ब्रह्मत्वम् इष्टिपश्वोः

वरणम् उपवेशनं च

वृतो जपति -

अ॒हम् भूप॑तिर्, अ॒हम् भुव॑न-पतिः ।
अ॒हम् म॑ह॒तो भू॒तस्य॒ पतिः॑
भूर् भुव॒स् सुवः॑।
देव॑ सवितर्! ए॒तन् त्वा॑ वृणते
बृह॒स्पतिं॑ ब्र॒ह्माण॑म्।
तद् अ॒हम् मन॑से॒ प्रब्र॑वीमि॒,
मनो॑ गायत्रि॒यै,
गाय॒त्री त्रि॒ष्टुभे॑ ,
त्रि॒ष्टुब् जग॑त्यै॒,
जग॑त्य् अनु॒ष्टुभे॑ , ऽनु॒ष्टुप् प्र॒जाप॑तये,
प्र॒जाप॑ति॒र् विश्वे॑भ्यो दे॒वेभ्यः॑ ।
बृह॒स्पति॑र् दे॒वाना॑म्ब्र॒ह्मा ।
अ॒हम् म॑नु॒ष्या॑णाम् ।


अपरेण वाऽहवनीयं दक्षिणाऽतिक्रामति २०

“अहे॑! दैधिष॒व्य+उद् अत॑स् तिष्ठ। अ॒न्यस्य॒ सद॑ने सीद॒, यो॑ ऽस्मत् पाक॑तर” इति ब्रह्म-सदनम् ईक्षते २१

ब्रह्मसदनात् तृणं निरस्यति - निर॑स्तः॒ पा॒प्मा स॒ह तेन॒ यन् द्वि॒ष्मः।

“इ॒दम् अ॒हं बृह॒स्पतेः॒ सद॑सि सीदामि, प्रसू॑तो दे॒वेन॑ सवि॒त्रा तद् अ॒ग्नये॒ प्रब्र॑वीमि, तद् वा॒यवे॒ तत् पृ॑थि॒व्यै।”

इति ब्रह्मसदन आहवनीयाऽभिमुख उपविशति १

प्रसवा आज्यसिद्धिश्च


“ओ३॒म् प्रण॑य य॒ज्ञम्।
[दे॒वता॑ वर्द्धय॒ त्वम्।
नाक॑स्य पृ॒ष्ठे यज॑मानोऽस्तु ।
स॒प्त॒र्षीणां॑ सु॒कृतां॑ यत्र॑ लो॒कस्, तत्रे॒मं य॒ज्ञं यज॑मानं च धेहि।]”

+++(इत्युपांशूक्त्वा)+++

“ॐ प्रण॑य” इति प्रणीताः प्रसौति ८


पिष्यमाणेषु निर्वपत्य् अन्यो महीनामित्याज्यम् ९

म॒हीनां॒ पयो॑सि।


“इ॒षे त्वे॑"त्य् आज्यम् अधिश्रयत्य् अन्यः +++(गार्हपत्ये ऽरजस्वलायाम्, आहवनीये ऽन्यथा)+++ १७


बृह॑स्पते! परिगृहाण वेदि॑म्!
सु॒-गावो॑ दे॒वाः सद॑नानि सन्त्व्,
अ॒स्यां ब॒र्हिः प्रथताम्।
सा॒ध्व् अन्त॑र्हिं॒स्रा पृथिवीदे॒वी दे॒व्यस्तु
[दे॒वता॑ वर्द्धय॒ त्वम्।
नाक॑स्य पृ॒ष्ठे यज॑मानोऽस्तु ।
स॒प्त॒र्षीणां॑ सु॒कृतां॑ यत्र॑ लो॒कस्, तत्रे॒मं य॒ज्ञं यज॑मानं च धेहि।]

इति वेदिं परिगृह्णन्तम् +++(ब्रह्मा वदति)+++ १०
देवता वर्द्धय त्वमिति सर्वत्राऽनुषजति १२ [एवम् आमन्त्रित ओङ्कारेण …] +++(उच्चैः)+++ -

ओ३म् परि॑गृहाण


एवम् आमन्त्रित ओङ्कारेण प्रोक्ष यज्ञमिति हविषीध्माबर्हिषोश्च ९

प्रोक्ष॑ य॒ज्ञम्!
[दे॒वता॑ वर्द्धय॒ त्वम्।
नाक॑स्य पृ॒ष्ठे यज॑मानोऽस्तु ।
स॒प्त॒र्षीणां॑ सु॒कृतां॑ यत्र॑ लो॒कस्, तत्रे॒मं य॒ज्ञं यज॑मानं च धेहि।]

+++(इत्युपांशूक्त्वा)+++

ॐ प्रोक्ष॑

प्रजापतेऽनुब्रूहि यज्ञम् इति सामिधेनीर् अनुवक्ष्यन्तम् ११

प्रजा॑पते ऽनुब्रूहि य॒ज्ञम्!
[दे॒वता॑ वर्द्धय॒ त्वम्।
नाक॑स्य पृ॒ष्ठे यज॑मानोऽस्तु ।
स॒प्त॒र्षीणां॑ सु॒कृतां॑ यत्र॑ लो॒कस्, तत्रे॒मं य॒ज्ञं यज॑मानं च धेहि।]

+++(इत्युपांशूक्त्वा)+++

ओ३म् अनु॑ब्रू३हि!

प्राशनादि


“मि॒त्रस्य॑ त्वा चक्षु॑षा प्रती॑क्ष” इति प्राशित्रं प्रतीक्षते १३

देवस्य त्वेति प्रतिगृह्णाति १४

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑+++(=अनुज्ञायां)+++, ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्या॒म् प्रति॑ गृह्णामि ।


“पथिव्यास्त्वे"ति सादयाति उपोह्य बर्हींषि १५

पृ॒थि॒व्यास्त्वा॒ नाभौ॑ सादया॒म्य् अदि॑त्या उ॒पस्थे॑।


पुनरादाय “देवस्य त्वे"त्य्
अनामिकाऽङ्गुष्ठाभ्याम् “अग्नेष् ट्वे"ति प्राश्नाति दन्तैर् अनुपस्पृशन्न् - अत्र चेत् +++(प्राश्नाति)+++ १६

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑+++(=अनुज्ञायां)+++, ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्या॒म् आद॑दे ।

अ॒ग्नेष् ट्वा॒स्ये॑न॒ प्राश्ना॑मि (बृह॒स्पते॒र् मुखे॑न)॥

निदधाति वांऽसदेशे १७ (पश्चात् प्राशनाय)

प्रक्षाल्य पात्रं
नाभिम् आलभते -

या अ॒प्स्व् अ॒न्तर् दे॒वता॒स् ता इ॒दँ श॑मयन्तु॥
स्वाहा॑कृतं ज॒ठर॒म् इन्द्र॑स्य गछ।
घ॒सिना॑ मे॒ मा संपृ॑क्थाः!
ऊ॒र्ध्वं मे॒ नाभेः॑ सीद॥
इन्द्र॑स्य त्वा ज॒ठरे॑ सादयामि।

इति १८

अन्वाहार्यग्रहणे

पारस्करगृह्योक्तम् -

स यदि किञ्चिल् लभेत तत्प्रतिगृह्णाति -

द्यौस् त्वा॑ ददातु।
पृ॒थि॒वी त्वा॑ प्रति॑गृह्णातु।

इति। साऽस्य न ददतः क्षीयते, भूयसी च प्रतिगृहीता भवति ।
अथ यद्य् ओदनं लभेत, तत्प्रतिगृह्य द्यौस्त्वेति,
तस्य द्विः प्राश्नाति

ब्र॒ह्मा त्वा॑ऽश्नातु ब्र॒ह्मा त्वा॑ प्राश्ना॑तु

इति।

उपसंहारः

अध्वर्युप्रेषणम्

+++(समिधम् आदाय “ब्रह्मन् प्रस्थास्यामी"त्य् अध्वर्युणामन्त्रितः)+++
“एतं त” इति समिदामन्त्रितः प्रसौति १९

ए॒तं ते॑ देव सवितर् य॒ज्ञं
प्राहु॒र्
बृह॒स्पत॑ये ब्र॒ह्मणे॑ ।
तेन॑ य॒ज्ञम् अ॑व॒, तेन॑
य॒ज्ञप॑तिं॒, तेन॒ माम् अ॑व
मनो॑ जू॒तिर् जु॑षता॒म् आज्य॑स्य॒
बृह॒स्पति॑र् य॒ज्ञम् इ॒मं त॑नोतु ।
अरि॑ष् टं य॒ज्ञँ सम् इ॒मं द॑धातु॒
विश्वे॑ दे॒वास॑ इ॒ह मा॑दयन्ताम्॥

“प्रतिष्ठे"ति ब्रुयाद्वा २०

ओ३ं॒ प्र ति॑ष्ठ ॥

अग्नये नमस्कारः

कर्माऽपवर्गे समिधम् आदधाति, जुहोत्य्, उपतिष्ठते वा -

नमः॑ कृ॒ताय॒ कर्म॑णे
अकृ॑ताय॒ कर्म॑णे नमः॑ ।
अया॑ड् य॒ज्ञं जा॒तवे॑दा॒
अन्त॑रः पूर्वो॒ ऽस्मिन् नि॒षद्य॑
स त्वं स॒निं सु-वि॒मुचा॒ विमु॑ञ्च
धेह्य् अ१॒॑स्मभ्यं॒ द्रवि॑णं जातवेदः॒
स्वाहा॑
+++(इदञ् जातवेदसे न मम)+++

इति यथेतमेत्य ।

एतद् ब्रह्मत्वम् इष्टिपश्वोः २२