+सर्व-प्रस्तुतिः

सायण-टीका

ॐ अथ सायणाचार्यकृतवेदार्थप्रकाशाख्यभाष्यसहितं माध्यन्दिनशतपथब्राह्मणम् । ॥ श्रीगणेशाय नमः ॥ श्रीपरब्रह्मणे नमः ॥

सायणभाष्यम् 1

वागीशाद्याः सुमनसः
सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्
तं नमामि गजाननम् ॥ १ ॥

यस्य निःश्वसितं वेदा
यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे
विद्यातीर्थमहेश्वरम् ॥ २ ॥

तत्कटाक्षेण तद्रूपं
दधतो बुक्कभूपतेः । कृतावतरणः क्षीर-
सागराद् इव चन्द्रमाः ॥ ३ ॥

विजिताराति-व्रातो
वीरः श्रीहरिहरः क्षमाधीशः । धर्म-ब्रह्माध्वन्यः
समादिशत् सायणाचार्यम् ॥ ४ ॥

ऋग्-यजुः-साम-शाखानाम्
एकैका व्याकृता त्वया । तावता तत्-समानार्था
ज्ञातुं शक्यास् ततः पराः ॥ ५ ॥

वासना विशदा यत्र
मन्त्रार्थानाम् अशेषतः । प्रायेणाध्वर्यवं कर्म
पूर्णं शाखान्तरैर् विना ॥ ६ ॥

करामलकवद् यत्र
परं तत्त्वं प्रकाशितम् । या काचित् तादृशी शाखा
त्वया व्याख्यायताम् इति ॥ ७ ॥

सर्वतः सायणाचार्यो
विमृश्योदीरितान् गुणान् । माध्यन्दिने शतपथे
ब्राह्मणे व्याकरोति तत् ॥ ८ ॥

संचारः पद-वाक्यार्थ-
न्यायानां दर्शितः पुरा । वेदानाम् अर्थवत्त्वादि
यच्चान्यद् उपयुज्यते ॥ सर्वशाखा-समत्वेन
विज्ञेयं तदिहाखिलम् 2 ॥ ९ ॥

यच् च संदिग्धम् अज्ञातम्
अत्र तद्विवरिष्यते । संमत्या कल्पसूत्राणां
ब्राह्मणानां च संग्रहात् ॥ १० ॥

इह हि चरमे चतुर्दशे काण्डे 3
करतलामलकवत् परतत्त्वं प्रकाशितम् ।
ततः प्राक्तनैश्च त्रयोदशभिः काण्डैस्
त्रेताग्निसाध्यो 4 धर्मः प्राधान्येन प्रतिपादितः ।

Notation

For 2.5.2 and beyond in shrIdharasharma text: Where svara /accent of shrIdhara-sharma text does not match that of Weber text, [[!!]] is marked. This is intended to help a future better accented edition.

TODO

  • Eggeling
    • Resolve references like : “See p. 331, note 1.”. Search for “See p.”. 114+ occurances.
    • Take care of errata.
    • Figures should be saved and shown at the right spots.
    • Translations post 14.4.1 are missing.
  • shrIdhara-sharmA
    • Figures should be saved and shown at the right spots.
  • There is some slight mismatch in Eggeling and Weber numberings (usually terminal brAhmaNa split into two), which should be reconciled after shrIdhara-mUla has been included.

  1. क्वचित्पुस्तके एतदनन्तरमेष श्लोको ऽधिकः- “श्रुतिपङ्कजार्थलक्ष्मीं यो विकासयति हृद्गतः । स पायात्सच्चिदानन्दः सूर्यमण्डलगो हरिः” इति । ↩︎

  2. अर्थवशादत्र षड्भिः पादैरेकः श्लोकः पूर्यते । ↩︎

  3. बृहदारण्यकोपनिषदि । ↩︎

  4. गार्हपत्याहवनीयदक्षिणाग्नयस्त्रेतेति समाख्यायन्ते । तथा चामरकोषः- “दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयो ऽग्नयः । अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतो ऽनलः”- इति । २. ७. २० । “त्रेता त्वग्नित्रये” इति च तत्रैव ३. ३. ६८ । ↩︎