ग्नये। साक्षीदानादिपूज्योऽतोऽग्निं साक्षिणमाहुनेत् इति॥१॥ धर्म्म आत्मा सदा साक्षी धर्म्मोधारयते प्रजाः। अतो वैवस्वतं धर्म्ममातिहुभ्यां प्रपूजयेत्॥ इति वचनात्। वैवस्वतायाप्याहुतिद्वयं ३ घृताभिघा-रितशमीपलाशमिश्रैर्लाजैर्वधूरग्नेराशंसत्येनं जुहुयादिति श्रुतिमनुसृत्य योगियाज्ञवल्क्य आह पूर्वमाग्निं साक्षीकृत्य जरां गच्छ परिधत्स्व वासः समंजन्तु विश्वेदेवा समापो हृदयानि नौ द्यौस्त्वाददातु पृथ्वी त्वा प्रतिगृह्णात्विति कोऽदात्कस्मादादिति कामस्तुतिं यदेषि मनसा दूरं दिशोनुपवमानो वेति अघोर-चक्षुरपतिन्घ्येधि शिवापशुभ्यः इति प्रभृतिभिर्वचनैर्वर एवाशंसावाक्यानि करोति स्म न वधूः किमपि पठितवती व्यवहारादिषु तु उत्तमर्णाधमर्णोभयवदननिर्मुक्तवचनैरेव व्यवहारशुद्धिर्नत्वेकमुखद्वारा व्यवहारशुद्धिरतो वधूर्निजमुखद्वारैव मन्त्रपाठपूर्वकलाजाहोममग्नौ कुर्वती आशंसावाक्यानि जगदे-तान्यभिप्रायशो निरूपयन्नेव याज्ञवल्क्यः स्मरति॥ आघारादिसमारम्य होमं वैवस्वतान्तिकम्। कृत्वा वरोवातद्धोता भवेतां प्राङ्मुखौ ततः॥वधूवरौ समुत्थाय वधूर्जुहुयाच्छ्रुतेर्बलात्। शमीपलाशमिश्रैश्च लाजैराज्याभिघारितैः। एका देव्या खेः सप्त सप्ताग्नेर्गणपतेस्त्रयः॥ चतस्रो वासुदेवस्य शिवस्यार्धप्रद-क्षिणा॥ चतस्रः स्युः पितॄणां वै तिस्रो प्येका यदृच्छया। इति पद्मपुराणीयवचनात्। उक्तावैश्वानरे स-प्तप्रदक्षिणाकर्त्तव्यता। तत्राघोरचक्षुरपतिन्घ्येधि शिवापशुभ्यः सुमनाः सुवर्चा इत्यादिवरपठितमन्त्रा-न्ते परस्परनिरीक्षणानन्तरं यदुक्तं ततोऽग्निं प्रदक्षिणीकृत्येति तत्र प्राप्तसप्तप्रदक्षिणावशात् श्रुत्यनु-सारतो याज्ञवल्क्योक्त्यार्य्यमणं देवं कन्यामग्निमयच्छतेत्यादि प्रतिमन्त्रान् लाजाहवनपूर्वकोक्तप्रद-क्षिणात्रयानन्तरं सूर्यकोणेन लाजाहवनानन्तरं चतुर्थप्रदक्षिणातः
परिशेषात्पूर्वेप्रदक्षिणात्रयं सिद्धम्। तेनाग्नेः प्रदक्षिणासप्तकमपि संजातमिति। प्रत्याहुति कर्त्तव्यतायां तत्रैवापस्तम्बः। प्रत्याहुतिं वरः सा-ङ्गुष्ठं हस्तमभिगृभ्णीयात्पादेन वध्वाः अश्मारोहणं कारयेदारूढायां वरो गाथां गायेत्ततो वधूवरौ प्र-णीताब्रह्मसहितमग्निं प्रदक्षिणीयातां तत्र वरोहवाव तुभ्यमग्निमित्यादि मृचंपठन्नेव वधूमनु वैश्वानरं प्र-दक्षिणमाचरेत्। इति श्रुत्यनुसारतः आपस्तम्बोऽपि स्मरति। आहुत्यनन्तरं वध्वाः साङ्गुष्ठमवलम्बये-त्। दक्षहस्तं वरो मन्त्रं पठन्नेवाभितः स्थितः। दृषदुपले त्वपसव्येन पादेनारोहयेद्वधूम्॥ आरूढायाञ्च तत्रास्यां गाथां गायेत वै वरः। प्रदक्षिणीप्रकुर्य्यातां ज्वलनन्तु वधूवरौ॥ परिक्रमेत्पठन्नेव तुभ्यमग्नोस्त-योर्वरः इति। दृढो दृढतरश्चैव ततो दृढतमो भवेत् इतिन्यायात्। त्रिवारमेव वधूवरयोः प्रदक्षिणात्रितये एव आशंसावाक्यस्य दृढतमत्वेसति सप्तमी प्रदक्षिणायाः पूर्वमेव सूर्य्यकोणेन तूष्णीं भगाय स्वाहेति पारस्करवचनात् लाजाहोमम्वधूः कुर्य्यादिति श्रुतिसूत्रानुसारेण सप्तम्यां परिक्रमायां न मन्त्रपाठः। नास्यामङ्गुष्ठग्रहणं नाश्मारोहणं न गाथागानं कुर्य्यात्। प्रदक्षिणासंख्यासम्पूर्णाय तूष्णीमेव परिक्र-मेदिति अत एव षष्ठीपरिक्रमानन्तरमासनविपर्य्ययेन वधूवरयोरासनयोः समुपवेशनम्। अग्नेः प्रदक्षि-णाः सप्त विवाहे तु सदा मताः। सर्वत्र ‘युगपत्कुर्य्याद्विवाहे तु यथाक्रमम्॥ होमात्पूर्वन्तु स्युस्तिस्रस्ति-स्रो होमे समन्त्रकाः। ततो भगाय स्वाहेति हुत्वा तूष्णीं प्रदक्षिणा॥ वरः पश्चाद्वधूरग्रे पूर्वासु मध्य-मास्वपि। प्रदक्षिणायामन्त्यायां वधूः पश्चात्पुरोवरः। इतिहरि हरसंवर्तपराशरवचनात् यथायथमूह्यम्। अथ सप्तपरिक्रमणानन्तरमुपविश्य वरः प्राजापत्यं जुहुयात्। ओं प्रजापतये स्वाहा इदं प्रजापतये इति मनसा। अयमभिप्रायः। वध्वा स्वयमाशंसावाक्ये समुच्चारिते प्रसन्नमना वरो धन्योऽयं विधाता येन भार्य्यया मे संयोगो विहितः इति
प्रजापतेः प्रसादं ज्ञात्वा प्रजापतिं जुहावेति मनसा सुप्रसन्नेन मनसेत्यर्थः॥ मैत्री सप्तपदी प्रोक्ता सप्तवाक्याथवा भवेत्॥ सत्तराणां तु त्रिपदी सत्तमानां पदेपदे॥ इति ऋषिप्रणीतत्वात्। मैत्रीकरणाय सप्तपदीक्रमणं वरः कुर्य्यात्। अन्योन्यभावनिबन्धनहेतुर्मैत्रीति मैत्री लक्षणत्वात्। तत्र मन्त्राणि वाक्यप्रतिवाक्यात्मकानि वक्ष्यमाणानि ज्ञातव्यानीति। अथ वरो वधू-मात्मीयां मत्वा आपः शिवाः शिवतमाः इत्यादिमन्त्रैरभिषिञ्चति ततो निजां तामभिज्ञाय इयं मे चाज्ञा-करी नवेति परीक्षणाय तामाज्ञापयति वरः सूर्य्यमुदीक्षस्वेति तस्यां सूर्य्यमुदीक्षितवत्यां सत्यां तच्चक्षु-रिति स्तुतिमन्त्रं स्वयं पठति। अस्तमिते सूर्य्येध्रुवमुदीक्षस्वति आज्ञापनं तत्र ध्रुवस्तुतिमन्त्रपठनम्वरः कुर्य्यात्। अथात्मीयस्वरूपभूतां तां ज्ञात्वा सर्वेषां पुरस्तात्तस्या हृदयं वक्ष्यमाणममव्रतेत्यादिमन्त्रेण स्पृशति। अथ पारस्करवचनेन वधूमभिमन्त्रयति वरः सुमङ्गलीरिति मन्त्रेण। सर्वान्ते स्विष्टकृद्धोमं कुर्यात्। विधिसमाप्तये यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्विषैरिति श्रुतिनोदनाबलात्संस्रवप्राश-नम्। तदन्वाचारादाचमनप्राप्तिः। संस्रवं प्राशयित्वा वा आचामेत्प्रयतोऽपि सन्निति वाक्यादाचमनम्। एवं हतं यज्ञमदक्षिणमितिं वचनात्। ब्रह्मणे दक्षिणादानम्। आमतण्डुलसंपूर्णे पूर्णपात्रं ददेद्वरः। अ-ष्टमुष्टिर्भवेत्कुञ्चस्ते3 चेदष्टौ तु पुष्कलम्। पुष्कलानि तु चत्वारि पूर्णपात्रं प्रचक्षते। ब्रह्मणे दक्षिणां दत्वा ब्रह्मग्रन्थिविमोचनम् इति कात्यायनवचनात्। ब्रह्मग्रन्थिविमोकः। ततः प्रणीतामादाय तत्स्थं जलं मू-र्ध्निप्रक्षिपेत्। सुमित्रियेति मनुना ततो दुर्मित्रियेति च। पठित्वेशदिशायान्तु न्युब्जीकुर्य्यात्ततो वरः। ततः पूर्णाहुतिं कृत्वा ध्यायुषन्तु समाचरेत्॥ शणशङ्खसुवर्णाद्यैः सिन्दूरं शिरसि क्षिपेत्।
तत्र द्वादश मन्त्रा यथा ॐ ऋताषाड्ऋतधामा ग्निगन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाट्।१। इदमृतासाहे ऋतधाम्नेऽग्नये गन्धर्वाय।१। ॐ ऋताषाड् ऋत-धामाग्निर्गन्धर्वस्तस्यौषधयोऽप्सरसो मुदो नाम ताभ्यः स्वाहा।२। इदमोषधिभ्योऽ-प्सरोभ्यो मुद्भयः।२। संहितो विश्वसामा सूर्यो
वध्वा वरो द्वयोः पश्चादक्षतारोपणं भवेत्। ततो वधूं वरोऽन्यो वा वेदितो मण्डलं नयेत्। इह गाव इति मन्त्रेण लोहितानडुच्चर्मणि॥ इति विवाहविधिसूत्रणं समाप्तम्॥ प्रासङ्गिकं समाप्य प्रस्तुतं मन्वार्थे पुनराह तत्र राष्ट्रभृत्संज्ञकान् द्वाशद मन्त्रान् विवाहहोमे पारस्करविहितान् व्याख्याति। ऋताषाडिति। योऽग्निर्गन्धर्वरूपः। तस्मै अग्नये स्वाहा वाट् यत् स्वाहा कृतं सुहुतं तत् वाट् वषट् भवत्वित्यर्थः। वह-तीतिवाट् प्राप्नोतीत्यर्थः। अग्निः किम्भूतः ऋताषाट् ऋतं सत्यं आसहते यः स ऋताषाट्। पुनः किम-भूतः ऋतधामा। ऋतं सत्यं धाम स्थानं यस्य सः। ऋतस्थानायाऽस्माभिरिदमाज्यं दत्तं किमर्थेतस्मै स्वाहा क्रियतइत्याह। स न इदं ब्रह्मज्ञानं क्षत्रं वीर्य्यञ्चंपातु रक्षत्वित्याशंसावाक्यार्थः॥१॥ ऋताषा-डिति यो गन्धर्वरूपोऽग्निःऋताषाड् ऋतधामाग्निः तस्यगन्धर्वरूपस्याग्नेरप्सरस ओषधयो व्रीह्मादयः कार्षिकार्था यवगोधूममाषव्रीहिमुद्रादयः। किंभूताः ओषधयः। मुदः मुदोनाम्न्यः सर्वे मोदन्ते याभि-स्ता मुदः ताभ्यः स्वाहा सुहुतं भवतु गन्धर्वरूपस्याग्नेर्मुद्नाम्नीभ्योऽप्सरोभ्य ओषधीभ्य इदमाज्यमस्मा-भिर्दत्तं ता अस्माकं ज्ञानं वीर्य्येच रक्षन्त्विति आशंसावाक्यार्थः॥२॥ सँ हितेति यः सूर्य्यःगन्धर्वः किं-भूतः संहितः दिवसं रात्रिं च सन्दधातीति संहितः सम्पूर्वोदधातिः
गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् \।३\। इदᳪसंहिताय विश्वसाम्ने सूर्य्याय गन्धर्वाय।३।सᳪहितो विश्वसामा सूर्य्योगन्धर्वस्तस्य मरीचयोऽप्सरसः आयुवो नाम ताभ्यः स्वाहा।४। इदं मरीचिभ्योऽप्सरोभ्य आयुवोभ्यः।४। ॐसुषु-म्णः सूर्य्यरश्मिश्चन्द्रमा गन्धर्वः स नो ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् \।५\। इदं सुषुम्णाय सूर्य्यरश्मये चन्द्रमसे गन्धर्वाय।५। सुषुम्णः सूर्य्यरश्मिश्चन्द्रमा गन्धर्वस्त-स्य नक्षत्राण्यप्सरसो भेकु-
क्तान्तः दधातेर्हिरिति हिरादेशः। समो वा हितततयोरिति मलोपस्तत्पक्षे सहितः पुनः किम्भूतः विश्व-सामा विश्वं सर्वे साम यत्र सः समस्तसामवेदमयः परं सर्वेसमानम्॥३॥ सँहित इति तस्य सूर्यस्य गन्धर्वस्फप्सरसो मरीचयो रश्मयः आयुवो नाम आयुवो नाम्न्यः आयुवो मिलनवृत्तयः आसमन्ताद्यु-वन्ति आयुवः आङ् पूर्वको युमिश्रणे कसिप्रत्ययान्तोऽन्यत्समानम्॥४॥ सुषुम्ण इति। यश्चन्द्रमा गन्ध-र्वरूपः सुषुम्णः नितरामाल्हादकः। सुपूर्वस्य षुम् आल्हादने इत्यस्य णप्रत्ययान्तः सुतरां सोमयतिअ-मृतजीवनदातृत्वेन आल्हादयति विश्वमिति सुषुम्णः सूर्यरश्मिः सूर्यरश्मिभिः संसिद्धः सूर्यप्रतिबिम्ब-त्वात् सूर्यरश्मिस्वरूपः अपरं समानम्॥५॥ सुषुम्ण इति। तस्य गन्धर्वरूपस्य चन्द्रमसो नक्षत्राण्य-प्सरसः किम्भूताः भेकुरयो नाम भेकुरिनाम्नयःभनाम्न्यः इकुरिनाम्न्यश्च याः सोदर्य्यः संत्यः एकभर्त्तृ-का भवन्ति ता इकुरिशब्दवाच्याः सपितृका एकपतिका इकुर्यस्ता उदीरिताः इति गङ्गाधरवचनात्। अन्यत्समानम्॥६॥
रयो नाम ताभ्यः स्वाहा।६। इदं नक्षत्रेभ्योऽप्सरोभ्यो भेकुरिभ्यः। ६। इषरो विश्व-व्यचा वातो गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट्।७। इदमिषराय विश्व-व्यचसे वाताय गन्धर्वाय॥७॥ इषरो विश्वव्यचा वातो गन्धर्वः तस्यापोऽप्सरस ऊर्जोनाम ताभ्यःस्वाहा।८। इदमद्भ्योऽप्सरोभ्य ऊर्ग्भ्यः।८। भुज्युः सुपर्णो यज्ञो गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट्।९। इदं भुज्यवे सुपर्णाय यज्ञाय गन्धर्वाय।९। भुज्युः सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसः स्तावा नाम ता-भ्यः स्वाहा।१०। इदं दक्षिणाभ्योऽप्सरोभ्यः स्तावा-
इषरो विश्चव्यचा इति। यो वातो गन्धर्वः किम्भूतः इषरः गमनस्वभावः इष गतावित्यस्य अरक्प्रत्यया-न्तः। पुनः किंभूतः विश्चव्यचाः सर्वगतः विश्वं सर्वेविशेषेण अञ्चतीति विश्वव्यचाः विश्वकर्मकविपूर्वका-ऽञ्चुगतिपूजनयोरित्यस्यास्प्रत्ययान्तः परं समानम्॥७॥ इषरो विश्वव्यचा इति। यो वातो गन्धर्वः त-स्यापो जलान्यप्सरसः किंभूता उर्ज्जोनाम ऊर्ज्जोनाम्न्यःसर्वसम्पादकं तूर्ज्ज ऊर्जः परमपावनम्। उ-र्ज्जाः कार्तिकको मासः इति रन्तिकोशोक्तिः॥८॥ भुज्युः सुपर्ण इति यो यज्ञो गन्धर्वः किंभूतः भुज्युः पालकः भुनक्ति पालयतीति भुज्युः भुजपालनाभ्यवहारयोरित्यस्य युप्रत्ययान्तः शब्दः। पुनः किंभू-तः। सुपर्णः शोभनपर्णः शोभनगतिः। पृणगतावित्यस्य धातोः पर्ण इति परं समानम्॥९॥ भुज्युः सुप-र्ण इति यो यज्ञो गन्धर्वस्तस्याप्सरसो दक्षिणा किंभूता अप्सरसः स्तावानाम्न्यः यज्ञस्य स्तुतियोग्यकराः स्तावाः दक्षिणायां
भ्यः।१०। प्रजापतिर्विश्वकर्म्मामनोगन्धर्वः स न इदं०।११। इदंप्रजापतये विश्वकर्मणे मनसे गन्धर्वाय।११। प्रजापतिर्विश्वकर्म्मा मनोगन्धर्वस्तस्य ऋक्सामान्यप्सरस एष्ट-यो नाम ताभ्यः स्वाहा।१२।इदमृक्सामभ्योऽप्सरोभ्य एष्टिभ्यः इति राष्ट्रभृत्।१२ ॐ चित्तंच स्वाहा इदं चित्ताय १ ॐ चित्तिश्व स्वाहा इदं चित्त्यै२ ॐ आकूतञ्च स्वाहा इदमाकूताय।३।
दत्तायां यज्ञः स्तोतव्यो भवतीत्यभिप्रायः अपरं समानम्॥१०॥ प्रजापतिरिति। यन्मनोगन्धर्वः प्रजाप-तिः प्रजानामीश्वरः किंभूतः विश्वकर्म्माविश्वं कर्म्म यस्य तद्व्यापारेण विश्वनिर्माणात् अन्यत् समानम्॥११॥ प्रजापतिरिति। यन्मनोगन्धर्वः तस्य मनोगन्धर्वस्याप्सरसः ऋक्सामानि ऋचः ऋग्वेदीयाः सामा-नि च सामवेदीयाः मन्त्राः कीदृश्यः एष्टयो नाम अतिशयितेच्छा नाम आ अतिशयिताया इष्टय इच्छा-स्ता एष्टयः पुत्रादितीव्रेच्छया यागादिप्रसक्तौ पुत्रादिः सम्पद्यते इत्यभिप्रायः परं समानम्॥१२॥ चित्त-मित्यादित्रयोदशमन्त्राणां परमेष्ठी ऋषिस्त्रिष्टुप्छन्दो यजुर्लिङ्गोक्ता देवता जपे होमे विनियोगः। अथ विजयसंज्ञका स्त्रयोदश मन्त्राः यथा तथा दर्शयति। प्रजापतिर्जयानिंद्रायेत्याद्यन्तेन मन्त्रेण। प्रजाप-तिरिन्द्राय जयान् दत्तवान् इति याऽऽशंसा भविष्यति तस्याः सर्वत्रैव मन्त्रेषु मह्यं प्रजापतिर्जयं ददा-त्वित्याशंसाऽऽकर्षणेन समुचिता। चित्तमिति। चित्तं ज्ञानं मह्यं प्रजापतिर्ददात्विति शेषः। एवं सर्वत्र ऊह्यम्॥१॥ चित्तिरिति। चित्तिर्ज्ञेयम्। प्रजापतिर्ददातु मह्यमिति॥॥२॥ आकूतमाभिमुख्यम्॥३॥ आ-कूतिरात्मनोधर्मविशेषः येन
ॐ आकूतिश्च स्वाहा इदमाकूत्यै।४। ॐ विज्ञानञ्च स्वहा इदं विज्ञानाय।५। ॐ विज्ञातिश्च स्वाहा इदं विज्ञात्यै।६। ॐ मनसश्च स्वाहा इदं मनसे।७। ॐ शक्क-र्य्यश्च स्वाहा इदं शक्करीभ्यः।८। ॐ दर्शश्चस्वाहा इदं दर्शाय।९। ॐ पौर्णमासं च स्वाहा इदंपौर्णमासाय॥१०॥ ॐ बृहच्च स्वाहा इदं बृहते।११।ॐ रथन्तरं च स्वाहा इदं रथन्तराय।१२। ॐ प्रजापतिर्जयातिन्द्राय वृष्णे प्रायच्छदुग्रः पृतना जयेषु तस्मै विशः समनमन्त सर्वाः स उग्रः सहव्यो बभूव स्वाहा।१३।
मनः प्रेर्यते॥४॥ विज्ञानं शिल्पादिज्ञानम्॥५॥ विज्ञातिस्तद्विषयो विज्ञातार्थः भूषणवस्त्रपात्रादिरचना॥६॥ मनः प्रसिद्धम्॥७॥ शक्करी स्थूलदृष्टिरिति प्रसिद्धा तथा च स्थूलभूतब्रह्माण्डविराड्विषया दृष्टिस्ताः॥८॥ दर्शः पौर्णमासश्च यागविशेषौ॥९॥१०॥ बृहत्रथन्तरञ्च सामविशेषे वेदवचने तन्निरूपि-तधर्मविशेषौ वा॥११॥१२॥ प्रजापतिर्जयानिति। प्रजापतिरीश्वरः इन्द्राय देवराजाय जयान्पूर्वोक्तान् ज्ञानाधारादीन् मन्त्रान् प्रायच्छत दत्तवान् किंभूताय इन्द्राय वृष्णे वृष वृष्टौ वर्षतीति वृषा तस्मै। अन् प्रत्ययान्तो वृषन्शब्दः यूषन्वत्। किंभूतः प्रजापतिः पृतनाजयेषु पृतनां जयन्तीति पृतनाजयाः शत्रुसे-नापारगाः शूराः तेषु उग्रः विपक्षतेजोभिभावी स प्रजापतिर्जयदानपात्रीभूत इन्द्रस्तद्दत्तजयेनैव उग्रो बभूव। विपक्षपृतनाभिभावी बभूव। तथा च इन्द्रो हव्यो बभूव यज्ञबलिभागग्रणीर्बभूव सर्वाः संविशः समस्ताः प्रजाः छान्दसः प्रयोगः। तस्मै इन्द्राय समनमन्त प्रणतीरकुर्वन् यज्जयदानेन इन्द्र एतद्गुण-विशिष्टो बभूव स प्रजापतिर्दानशीलोऽतो मत्यमपि
इदं प्रजातये।१३।इति जयाहोमः॥ अथाभ्यातानहोमः। ॐ अग्निर्भूतानामधिपतिः समावत्वस्मिन्ब्रह्मण्य स्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्म्मण्यस्यां देव-हूत्याᳪस्वाहा॥१॥ इदमग्नये भूतानामधिपतये॥१॥ ॐ इन्द्रो ज्येष्ठानामधिपतिः समावत्वस्मिन्ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्म्मण्यस्यां दे-वहूत्यांᳪस्वाहा॥२॥ इदमिन्द्रा-
तज्जयं ददात्विति तात्पर्यम्। एवं प्रजापतिं स्तुत्वा आहुतिं ददाति स्वाहा प्रजापतये सुहुतं भवेदित्य-र्थः॥१३॥ इति जयाहोमः। अथ पारस्करप्रणीताभ्यातानसंज्ञका मन्त्रा यथा तथा दर्शयति। अग्निर्भूता-नामधिपतिरिति योऽग्निर्भूतानां प्राणिनामधिपतिः प्रभुः स मामवतु प्रतिपालयतु अधिपतेः पालनमेव समुचितम्। कुत्र मामवतु प्रतिपालयतु अस्मिन्ब्रह्मणि वेदाध्ययनादिकर्म्मणि अस्मिन् क्षत्रे वीर्य्यसाध्ये कर्म्मणि अस्यामाशिषि आशास्येऽभ्युदयेऽर्थे अस्यां पुरोधायां पुरः स्थितायास्मिन्कर्म्मणि विवाहक-र्म्मणि अस्यां देवहूत्यां देवाह्वाने।हूतिराकारणाह्वानमित्यमरः। प्राणिनामधिपतिरग्निरस्मिन् विवाहक-र्म्मणि इत्युपलक्षणम् सर्वस्मिन्कर्मणीत्यर्थः। अस्यां पुरोधायामिति पदेन सर्वकर्मसु ममानया सम्ब-न्धः। सर्ववेदोक्तवीर्यकर्मसु कर्मसु चाभ्युदयेऽर्थे च देवाह्वानादौ च अनया सह मां पालयत्वित्याशंसा-वाक्यार्थः। तस्मै स्वाहा वाट्तस्मै अग्नये स्वाहा दत्तमाहुतिविशेषं वाट् सुहुतं भवत्वित्यर्थः॥१॥ अग्नि-र्भूतानामित्यष्टादश मन्त्रा अभ्यातानसंज्ञाः। तथा च श्रुतिः। यद्देवा अभ्यातानैरसुरानभ्यातन्वत। अस्या अर्थः। यद्यस्माद्देवा अभ्यातानैर्मन्त्रैरसुरान् यज्ञघ्नानभ्यातन्वत आयुधानि प्राहितवन्तः घातयन्तिस्मेत्य-र्थः एतदेवाभ्यातानानामभ्यातानत्वमिति।
य ज्येष्ठानामधिपतये॥२॥ ॐ यमः पृथिव्या अधिपतिः स मावत्वस्मिन्ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्म्मण्यस्यां देवहूत्याँ स्वाहा॥३॥ इदं यमा-य पृथिव्या अधिपतये॥३॥ अत्र प्रणीतोदकस्पर्शः ॐ वायुरन्तरिक्षस्याधिपतिः स-मा०॥४॥ इदं वायवेऽन्तरिक्षस्याधिपतये॥४॥
अयं च वाक्यार्थः उपरिष्टादपि सप्तदशसु मन्त्रेषु सम्बध्यते किञ्चित्किञ्चिद्विशेषः स च निरूपयिष्यते इति भावः। अथ विनियोगः। अग्निर्भूतानामित्यष्टादशानां मन्त्राणां प्रजापतिर्ऋषिः पंक्तिश्छन्दो लि-ङ्गोक्ता देवता अभ्यातानहोमे विनियोगः॥ इन्द्रो ज्येष्ठानामिति। इन्द्रो मघवा ज्येष्ठानामधिपतिः अति-शयेन वृद्धो ज्येष्ठः इन्द्रस्य बृहस्पत्यादिनियन्तृत्वादधिपतित्वमस्त्येव। अन्यत्सर्वेसमानम्॥२॥ यमः पृथिव्या अधिपतिः पृथ्वीवर्तिसर्वजननियन्तृत्वादधिपतित्वम् यमस्य पृथिव्या अधिपतित्वं अस्त्येव अन्यत्समानम्। अत्रेति अत्र आहुतिप्रक्षेपे कृते प्रणीतोदकस्पर्शः प्रणीतोदकेन स्पर्शः प्रक्षालनमित्य-र्थः। कस्य स्पर्श इत्यपेक्षायामाह। हुत्वाहुतिं च क्रूराय होता होमे विवाहिके। तत् क्रूरता घातपूर्वे शांतिमाङ्गल्यसिद्धये। दक्षहस्ताङ्गुलीः पञ्च स्रुवं त्यक्त्वा समार्जयेत्। तत्र विधिः। अंभोजमुकुलाका-रं दक्षहस्तं निमज्जयेत्। प्रणीताप्सु सुशान्त्यर्थेमनुः स्वायम्भुवोऽब्रवीत्। इत्यग्निपुराणीयवचनात्। य-मो रुद्रश्चपितरः कालो मृत्युश्च पञ्चमः। पञ्च क्रूरा विवाहस्य होमे तच्छान्तिमाचरेत्। प्रणीताद्भिः संह-ताङ्गुलिक्षालनेनेति शेषः। इत्यगस्त्यस्मृतेरिति॥३॥ वायुरन्तरिक्षस्येति सम्पुटभूतयोः ब्रह्माण्डकटा-हयोः कयोश्चिन्मध्यगतमवकाशमन्तरिक्षम् ततश्च ब्रह्माण्डान्तर्गतमाकाशमन्तरिक्षं
ॐ सूर्य्यो दिवा अधिपतिः समा०॥५॥ इदं सूर्य्याय दिवा अधिपतये॥५॥ ॐ चन्द्रमा नक्षत्राणामधिपतिः समा०॥६॥ इदं चन्द्रमसे नक्षत्राणाम-धिपतये॥६॥ ॐ बृहस्पतिर्ब्रह्मणोऽधिपतिः समावत्वस्मिन्ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरो-धायामस्मिन्कर्म्मण्यस्यां देवहूत्याँस्वाहा॥७॥ इदं बृहस्पतये ब्रह्मणोऽधिपतये॥७॥ ॐ मित्रः सत्यानामधिपतिः समा०॥८॥ इदं मित्राय सत्यानामधिपतये॥८॥ ॐ वरुणोऽपामधिपतिः समा०॥९॥ इदं वरुणाय अपामधिपतये॥९॥
सिद्धम्। नभोऽन्तरिक्षं गगनमित्यमरः। वायुरन्तरिक्षस्याधिपतिरिति। अन्तरिक्षेसदागतिमत्वाद्वायोन्त-रिक्षस्याधिपतित्वमुचितमेवास्ति। अन्यत्समानम्॥४॥ सूर्यो दिवा अधिपतिरिति। सर्वेषां ज्योतिषां ति-रस्कारेण स्वयंप्रकाशमानत्वात् सूर्यस्य दिवा एवाधिपतित्वम्। रात्रावस्तमनेन प्रकाशाभावात्॥५॥ चन्द्रमा नक्षत्राणामधिपतिरिति। अश्विन्याद्या दाक्षायण्यश्चन्द्रमसः पत्न्यःतासामधिपतिरिन्दुः पत्युः प-त्नीनामधिपतित्वं निर्वादमेव॥६॥ बृहस्पतिर्ब्रह्मणोऽधिपतिरिति। रुद्रशिष्यत्वेनापारशब्दवारिधिवि-ज्ञानात् शुद्धशब्दसमीचीनसंस्कृतोच्चारणविधानात् ब्रह्मणो वेदस्याधिपतित्वमुचितम्॥७॥ मित्रः स-त्यनामाधिपतिरिति। मित्रत्वं जायते सत्यात्सत्यादेव प्रवर्द्धते। सत्यात्प्रफलते नित्यं सत्यहेतुर्हिमित्रते-ति सामान्यवचनात्। मित्रो देवताऽपि मित्रस्य तेजसा प्रकाशमानानां सत्स्वरूपाणां भावत्वेन निर्द्दिष्टानां पदार्थानामेवाधिपतिरिति तात्पर्य्यार्थः॥८॥ एवमेव विधात्रा
ॐ समुद्रः स्त्रोत्यानामधिपतिः समा०॥१०॥ इदं समुद्राय स्त्रोत्यानामधिपतये॥१०॥ ॐ अन्नं साम्राज्यानामधिपतिः समा०॥११॥ इदमन्नाय साम्राज्यानामधिपत-ये॥११॥ ॐ सोमः औषधीनामधिपतिः समा०॥१२॥ इदं सोमाय औषधीनामधिप-तये॥१२॥ ॐ सविता प्रसवानामधिपतिः समावत्वस्मिन्ब्रह्मण्यस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधायामस्मिन्कर्म्मण्यस्यां देवहूत्या ᳪस्वाहा॥१३॥ इदं सवित्रे प्रसवानामधिपतये॥१३॥ ॐ रुद्रः पशूनामधिपतिः समा०॥१४॥ इदं रुद्राय पशू-नामधिपतये॥१४॥ अत्र प्रणीतोदकस्पर्शः॥ ॐ त्वष्टा रूपाणामधिपतिः समा०॥१५॥ इदं त्वष्ट्रे रूपाणामधिपतये॥१५॥ ॐ विष्णुः
स्वयमभिषेककरणादपामधिपतित्वमुचितम्। यदुक्तम्। जलानांजलजन्तूनां पाशी धात्राधिपः कृतः इति॥९॥ यान्यूर्द्ध्वदेशादधोऽधोगच्छन्ति तानि स्त्रोतांसि यानि गमनादिरहितानि गंभीराणि सरांसि स्थितान्येव सर्वदा समुल्लसन्ति तानि स्रोत्यानि तेषां समुद्रोऽधिपतिर्निर्द्दिष्टः सर्वेभ्यः स्रोतोभ्यः तस्य तद्रूपेण महत्त्वात्॥१०॥ अन्नं साम्राज्यानामिति साम्राज्यानां समस्तानां गजहयालयोद्यानादिसमृद्धी-नामन्नस्यैवाधिपतित्वं अद्यते इत्यन्नं भोगः तस्यैवाधिपतित्वमिति वा॥११॥ सोम औषधीनामधिपतिरि-ति स्पष्टम्॥१२॥ सवितेति। प्रसवानामुत्पद्यमानानां सविता श्रीसूर्यः उत्पादक एवाधिपतिरित्यर्थः॥१३॥ रुद्रः पशूनामिति कामधेनोर्जठरान्नन्दिकेश्वररुपेणावतीर्णस्य रुद्रस्य पशूनामधिपतित्वम्॥१४॥ त्वष्टा रूपाणामिति। रूपाणां मूर्तीनपामुत्पादकत्वेन त्वष्टा विश्वकर्माधिपतिः समुचितः॥१५॥
पर्वतानामधिपतिः समा०॥१६॥ इदं विष्णवे पर्वतानामधिपतये॥१६॥ ॐ मरुतो गणानामधिपतयः समा०॥१७॥ इदं मरुद्भ्यो गणानामधिपतिभ्यः १७ ॐ पितरः पितामहाः परेऽवरे ततास्ततामहाइह मावन्त्वस्मिन्ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशि-ष्यस्यांपु रोधायामस्मिन्कर्म्मण्यस्यां देवहुत्याँ स्वाहा१८ इदं पितृभ्यः पितामहेभ्यः परेभ्योऽवरेभ्यस्ततेभ्य स्ततामहेभ्यः॥१८॥ अत्र प्रणीतोदकस्पर्शः। इत्य-
विष्णुः पर्वतानामित्यपि पर्वाणि पुण्यपुञ्जसम्बध्यमानानि यानि कुहूसिनीवालीव्यतीपातप्रभृतीनि वि-द्यन्ते येषां ते पर्वताः दर्शपौर्णमासप्रभृतयो यज्ञास्तेषामधिपतिरधीश्वरो विष्णर्यज्ञपुरुष एव समुचितः। यज्ञभुग्यज्ञकृद्यज्ञी यज्ञात्मा तदधीश्वरः इति व्यासस्मृतेः॥१६॥ मरुतो गणानामधिपतय इति गणानां आदित्या विश्वेदेवा वस्तुतुषिताऽभासुरमहाराजकसाध्या रुद्राणां ये गणास्तेषां सर्वेषां मरुतो वाता अधिपतयोऽतिबलीयस्त्वात्तेषामधिपतित्वमुचितम्॥१७॥ पितरः पितामहा इति ये परा मुख्या हरिवं-शे मार्कण्डेयाय श्रीसनत्कुमारेण निरूपितास्तेन च भीष्माय कथिता देवानामृषीणामङ्गिरसां भार्गवा-णां ब्राह्मणानां क्षत्रियाणां विशां शूद्राणाञ्च पितरः पितृगणाः पितामहास्तेषां च पितरः परे तेषामपि पितरः अथवा परे मुख्याः सर्वेषां पितृत्वात्। एतेन दिव्यपितॄणां निरूपणम्। अथात्मपितॄन् ककथय-ति। अवरे आधुनिका येऽस्मद्गोत्रिणः तता इति कोऽर्थः ताताः पितरः तथा ततामहाः पितामहाः परे तेषां पूर्वाः प्रपितामहा इत्यर्थः। परे इति पदस्य तन्त्रं ते मा मामवन्तु अन्यत्समानम्॥१८॥ ततोऽग्निरे-त्वित्यादिपरंमृत्यवित्यन्तैश्चपञ्चमन्त्रैः होमः कार्यः। तत्र विनियोगः। तत्राग्निरेत्वित्यादिचतुर्णो प्रजाप-तिर्ऋषिस्त्रिष्टुप् छन्दो लिङ्गोक्ता देवता आज्यहोमे विनियोगः।
भ्याताननामकहोमः। अथाज्यहोमः। अग्निरेतु प्रथमो देवतानाँसोस्यै प्रजां मुञ्चतु मृत्युपाशात् तदपाँराजा वरुणोऽनुमन्यतां यथेयँस्त्री पौत्रमघं नरोत्तात् स्वाहा इदमग्नये॥१॥ ॐ इमामग्निस्त्राय-
अग्निरेत्विति। अग्निरेतु आगच्छतु कीदृशोऽग्निःदेवतानां यज्ञभुजां इन्द्रादीनां प्रथम आद्यः सर्वदेवमु-ख्यत्वेन प्रधानत्वात् सचाग्निरस्यै अस्याः कन्यायाः प्रजां भाविपुत्रादिरूपां मुञ्चतु मोचयतु कुतो मृत्यु-पाशात् मृत्योः पाशान्मरणात्। मृत्युपाशस्तु मरणं निधनम्मृत्युरित्यपीति हलायुधः। अस्यै इति ष-ष्ठ्यर्थे चतुर्थी। यद्वामृत्युपाशादिति प्रथमा अग्नेर्विशेषणम् तथा चेत्थं मन्त्रस्यार्थः। मृत्युपाशमत्ति भ-स्मसात्करोतीति मृत्युपाशात् मृत्युभयाभावसूचकोऽग्निः अस्यै कन्यायै प्रजां मुञ्चतु ददात्वित्यर्थः। मु-चि दान इत्यस्य रूपम् जठरोऽग्निर्मृत्युभयाभावसूचक इति प्रसिद्धम्। तदुक्तं वैद्यतन्त्रचिन्तामणौ। जठरे तु भवेद्यावत्प्रचण्डोऽग्निः क्षुधातुरः। तावन्मृत्युभयन्नैवान्तिके सत्यपि प्राणिनाम्॥ विनश्यन्ति क्षुधाहान्या जाठराग्निक्षये सतीति तच्च प्रजामोचनं वरुणो राजाऽनुमन्यताम् अनुजानातु। राज्ञामनेनैव कोशाधिष्ठातॄणां दातृत्वं नान्यथेत्यर्थः। यथा येनानुज्ञानेन इयं कन्या पौत्रं पुत्रभवं अघं दुःखं तृतीयार्थे द्वितीया पुत्रभवेन दुःखेनेत्यर्थः। नरोत्तात् नरोदितु। अयं भावः। अग्निरत्रागत्य वरुणानुमतो अस्यै क-न्यायै पुत्रादिकं ददातु। तथा येन हेतुना इयं कन्या पुत्रादिसम्भवदुःखेन नरोत्तात् नरोदित्वित्याशंसा-वाक्यर्थेः। रोत्तादिति रुदिर् अश्रुविमोचन इत्यस्य तुह्योस्तातङादेशे गुणः इडभावश्चेति छान्दसत्वेन बोध्यम्॥१॥ इमामग्निस्त्रायतामिति॥
ता गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुःअशून्योपस्था जीवतामस्तु माता पौत्रमान-न्दमभिविबुध्यतामियँस्वाहा इदमग्नये॥२॥ स्वस्तिनोऽग्ने दि-
गार्हपत्योऽग्निरग्निहोत्राऽग्निरिमां कन्यां त्रायताम् रक्षतु अग्निहोत्रफलसम्बन्धेन सत्करोत्वित्यर्थः। अस्यै इति षष्ठ्यर्थे चतुर्थी। अस्यै अस्याः कन्यायाः प्रजां सन्ततिं दीर्घमायुश्व निर्दुष्टबहुकालीनजीवनं नयतु प्रापयतु इयञ्च कन्या अशून्योपस्था पुत्रैर्न शून्यं उपस्थमुत्सङ्गं यस्याः सा अशून्योपस्था अवन्ध्यात्वेने-ति वा। लिङ्गे तूपस्थमित्याहुरन्वयोत्सङ्गयोरपि इति गङ्गाधरः। यद्वाभर्त्तुरुत्सङ्गासनाऽशून्योपस्था अ-शून्यमहीनं उपस्थं भर्त्तुरुत्सङ्गं यस्याः सा अशून्योपस्था तत्रापि जीवतां दीर्घायुष्मतां पुत्राणां माता चास्तु जीवत्पुत्रिका भवत्वित्यर्थः किञ्च इयं पौत्रं पुत्रादिसम्बन्धजं आनन्दं सुखसन्दोहं अभि समन्ततः व्याप्येति शेषः आभिमुख्येन सर्वभावेन वा प्राप्य विबुध्यतां जानात्वित्यर्थः सर्वज्ञास्त्वित्यर्थः अग्निरक्षि-तेयं कन्या दीर्घायुः सुभगा जीववत्सा पुत्रानन्दसमन्विता भवत्वित्याशंसा वाक्यार्थः। स्वाहा सुहुतं भ-वतु इति॥२॥ स्वस्तीति हे अग्ने हेयजत्र यजन्तं त्रायते इति यजत्रस्तस्य संबुद्धौ हेयजत्र आपृथिव्या पृथिवीमारभ्य आदिवः स्वर्गपर्यन्तं यानि स्वस्ति कल्याणाणि तानि विश्वा सर्वाणि अयथेति यथाक्रमं विहाय युगपदेव नोऽस्मासु निधेहि धारय विश्वाइति अदन्तत्वाच्छन्दसि सिलोपे रूपम्। किञ्च अस्यां पृथिव्यां दिवि स्वर्गे च अमृतादिवत् महिमत्वं महिमाप्रशस्तं श्रेष्ठतमं पवित्रं वा जातं उत्पन्नं तदस्मासु निधेहि स्थापय। किञ्च चित्रं नानारूपं हिरण्यादिरूपभेदेन द्रविणं धनं यत् तदस्मासु धेहि हे अग्ने गोभूहिरण्यादि सकलानि कल्याणानि धेह्यस्मास्वित्याशंसावाक्यार्थः॥३॥
व आपृथिव्या विश्वानिधेाह्यऽयथा यजत्रयदस्या महिदिविजातं प्रशस्तं तदस्मासु द्रविणं धेहि चित्रᳪस्वाहा इदमग्नये। सुगन्नः पन्थां प्रदिशन्न एहि
सुगन्नः पन्थां प्रदिशन्न एहीति। हे अग्ने सुखेन गम्यते यत्र इति सुगः तं पन्थां पन्थानं अर्चिरादिमार्गे न-कारलोपः छान्दसः सर्वे विधयः छन्दसि व्यत्ययेन भवन्ति इति न्यायात् प्रदिशन्नुपदिशन्नोऽस्मानेहि आगच्छेत्यर्थः प्रदिशन्सम्पादयन्निति वा किञ्च आयुर्निर्दुष्टजीवनं धेहि देहीत्यर्थः। धेह्यत्र दानेऽर्थे। की-दृशमायुः ज्योतिष्मत्प्रकाशकमित्यर्थः शुभकर्म्मजन्यकीर्त्त्या सर्वत्र प्रथितं अजरं जरारोगादिपराभव-रहितम् यतः केनचिद्भागवतेनोक्तम्। धर्म्मोपेतं यशोयुक्तं सह ओजोबलान्वितम्॥ प्रगल्भं सर्वगं स-र्वविभूतिमदशोकि यत्॥१॥ दयादानपरं पुष्टं रोगपापविवर्जितम्॥ ईश्वरप्रणिधानेन तुष्ट्या सत्सङ्गमे-न च॥२॥ जीवनं जीवनं प्रोक्तं सतोऽन्यन्मृत्युना सम्॥ अन्योऽब्रव्रीति न समं मृत्युस्तस्माद्वरो मतः॥३॥ अजर इतिपाठे अग्निविशेषणम् तत्र आयुष्मान् इत्यर्थः। प्रज्वलन्निति वा। अयं भावः। अग्निरस्म-द्गृहानागत्य सुगं पन्थानं सम्पादयन्निर्दुष्टजीवनमायुर्द्ददात्वित्याशंसावाक्यार्थः। किञ्चायुःप्रतिबन्धको मृत्युरपि नोऽस्माकं भवत्प्रसादादवैतु अपगच्छतु ततोऽमृतमानन्दञ्च नोऽस्मान् अगात् आगच्छतु वै-वस्वतो नो धर्मराजश्चनोऽस्माकं अभयं यज्ञादौ त्वयि होमादिविधाने पापाभावहेतुकीभूतनिरयदुःख-भयाभावं कृणोतु करोतु इत्यर्थः। स्वादिगणे डुकृञ्करणे इत्यस्य रूपम्। यद्वाकृञ् हिंसायामित्य-स्यैव रूपम् तदा अभयमित्यत्र अ इति पृथक् पदं अ इति निषिद्धे कर्म्मणि तथा सति अं च भयञ्च तयोः समाहारः अभयं धर्म्मराजो नोऽस्माकं अस्मत्सम्बन्धि यत् अभयं निषिद्धं कर्म्मजातं भयञ्च कृ-णोतु हिनस्तु इत्याशंसावाक्यार्थः अः स्वरे च निषेधे च विश्लाघेऽमृतजीवयोः।
ज्योतिष्मद्धेह्यजरन्न आयुः अवैतु मृत्युरमृतं न आगाद्वैवस्वतो नोऽभयं कृणोतु स्वा-हा॥ इदमग्नये॥४॥ परंमृत्योऽनुपरेहि पन्था यस्तेऽन्य इतरो देवयानात् चक्षुष्मते शृण्वते ते ब्रवीमि मानः प्रजाᳪ रीरिषो मोत वीरान् स्वाहा॥ इदं वैवस्वताय॥५॥
निषिद्धे कर्म्मणि तथा सप्तस्वर्थेषु अः स्मृतः इत्यनेकार्थाऽभिव्यञ्जके कोशे॥४॥ परं मृत्यवित्यादिम-न्त्रस्य संकर्षणऋषिस्त्रिष्टुप् छन्दो मृत्युर्देवता आज्यहोमे विनियोगः। परं मृत्यविति। हेमृत्यो परं प-न्था पन्थानं उत्कृष्टं मार्गेअनु परेहि अनुगच्छ परावृत्यायाहीत्यर्थः। ते तव योऽन्यः पन्था हिंसात्मकः स देवयानात् देवानां इन्द्रादीनां यज्ञभागादानाय यत् यानं वर्त्म तस्मादितरः ततः स्वीयमार्गात्परं मु-ख्यं यद्देवयानमहिंसात्मकत्वात् तेन यज्ञे आहुत्यादानाय अनुपरेहि आगच्छेति याचनावाक्यार्थः किञ्च अहिंसासाक्षित्वेन चक्षुष्मत्त्वेन सर्वलोकव्यवहारं साक्षात् दृष्टवते शृण्वते सर्वलोकव्यवहारं श्रुतवते ते तुभ्यं एतदेव ब्रवीमि यत्त्वं पूजितः सन् नोऽस्माकं प्रजां अस्मत्सम्बन्धिनीं सन्ततिं पुत्रपौत्रकन्यादिल-क्षणां मारीरिषः मा मारय अनयाहुत्या तुष्टस्त्वं रक्षां कुर्वित्यर्थः उत अपिच वीरान् पुत्रान् भ्रातन् वा मा रीरिषः वीरशब्देन पुत्रोऽभिधीयते पुत्र वीर इति श्रुतेः। रीरिष इति रिषहिंसायामित्यस्य धातोर्यङ्लु-कि लुङन्तस्य मध्यमपुरुषैकवचने रूपम्। अत्र माङ्योगादडागमो न। तत्रैके आचार्य्याः अग्निरेत्वि-त्यादीनां परं मृत्यविन्त्यंन्तानां पञ्चमन्त्राणां अधिदेवतानां आहुतिप्रक्षेपं प्राशनान्त आहुः। अपरे परं मृत्यविति मंत्रपञ्चकेनैवा
अत्र प्रणीतोदकस्पर्शः॥ ततो वधूमग्रतः कृत्वा वधूवरौ प्राङ्मुखौ स्थितौ भवतः ततो वराञ्जलिपुटोपरिसंलग्नवध्वञ्जलिघृताभिघारितवधूभ्रातृदत्तशमीपलाशमिश्रै-र्लाजैर्वधूकर्तृको मंन्त्रपाठपूर्वको होमः॥
हुतिप्रक्षेपं संस्रवप्राशनमिति आहुरित्यर्थान्मतभेदेन विभाषा प्राप्तासा च सर्वेषामेव प्राशनम् नैतयो-रेव अत एवात्रापि प्रक्षेपे न दोषः प्राशनान्ते प्रक्षेपेऽपि न दोषः किञ्चात्रैव सर्वे कुर्वन्ति। अत इयं गङ्गे-त्यैतिह्यप्रमाणद्वाराऽत्रैव कर्त्तव्यः। इति तात्पर्य्यम्। अत्र प्रणीतोदकस्पर्शः स च पूर्वोक्तेनैव विधिना विधेयः॥५॥ अथ वधूमग्रतः कृत्वेति। ततो वधूमुत्थाप्याग्रतः वरादग्रे कृत्वा निधाप्य विधिं विदध्यात्। तथा च स्मृतिः। वरादग्रे वधूः स्थित्वा लाजाहोमं समाचरेत्। इति विधिः। तत्र वधूवराविति। वधूवरौ प्राङ्मुखौ भवतः होमायेति शेषः। ततो वराञ्जलिपुटोपरीति। ततः प्राङ्मुखस्थित्यनन्तरं वरस्याञ्जलि-पुटोपरि संलग्नो यो वध्वञ्जलिः तत्र स्थिता ये घृताभिघारिता घृतोपलिप्ताः शमीपलाशैर्मिश्राः शमीपत्रैः सहिताः लाजा भर्ज्जितव्रीहिजा धान्यविशेषास्तैः करणभूतैर्वधूकर्त्तृको होमः। वधूः कर्त्री यस्मिन् स होमः आहुतिविसर्गः कर्त्तव्यः इति विधिः। तत्र श्रुतिस्मृतिभाष्यप्रमाणानि। भातृदत्तान् शमीपलाशमि-श्रान् लाजान् सᳪहितेनाञ्जलिना जुहुयात्तिष्ठन्ती कुमारीति श्रुतिः। आज्यप्लुतां शमीमिश्रां भ्रातृदत्तां-स्तु स्वाञ्जलौ। सवराञ्जलिना तेन वह्नौ जुहुयात्स्थिता वधूरिति स्मृतिः॥ तथा च हरिहरभाष्ये। कुमार्य्या भ्राता शमीपलाशमिश्रान् लाजानञ्जलिनाञ्जलावावपतितान् जुहोति सᳪहितेन तिष्ठंती। अस्यार्थे वि-वृणोति कुमार्य्या इति। भ्राता स्वाञ्जलिना कृत्वा कुमार्य्या अञ्जलौ शमीपलाशमिश्रान् शमीपत्रयुतान्
ॐ अर्य्यम्णं देवं कन्या अग्निमयक्षत स नो अर्य्यमा देवः प्रेतो मुञ्चतु मापतेः स्वा-हा॥१॥ इयं
लाजान् आवपति प्रक्षिपति सा च संहितेन मिलितेनाञ्जलिना तिष्ठन्ती कुमारी तान् लाजांश्चतुर्थोशमि-तान्जुहोति तथाचोक्तम्। प्रस्थस्य चचतुर्थोशंव्रीहीणां भर्ज्जयेत्सुधीः। तान् लाजान् जुहुयाद्वह्नौ भ्रातृ-दत्तां तथाञ्चलौ॥ शमीपलाशमिश्रांश्च घृतेनाप्यभिघारितान्। सहसूर्प्पस्य कोणेन दशैवाहुतयस्तथा इ-ति कल्पतरौ व्याख्यानात्। प्रस्थचतुर्थोशभर्ज्जितव्रीहीणां विहितलाजैर्दशाहुतयो विधेयाः अग्निपरिक्र-मणसमये इति तात्पर्य्यम्॥ अर्य्यम्णं देवमित्येवमादिभिर्मन्त्रैः प्रतिमन्त्रं तान् जुहोतीति वचनात्तृतीय-वेलायामञ्जलिस्थसर्वहोमः चतुर्थेसूर्प्पकोष्टेनेति सूर्प्पावशिष्टानां निःशेषेण सर्वलाजहोमस्य वक्ष्यमाण-त्वात्सूर्प्पकोणेनाऽऽवपनन्तु सकृदेव आवृत्तेरश्रवणात्। अथ मन्त्रार्थः। अर्य्यम्णमित्यादि मन्त्राणां त्रयाणां दध्यङाथर्वण ऋषिरनुष्टुप् छन्दोऽग्निर्देवता लाजाहोमे विनियोगः। कन्याः पूर्वेइति शेषः प्र-थमं अर्य्यम्णं सूर्य्यदेवं कान्तं अग्निमग्निस्वरूपं वरलाभायायक्षत अयजन् लुङिआत्मनेपदे प्रथमपुरु-षबहुवचने रूपम्। स चार्य्यमा देवस्ताभिरिष्टो यतो यस्मादिदानीं परिणीता कन्या इतः पितृकुलात् प्रमुञ्चतु प्रमोचयतु वियुनक्तु परन्तु पतेः पत्युः कुलान्मा प्रमोचयतु मा वियुनक्तु पतेः सहचरीत्वा-द्वामाप्रमुञ्चत्वित्यर्थः यद्वाकन्येति प्रथमैकवचनम्। अयक्षतेत्येकवचने बहुवचनम् छान्दसत्वात्। वरो ब्रूते कन्यार्य्यम्णं देवं अग्निरूपेणाऽयक्षताऽयजदित्यर्थः। सोर्य्यमा देवः पतेः पत्युर्मनः सकाशादिमा-मिति शेषः माप्रमुञ्चतु ततो न वियुनक्तु इतः इति षष्ठ्यर्थे पञ्चमीति निपातः ततश्चइतोऽस्याः क-न्यायाः सकाशान्मां न प्रमुञ्चत्विति अत्रेदं मन्त्रत्रयं कन्यैव वरपाठिता पठतीति तथैव विधेर्विहितत्वात् इत्यर्थः॥१॥
नार्य्युपब्रूते लाजानावपन्तिका आयुष्मानस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा॥२॥ इमाल्ँलाजानावपाम्यग्नौ सम्मृद्धिकरणं तव। मम तुभ्य च संव-
इयं नार्य्यपब्रूते इति। इयं नारी वधूः उपेति पत्युः समीपे ब्रूते सुवदते किं कुर्वती प्रसवनिमित्तकसवि-तृप्रसादसिद्धये लाजान् भृष्टव्रीहीन् आवपन्तिका अग्नौ मन्त्रपाठपूर्वक्रमाक्षिपन्ती पातयन्ती स्वार्थे कः ह्रस्वो वेति ह्रस्वः पत्युः समीपे किं ब्रूते मे मम पतिरायुष्मान् पुष्टवीर्य्यसफलवीर्य्यायुरस्तु सफलजीव-नत्वमुक्तम्। जीवनं सफलं तस्य यस्य जीवन्ति मानवाः। पितरो देवता ऋषयस्तथा चातिथयोऽग्नयः॥ पाचका भिक्षुका भृत्याः स्वकुटुंबाश्चबान्धवाः। एतेवाऽन्ये तथा लोका आत्मार्थेकोन जीवति इति। तथा च मम ज्ञातयो बान्धवा एधन्तां वर्द्धन्तामिति॥२॥ इमानिति वधूः कथयति हे भगदेव अहं इमान् लाजान् अग्नौ आवपामि प्रक्षिपामि किम्भूतान् इमान् तव त्वद्दत्तसौभाग्यसमृद्धिकरणं समृद्धिहेतून् बहुवचने एकवचनम्। किञ्च मम तुभ्यं चेति त्वदर्थेतव सौमाग्यार्थेसंवननं अनुरागः परमं प्रेम अति-शयेन प्रीतिः तदयमग्निर्भगो देवोऽनुमन्यताम्। अनुमोदनं कुरुतात् तुभ्येत्यत्र मकारलोपश्च्छान्दसः केचिदेवमेतन्मन्त्रस्य व्याख्यां कुर्वन्ति। इमानिति। हे पते अहं इमान् लाजानग्नौ आवपामि किंभूतान् इमान् तव समृद्धिकरणं समृद्धिहेतून् बहुवचने एकवचनम्। अतो मम तुभ्यं च तव संवननं अनुरागः परस्परं प्रेम तदयमग्निरनुमन्यताम्। अनुमोदनं कुरुतात्। तुभ्य इत्यत्र मलोपः छान्दसः। तुभ्येति षष्ठ्यर्थे च तुर्थी। सम्पूर्वोवनु याचने वशी करणार्थः तथा च संवननं तव वशीकरणमग्निरनुमन्यताम्। इयँस्वाहेति। इयं च स्वाहा तत्पत्नीसाप्यनुमन्यतां इति।
ननं तदग्निरनुमन्यतामियँ स्वाहा॥३॥ अथास्यै दक्षिणँहस्तं साङ्गुष्ठं गृह्णाति वरः गृभ्णामि ते सौ
एतत्पूर्वोत्तरविरोधादसमीचीनम्॥३॥ अथास्यै इति षष्ठ्यर्थे चतुर्थी अस्या वध्वाः साङ्गुष्ठं हस्तं अ-ङ्गुष्ठसहितं करं गृभ्णामीति मन्त्रेण वरो गृह्णाति। गृभ्णामि ते इति। गृभ्णामीति मन्त्रस्य याज्ञवल्क्य ऋषिस्त्रिष्टुप् छन्दो लिङ्गोक्ता देवता हस्तग्रहणे विनियोगः। अथ मन्त्रार्थः। हे पत्नि ते तवाहं हस्तं गृभ्णामि गृह्णामि ग्रहेर्भः छन्दसीति हस्य भत्वं पत्नी पाणिगृहीती स्यादित्यमरः। यथा येन गृहीतेन हस्तेन मया पत्या सह जरदष्टिर्जरच्छरीरा बहुवर्षा आयुष्मती आसः भविष्यसि आस इति भविष्य-सीत्यर्थे निपातः जरदं वार्द्धुषं अश्नुते व्याप्नोतीति जरदष्टिः जरत्पूर्वक अशूङ् व्याप्तौ क्तिन् प्रत्य-यान्तः। ननुमद्धस्तग्रहणे कथं तवाधिकारस्तत्राह। भगोऽर्यमा सवितेत्यादि। भगादयस्तु ये देवास्त्वा त्वां ते मह्यमदुर्दत्तवन्तः कस्मै गार्हपत्याय गृहस्वामिनीत्वाय भाविगार्हपत्यं सेवितुं गार्हपत्यायेत्युप-लक्षणम्। एतेनैवान्यान्युपलक्षितान्यपि दर्शयति किञ्च सौभगत्वाय शुभगानां षोडश शृङ्गाराणां नवरसानाञ्च रक्तवाससां चोत्तमभूषणानां अलङ्काराणाञ्च समूहः सौभगं तस्य भावः सौभगत्वं तस्मै। किञ्च सूतये प्रसवाय परमानन्दावाप्तये चेत्यर्थः किंभूतां त्वां पुरंधरिति द्वितीयार्थे प्रथमा। पुरंधिं सु-रूपवतीं प्रशस्तामित्यर्थः। तथाचोक्तं कामकन्दलिकायाम् अनेकार्थप्रकरणे। रूपवत्यां पुरन्धिः स्यात्पुरन्धिर्मोहिनी मता। प्रशस्तायामपि च सा पुरन्धिर्धृतकौतुकेति। पुरोऽग्रे धीयते स्थाप्यते इति पुरन्धिः खिप्रत्ययान्तो धा धातुः पुरस्पूर्वः सलोपे मुमागमः खिति पदस्येति सूत्रेण। तथाच श्रुतिः। भवमोहनाय पुरन्धिर्भूत्वा योषारूपं दधानो। हरिरवततारेति अथ षोडशशृङ्गाराः। पूर्वे मर्द्दनचीरहार-तिलकं नेत्राञ्जनं कुण्डलम् नासामौक्तिकपुष्पमालकरणं झकारकृन्नूपुरम्।
भगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः। भगोऽर्य्यमा सविता पुरंधिर्मह्यं त्वादुर्गा-र्हपत्याय देवाः॥४॥ अमोऽहमस्मि सात्वᳪसात्वमस्यमा
अङ्गे चन्दनलेपकञ्चुकमणिक्षुद्रावलीघण्टिकास्ताम्बूलं करकङ्कणं चतुरता शृङ्गारकाः षोडश॥१॥ पुंसां शृङ्गाराः। क्षौरं मर्द्दनशीर्षवस्त्रतिलकं गात्रे सुचित्रार्चनम् कर्णे कुण्डलमुद्रिका च मुकुटं पादौ च चर्मावृतौ। हस्ते शस्त्रपटाम्बरं कटिच्छुरीविद्याविनीतं मुखं ताम्बूलं ‘सुरशीलवत्त्वगुणिता पुंसस्त्वमी षोडशेति। अथ नव रसाः। शृङ्गारहास्यकरुणाद्भुतवीरभयानकाः बीभत्सरौद्रशान्ताश्च रसा नव भ-वन्त्यमीति। अर्यमसवितृभगैस्त्रिभिर्देवैस्त्रितयं प्रदत्तम् अर्यमा र्गाहपत्यं सविता चानन्दावाप्तिपूर्वक-म् प्रसवं भगश्चसौभाग्यं दत्तवानिति अर्यम्णं देवं प्रथमं। इयं नार्यपब्रूते इति द्वितीयम्।२। इमान् ला-जानिति तृतीयम्।३। त्रिभिरेतैर्लाजाहोममन्त्रैर्लाजाहोमं कुर्वती यद्यत्प्रार्थितवती सातत्तत्तैर्दत्तमिति भावः॥४॥ अमोऽहमस्मीति मन्त्रस्य भारद्वाज ऋषिरुष्णिक्छन्दो त्रिष्णुर्देवता हस्तग्रहणे विनियोगः। अथ मन्त्रार्थः। हेपत्नि अमो विष्णुरहमस्मि सा लक्ष्मीस्त्वमसि यद्वासा देवीत्रयरूपा त्वमसि अमो देवत्रयरूपोऽहमस्मि। अथ अमशब्दव्याख्या। अम गतौ अमति सर्वत्र गच्छतीति अमः विष्णुः य-द्वाअम वेदने अमति सर्वेवेत्तीति अमः विष्णुः। सेति षूङ् प्रसवे इत्यस्य रूपं सूते विश्वमिति सा ल-क्ष्मीः नाम्नि चेत्यत्र चकारान्नाम्न्युपपदाभावेऽपि ड इति डः। आबन्तश्व इति सा इति सिद्धम् अमश-ब्दस्य देवत्रयवाचकत्वमाह अम गतौ अमति रजः प्रधानत्वेनात्मना सृष्टौ सदा वर्तते इति अमो ब्रह्मा अथ च मीङ् हिंसायां नञ् पूर्वेइत्यस्य रूपम् न मीनोति न हिनस्तीति अर्थात् पालयतीति अमः
अहंसामाहमस्मि ऋक्त्वंद्यौरहं पृथिवी त्वम्॥५॥
तावेव विवहावहै सह रेतो दधा-वहै प्रजां प्रजन-
विष्णुः अथच अं प्रपञ्चं मिनोति हिनस्तीति अमो महारुद्रः “ओ विष्णुः रः शिवः प्रोक्तः प्रपञ्चे अः स्मृतस्तथा” इत्यनेकाक्षरसमाम्नाये। इत्थमेतदर्थत्रयेणामशब्दस्य देवत्रयवाचकत्वे अमाः त्रयो देवाः अहमस्मि। सा इत्यस्य देवी त्रयीवाचकत्वमाह। सवति शब्दानिति सा सरस्वती। सवति विश्वमिति सामा। सवति मन्त्रतन्त्रजालानिति सारुद्रशक्तिः रुद्राणी इत्थमेतदर्थत्रयेण सा शब्दस्य देवीत्रयीरू-पा त्वमसि। किञ्च अहं सामास्मि साम सामवेदोऽस्मि। वेदानां सामवेदोऽस्मि इति भगवद्वचनात्। त्वं ऋगसि ऋग्वेदोऽसि ऋच् शब्दस्य स्त्रीत्वात्। अहञ्च द्यौरस्मिपृथिवी त्वमसि तत्तद्गुणान्वितावा वामित्यर्थः यथाऽऽकाशो गुणी महांश्चानन्तोऽपरिच्छिन्न उपर्युपरि वरिवर्ति तथाहमप्येतद्विशेषणवि-शिष्टस्त्वय्युपरि सदा वरिवृत्याम् यथा च उर्वी अनेकप्रकारेण छिन्ना भिन्ना उत्खाताऽऽक्रान्ता पीडि-ताऽपि सती न किञ्चिद्वदति क्षमावत्त्वशीलत्वात् तथा त्वमपि मद्गृहे श्वश्रूननन्दृप्रभृतिभिराक्रान्ताऽपि न किञ्चिद्वदस्व स्वाभाविकक्षमादिकगुणवत्त्वशीलनेन तच्छुश्रूषामेव कुरुतात्॥५॥ ताविति मन्त्र-स्याथर्वण ऋषिरनुष्टुप्छन्दो विष्णुर्देवता हस्तग्रहणे विनियोगः। अथ मन्त्रार्थः। तावेवाऽऽवां विवाहं करवावहै विवाहो नामभिन्नगोत्रयोः कन्यावरयोः ऋषिप्रणीतवेदवशान्मन्त्रबलेनैकगोत्रतोत्पादनपूर्व-कदम्पतिभाववर्तनेऽधिकारः किञ्चसह रेतो दधावहै। विवाहानन्तरकालचंक्रमेण सह संयुक्तौ रेतः पुत्रदेहरूपं दधावहै धारयाव प्रसवसंजननार्थेशुक्रशोणितसंयोगं करवावहै ततः प्रजां पुत्रादिसन्ततिं प्रजनयावहै उत्पादयाव ततः पुत्रान् पुत्रपुत्रान् पौत्रादिसन्ततिं बहून्
या
वहै पुत्रान्विन्द्यावहै बहून्॥६॥ ते सन्तु जरदष्टयः संप्रियौ रोचिष्णू सुमनस्यमानौ पश्येम शरदः शतं जीवेम शरदः शतᳪशृणुयाम शरदः शतमिति॥७॥ ॐ आरोहेममश्मानमश्मेव त्वं स्थिरा भव अभितिष्ठत प्रतन्यतोऽवबाधस्व पृतनायत इति॥८॥ अथ गाथां
पुत्रपौत्रप्रपौत्रादीन् विन्द्यावहै लभावहै प्राप्नुवाव इत्यर्थः॥६॥ तेसन्त्वितितेसन्त्विति मन्त्रस्य प्रजाप-तिऋषिः यजुः छन्दो विष्णुर्देवता हस्तग्रहणे विनियोगः। अथ मन्त्रार्थः ते च पुत्राः पौत्राः जरदष्टयः सन्तु जरत् वृद्धत्वं अश्नुवन्तीति जरदष्टयः किञ्च आवामपि संप्रियौ सम्यक् प्रीती परस्परं प्रेमशालि-नौ। रोचिष्णू सुदीप्तौ शोभमानौ वा। सुमनस्यमानशोभनां मनोवृत्तिं कुर्वाणौ सुमनसो भावः सौमन-स्यं सुमनस्यं वा तत्कुर्वाणावित्यर्थः इन्द्रियपाटवमालभमानास्ते वयञ्च पुत्रादिसहिताः शतं शरदो वत्सरान् पश्येम रूपग्रहणसमर्थाः स्याम तथा शरदः शतं जीवेम निरुपद्रवप्राणान् धारयाम तथैव शरदः शतं शृणुयाम निर्दुष्टशब्दग्रहणसमर्थमस्माकं श्रवणेन्द्रियं भवत्वित्यर्थः॥७॥ साङ्गुष्ठहस्तग्रह-णे सूत्रं प्रमाणयति। अथास्यै इति। अथास्यै दक्षिणं हस्तं गृह्णाति साङ्गुष्ठंगृभ्णामि ते सौभगत्वाये-त्यादि शृणुयाम शरदः शतमित्यन्तेन मन्त्रद्वयेनेति सूत्रम्। अत्र गृभ्णामीत्यत्र ग्रहेर्भः छन्दसीति हका-रस्य भकारः। सूत्रार्थमाह। अथ होमानन्तरं अस्यै इति षष्ठ्यर्थे चतुर्थी अस्याः कुमार्य्या दक्षिणं हस्तं गृह्णाति स्वदक्षिणहस्तेनादत्ते कीदृशं हस्तं साङ्गुष्ठं अङ्गुष्ठेन सहितं इति सूत्रार्थः। वध्वा दक्षिणचरणेनाश्मारोहणे सूत्रप्रमाणं दर्शयति। अथैनामश्मानमारोहयत्यग्नेरुत्तरतोवरस्थापितदृषदं दक्षिणपादेनारोहैममश्मानमित्यादि पृतनायत इत्यन्तेनेति। अस्यार्थः अथ पाणिग्रहणानन्तरं
गायति॥ सरस्वति प्रेदमव सुभगे वाजिनीवति ता त्वा विश्वस्य भूतस्य प्रजायाम-स्याग्रतः। यस्यां भूतँ समभवदस्यां विश्वमिदं जगत् तामद्य गाथां गास्यामि या स्त्री-णामुत्तमं यश इति॥९॥ अथ वधूवरौ
एनां वधूं उत्तरतोग्नेर्वरस्थापितमश्मानं दृषदं दक्षिणपादे कृत्वाऽऽरोहयति वरः आरोहेममश्मानमिति मन्त्रेण। अनेनाश्माधिष्ठानकवधूपादारोहणे प्राप्तं वरस्य कर्त्तृत्वं मन्त्रपाठश्वेति। आरोहेममिति मन्त्र-स्याथर्वणऋषिरनुष्टुप् छन्दो वधूर्देवताऽश्मारोहणे विनियोगः। अथ मन्त्रार्थः। हे पत्नित्वं इमं पुरोव-र्तिनं अश्मानं प्रस्तरमारोह आक्रम अधितिष्ठेति यावत्। अश्मारोहणसंस्कारेण संस्कृता सती त्वम-श्मेव पाषाणवत् स्थिरा निश्चला भव किञ्च प्रतन्यंति प्रतनां युद्धनिदानभूतां सेनां कलहसामग्रीं वा अथवा प्रतनं सङ्ग्राममिच्छन्तीति प्रतन्यन्तः तान् प्रतन्यतः कलहकारिण इत्यर्थः ततश्च पृतनाभिर्य-न्ति कलहकरणायागच्छन्तीति पृतनायन्तस्तान् अव बाधस्व अवाचीनान् कृत्वा बाधस्व सोद्यमान्निरु-द्यमान् कुर्वित्यर्थः। अथ गाथागानमश्मारूढायामेव कन्यायां तत्र सूत्रं प्रमाणयति। अथाश्मारूढाया-मेव कन्यायां वरो गाथां गायति इति। अस्यार्थः कन्यायामश्मारूढायां सत्यां। वरो गाथां गायतीत्य-न्वयः। गाथा किमुच्यते इत्याशङ्क्य व्याख्यायते गीयते स्तूयतेऽनयेति गाथा। यद्वागा गानं उत्तिष्ठ-त्यस्यां इति गाथा तां गायति॥८॥ अथ मन्त्रार्थः सरस्वतिप्रेदमित्यादि गाथाया विश्वावसुर्ऋषिनुष्टुप् छन्दः सरस्वती देवता गाथागाने विनियोगः। अथ गाथार्थः। हे सरस्वति वाग्रूपे सुभगे कल्याणि वाजिनीवति वाजमन्नं तदस्त्यस्यामिति वाजिनी अन्नशाला महानसं तद्वती वाजिनीवती तस्याः सम्बुद्धिपदं हे वाजिनीवति हे अन्नपूर्णे। तदुक्तं। सरस्वती श्वेतवर्णा हंसारूढा महाद्युतिः।
अग्निं प्रक्रामतस्तुभ्यमग्ने इति मंत्रेणेति॥ तुभ्यमग्रे पर्य्यवहन् सूर्य्यो वहतु ना सह पुनः पतिभ्यो
सर्वेभ्योऽपि विचित्रान्नप्रदा विद्याऽनुरागिणीति एतेन विद्यावती विचित्रान्नभवतीति ध्वनितम् अथवा वाजाः पक्षास्तद्वती वाजिनी हंसी तद्वती त्वं इदं विवाहरूपं कर्म यद्वा इदंवधूवररूपं द्वन्द्वंप्राक् प्र-कृष्टं रक्षतां त्वा त्वां अस्य विश्वस्य सर्वस्य भूतस्य जातस्य कार्य्यस्य पृथि-व्यादेः प्रपञ्चस्य प्रजायां प्र-कृष्टां जनित्रीमाहुर्मन्त्राः किंभूतां त्वां अग्रतः कार्य्यतः प्रथमां कारणरूपां तदेव प्रपञ्चयति यस्यामिति यस्यां प्रकृतिरूपायां त्वयि इदं सर्वेविश्वं पृथिव्यादि सर्वेजगत् असंगतं आस प्रलये प्रलीनमासीत् इत्यर्थः। पुनः सृष्ट्यादौ च यस्याः सकाशात्समभवत् जातं पुनरुत्पन्नमित्यर्थः। प्रकृतिरूपत्वात्सरस्व-त्याः तन्निरूपणेन सर्वासां स्त्रीणां प्रकृतिरूपावशेषस्तुतिः कृता इत्यर्थः। एतदेव स्फुटत्वेन दर्शयति। अहं स्त्रीणां तां गाथां गास्यामि गायामि वर्त्तमानसामीप्ये वर्त्तमानवत् तां कां या उत्तमं यशः पाति-व्रत्यादि स्त्रीणां धर्म्माचरणजनितकीर्त्तिर्या तां गाथां गास्यामीत्यर्थः गाथाशब्दोनिपातनात्साधुः तदेव दर्शयति गीयते सुबुद्धिभिरिति गा गीतिर्गानमित्यर्थः गैशब्द इत्यस्य नाम्नि चेतिडा आबन्तप्रयोगः चे-ति चकारान्नामोपपदाभावेऽपि डाप्रत्ययः गा गानं उत्तिष्ठते यस्याः सा गाशब्दपूर्वकोदुपसर्गसहित-स्थाधातोर्डाबन्तप्रयोगः। उदस्थास्तम्भोः सलोपश्चेति सकारलोपः उल्लोपश्च निपातनात्। सूत्राद्युक्त-निमित्ताभावेऽपि साधनं निपातः। गाथाशब्दे उल्लोप निपातमात्रे गाथाशब्दो निपातनात्साधुरित्यु-क्तम् इति॥९॥ततोऽग्निप्रदक्षिणकरणे सूत्रं प्रमाणयति। अथ वधूवरौ अग्निं प्रक्रामत स्तुभ्यमग्ने इति मन्त्रेणेति। अस्यार्थः। अथ गाथायां समाप्तायां वधूवरौ
जायां दाग्ने प्रजया सहेति पठन् परिक्रामेत्॥१०॥
एवं पश्चादग्नेः स्थित्वा लाजाहोम-साङ्गुष्ठहस्तग्रह-
अग्निंप्रादक्षिण्येन प्रक्रामतः प्रदक्षिणीकुरुतः तत्र मन्त्रः। तुभ्यमग्नेइति मन्त्रस्याथर्वण ऋषिरनुष्टुप् छन्दोऽग्निर्देवता तत्प्रादक्षिण्ये विनियोगः। अथ मन्त्रार्थः। तुभ्यमग्ने इति भो वैश्वानर तुभ्यं त्वदर्थमेव अग्रे पूर्वेजन्मदिनादारभ्य सोमादयः पर्यवहन् परिगृहीतवन्तः इमामिति शेषः बहुवचनन्तु अग्निसंयु-क्ताऽभिप्रायेण दत्तम् एतदभिप्रायज्ञापकमेव धर्मशास्त्रवचनम्। षडब्दमध्ये नोद्वाह्या कन्या वर्षद्वयं यतः। सोमो भुंक्ते च तां तद्वद्रन्धर्वोऽनल एव चेति वर्षद्वयमिति वीप्सा वर्षद्वयं यावत् त्रयो भुंजन्ति अतस्तद्वर्षेषु नोद्वाह्या। यथा च वर्षद्वयमिन्दुर्भुक्त्वा वरं कान्तिं दत्वा गन्धर्वाय ददौ गन्धर्वस्तु वर्षद्वयं तृतीयचतुर्थवर्षद्वयरूपं भुक्त्वा वरं किन्नरकण्ठं दत्वा तुभ्यं वैश्वानराय ददौ। तथा त्वमपि पञ्चमषष्ठ-वर्षद्वयं भुक्त्वा वरं दत्वा मह्यं देहीति गूढाभिप्रायो वरस्येत्यर्थः एतदेव स्फुटयति अधुना देवभोगस-मयानन्तरं मनुष्यभोगसमये सूर्योसूर्यवत् कान्तिशालिनीं इमां पुरोवर्तिनीं ना पुरुषः कुटुम्बभरणेन परमपुरुषार्थयुक्तो यः स प्रसिद्धः सर्वकार्यकरणे शक्तो धैर्यधरो गंभीरवेदी सर्वकार्यसमर्थो मुख्यः पुरुषः पतिभ्यःसोमादिभ्यः पुनरिति देवत्रयभोग्यवर्षादूर्ध्वेवहतु प्राप्नोत्वित्यर्थः नेति नृशब्देन सामा-न्यपुरुषप्राप्तौ आत्माभिप्रायेण विशेषमाह। हे अग्ने त्वं स्वभोगान्तरं जायां नरेण भर्त्रासङ्गमय्य पुत्रा-दिसन्ततिं जनिष्यमाणां प्रजया पुत्रैः सह मह्यं दा देहीत्यर्थः॥१०॥ एवं पश्चादिति द्विस्तथैव कर्त्तव्या-नीत्यत्र सूत्रं प्रमाणयति। द्विरपरं लाजादि चतुर्थँसूर्पकोष्ठया भ्राता सर्वान् लाजानावपति तांश्च भगाय स्वाहेति कुमारी जुहोति। इति त्रिः परीत्य भगाय स्वाहेति सूर्पकोणेन जुहुयात्। इत्यादीनि
णाश्मारोहणगाथागानाग्निप्रदक्षिणानि पुनरपि द्विस्तथैव कर्त्तव्यानीति। एतेन नव लाजाहुतयः साङ्गुष्ठहस्तग्रहणत्रयम् अश्मारोहणत्रयं प्रदक्षिणत्रयंच सम्पद्यते। तथा आसनविपर्य्ययः। ततोऽवशिष्टलाजैः कन्याभातृदत्तैरञ्जलिस्थसूर्प्पकोणेन
सर्वाणि त्रिः परिणीतां चतुर्थपरिक्रमणे मन्त्रं विनैव परीत्य प्राजापत्यँहुत्वोदीचीं प्रक्रामयतीति इति च अथैषामर्थः एवं द्विरपरं लाजादिकर्म भवतीति कोऽर्थः एवमुक्तप्रकारेण द्विर्वारद्वयं अपरं पुनर्लाजा-दिवधूभ्रातृदत्तैरित्यारभ्य परिक्रमान्तं कर्म भवतीति ततः तृतीयपरिक्रमणानन्तरं चतुर्थे चतुर्थे होमे सूर्पस्य कोष्ठया कोणेन सर्वान् सूर्पावशिष्टान् लाजान्वध्वञ्जलावावपति भ्राता। तांश्चेति। तांश्च लाजान् उत्तिष्ठन्ती वधुर्वन्हौ निक्षिपति भगाय स्वाहेति वधूर्जुहोति त्रिः परिणीतामिति त्रिस्त्रिवारं परितोऽग्नेर्नी-तां त्रिः परिणीतामिति पदेनैव चतुर्थपरिक्रमणे पश्चाद्वधूरग्रे वरः इत्यभिप्रायो लभ्यते प्रक्रमानन्तरं प्रा-जापत्यं प्रजापतये हुत्वा उदीचीं प्रक्रामयतीत्यन्वयः त्रिः परिणीतामित्यत्र त्रिरितिग्रहणमितरथावृत्ति-व्युदासार्थेइतरथा वृत्तिश्चोक्ता परिभाषापाठविवृत्त्यां वृत्तिश्चित्तस्यावृत्तिरिति प्रक्रामयिता चात्र वर एव प्रस्तुतत्वादिति अत्र धर्मशास्त्रं प्रमाणयति तदुक्तं राजमार्तण्डे। वधूवरौ तु प्राक् स्थित्वा संहत्य स्व-कराञ्जलीन्। त्रिभिर्मन्त्रैर्हुनेत् लाजान् भ्रातृदत्तान् यथाविधि। घृताभिघारितांश्चैव मिश्रितांश्च शमीदलैः। संगुण्य हस्तं गृह्णीयाद्वरो वध्वा यदा पुनः। अश्मन्यारोहयेद्राथोद्गानं कुर्याद्वरस्तथा। वरोग्रे च वधूं कृत्वा वन्हिं ब्रह्मादिसंयुतम्। परिक्रामेद्धि प्रयतो द्विवारं तु पुनस्तथा। विपर्यायासनं स्वं स्वमुपविश्य वधूवरौपुनरुत्थाय च स्थित्वा पूर्ववद्धोमहेतवे॥ भातृदत्ताच्छिलालाजान्सूर्पकोणेन वाञ्जलौ।
वधूर्जुहोति। ॐ भगाय स्वाहा इदंभगाय। अथाग्रे वरः पश्चात्कन्या तूष्णीमेव चतुर्थ-परिक्रामणं कुरुतः। ततो वर उपविश्य ब्रह्मणान्वरब्धः आज्येन प्राजापत्यं जुहुया-त्। ॐ प्रजापतये स्वाहा इदं प्रजापतये इति मनसा अत्र प्रोक्षणीपात्रे हुतिशेषाज्य-प्रक्षेपः तत आलेपनेनोत्तरोत्तरकृतसप्तमंण्डलेषु सप्तप-
भगाय स्वाहेत्युक्त्वा तु तांस्तु वन्हौ हुनेद्वधूः॥ वरोऽग्रे च ततो भूत्वा वध्वास्तूष्णीं परिक्रमेत्। प्राजाप-त्यं ततो हुत्वा उदीच्यां क्रामयेत्तु ताम्॥ ससप्तमण्डलकेषु चेति सप्तपदाक्रमणेऽपि सूत्रं प्रमाणयति अथैतामुदीचीं प्रक्रमयत्येकमिषे विष्णुस्त्वानयत्वित्यादिमन्त्रैरिति। अस्यार्थः। प्रजापत्यं हुत्वा उदीचीं प्रकामयतीत्यन्वयः प्रक्रामयिता चात्र वर एव प्रस्तुतत्वात् अथेति परिणयनानन्तरं विष्णुस्त्वा नयत्वि-ति सर्वत्रानुषज्जते साकाङ्क्षत्वात्। अथ मन्त्रार्थः। तत्र सर्वमन्त्राणा प्रजापतिर्ऋषिः यजूंषि छन्दांसि लिङ्गोक्ता विष्णुर्देवता प्रक्रामणेषु विनियोगः। एकमिति एकं पदाक्रमणं इषेऽन्नाद्य विष्णुस्त्वानयतु इत्यन्वयः पदाक्रमणमित्युपलक्षणम्। तात्पर्यन्तु विष्णुर्विष्णुरूपोऽहं इषेऽन्नाद्यर्थेत्वां वधूं नयतु एक-मात्मानं नयामीत्यर्थः वरोऽसौ विष्णुरूपेणेति एवमुक्तम्। विभक्तिव्यत्ययः छान्दसः मदीयान्नादीनां त्वमेव स्वामिनीति भावः। पदाक्रमणं तु मित्रत्वार्जनायेति। यत उक्तम्। मैत्री सप्तपदी प्रोक्ता सप्त-वाक्याथवा भवेत्। सत्तराणान्तु त्रिपदी सत्तमानां पदे पद इति। मित्रत्वर्जने हेतुं दर्शयति। पापान्निवा-रयति योजयते हिताय गुह्यं निगूह्यच गुणान् प्रकटीकरोति। आपद्गतं न विजहाति ददाति वित्तं सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः। इति परस्परं पापनिवारणहिताय योजनाद्यर्थे
दाक्रमणं वरः कारयेत्। वक्ष्यमाणमन्त्रैः। एकमिषे विष्णुस्त्वा नयतु द्वे उर्ज्जे विष्णु-स्त्वा नयतु त्रीणि रायस्पोषाय विष्णस्त्वा नयतु
मित्रत्वार्ज्जुनं। अलमतिप्रासङ्गिकेन प्रस्तुतमेवाह। एकमिति विष्णुर्विष्णुरूपोऽहं त्वां इषे अन्नाय एकं पदाक्रमणं नयामीत्यर्थः। सर्वेषामात्मीयान्मादीनामधिष्ठात्री करणाय त्वां मण्डले एकं प्रथमं पदाक्र-मणं एवं वरेण प्रोत्साहिता वधूर्हृष्टा सती हर्षोक्तिमाह तद्यथा। धनं धान्यञ्च मिष्टान्नं व्यञ्जनाद्यं च य-द्गृहे। मदधीनञ्चकर्त्तव्यं वधूःराद्ये पदे वदेत्। पुनर्वरो वदति द्वे इति अहं विष्णुरूपस्त्वां उर्ज्जे बला-य द्वेपदाक्रमणं नयामि सर्वकार्य्येषु बलाबलमपेक्षते गृहस्थस्यातो बलाधिकमात्मानं कर्त्तेत्वां नया-मीति भावः। अयं मद्भर्त्ता मया हेतुभूतया मदीयसम्बन्धिनां सम्बन्धेन बलाधिकोहमिति जानाति श्व-शुरगृहे मम मानं भवेदिति हृष्टा हर्षोक्तिं पुनराह कुटुम्बं प्रथयिष्यामि ते सदा मञ्जुभाषिणी। दुःखे धीरा सुखे हृष्टा द्वितीये साब्रवीद्वरम्। इति पुनर्वरो वदति। विष्णुरूपोहं रायस्पोषाय धनपुष्ट्यै त्रीणि पदाक्रमणानि त्वां नयामि। आत्मीयधनाध्यक्षां त्वां कर्त्तेत्रीणि पदाक्रमणानि नयामि। ततो वधूरात्मी-यधनाध्यक्षाऽपि स्यामिति मनसा हृष्टा पुनर्हर्षोक्तिं वदति। ऋतौ काले शुचिः स्नाता क्रीडयामि त्वया सह। नाहं परपतिं यायान्तृतीये सा ब्रवीद्वरम् इति। चत्वारीति अहं विष्णुरूपस्त्वां मयोभवाय मयः सुखं तस्य भवः उत्पत्तिः तस्मै चत्वारि पदाक्रमणानि नयामि। मण्डले तुरीयपदाक्रमणं सुखाय मम सर्वसुखं त्वदधीनमिति भावः। तच्छ्रुत्वामदभिलाषी मद्भर्त्ताऽयमिति विदित्वाऽतिहर्षिता वधूः पुनरा-ह लालयामि च केशान्तं गन्धमाल्यानुलेपनैः काञ्चनैर्भूषणैस्तुभ्यं तुरीये.
चत्वारि मयोभवाय विष्णुस्त्वानयतु। पञ्च पशुभ्यो विष्णुस्त्वानयतु। षट् ऋतुभ्यो विष्णुस्त्वानयतु।सखे सप्तपदा भव सामामनुव्रता भव विष्णुस्त्वा न-
साब्रवीद्वरमिति। पञ्चेति अहं पशुभ्यस्तत्तत्पशुसुखाय पञ्च पदाक्रमणानि नयामि गोमहिषीप्रभृतीनां पयःपानादिसुखाय नवनीतभक्षणादिसुखाय अश्वादीनामारोहणादिसुखाय पञ्चमपदाक्रमणं मम प-शूनामपि सर्वेषां त्वमेव स्वामिनीति भावः। सर्वमेव समर्थितं मह्यं मद्भर्त्ता इत्थमनुरक्तो मयि स्वामी-ति हृष्टा सती सर्वमेव विवर्द्धयिष्यामीति उत्कण्ठिता सुकृतात्सर्वेविवर्द्धतीति मत्वा पुनराह। सखीप-रिवृता नित्यं गौर्य्याराधनतत्परा। त्वयि भक्ता भविष्यामि पञ्चमे सा ब्रवीद्वरमित्यादि। षट् इति। वि-ष्णुरूपोऽहं त्वां ऋतुभ्यः ऋतूनां तत्तत्सुखाय मण्डले षट् पदाक्रमणानि नयामि। षड् ऋतुसुखानि। केनचिद्विदुषा राज्ञः आशिषां प्रदाने षट्ऋतुसुखानि वर्णितानि। हिमशिशिरवसन्तग्रीष्मवर्षाशरत्सु स्तनतपनवनाम्भोहर्म्यगोक्षीरपानैः। सुखमनुभव राजन् शत्रवो यान्तु नाशं दिवसकमललज्जाशर्वरीरे-णुपङ्कैरित्यत्रोक्तानि स्तनतपनवनाम्भोहर्म्यगोक्षीररूपाणि षट् सुखानि। तत्तदृतौ तत्तत्सुखाय षष्ठं प-दाक्रमणं नयामीति भावः। ततो मद्भर्त्तायं मह्यं षड्ऋतुसुखानि दातुमुद्यतः इति हृष्टासती सुखं पु-ण्यैरवाप्यते इति मनसि कृत्वा पुनराह। यज्ञे होमे च दानादौ भवेयं तव वामतः। यत्र त्वं तत्र तिष्ठामि पदेषष्ठे ऽब्रवीद्वरं इति। सखेइति हे सखे हे मित्र पुंस्त्वनिर्द्देशस्त्वार्षः। सप्तपदा भव। इहामुत्र सप्त-सु भूरादिलोकेषु पदं सुखस्थानं यस्याः सा सप्तलोकप्रख्याता भवेति भर्त्राभार्यायाः स्वप्रवणत्वेन प्र-सादमधिगतेनाऽऽशीर्दत्ता स्वस्य देवदेव विष्णुस्वरूपत्वात् कथं सप्तलोकपदा भविष्यामीति
यतु। ततोऽग्नेः पश्चादुपविश्य पुरुषस्कन्धस्थितात्कुम्भादाम्रपल्लवेन जलमानीय तेन वरो वधूमभिषिञ्चति ॐ आपः शिवाश्शिवतमाः शान्ताश्शान्ततमास्तास्ते कृण्वन्तु भेषजमित्यनेन पुनस्तथैव तस्मादेव कुम्भात्तथैवानीतजलेन आपोहिष्ठा मयो-
चेच्छृणु सामामिति सा त्वं मामनुव्रताभव मेऽनुवर्तिनी भवेति पातिव्रत्यशीलजनितेनोत्तमधर्म्मेण स-प्तलोकख्याता भविष्यसीति तात्पर्य्यम्। स्त्रीणां तु सर्वधर्म्मेभ्यः शीलरक्षणमुत्तमम् इति वचनात्। त-था च मुहूर्त्तचिन्तामणौ रामेणाप्युक्तं। ‘भार्य्या त्रिवर्गकरणं शुभशीलयुक्ता’ इति। अथवा सखे मित्र सप्तपदा भव विष्णुरूपः सप्तपदाक्रमणं नयामि इत्थं भर्तुःप्राप्तप्रसादहृष्टा पुनराह। सर्वेऽत्र साक्षि-णस्त्वं हि मम भर्त्तृत्वमागत। कृतेन ब्रह्मणा पूर्वेविधानेन कुलोत्तमेति। इति सप्तपदाक्रमणं समा-प्तम्॥ अथाभिषेकः। अभिषेके सूत्रं प्रमाणयति। निष्क्रमणप्रभृत्युदकुम्भᳪस्कन्धे कृत्वाऽग्नेर्दक्षिण-तोऽग्नेर्वामतः स्थितो भवत्युत्तर एकेषां तत एनां मूर्द्धन्यभिषिञ्चत्यापः शिवाः शिवतमाः शान्ताश्शान्त-तमास्तास्ते कृण्वन्तु भेषजम्। इत्यापोहिष्ठेति च तिसृभिरथैनां सूर्य्यमुदीक्षयति तच्चक्षुरिति। अथास्यै दक्षिणांसमपिहृदयमालभते मम व्रते इत्यादिभिरिति। अथ सूत्राणामर्थः। निष्क्रमणप्रभृतीति निष्क्र-मणकालादारभ्याग्नेर्दक्षिणत स्तिष्ठेदन्यः उत्तरतः अनेनैकेषां मते दक्षिणतः एकेषां मते उत्तरतः अयं भावः पित्रा प्रत्तामादाय गृहीत्वा निष्क्रामतीत्यादि कालमारभ्य कश्चित्पुरुषो जलपूर्णेकलशं स्कन्धे निधाय वधूवरयोः पृष्ठत आगत्याग्नेर्दक्षिणस्यां दिशि मौनी तिष्ठेत् केषां चिन्मते उत्तरतः अतो विकल्पः ततः कुम्भजलमानीय एनां वधूं मूर्ध्नि वरोऽभिषिञ्चति चतसृभिर्ऋग्भिरिति। आपः शिवाः शिवतमाः इत्याद्येका आपोहिष्ठेत्यादितिस्रः इति चतुर्भिर्मन्त्रैरभिषिञ्चति।
भुवस्तान ऊर्जे दधात न महे रणाय चक्षसे योवः शिवतमो रसस्तस्य भाजयते हनः उशतीरिव मातरस्तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ आपो जनयथाचन इति तिसृभिर्वधूमात्मानं चाभिषिञ्चति इति।
अयमाशयः। ततस्तस्मात्स्कन्धस्थितादुदकुम्भादाचारादाम्रपल्लवसहितेन हस्तेन जलमादाय एनां व-धूं मूर्ध्नि शिरस्यभिषिञ्चति वरः आपः शिवा इत्यादिभेषजमित्यन्तेन मन्त्रेण। पुनस्तथैवोदकमादाय आपोहिष्ठेत्यादि आयोजनयथाचन इत्यन्ताभिस्तिसृभिर्ऋग्भिरभिषिञ्चतीत्यनुषज्यते। अथमन्त्रार्थः। आपः शिवा इति मन्त्रस्य प्रजापतिर्ऋषिः यजुश्छन्दः आपो देवता अभिषेचने विनियोगः। अथ मन्त्र-स्यार्थः या आपः शिवाः कल्याणहेतवः शिवतमाः अतिशयकल्याणकारिण्यः शान्ताः सुखकर्त्र्यः शा-न्ततमाः परमानन्ददात्र्यः ता आपस्ते तव भेषजमारोग्यं कृण्वन्तु कुर्वन्तु। कृञ् हिंसाकरणयोरिति धातोरूपं। स्वादिगणे इति ज्ञेयम्। आपोहिष्ठेत्यादि तिसृणां सिन्धुद्वीपऋषिर्गायत्री छन्दः आपो दे-वता मार्जने विनियोगः। अथ तिसृणामर्थः आपोहिष्ठेति हे आपः प्रसिद्धा अनुभूताश्चमां यूयं मयोभुवः मय इति सुखनाम तस्य भावित्र्यो भवथ सर्वप्राणिनामपीति शेषः ऊर्ज्जेबलाय अन्नाद्युपयोगाय च दधात धारयत नेति काक्वर्थेन दधातेति अपि तु दधातैव महे महते परंब्रह्मणे रणाय रम्याय चक्षसे दर्शनीयाय यो वः शिवतमो रस इति यः शिवतमः परमसुखरूपो वो युष्माकं रसः तस्येति द्वितीयार्थे षष्ठी नेतरं रसं इह संसारे नोऽस्मान् भाजयत प्रापयत अपां रसो हि परंब्रह्मरूपः शिवतमो मतः स यथायोग्यं त्रैवर्णिकैरभ्यर्च्यते
ततः सूर्य्यमुदीक्षस्वेति वधूं सम्बोधयति वरः। तच्चक्षुरित्यृचं पठित्वा वधूः सूर्य्ये पश्येत्। तद्यथा। तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्पश्येम शरदः शतं जीवेम शरदः शतᳪशृणुयाम शरदः शतं प्रब्रुवाम शरदः शतमदीनाः स्याम शरदः शतं भूयश्च शरदः शतात् इति पठित्वा वधूः सूर्य्येपश्यति।
उशतीखि मातरः यथा उशतीःकमनीयाः प्रशस्ता मातरो जनन्वोबालानां वृद्धिं कामयमाना वात्स-ल्यातिशयात्स्तन्यपानादिरसं क्षीरादिकं भोजयन्ति तद्वदित्यर्थः। तस्मा इति। तस्मै तदर्थेअरं तूर्णेवयं गमाम गच्छाम यस्य पापस्य क्षयाय यूयं जिन्वथ उत्पादयत हे आपः जनयथाचनः साकल्येन मोक्ष-प्राप्तियोग्यान् जनयध्वं महानुभावत्वात् इति। ततः सूर्यमुदीक्षस्वेति। आत्रापि सूत्रं प्रमाणयति। अथैनाँसूर्यमुदीक्षयति तञ्चक्षुरिति। अस्यार्थः। अथैनामुदीक्षयतीति कारितार्थत्वाद्वरस्याध्येषणा सूर्य-मुदीक्षस्वेति। ततस्तच्चक्षुरिति मन्त्रेणोदीक्षेत सा दिवा विवाहे। अयमाशयः। अथाभिषेकादुपरि सूर्य-मुदीक्षयति प्रेषेण सूर्येएनां वधूं वरउदीक्षयति सूर्यस्य निरीक्षणं कारयतीत्यर्थः। सा च वरप्रेरिता सती तच्चक्षुरिति मन्त्रेण स्वयं पठितेन सूर्येनिरीक्षते। दिवा विवाहपक्षे इति। अथ मन्त्रः। तश्चक्षुरित्यक्षरा-तीति पुर उष्णिक् छन्दो दध्यङ्ङाथर्वण ऋषिः सूर्यो देवता सूर्योपस्थाने विनियोगः। अथ मन्त्रार्थः। तच्चक्षुरिव चक्षुः देवहितं सर्वेन्द्रियोपकारकं सकलदेवहितं वा यस्योदयेन स्वाहा स्वधा प्रवृत्तौ सर्वे देवाः पितरश्च तृप्यन्ति नित्यनैमित्तिकसर्वकर्मप्रवृत्तिहेतुत्वात् सर्वेषां जीवभूतं। तथाच श्रुतिः। तमिस्रा-जगरग्रस्तं भूतलं जीवयति योऽसौ तपन्नुदेति इत्यादि। किञ्च पुरस्तादादौ शुक्लं कामादिमलरहितं अविद्यादोषरहितं
अस्तंगते सूर्य्येध्रुवमीक्षस्व इति प्रैषानन्तरं ध्रुवं पश्यामीति ब्रूयात्।तत्र वरपठनीयो मन्त्रः। ॐध्रुवमसि ध्रुवत्वा पश्यामि ध्रुवैधि पोष्यामपि मह्यं त्वादाद्बृहस्पतिर्मया पत्या प्रजावती सञ्जीव शरदः
उच्चरत् उदयं गत्वोर्द्ध्वेगच्छत् शरदः शतं शतं समाः पश्येम जीवेमेति सूर्योपासनाफलमेतदाहा-थास्तंगते सूर्ये निशाविवाहपक्षे ध्रुवमीक्षस्व इति प्रेषानन्तरं ध्रुवं पश्यामि इति ब्रूयात्सा। तत्र निशावि-वाहपक्षे वरपठनीयो मन्त्रः अथ मन्त्रमाह ध्रुवमसीति। ध्रुवमसीति मन्त्रस्य परमेष्ठी ऋषिः पंक्तिः छन्दो प्रजापतिर्देवता ध्रुवदर्शने विनियोगः। अथ मन्त्रार्थः ध्रुवमसीति। हे ध्रुव त्वं निश्चलमविनश्वरं स्थानं समागत इति शेषः अहं त्वां ध्रुवं निश्चलं तारकाविशेषरूपं वा पश्यामि एतन्निरूपणप्रयोजन-माह यथायं स्वस्थाने ध्रुवोऽस्ति तथा हे वधू त्वमपि विवाहकर्त्तरि ध्रुवा निश्चला एधि भवेत्यर्थः पोष्या च मम पुत्रपौत्रादिसन्ततिपुष्टिकर्त्री च भवेत्यर्थः बृहस्पतिः बृहतां मरीच्यादीनां पतिर्बृहस्पतिर्ब्रह्मा म-ह्यं वैवाहिकेन विधिना त्वा त्वां मदात् पत्नीत्वेन दत्तवान् त्वञ्च प्रजावती पुत्रपौत्रादिसन्ततिमती मया पत्या सह शरदः शतं समाः संजीवेत्याशंसा वाक्यार्थः। यद्वाहे ध्रुव त्वं ध्रुवोऽसि शाश्वतोऽसीति तत-स्त्वा त्वां ध्रुवं प्रशाश्वततारकाविशेषं पश्याम़ि अत्रांतर्भूतो णिच् ज्ञेयः यतोऽहं पतिर्ध्रुवं शाश्वतं त्वा त्वां दर्शयामि अतस्त्वमपि ध्रुवा शाश्वती एधि भवेति भावः तथा च पोष्या पोषणीया मत्प्रजापोष्ट्री वाभव यद्वा पोष्या एधि मत्सन्तानवर्द्धनकरी भवेत्यर्थः। एतदर्थमेव बृहस्पतिर्मह्यं त्वामदादित्याद्यग्रे समान-मेव ज्ञेयम्। सा च पश्यामीति ब्रूयात्। अयमाशयः सा वधूर्यद्यपि ध्रुवं नेक्षेत तथापि पश्यामीत्येवमेव वदेत् न विपरीतमित्यर्थः न न पश्यामीति ब्रूयात्। अथ वरो वधू इति। अत्रापि सूत्रं प्रमाणयति। अ-थास्यै दक्षिणाँसमधिहृदयमालभते मम व्रतेते हृदयमित्यादिना नियुनक्तु मह्यमित्यन्तेन मन्त्रेण। अ-स्यार्थः।
शतमितिपठेत्। अथ वरो वधूदक्षिणासस्योपरिहस्तं नीत्वा तस्या हृदयमालभेत मम व्रते ते हृदयं दधातु मम चित्तमनुचित्तं तेऽस्तु मम वाचमेकमना जुषस्व प्रजापतिर्हृष्टानियुनक्तु मह्यमिति मन्त्रेण। अथ वधूमभिमन्त्रयति वरः। सुमङ्गली-रियं वधूरिमाᳪसमेत-
अथ सूर्योदीक्षणानन्तरं अस्यै इति षष्ठ्यर्थे चतुर्थी अस्या वध्वा दक्षिणांसमधि दक्षिणस्य स्कन्धस्योप-रि स्वबाहुं नीत्वा तस्या हृदयमालभते स्पृशति वरो मन्त्रमाह। मम व्रते इत्यादि मन्त्रस्य परमेष्ठी ऋ-षिस्त्रिष्टुप् छन्दः प्रजापतिर्देवता हृदयालम्भने विनियोगः। हे पत्नि इत्यध्याहारः मम व्रते मम शास्त्र-विहितनियमाचरणे ते तव हृदयं मनो बृहतां पतिर्मरीच्यादीनां शास्ता ब्रह्मा दधातु धारयतु किञ्च मम चित्तमनु मच्चित्तानुकूलं ते तव चित्तमस्तु त्वं च मम वाचं वचनं एकमना अव्यभिचारिमनोवृत्तिर्जुष-स्व हृष्टचित्तादरेण कुरुष्व त्वां च स एव बृहस्पतिर्मह्यं मदर्थेमां प्रसादयितुं नियुनक्तु नियोजयत्विति भावार्थः। अथवा लङि लोट् निर्देशः नियुनक्त्विति कोऽर्थः न्ययुङ्क्तेति तात्पर्य्योर्थः। अथ वधूमिति। अत्राऽपि सूत्रं प्रमाणयति अथैनामभिमन्त्रयते सुमङ्गलीरियं वधूरित्यादिना याथास्तं विपरेतनेत्यन्तेन मन्त्रेणेति। अस्यार्थः। अथहृदयालम्भनानन्तरमेनां॥वधूं वरोऽभिमन्त्रयते सुमङ्गलीरिति मन्त्रेण। अ-थ मन्त्रस्यार्थः। सुमङ्गलीरिति मन्त्रस्य प्रजापतिर्ऋषिरनुष्टुप् छन्दो विवाहाधिष्ठात्र्यो देवता अभिम-न्त्रणे विनियोगः। अथ मन्त्रार्थः हे विवाहाधिष्ठात्र्यो गौरीपद्माशचीप्रभृतयः इयं वधूः सुमङ्गलीः शोभन-मङ्गलरूपविवाहसंयुता विसर्गः छान्दसः अत इमां वधूं यूयं समेत सङ्गच्छत सङ्गत्य च इमां पश्यत
पश्यत सौभाग्यमस्यै दत्वा याथास्तं विपरेतनेति मन्त्रेण। अथ स्विष्टकृद्धोमः। ॐ अग्नये स्विष्टकृते स्वाहा इदमग्नये स्विष्टकृते। अत्र स्रुवावशिष्टाज्यस्य प्रोक्षणीपात्रे प्रक्षेपः। अयञ्च होमो ब्रह्मणान्वारब्धकर्त्तृकः। अथ संस्त्रवप्राशनं। तत आच्यम्य पूर्णपात्रं दक्षिणां ब्रह्मणे दद्यात्। ॐ अद्य तत्सदित्यादि कालज्ञानं कृत्वा कृतैतद्धोमकर्म्मकृताकृतावेक्षणरूपब्रह्मकर्म्मप्रतिष्ठार्थमिदं पूर्णपात्रं प्रजापतिदैव-तममुकगोत्रायाऽमुकशर्म्मणे ब्राह्मणाय ब्रह्मणे दक्षिणां तुभ्यमहं संप्रददे इति ब्रह्मणे दक्षिणां
दृष्ट्या विलोकयत किञ्च अस्यै सुमङ्गल्यै नवोढायै सौभाग्यं दानमानाद्यन्वितसुसम्पदां समृद्धिं दत्वा याथ गच्छत अस्तं गृहं विपरेतन विमुखतया मा परा इत अपगच्छत किन्त्वस्याः मुत्रादिमङ्गलमाशा-स्य पुनरागमनाय व्रजतेत्यर्थः। वेश्मास्तगृहमालये इति रन्तिकोशः। विपरेतनेत्यत्र विपरापूर्वेण्धातो-र्लोट् मध्यमपुरुषबहुवचनस्थाने तनप् आदेशः दत्वा येत्यत्र दत्वा पृथक् पदं क्त्वान्तं याथ इति याते-ति पदस्यादेशः छान्दसः अथानन्तरं सौभाग्यमस्यै दत्वा स्वगृहं याथ इति यातेत्यर्थः। अथ स्विष्टकृ-द्धोमः। अथागत्य यथास्थानमुपविश्य ब्रह्मणान्वारब्धः स्विष्टकृद्धोमं विधाय संस्रवं प्राश्य ब्रह्मणे पूर्ण-पात्रवरयोरन्यतरं च दक्षिणत्वेन दत्वा स्वकीयाचार्य्याय ब्राह्मणः परिणेता गां वरं ददातीति श्रुतेः वर- शब्देन किमभिधीयते तदाह गौर्ब्राह्मणस्य ग्रामः क्षत्रियस्याश्वो वैश्यस्य शूद्रस्य यथाशक्ति इति। दु-हितृमते यस्य दुहितर एव न पुत्रस्तस्मै चाधिकं गवां शतं दत्वा तद्दुहितरमुद्वहेत् प्रतिषिद्धा ह्यसौ नाभ्रातृकामुपगच्छेत् इति श्रुतेः तथा च।
दद्यात्। स्वस्तीति प्रतिवचनम् ततो। ब्रह्मग्रन्थिविमोकः। अत्र ग्रामवचनं कुर्याद्वरः। ग्रामशब्दवाच्याः स्वकुलवृद्धाः स्त्रियः। सुमित्रियान आप
यस्यास्तु नभवेद्भ्राता न विज्ञायेत वा पिता। नोपयच्छेत तां कन्यां पुत्रिकाधर्म्मशङ्कया इति मनुस्मर-णात् अभ्रातृमतीपरिणयनं निषिद्धम्। तदतिक्रम्य यदि कश्वित्तामुद्वहेत्तदा तस्याः पुत्रिकाधर्म्माशङ्का-त्वदोषपरिहाराय एकेनच रथेनाधिकं गवां शतं तत्पित्रे दत्वा उद्वहेत्। अत्र ग्रामवचनमिति। अत्र वि-वाहे ग्रामशब्दवाच्यानां स्वकुले वृद्धानां स्त्रीणां वचनं वाक्यं प्रमाणं कुर्य्युः अंकुरार्पणहरिद्राक्षतारोप-णचन्दनादिधर्म्मप्रतिपादकं अङ्गीकुर्य्युः। श्मशाने च मरणे वृद्धस्त्रीवचनं शास्त्रातिरिक्तमपि प्रमाणं चक्रुरित्यर्थः। अत्राऽपि प्रमाणं दर्शयति। विवाहश्मशानयोर्ग्रामं प्रविशतादिति वचनात् तस्माद्ग्रामः प्र-माणमिति। अस्यार्थः। कुतः शास्त्रातिरिक्तं प्रमाणमिति चेच्छृणु। ग्रामं प्रविशतादिति वचनाद्धेतोः तस्मादित्यादि श्रुतेश्चयुक्तिमप्याह यतः कुलवृद्धाः स्त्रियः पूर्वपुरुषानुष्ठीयमानमाचारं स्मरन्ति तस्मा-त्तयोर्विवाहश्मशानयोर्ग्रामः प्रमाणं सदाचारबोधकमित्यर्थः। सुमित्रिया इति। सुमित्रिया न इति मन्त्र-स्य यामित्र ऋषिरनुष्टुप्छन्दो मित्रो देवता मार्जने विनियोगः। अथ मन्त्रार्थः। आपः पानानि ओषधय-श्चान्नानि नोऽस्माकं सुमित्रियाः परमसुखकरा भवन्तु अथ स्मृतिवचने प्रणीतापात्रे पूर्वकल्पिते। तद-द्भिः कं प्रमृज्याशु सर्वपापैः प्रमुच्यते इति जाबालिः। पवित्रे। प्रणीतातः पवित्रे गृहीत्वा शिरः संमृ-ज्यात् इति। दुर्म्मित्रिया इति दुर्म्मित्रियास्तस्मै इति मन्त्रस्य विश्वामित्र ऋषिस्त्रिष्टुप् छन्दो दुर्द्धर्षभैर-वो देवता प्रणीतापात्रपातने विनियोगः। अथच्छेत् इति श्रुतेः तथा च।
ओषधयस्सन्तु इति प्रणीताजलेन पवित्रे गृहीत्वा शिरः संमृज्य दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यञ्चवयं द्विष्म इत्यैशान्यां सपवित्रां सजलां
मन्त्रार्थः। योऽस्मान् द्वेष्टि यञ्चवयं द्विष्मः तस्मै पुरुषाय आप ओषधयोऽन्नपानानि इत्यध्याहारः दुर्मि-त्रिया दुःखदायका भवन्त्वित्यर्थः। इतिमन्त्रेणैशान्यां सपवित्रां सजलां प्रणीतां न्युनीकुर्य्यात्। ननु नि-षिद्धस्य द्वेषस्य करणे विधिः कथम्। तत्राह। स्वयं द्वेषकरणे निषेधेऽपि य आत्मानं द्वेष्टि तं प्रतिद्वेषो-ऽदोषायैवेति। तदुक्तं राजनीतौ। शठं प्रतिशठं कुर्य्यादादरं प्रतिचादरं त्वया मे लुण्ठितौ पक्षौ मया ते मुण्डितं शिरः इति गृहस्थे राजनीतिवृत्तिवद्वर्त्तमानत्वेन द्वेषोऽपि विधिरेवेति। अथ बर्हिरुत्थापनं। यज्ञे विवाहे होमे तु कुशानास्तृणुयात्सदा। अग्नेर्दोषविनाशाय पुण्यस्यातिशयाय च। ततस्तरणक्रमे-णैतद्बर्हिरुत्थापयेत्सुधीः। अभिघार्य्य घृतेनैतद्धुनेग्नौ करेण वै। इति वसिष्ठवचनाद्विधिः। तत्र मन्त्रः। देवा गातुविदो गातु इत्यादि। अथ मन्त्रार्थः। हे देवा यूयं गातुविदः गातुरिति यज्ञस्य नाम तथाच यूयं यज्ञवेत्तारः। यज्ञस्वरूपं विष्णुरिव सर्वप्रतिपोषकं यज्ञफलं ज्ञानविज्ञानयज्ञनिष्ठां सर्वश्रेयसीं इतियूयं विजानीत इति हेतौ यूयं गातुं यज्ञं विष्णुं वित्वाविदित्वा गातु सुखं गच्छतेत्यर्थः यज्ञो वै विष्णुरिति श्रु-तिः गात्विति गाङ् गतौ इत्यस्य रूपं हे देव अतो मनसस्पतेन्तऽर्यामिन् ब्रह्मस्वरूप इमं यज्ञं यज्ञफ-लं स्वाहा त्वदर्प्पणं स्यात् त्वं वातेधाः वातेन पवनेन इधा इति वह्निविशेषणम्। ब्रह्मरूपे तु वातेन स-र्वगेनापरिच्छिन्नेन स्वरूपेणेद्धः प्रकृष्टः स्वाहा इति कुशानां होमार्थः शब्दः। अथ पूर्णाहुतिविधिः। वि-धाने पूर्णे सत्याहुतिर्या सा पूर्णाहुतिरिति व्युत्पत्तिः। यद्वापूर्ण ईश्वरस्तस्मैया आहुतिः सा पूर्णाहुतिरि-ति।
प्रणीतां न्युब्जीकुर्यात्। ततः स्तरणक्रमेण बर्हिरुत्थाप्य आज्येनावघार्य वक्ष्यमाण-मन्त्रेण हस्तेनैव जुहुयात्। देवा गातुविदो गातु वित्वागातुमिति मनसस्पत इमं देवयज्ञँस्वाहा वातेधाः स्वाहा। इतिबर्हिर्होमः॥ तत उत्थाय वध्वा दक्षिणहस्तेन स्पृष्टैः स्रुवस्थघृतपुष्पफलैः पूर्णाहुतिं कुर्यात्। तत्र मंत्रः। मूर्द्धानमित्यस्य भारद्वाज ऋषिर्वैश्वानरो देवता त्रिष्टुप् छन्दः पूर्णाहुतिहोमे विनियोगः। ॐ मूर्द्धानं दिवोऽ-रतिं पृथिव्या वैश्वानरमृतमजातमग्निं कविँ सम्राजमतिथिं जनानामासन्ना पात्र
तत्र प्रमाणमाह। वधूदक्षकरस्पृष्ठे स्रुवे संस्थापयेद्वरः। घृतपुष्पफलादीनि पूर्णार्थाञ्चाहुतिंददेत्। इति बृहद्वसिष्ठप्रणीतत्वात्। तत्र मन्त्रः। मूर्द्धानमिति। अथ मन्त्रार्थः। दिव उपरिस्थलोकानां सर्वेषां मूर्द्धानं उपरिभवं सर्वलोकसंस्थातः परं देशपरिच्छेदशून्यमित्यर्थः। पुनः पृथिव्या अरतिं पृथिवीत्युपलक्षणम् पञ्चभूतानां तथा च पञ्चभूतकार्य्यब्रह्माण्डोदरस्थलोकेषु अरतिं अनासक्तिं तथा च पाञ्चभौतिकदेहे-न्द्रियादिष्वपि अरतिं इति वैराग्यातिशयत्वं। वैश्वानरं वैश्वानरसंज्ञं ब्रह्माण्डचेतयितारमीश्वरं ऋतं सत्य-स्वरूपं अजातं जन्मादिषड्भावविकारशून्यं निर्विकारं अग्निं प्रकाशस्वरूपं कविं सर्वज्ञं सम्राजं निर-तिशयानन्दं एतैर्विशेषणैः सच्चिदानन्दस्वरूपं ब्रह्म सर्वाधिष्ठानं बोध्यते अतिथिं तिथिशब्दः कालोप-लक्षकः नञा समासेन कालातीतत्वबोधः अकालमित्यर्थः जनानां सर्वेषां लोकानां आसन्नापात्रं सृष्टि-प्रलययोराधारत्वेन
जनयन्तु देवाः स्वाहा इदमग्नये। तत उपविश्य स्त्रुवेण भस्मानीय दक्षिणानामिका-ग्रेण। त्र्यायुषं जमदुग्ने इति ललाटे। कश्यपस्य त्र्यायुषं इतिग्रीवायां।यद्देवेषु त्र्यायुषं इति दक्षिणबाहुमूले। तन्नो अस्तुत्र्यायुषं इति हृदये। अनेनैव क्रमेण वध्वा अपित्र्यायुषं कुर्यात्। तत्र तन्नो इत्यस्य स्थाने तत्ते इति विशेषः। तत आचाराच्छण-शङ्खशमीपुष्पार्द्राक्षतारोप-णरूपसिन्दूरकरणं वरः कुर्यात्॥
पात्रं सर्वेषां स्थितिस्थानं कूटस्थमिति भावः जनयन्तु देवा इति यो देवान् जनयित्वा स्वस्वव्यापारेषु अन्तर्यामितया प्रेरयति देवा इति द्वितीयार्थे प्रथमा छन्दसि स्यादिसर्वत्रेति वचनात् जनयन्त्विति ज-निधातोरुत्पादनबोधः प्रेरणार्थप्रत्ययेन तत्प्रेरणत्वं बोध्यते। इत्यलं बहुनेति। तस्मैः स्वाहा एष बलिरि-ति पूर्णरूपेश्वरार्चया पूर्णत्व बोध्यते। भस्मोपविश्ये चादाय स्रुवेणाहुतद्रव्यतः। आशीरूपैश्चोक्तमन्त्रैः स्वपराङ्गेषु लेपयेदिति योगियाज्ञवल्क्योक्तेः। तत उपविश्येत्यादि विधिः। अथाङ्गदर्शनपूर्वक अर्थेन सहैव मन्त्रानाह। त्र्यायुषमिति। यावज्जमदग्नेरायुःप्रमाणमासीत् ततस्त्र्यायुषं त्रिगुणप्रमाणमायुर्मे स्या-त्। अयमर्थः आत्माङ्गविलेपने। पराङ्गविलेपने तु मे स्थाने ते तव स्यात्। इति ललाटे। एवं कश्यपस्य त्र्यायुषं इति ग्रीवायां। यद्देवेषु त्र्यायुषं इति दक्षिणबाहुमूले। तन्नोऽस्तु त्र्यायुष इति हृदये। अर्थस्तु तथैवेति। एवमेव वध्वा अपि त्र्यायुषं कुर्यात्। तत्र तन्नोइति स्थाने तत्ते इति विधिः। मङ्गलार्थे वधूशि-रसि वरः शणसुवर्णशङ्खेन सिन्दूरकरणं कुर्यात् इति। तथाहि। सुवर्णशणयुक्तेन वध्वाः शङ्खेन मूर्द्धनि। सिन्दूरकरणं कुर्यात् सुवर्णार्थेस्वयं वरः। इति बृहद्वसिष्ठस्मृतिवचनम्। तत आचारात्पुष्पश-मीपत्रार्द्राक्षतारोपणं वधूवरयोः शिरसि
दद्यात्। नो वै विजह्यात्कुलदेशधर्म्मान् इति वचनात्। अथ वारुणमहाकलशाभिषेकः। प्रथमं सकलदेवतार्थान्यावाह्य प्रतिष्ठाप्य पूजयेत् तत्र वरुणं गङ्गादितीर्था-नि चावाहयेत्। भोभोजलेश वरुण सर्वकार्य्यप्रसाधक। इहागच्छ इहातिष्ठ सन्निधानं कुरु प्रभो १ व-रुणमावाह्यप्रतिष्ठाप्य च तत्रैव तीर्थान्यावाहयेत् वक्ष्यमाणमन्त्रैः। गङ्गाद्याः सरितः सर्वाः समुद्राश्च स-रांसि च। आयान्तु यजमानस्य दुरितक्षयकारकाः। ततो वरुणाय जलेशाय जलस्थाय देवाय आसनं नमः १ पाद्यं नमः २ अर्घो नमः ३ आचमनीयं नमः ४ स्त्रानंनमः ५ वस्त्रं नमः ६ गन्धो नमः ७ पुष्पं नमः ८ धूपो नमः ९ दीपो नमः १० नैवेद्यं नमः ११ पुनराचमनीयं नमः १२ नमस्कारो नमः १३ दक्षिणा नमः १४ इति सम्पूज्य वरुणम्। अथ गङ्गादितीर्थानि सम्पूजयेत्। गङ्गादिसर्वतीर्थेभ्यो नमः आसनं नमः पाद्यं नमः अर्घो नमः आचमनीयं नमः स्नानं नमः वस्त्रं नमः गन्धो नमः पुष्पं नमः धूपो नमः दी-पो नमः नैवेद्यं नमः पुनराचमनीयं नमः नमस्कारो नमः दक्षिणा नमः इत्येवं तीर्थानि सुपूजयेत्। अथ वारुणकलशाज्जलमानीय पञ्चपल्लवैः कुशैरेव वा वरं वधूं च ब्राह्मणा अभिषिञ्चेयुर्वक्ष्यमाणमन्त्रैः। सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वाराः। वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः। प्रद्युम्नश्चानिरुद्ध-श्च भवन्तु विजयाय ते। आखण्डलोऽग्निर्भगवान् यमो वै नैर्ऋतिस्तथा। वरुणः पवनश्चैव धनाध्यक्षः शिवस्तथा। ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा। कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया र-तिः। बुद्धिर्जातिर्वपुर्ऋद्धिस्तुष्टिर्हृष्टिश्चमातरः। एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः। आदित्यच-न्द्रभौमाश्चबुधजीवसितार्कजाः। ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुस्तथैव च। देवदानवगन्धर्वा यक्षराक्ष-सपन्नगाः। ऋषयो मनवो गावो देवमातर एव च॥ देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः। अस्त्रा-णि चैव शस्त्राणि शतशो वाहनानि च। औषधानि
च रत्नानि कालस्यावयवाश्च ये। सरितः सागराः शैलास्तीर्थानि जलदास्तथा॥ एते त्वामभिषिञ्चन्तु धर्मकामार्थसिद्धये। इति वारुणकलशाभिषेकः॥ अथ पुष्पार्द्राक्षतारोपणम्। आशीर्वचनपूर्वकं सर्वे सामाजिकाः स्त्रियः पुरुषाश्च पुष्पाणि संगृह्यएकैकं पुष्पमादाय ब्राह्मणकर्तृकमन्त्राध्ययनं श्रुत्वा तथा त्वं भव भर्त्तरीति ब्राह्मणोक्तमन्त्रान्ते स्वयमप्युक्त्वा प्रथमं वध्वा उपरि प्रक्षिपेयुरिति। अथ मन्त्राः। गायत्री च विधौ यद्वल्लक्ष्मीर्देवपतौ यथा। उमा यथा महेशाने तथा त्वं भव भर्त्तरि १ सुवर्चला यथा चार्के यथा चन्द्रे तु रोहिणी। मदने च रतिर्यद्वत्तथा त्वं भव भर्त्तरि।२। सुदक्षिणा दिलीपे तु राघवे तु विदर्भजा। अरुन्धती वसिष्ठे च तथा त्वं भव भर्त्तरि।३। राघवेन्द्रे यथा सीता विनता कश्यपे यथा। पावके च यथा स्वाहा तथा त्वं भव भर्त्तरि।४। अनिरुद्धे यथैवोषा दमयन्ती नले यथा। श्यामली चर्तुपर्णे च तथा त्वं भव भर्त्तरि।५। पुलोमजा च देवेन्द्रे वसुदे-वे च देवकी। लोपामुद्रा यथाऽगस्त्ये तथा त्वं भव भर्त्तरि। ६। छाया यथैव चादित्ये यथा वेन्दौ च रो-हिणी। रोहिणी वसुदेवेऽपि तथा त्वं भव भर्त्तरि।७।शन्तनौ च यथा गङ्गा सुभद्रा च यथाऽर्ज्जुने। धृ-तराष्ट्रे च गान्धारी तथा त्वं भव भर्तरि।८। गौतमे च यथाऽहल्या द्रौपदी पाण्डवेषु च। यथा वालिनि तारा च तथा त्वं भव भर्त्तरि ९ मन्दोदरी रावणे च रामे यद्वत्तु जानकी। पाण्डुराजे यथा कुन्ती तथा त्वं भव भर्त्तरि।१०। अत्रौ यथानसूया च जमदग्नौ च रेणुका। श्रीकृष्णे रुक्मिणी यद्वत्तथा त्वं भव भ-र्तरि ११ भास्करे च प्रभा यद्वज्ज्योतिष्णा च यथा पतौ। नदीशे च यथा गङ्गा तथा त्वं भव भर्त्तरि॥१२॥ मेना हिमालये यद्वन्मेरौमरुवती तथा। शिशुमारे भ्रमीर्यद्वत्तथा त्वं भव भर्त्तरि १३ संवरेण तपनी यद्वद्भरते च शकुन्तला। मेरुदेवी यथा नाभौ तथा त्वं भव भर्त्तरि।१४ ईश्वरे प्रकृतिर्यद्वत्कालिका भै-रवे यथा। अम्बिका च मृडे यद्वत्तथा त्वं भव भर्त्तरि १५ रेवती बलभद्रे च साम्बे च लक्ष्मणा तथा। रुक्मिसुता कृष्णपुत्रे तथा त्वं भव भर्त्तरि १६ सर्पराजसुताऽनन्ते भारती च प्रजापतौ। सत्यभामा यथा कृष्णे तथा त्वं भव भर्त्तरि १७ जानकी च तथा रामे ऊर्मिला लक्ष्मणे यथा। कुशे कुमुद्वती यद्वत्तथा त्वं भव भर्त्तरि १८ धनपुत्रवती साध्वी सततं भर्तृवत्सला। मनोज्ञा ज्ञानसहिता तिष्ठ त्वं शरदां शतम् १९ जीवत्सूर्वीरसूर्भद्रे भव सौख्यसमन्विता २० भाग्यारोग्यसुसम्पन्ना यज्ञपत्नी पतिव्रता २० अतिथीना-गतान्साधून्बालान् वृद्धान्गुरूंस्तथा। पूजयन्त्या यथा न्यायं शश्वद्गच्छन्तु ते समाः॥२१॥ पृथिव्यां यानि रत्नानि गुणवन्ति गुणान्विते। त्वं तान्याप्नुहि कल्याणि सुखिनी शरदां शतम् २२ एभिर्मन्त्रैर्वधूमाशीर्भिः संवर्ध्य पुष्पार्द्राक्षतारोपणं विधाय वक्ष्यमाणमन्त्रैरार्द्राक्षतपुष्पारोपणं स्त्रियः पुरुषाश्च वरस्याऽपि कु-र्य्युः। अथ मन्त्राः। ब्रह्मा वेदपतिः शिवः पशुपतिः शक्रःसुराणां पतिः प्राणो देहपतिः सदागतिरयं ज्योतिष्पतिश्चन्द्रमाः। अम्भोधिः सरितां पतिर्जलपतिः सूर्यो ग्रहाणां पतिः सर्वे ते पतयः कुबेरसहिताः कुर्वन्तु ते मङ्गलम् १ मत्स्यः कूर्म्मतनुर्वराहनृहरी श्रीवामनो भार्गवस्तद्वद्दाशरथिश्चयादवपतिर्बुद्धोऽथ कल्कीपतिः। अन्ये चापि सनत्कुमारकपिलप्राणाः कलांशा हरेः सर्वे ते कलिकल्मषापहरणाः कुर्वन्तु ते मङ्गलम् २ आदित्योऽग्नियुतः शशी सवरुणो भौमः कुबेरान्वितः सौम्यो विश्वयुतो गुरुः समघवा देव्या युतो भार्गवः। सौरिः केतुयुतः सदा सुरवरो राहुर्भुजङ्गेश्वरो मा-ङ्गल्यं सुखदुःखदाननिरताः कुर्वन्तु सर्वे ग्रहाः॥ गङ्गा सिन्धुसरस्वती च यमुना गोदावरी नर्म्मदा कावेरी सरयूर्महेन्द्रसहिताः कुर्व-न्तु ते मङ्गलम्।४। आयुर्द्रोणसुते श्रियो दशरथे शत्रुक्षयो राघवे ऐश्वर्य्ये नहुषे गतिश्च पवने मानं च दु-र्योधने। शौर्य्येशान्तनवे
अथ तां दृढपुरुषो ब्राह्मणोऽन्यो वा उन्मथ्य प्राग्वोदग्वाऽनुगुप्त आगारे आनडुहे आर्षभे रोहिते उत्तरलोम्नि चर्म्मण्युपवेशयति। इह गावो निषीद-
बलं हलधरे सत्यं च कुन्तीसुते विज्ञानं विदुरे भवन्तु भवतः कीर्तिश्च नारायणे।५। आयुष्मान् भव पु-त्रवान्भव भव श्रीमान् यशस्वी भव प्रज्ञावान्भव भूरिभूतिकरुणो दानैकनिष्ठो भव। तेजस्वी भव वैरिदर्प्पदलनव्यापारदक्षो भव श्रीशम्भोर्भव पादपूजनरतः सर्वोपकारी भव।६। आयुर्बलं विपुलमस्तु सुखित्वमस्तु सौभाग्यमस्तु विशदा तव कीर्तिरस्तु। श्रेयोऽस्तु धर्म्ममतिरस्तु रिपुक्षयोऽस्तु सन्तानवृ-द्धिरभिवाञ्छितसिद्धिरस्तु।७। दीर्घायुर्भव जीव वत्सरशतं नश्यन्तु सर्वापदः स्वस्थं संभुज मुञ्च चञ्च-लधियंलक्ष्म्यैकनाथो भव। किं ब्रूमो भृगुगौतमात्रिकपिलव्यासादिभिर्भाषितं यद्रामस्य पुराऽभिषेक-समये तच्चास्तु ते मङ्गलम्।८। यावदिन्द्रादयो देवा यावच्चन्द्रदिवाकरौ। यावद्धर्म्मक्रिया लोके ताव-द्भूयात्स्थितिस्तवेति। एवं वरस्याप्यार्द्राक्षतारोपणं विदध्युरिति। अथ तामिति। अथ सिन्दूरकरणान-न्तरं तां वधूं दृढपुरुषो दृढाङ्गपुरुषो ब्राह्मणोऽन्यो वरो वा उन्मथ्य उत्थाप्य प्राक् पूर्वस्यां दिशि पूर्व-कल्पितं मण्डपविधानवेलायामेव निर्म्मिते अनुगुप्ते वस्त्रादिनाच्छादिते आगारे गृहे तत्र च पूर्वमा-स्तीर्णे आनुडुहे आर्षभे ऋषिभिर्वेदोक्तविधैरङ्गीकृते रोहिते लोहितवर्णे प्राग्ग्रीवे उत्तरलोम्नि चर्मण्य-जिने उपवेशयति। स्मार्तकानां मते त्वेवं वैष्णवानां तु विशेषः वैष्णवपक्षे स्वयमर्थः आनुडुहे अनुडुद्द-शब्दवाच्यं मण्डनयुतभूषणाभूषितपतिपुत्रवतीबन्धुजननारीसंयुक्तोज्ज्वलदीपम् प्रकीर्णान्नकणम् कौतुकागारम् तत्र भवं आनुडुहम् तस्मिन्नानुडुहे आर्षभे हिंसाप्रियदैत्यदानवव्यतिरिक्तशान्तिप्रिय-व्यासवसिष्ठनारदगौतमपराशरादिऋषिभिः शुचितया पवित्रत्वेनाङ्गीकृते
न्त्विहाश्वा इह पूरुषा इहो सहस्रदक्षिणो यज्ञे इहपूषा निषीदत्विति मन्त्रेण॥ त्रिरा-त्रमक्षारालवणाशिनौ स्यातामधः शयीताम् निर्मिथुनौ स्याताम्॥ इति विवाहप-द्धतिः समाप्ता॥
रोहिते इति विवाहकौतुकोत्सुकसाहसवती योषिद्धस्तपादसंलग्नरक्तपत्रिकमहावररागरञ्जिते चर्म्म-णि शणसम्भवे टाटरूपे वस्त्रे प्राग्ग्रीवे पौरस्त्योते उत्तरलोम्नि उत्तरप्रोते टाटवस्त्रे उपवेशयेदिति वै-ष्णवमतम्। तत्र प्रमाणम्। अनड्वान् वृषभः प्रोक्तस्त्वनड्वान्मुख्य आलये। नारीयुक् प्रज्वलद्दीपम-नुडुत्कौतुकगृहम्। इति रन्तिकोशे शरीरावरके त्वचि चर्म्मशब्दो भण्यते। अत एवोक्तं चर्म्मणि द्वी-पिनं हन्तीति। दुष्टाः परापकारं कुर्वन्तीत्येव नो विद्धि शण इव निजचर्म्मपरान् हापयित्वा विप्रकुर्व-न्ति। इत्यत्र। शणो यथा निजचर्म हापयित्वा परान् हस्त्यश्वनरादीन् बन्धनादिना विप्रकुरुते तथा दुष्टाः स्वयं मृत्वाऽपि परान् घ्नन्तीत्यर्थः। यथा मक्षिकाः। अत्र चर्म्म शब्देन शणो भण्यते। ततश्चर्म्मणीत्यनेन कार्यकारणयोरभेदाट्टाटरूपं वस्त्रं कार्य्यमुच्यते। किञ्च हिंसादिहीनत्वेन शुद्धत्वात् वैष्णवमतं प्रश-स्तम्। अथ मन्त्रः। इह गावो निषीदन्त्विति मन्त्रस्य प्रजापतिर्ऋषिरनुष्टुप् छन्दो लिङ्गोक्ता अश्वपुरु-षादयो देवता उपवेशने विनियोगः। अथ मन्त्रार्थः। इह वधूनिवेशने गावः अश्वाः पुरुषाश्च निषीदन्तु निवसन्तु यथा वधूर्विशति तथात्र गोप्रभृतयो निवसन्त्विति इह पदावृत्तिः कर्तृणा सह किञ्च उ एवार्थे इहैव सहस्र गावो दक्षिणा यस्य स यज्ञः पूषा पुष्टिकरः पूषा वै सहस्रदक्षिणा आसेति श्रुतिः। त्रिरात्र-मिति वधूवरौत्रिरात्रं विवाहदिनमारभ्य त्रीण्यहोरात्राणि अक्षारालवणाशिनौ अक्षारञ्चालवणञ्च अक्षा-रालवणं तत् अशितुं शीलं ययोः तौ अक्षारा
लवणाशिनौ स्यातां अधः शयानौ अध इति खट्वाव्युदासो नास्तरणव्युदासः आस्तृतभूमौ शयीतन खट्वायामित्याद्यृषिवचनात्। निर्मिथुनौ चात्र सूत्रादि प्रमाण-यति। संवत्सरं न मिथुनमुपेयातां द्वादशरात्र ᳪ
षड्रात्रं त्रिरात्रं त्रिरात्रमन्तत इति। अस्यार्थः। विवाह-दिनमारभ्य संवत्सरं वर्षेयावत् मिथुनमभिगमनं नोपेयातां नोपगच्छेतां अथवा द्वादशरात्रं अथवा ष-ड्रात्रं यद्वा, त्रिरात्रं अन्ततः संवत्सरयज्ञषड्रात्राणामन्ते अशक्तौ त्रिरात्रमित्यर्थः सम्वत्सरादिविकल्पास्तु शक्त्यपेक्षया व्यवस्थिताः आतुराणां सम्वत्सरादित्यागाशक्तौ त्रिरात्रपक्षाश्रयोऽपि। अत्र हेतुः। चतुर्थी-कर्म्मानन्तरं पञ्चम्यादिरात्रिषु अभिगमनं बोध्यम्। चतुर्थीकर्म्मणः प्राक् तस्या भार्य्यात्वमेव न संप्रवृ-त्तं। विवाहैकदेशत्वाच्चतुर्थीकर्मणः इति सूत्रार्थः। तस्माद्भार्य्या चातुर्थकर्म्मणीतिमुनिवचनात्। आप्र-दानात् भवेत्कन्या प्रदानानन्तरं वधूः। पाणिग्रहे तु पत्नी, स्याद्भार्य्या चातुर्थकर्म्मणीति। इति मिश्रनि-वाद्दूरामविरचिता विवाहपद्धतिः समाप्ता। श्रीदुर्गायैनमः।
ॐ श्रीगणेशाय नमः॥ अथ चतुर्थीकर्म्म। ततश्चतुर्थ्योअपररात्रे चतुर्थीकर्म्म तच्चगृहाभ्यन्तर एव कार्य्यम्। तत उद्वर्त्तनादिकृत्वा युगकाष्ठमुपविश्य स्नात्वा शुद्धवस्त्रंपरिधाय गृहं प्रविश्य वधूवरौ प्रा-ङ्मुखौ भवत। ॐ गणपत्यादिदेवता पूजनं ततः कुशकण्डिकारम्भः तत्र क्रमः जामातृहस्तरिमितां वेदीं कुशः परिसमूह्य तान्कुशानैशान्यां परित्यज्य गोमयोदकेनोपलिप्य स्फ्येन स्रुवेण वा प्रागग्रप्रादे-शमात्रं त्रिरुत्तरोत्तरक्रमेणोल्लिख्योल्लेखनक्रमेणानामिकाङ्गुष्ठाभ्यां मृदमुद्धृत्य जलेनाभ्युक्ष्य तत्र तूष्णीं कांस्यपात्रेणाग्निमानीय स्वाभिमुखं निदध्यात् ततः पुष्पचन्दनताम्बूलस्त्राण्यादाय ॐअस्यां रात्रा कर्त्तव्यचतुर्थीहोमकर्म्माणिकृताकृतावेक्षणरूपब्रह्मकर्म्म कर्त्तुेहोतृकर्म्म कर्त्तुममुकगोत्रममु-कशर्म्माणं ब्राह्मणमेभिः पुष्पचन्दनादिभिर्ब्रह्मत्वेन होतृत्वेन च त्वामहं वृणे इति ब्रा
ह्मणं वृणुयात्। ॐ वृतोऽस्मीति प्रतिवचनम्। यथा विहितं कर्म्म कुरु इति वरेणोक्ते ॐ करवाणीति ब्राह्मणो वदेत्। त-तोऽग्नेर्दक्षिणतः शुद्धमासनं दत्वा तदुपरि प्रागग्रान् कुशानास्तीर्य्य ब्रह्माणमग्निं प्रदक्षिणक्रमेणानीय ॐ अत्र त्वं मे ब्रह्मा भवेत्यभिधाय ॐ भवानीति ब्राह्मणेनोक्ते कल्पितासने उदङ्मुखं ब्रह्माणमुपवे-शयेत्। ततः पृथूदकपात्रमग्नेरुत्तरतः प्रतिष्ठाप्य प्रणीतापात्रं पुरतः कृत्वा वारिणा परिपूर्य्य कुशैरा-च्छाद्य ब्राह्मणो मुखमवलोक्याग्नेरुत्तरतः कुशोपरि निदध्यात्। ततः परिस्तरणं बर्हिषश्चतुर्थभागमादा-याग्नेयादीशानान्तं ब्रह्मणोऽग्निपर्य्यन्तं नैर्ऋत्याद्वायव्यान्तं अग्नितः प्रणीतापर्य्यन्तं। ततोऽग्नेरुत्तरतः प-श्चिमदिशि पवित्रच्छेदनार्थेकुशत्रयं। पवित्रकरणार्थेसाग्रमनन्तरगर्भ्भकुशपत्रद्वयं। प्रोक्षणीपात्रं। आ-ज्यस्थाली। सम्मार्जनार्थेकुशत्रयं। उपयमनार्थेवेणीरूपकुशत्रयं। समिधस्तिस्रः। स्रुवः। आज्यं।ष-ट्पञ्चाशदुत्तरवरमुष्टिशतद्वयावच्छिन्नामतण्डुलपूर्णपात्रं। एतानि पवित्रच्छेदनकुशानां पूर्वपूर्वदिशि क्रमेणासादनीयानि। ततः पवित्रच्छेदनकुशैः पवित्रे च्छित्वा प्रादेशमितपवित्रकरण-म्। ततः सपवि-त्रकरेण प्रणीतोदकं त्रिः प्रोक्षणीपात्रे निधाय अनामिकाङ्गुष्ठाभ्यामुत्तराग्रे पवित्रे धृत्वा त्रिरुत्पवनं। ततः प्रोक्षणीपात्रस्य सव्यहस्तकरणं पवित्रे गृहीत्वा त्रिरुदिङ्गनं प्रणीतोदकेन प्रोक्षणीप्रोक्षणम् ततः प्रोक्षणीजलेन यथासादितवस्तुसेचनम्। ततोऽग्निप्रणीतयोर्मध्ये प्रोक्षणीपात्रं निधाय आज्यस्थाल्यामा-ज्यनिर्वापः ततोऽधिश्रयणम् ततो ज्वलत्तृणादिना हविर्वेष्टयित्वा प्रदक्षिणक्रमेण पर्य्यग्निकरणं। ततः स्रुवं प्रतप्य संमार्जनकुशानामग्रैरन्तरतोमूलैर्बाह्यतः स्रुवसंमार्जनं प्रणीतोदकेनाभ्युक्ष्य पुनः प्रतप्य स्रु-वं दक्षिणतो निदध्यात्।तत आज्यस्याग्नेरवतारणम्। तत आज्ये प्रोक्षणीवदुत्पवनं। अवेक्ष्य सत्यपद्र-व्ये। तन्निरसनं। पुनः पूर्ववत् प्रोक्षण्युत्पवनं। उपयमनकुशान्वामहस्तेनादाय उत्तिष्ठन् प्रजापतिं मन-सा ध्यात्वा तूष्णीम
ग्नौ घृताक्ताः समिधस्तिस्रः क्षिपेत्। तत उपविश्य प्रोक्षणीजलेनाग्निप्रदक्षिणं पर्य्यु-क्ष्य पवित्रं प्रणीतापात्रे धृत्वा ब्रह्मणान्वारब्धः पातितदक्षिणजानुर्जुहुयात्। तत्राघारादारभ्याहुतिचतुष्ट-येन तत्तदाहुत्यनन्तरं स्रुवावस्थिताज्यं प्रोक्षिण्यां क्षिपेत्। ॐ प्रजापतये। स्वाहा इदं प्रजापतये इति मनसा। ॐ इन्द्राय स्वाहा इदमिन्द्राय। इत्याघारौ। ॐ अग्नये स्वाहा इद मग्नये। ॐ सोमाय स्वाहा। इदं सोमाय। इत्याज्यभागौ। तत आज्याहुतिपञ्चतये स्थालीपाकाहुतौ च प्रत्याहुत्यनन्तरं स्रुवावस्थि-तहुतशेषघृतस्य प्रोक्षणीपात्रे प्रक्षेपः। ततो ब्रह्मणान्वारब्धं विना ॐ अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चि-त्तिरसि ब्राह्मणस्त्वानाथकाम उपधावामि यास्यै पतिघ्नीतनुस्त्वामस्यै नाशय स्वाहा। इदमग्नये। ॐ वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वानाथकाम उपधावामि यास्यै प्रजाघ्नी तनूस्तामस्यै नाशय स्वाहा। इदं वायवे। ॐ सूर्य्यप्रायश्चित्ते त्वं देवानां प्रायश्वित्तिरसि ब्राह्मणस्त्वानाथकाम उपधा-वामि यास्यै पशुघ्नी तनूस्तामस्यै नाशय स्वाहा। इदं सूर्य्याय। ॐ चन्द्रप्रायश्चित्ते त्वं देवानां प्रायश्चित्ति-रसि ब्राह्मणस्त्वानाथकाम उपधावामि यास्यै गृहघ्नीतनुस्तामस्यै नाशय स्वाहा। इदं चन्द्राय। ॐ ग-न्धर्वप्रायश्चित्ते त्वं। देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वानाथकाम उपधावामि यास्यै यशोघ्नीतनूस्तामस्यै नाशय स्वाहा। इदं गन्धर्वाय। ततः स्थालीपाकेन जुहुयात्। ॐ प्रजापततये स्वाहा। इदं प्रजापतये। इति मनसा। अग्न्याहुतिनवके हुतशेषघृतस्य प्रोक्षणीपात्रे प्रक्षेपः अयञ्च होमो ब्रह्मणान्वारब्धकर्तृकः तत्र आज्यस्थालीपाकाभ्यां स्विष्टक्रुद्धोमः। ॐ अग्नये स्विष्टकृते स्वाहा इदमग्नये स्विष्टकृते। तत आ-ज्येन ॐ भूः स्वाहा इदं भूः। ॐ भुवः स्वाहा इदं भुवः। ॐ स्वः स्वाहा इदं स्वः। एता महाव्याहृत-यः। ॐ त्वन्नोऽग्नेवरुणस्य विद्वान् देवस्य हेडो अवयासि सीष्ठाः यजिष्ठो वह्नितमः शोशुचानो विश्वाद्व-षोँसि प्रमुग्ध्यस्मत्स्वाहा इदमग्नीवरुणाभ्यां ॐ सत्वन्नोऽग्ने वमो भवतीनेदिष्टोऽस्या उषसो व्युष्टौ अवयक्ष्वनो वरुणँ रराणोव्रीहिमृडीकँ सुहवो न एधि स्वाहा। इदमग्नीवरुणाभ्यां। ॐ अयाश्चाग्नेस्यन-भिशस्तिपाश्च सत्वमित्वमया असि अयानो यज्ञं वहास्य यानो धेहि भेषजँ स्वाहा। इदमग्नये। ॐ ये ते शतं वरुणं ये सहस्रं यज्ञियाः पाशा वितता महान्तस्तेभिर्न्नो अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा। इदं वरुणाय सवित्रे विष्णवे देवेभ्यो मरुद्भ्यः स्वर्केभ्यः। ॐ उदुत्तमं वरुणपाशमस्म-दवाधमं विमध्यमँ श्रथाय अथावयमादित्यव्रते तवानागसो अदितये स्याम स्वाहा। इदं वरुणाय। ए-ताः प्रायश्चित्तसंज्ञकाः। ॐ प्रजापतये स्वाहा। इदं प्रजापतये। इति मनसा इदं प्राजापत्यं। ततः संस्र-वप्राशनं। तत आचम्य ॐ अस्यां रात्रौ कृतैतच्चतुर्थीहोमकर्म्मणि कृताकृतावेक्षणरूपब्रह्मकर्म्म प्रतिष्टार्थमिदं पूर्णपात्रं प्रजापतिदैवतकममुकगोत्रायामुकशर्म्मणे ब्राह्मणाय दक्षिणां तुभ्यमहं संप्रददे इति दक्षिणां दद्यात्। स्वस्तीति प्रतिवचनम्। ततो ब्रह्मग्रन्थिविमोकः। ततः सुमित्रिया न आप ओषध-यः सन्तु इति पवित्रा-भ्यां शिरः संमृज्य ॐ दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यञ्च वयं द्विष्म इत्यै-शान्यां दिशि प्रणीतां न्युब्जीकुर्य्यात्। ततस्तरणक्रमेण बर्हिरुत्थाप्य घृताक्तं हस्तेनैव जुहुयात् ॐ दे-वागातुविदो गातुं वित्वागातुमितनसस्पत इमं देवयज्ञँ स्वाहा वातेधा स्वाहा। आम्रपल्लवेन जलमानी-य मूर्द्ध्निवरो वधूमभिषिञ्चति। ॐ याते पतिघ्निप्रजाघ्निपशुघ्नी गृहघ्नी यशोघ्नी निन्दितातनूर्जारघ्नी त-त एनां करोमि सा जीर्य्यत्वं मया सह श्री अमुकदेवि। इति मन्त्रेण। ततो वधूं स्थालीपाकं प्राशयति वरः। ॐ प्राणैस्ते प्राणान् सन्दधामि। ॐ अस्थिभिस्तेऽस्थीनि सन्दधामि। ॐ मांसैस्ते मांसानि सन्द-धामि। ॐ त्वचा ते त्वचं सन्दधामि। इति मन्त्रचतुष्टयेन प्रतिमन्त्रान्तमन्नं प्राशयेत्। ततो वधूहृदयं स्पृष्ट्वा वरः पठेत्। ॐ
यतेसुशी मे हृदयं दिवि चन्द्रमसि श्रियं वेदाहं तन्मां तद्विधात् पश्येम शरदः शतं जीवेम शरदः शतँ शृणुयाम शरदः शतमिति अथ। कङ्कणमोक्षणादीनि युतग्रन्थिविमोकादीनि आचारप्राप्तानि। तत उत्थाय वधूदक्षिणहस्तस्पृष्टस्रुवेण घृतफलपुष्पपूर्णेन पूर्णाहुतिं कुर्य्यात्। ॐ मू-र्द्धानं दिवो अरतिं पृथिव्या वैश्वानरमृतमजातमग्निं कविँ सम्राजमतिथिं जनानामासन्नापात्रं जनयन्तु देवाः स्वाहा। इति मन्त्रेण पूर्णाहुतिः। ततः स्रुवेण भस्मानीय दक्षिणानामिकाग्रगृहीतभस्मना ॐ त्र्या-युषं जमदग्ने इति ललाटे ॐ कश्यपस्य त्र्यायुषमिति ग्रीवायां ॐ यद्देवेषु त्र्यायुषं इति दक्षिणबाहुमूले तन्नोऽस्तु त्र्यायुषं इति हृदये। एवं वध्वा अपि त्र्यायुषं कुर्य्यात्। तन्नो इत्यस्य स्थाने तत्ते इति विशेषः। तत आचार्य्याय दक्षिणां दद्यात् होत्रे च दक्षिणां दद्यात् भूयसीम्॥ इति चतुर्थी कर्म्म समाप्तम्॥ श्री दुर्गायै नमः॥
समाप्ता साङ्गा विवाहपद्धतिः।
[TABLE]
This book is a preservation photocopy.
It was produced on Hammermill Laser Print natural white,
a 60 # book weight acid-free archival paper
which meets the requirements of
ANSI/NISO Z39.48-1992 (permanence of paper)
Preservation photocopying and binding
by
Acme Bookbinding
Charlestown, Massachusetts
<MISSING_FIG href=”../books_images/1684815730.jpg"/>
1996
]