०१
विश्वास-प्रस्तुतिः
एषाम्वै᳘ भूता᳘नाम्पृथिवी र᳘सः॥
प्पृथिव्या ऽआ᳘पो ऽपामो᳘षधय ऽओ᳘षधीनाम्पुष्पा᳘णि पुष्पा᳘णाम्फला᳘नि फला᳘नाम्पु᳘रुषः पु᳘रुषस्य रे᳘तः॥
मूलम् - श्रीधरादि
एषाम्वै᳘ भूता᳘नाम्पृथिवी र᳘सः॥
प्पृथिव्या ऽआ᳘पो ऽपामो᳘षधय ऽओ᳘षधीनाम्पुष्पा᳘णि पुष्पा᳘णाम्फला᳘नि फला᳘नाम्पु᳘रुषः पु᳘रुषस्य रे᳘तः॥
मूलम् - Weber
एषां वै᳘ भूता᳘नाम् पृथिवी र᳘सः॥
पृथिव्या आ᳘पोऽपामो᳘षधय ओ᳘षधीनाम् पुष्पा᳘णि पुष्पा᳘णाम् 1 फला᳘नि फला᳘नाम् पु᳘रुषः पु᳘रुषस्य रे᳘तः॥
मूलम् - विस्वरम्
पुत्रमन्थ-कर्म-ब्राह्मणम् ।
एषां वै भूतानां पृथिवी रसः । पृथिव्या आपः । अपामोषधयः । ओषधीनां पुष्पाणि । पुष्पाणां फलानि । फलानां पुरुषः । पुरुषस्य रेतः ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यादृग्जन्मा यथोत्पादितैर्वा गुणैर्विशिष्टः पुत्रः आत्मनः पितुश्च लोक्यो भवतीति तत्सम्पादनाय ब्राह्मणमारभ्यते । प्राणदर्शिनः श्रीमन्थकर्म कृतवतः पुत्रमन्थे अधिकारः । यदा पुत्रमन्थं चिकीर्षति तदा श्रीमन्थं कृत्वा ऋतुकालं पत्न्याः प्रतीक्षेत इत्य् एतत् रेतस ओषध्यादि-सारतमत्वं तत्स्तुत्या अवगम्यते । ‘एषां वै’ ‘एषां’ चराणां ‘भूतानां’ ‘पृथिवी रसः’ सारभूता । “सर्वभूतानां मधु” (श. प. बृ. २ । ५ । १) इति ह्यभिहितम् । ‘पृथिव्या आपः’ रसः । अप्सु हि पृथिवी ओता च प्रोता च । “यदिदं सर्वमप्स्वोतं च प्रोतं च” (श. प. बृ. ३ । ६ । १ ।) इत्यभिहितम् । ‘अपामोषधयः’ रसः । कार्यत्वाद्रसत्वमोषध्याः ‘ओषधीनां पुष्पाणि’ । ‘पुष्पाणां फलानि’ । ‘फलानां पुरुषः’ । ‘पुरुषस्य रेतः’ । “सर्वेभ्यो ऽङ्गेभ्यस्तेजः सम्भूतम्” ( ) इति श्रुत्य्-अन्तरात् । यत एवं सर्व-भूतानां सारतममेतत् ‘रेतः’ । अतः का नु खलु अस्य योग्या प्रतिष्ठेति ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
स᳘ ह प्प्रजा᳘पतिरीक्षा᳘ञ्चक्रे॥
ह᳘न्तास्मै᳘ प्प्रतिष्ठा᳘ङ्कल्प᳘यानी᳘ति स᳘ स्त्रिय᳘ᳫँ᳘[[!!]] ससृजे ता᳘ᳫँ᳘ सृ᳘ष्ट्वा ऽध ऽउ᳘पास्त त᳘स्मात्स्त्रि᳘यम᳘ध ऽउ᳘पासीत श्री᳘र्ह्येषा स᳘ ऽएतम्प्रा᳘ञ्चं ग्ग्रा᳘वाणमात्म᳘न ऽएव समु᳘दपारयत्ते᳘नैनाम᳘भ्यसृजत्[[!!]]॥
मूलम् - श्रीधरादि
स᳘ ह प्प्रजा᳘पतिरीक्षा᳘ञ्चक्रे॥
ह᳘न्तास्मै᳘ प्प्रतिष्ठा᳘ङ्कल्प᳘यानी᳘ति स᳘ स्त्रिय᳘ᳫँ᳘[[!!]] ससृजे ता᳘ᳫँ᳘ सृ᳘ष्ट्वा ऽध ऽउ᳘पास्त त᳘स्मात्स्त्रि᳘यम᳘ध ऽउ᳘पासीत श्री᳘र्ह्येषा स᳘ ऽएतम्प्रा᳘ञ्चं ग्ग्रा᳘वाणमात्म᳘न ऽएव समु᳘दपारयत्ते᳘नैनाम᳘भ्यसृजत्[[!!]]॥
मूलम् - Weber
स᳘ ह प्रजा᳘पतिरीक्षां᳘ चक्रे॥
ह᳘न्तास्मै᳘ प्रतिष्ठां᳘ कल्प᳘यानी᳘ति स स्त्रि᳘यᳫं ससृजे ता᳘ᳫं᳘ सृॗष्ट्वाध उ᳘पास्त त᳘स्मात्स्त्रि᳘यमध उ᳘पासीत 2 श्रीॗर्ह्येषा स᳘ एतम् प्रा᳘ञ्चं ग्रा᳘वाणमात्म᳘न एव᳘ समु᳘दपारयत्ते᳘नैनामभ्य᳘सृजत्॥
मूलम् - विस्वरम्
स ह प्रजापतिरीक्षाञ्चक्रे । हन्त अस्मै प्रतिष्ठां कल्पयानीति । स स्त्रियं ससृजे । तां सृष्ट्वा अध उपास्त । तस्मात् स्त्रियमध उपासीत । श्रीर्हि एषा । स एतं प्राञ्चं ग्रावाणमात्मान एव समुदपारयत् । तेनैनामभ्यसृजत् ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘स ह’ स्रष्टा ‘प्रजापतिः ईक्षाञ्चक्रे’ । ईक्षां कृत्वा ‘स्त्रियं 3 ससृजे’ । ‘तां’ च ‘सृष्ट्वा’ ‘अध उपास्त’ मैथुनाख्यं कर्म अधउपासनं नाम कृतवान् । ‘तस्मात्’ ‘स्त्रियमेवाध उपासीत’ । ‘श्रीर्हि एषा’ । श्रेष्ठ उपासकः । श्रेष्ठानुश्रयणा हि प्रजा । अत्र वाजपेय-सामान्यं श्रुतिराह- “स एतमात्मनो ग्रावाणं” सोमाभिषवोपलस्थानीयं कठिन-सामान्यात् । प्रजननेन्द्रियं ‘उदपारयत्’ उत्पूरितवान् स्त्री-व्यञ्जनं प्रति । ‘तेन एनां’ स्त्रियं ‘अभ्यसृजत्’ अभिसंसर्गं कृतवान् ॥ २ ॥
०३
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘स्या व्वे᳘दिरु᳘पस्थः[[!!]]॥
(स्थो) लो᳘मानि बर्हिश्च᳘र्म्माधिष᳘वणे स᳘मिद्धो मध्यतस्तौ᳘ मुष्कौ स या᳘वान्ह वै᳘ व्वाजपेये᳘न[[!!]] य᳘जमानस्य लोको᳘ भवति[[!!]] ता᳘वानस्य लोको᳘ भवति य᳘ ऽएव᳘म्विद्वानधोपहासञ्च᳘रत्या[[!!]] स᳘ स्त्रीणा᳘ᳫँ᳘ सुकृतम्वृङ्क्ते᳘ ऽथ य᳘ ऽइदम᳘विद्वानधोपहासञ्च᳘रत्या ऽस्य᳘[[!!]] स्त्रियः᳘[[!!]] सुकृतम्वृञ्जते॥

त᳘स्या वे᳘दिरुप᳘स्थो॥
लो᳘मानि बर्हिश्च᳘र्माधिष᳘वणे स᳘मिद्धो मध्यतस्तौ᳘ मुष्कौ स या᳘वान्ह वै᳘ वाजपे᳘येन य᳘जमानस्य लोको भ᳘वति ता᳘वानस्य लोको᳘ भवति य᳘ एवं᳘ विद्वा᳘नॗधोपहासं च᳘रत्या स᳘ स्त्रीणा᳘ᳫं᳘ सुकृतं᳘ वृङ्क्ते᳘ऽथ य᳘ इदम᳘विद्वानॗधोपहासं च᳘रॗत्यास्य स्त्रि᳘यः 4 सुकृतं᳘ वृञ्जते॥
मूलम् - विस्वरम्
तस्या वेदिरुपस्थः । लोमानि बर्हिः । चर्माधिषवणे । समिद्धो मध्यतस्तौ मुष्कौ । स यावान्ह वै वाजपेयेन लोको भवति । तावानस्य लोको भवति । य एवं विद्वानधोपहासं चरति । आ स स्त्रीणां सुकृतं वृङ्क्ते । अथ य इदमविद्वानधोपहासं चरति । आ अस्य स्त्रियः सुकृतं वृञ्जते ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तस्या वेदिरित्यादि समस्तं सामान्यं प्रसिद्धम् । समिद्धो ऽग्निर्मध्यतो मध्यप्रदेशः स्त्री-व्यञ्जनस्य । ‘तौ मुष्कौ’ वृषणौ अधिषवण-फलके इति व्यवहितेन सम्बध्यते । वाजपेय-याजिनः ‘यावान् लोकः’ प्रसिद्धः । ‘तावान्’ विदुषो मैथुन-कर्मणः फलं इति स्तूयते । तस्मात् बीभत्सा न कार्येति । ‘य एवं विद्वानवोपहासं चरति’ । ‘आ स स्त्रीणां सुकृतं वृङ्क्ते’ वर्जयति । ‘अथ’ पुनर्यो वाजपेय-सम्पत्तिं न जानाति । ‘अविद्वान्’ रेतसो रसतमत्वं च ‘अधोपहासं चरति’ । ‘अस्य’ अविदुषःस्त्रियः सुकृतं ‘आवृञ्जते’ ॥ ३ ॥
०४
विश्वास-प्रस्तुतिः
(त ऽए) एत᳘द्ध स्म वै त᳘द्विद्वा᳘नुद्दा᳘लक ऽआ᳘रुणिराह॥
(है) एत᳘द्ध स्म वै त᳘द्विद्वान्ना᳘को मौ᳘द्गल्य ऽआहैत᳘द्ध स्म वै त᳘द्विद्वा᳘न्कुमारहारित᳘ ऽआह बह᳘वो म᳘र्य्या ब्राह्मणायना᳘ निरिन्द्रिया᳘ व्विसुकृ᳘तो ऽस्मा᳘ल्लोकात्प्र᳘यन्ति य᳘ ऽइदम᳘विद्वा᳘ᳫँ᳘सो ऽधोपहासञ्च᳘रन्ती᳘ति[[!!]]॥

एत᳘द्ध स्म वै त᳘द्विद्वा᳘नुद्दा᳘लक आ᳘रुणिराह॥
एत᳘द्ध स्म वै त᳘द्विद्वान्ना᳘को मौ᳘द्गल्य आहैत᳘द्ध स्म वै त᳘द्विद्वा᳘न्कुमारहारित᳘ आह बह᳘वो॥
म᳘र्या ब्राह्मणायना᳘ निरिन्द्रिया᳘ विसुकृ᳘तोऽस्मा᳘ल्लोकात्प्र᳘यन्ति य᳘ इदम᳘विद्वांसोॗऽधोपहासं 5 च᳘रन्ती᳘ति॥
मूलम् - विस्वरम्
एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराह । एतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आह । एतद्ध स्म वै तद्विद्वान् कुमारहारित आह । बहवो मर्या ब्राह्मणायना निरिन्द्रिया विसुक्रतो ऽस्माल्लोकात्प्रयन्ति । य इदमविद्वांसो ऽधोपहासं चरन्ति । इति ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘एतद्धस्म वै तद्विद्वानुद्दालक आरुणिराह’ । अधोपहासाख्यं मैथुनं कर्म वाजपेय-सम्पन्नं विद्वानिति यावत् । तथा ‘नाको मौद्गल्यः कुमारहारितश्च आह’ । किञ्च- एत आहुरित्य् अभिधीयते । ‘बहवो मर्याः’ मरण-धर्मिणो मनुष्याः ब्राह्मणा अयनं येषां ते ‘ब्राह्मणायनाः’ ब्रह्म-बन्धवो जाति-मात्रोपजीविन इत्य् अर्थः । ‘निरिन्द्रियाः’ विश्लिष्टेन्द्रियाः । ‘विसुकृतः’ विगत-सुकृत-कर्माणः । अविद्वांसो मैथुन-कर्म-आसक्ताः इति यावत् । किं ‘अस्माल्लोकात्प्रयन्ति’ परलोकात्परिभ्रष्टाः । इति मैथुन-कर्मणः अत्यन्त-पाप-हेतुत्वं दर्शयति- य इदमविद्वांसो ऽधोपहासं चरन्तीति ॥ ४ ॥
०५
विश्वास-प्रस्तुतिः
बहु वा᳘ ऽइद᳘ᳫँ᳘ सुप्त᳘स्य वा जा᳘ग्ग्रतो वा रे᳘तः स्कन्दति॥
त᳘दभि᳘मृशेदनु[[!!]] वा मन्त्रयेत य᳘न्मे ऽद्य रे᳘तः प्पृथिवीम᳘स्कान्त्सीद्यदो᳘षधरि᳘प्यसरद्यद᳘पः[[!!]]। इद᳘महन्तद्द्रे᳘त ऽआ᳘ददे॥ पु᳘नर्म्मा मैत्वि᳘न्द्रियम्पु᳘नस्ते᳘जः पु᳘नर्भ्भ᳘गः। पु᳘नरग्न᳘यो धिष्ण्या᳘[[!!]] यथास्थान᳘ङ्कल्पन्तामित्य᳘नामिकाङ्गुष्ठा᳘भ्यामादाया᳘न्तरेण[[!!]] स्त᳘नौ वा भ्भ्रुवौ᳘[[!!]] वा नि᳘मृञ्ज्यात्॥

बहु वा᳘ इद᳘ᳫं᳘ सुप्त᳘स्य वा जा᳘ग्रतो वा रे᳘त स्कन्दति॥
त᳘दभि᳘मृशेद᳘नु वा मन्त्रयेत य᳘न्मेऽद्य रे᳘तः पृथिवीम᳘स्कान्त्सीद्यदो᳘षधीरप्य᳘सरद्य᳘दपः᳟॥
इद᳘महं तद्रे᳘त आ᳘ददे पु᳘नर्मामैत्विन्द्रियम् पु᳘नस्ते᳘ज पु᳘नर्भ᳘गः॥
पु᳘नरग्न᳘यो धि᳘ष्ण्या यथास्थानं᳘ कल्पन्तामि᳘त्यनामिकाङ्गुष्ठा᳘भ्यामादाया᳘न्तरेण स्त᳘नौ वा भ्रु᳘वौ 6 वा नि᳘मृञ्ज्यात्॥
मूलम् - विस्वरम्
बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति । तदभिमृशेदनु वा मन्त्रयेत- “यन्मे ऽद्य रेतः पृथिवीमस्कान्त्सीद्यदोषधीरप्यसरद्यदपः । इदमहं तद्रेत आददे ॥ पुनर्मा मैत्विन्द्रियं पुनस्तेजः पुनर्भगः । पुनरग्नयो धिष्ण्या यथास्थानं कल्पन्ताम्” । इति- अनामिकाङ्गुष्ठाभ्यामादाय । अन्तरेण स्तनौ वा भ्रुवौ वा निमृञ्ज्यात् ॥ ५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
श्रीमन्थं कृत्वा पत्न्या ऋतुकालं ब्रह्मचर्येण प्रतीक्षतो यदिदं ‘रेतः स्कन्दति’ ‘बहु वा’ अल्पं वा ’सुप्तस्य वा जाग्रतो वा’ रजः-प्राबल्यात् ‘तदभिमृशेत्’ ‘अनुमन्त्रयेत वा’ अनुजपेदित्य् अर्थः । यदा अभिमृशति तदा ‘अनामिका ऽङ्गुष्ठाभ्यां’ तद्रेतः आदत्ते । “यन्मे ऽद्य रेतः” इत्यादिना “आददे” इत्य् एवमन्तेन मन्त्रेण । “पुनर्माम्” इत्य् अनेन मन्त्रेण ‘निमृञ्ज्यात्’ ‘अन्तरेण’ मध्ये ‘भ्रुवौ’ भ्रुवोर्वा ‘स्तनौ’ स्तनयोर्वा ॥ ५ ॥
०६
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ य᳘द्युदक᳘ ऽआत्मा᳘नम्प᳘श्येत्॥
(त्त᳘) त᳘दभि᳘मन्त्रयेत म᳘यि ते᳘ज ऽइन्द्द्रियं य᳘शो द्द्र᳘विणᳫँ᳭ सुकृतमि᳘ति॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ य᳘द्युदक᳘ ऽआत्मा᳘नम्प᳘श्येत्॥
(त्त᳘) त᳘दभि᳘मन्त्रयेत म᳘यि ते᳘ज ऽइन्द्द्रियं य᳘शो द्द्र᳘विणᳫँ᳭ सुकृतमि᳘ति॥
मूलम् - Weber
अ᳘थ य᳘द्युदक आत्मा᳘नम् प᳘श्येत्॥
त᳘दभि᳘मन्त्रयेत म᳘यि ते᳘ज इन्द्रियं य᳘शो द्र᳘विणᳫं सुकृतमि᳘ति 7 ॥
मूलम् - विस्वरम्
अथ यदि उदक आत्मानं पश्येत् । तदभिमन्त्रयेत- “मयि तेज इन्द्रियं यशो द्रविणं सुकृतम्”- इति ॥ ६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अथ यदि’ कदाचित् ‘उदके आत्मानं’ आत्म-च्छायां ‘पश्येत्’ । तत्रापि ‘अभिमन्त्रयेत’ अनेन मन्त्रेण “मयि तेजः” इति ॥ ६ ॥
०७
विश्वास-प्रस्तुतिः
श्री᳘र्ह वा᳘ ऽएषा᳘ स्त्रीणां᳘ य᳘न्मलोद्वा᳘साः॥ (स्त᳘) त᳘स्मान्मलोद्वा᳘ससं य᳘शस्विनीमभिक्रम्यो᳘पमन्त्रयेत सा चे᳘दस्मै न᳘ दद्यात्का᳘ममेनाम᳘पक्रीणीयात्सा चे᳘दस्मै᳘ नैव᳘ दद्यात्का᳘ममेनां यष्ट्या᳘ वा पाणि᳘ना वोपहत्या᳘तिक्रामेदिन्द्रिये᳘ण ते य᳘शसा य᳘श ऽआ᳘दद ऽइ᳘त्ययशा ऽएव᳘[[!!]] भवति॥

श्री᳘र्ह वा᳘ एषा᳘ स्त्रीणा᳘म्॥
य᳘न्मलोद्वा᳘सास्त᳘स्मान्मलोद्वा᳘ससं य᳘शस्विनीमभिक्रम्यो᳘पमन्त्रयेत सा चे᳘दस्मै न᳘ दद्यात्का᳘ममेनाम᳘पक्रीणीयात्सा चे᳘दस्मैॗ नैव᳘ दद्यात्का᳘ममेनां यष्ट्या᳘ वा पाणि᳘ना वोपहत्या᳘तिक्रामेदिन्द्रिये᳘ण 8 ते य᳘शसा य᳘श आ᳘दद इ᳘त्ययशा᳘ एव᳘ भवति॥
मूलम् - विस्वरम्
श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासाः । तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत । सा चेदस्मै न दद्यात् । काममेनामपक्रीणीयात् । सा चेदस्मै नैव दद्यात् । कामं एनां यष्ट्या वा पाणिना वोपहृत्यातिक्रामेत्- “इन्द्रियेण ते यशसा यश आददे”- इति । अयशा एव भवति ॥ ७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘श्रीर्ह वै’ ‘एषा’ पत्नी ‘स्त्रीणां’ मध्ये ‘यत्’ यस्मात् ‘मलोद्वासाः’ उद्गतमलवद्वासाः । ‘तस्मात् तां ‘मलोद्वाससं यशस्विनीं’ श्रीमतीं अभिक्रम्याभिगम्य ‘उपमन्त्रयेत’ । इदम् अद्य आवाभ्यां कार्यं यत् पुत्रोत्पादनमिति । त्रिरात्रान्ते आप्लुती ‘सा चेत्’ ‘अस्मै’ न दद्यान्मैथुनं कर्तुं ‘काममेनां’ अवक्रीणीयात् आभरणादिना ज्ञापयेत् । तथा ऽपि ‘सा नैव दद्यात्’ चेत् । ‘काममेनां’ यष्ट्या वा पाणिना वा ‘उपहन्यात् । अभिकामयेन्मैथुनाय । शप्स्यामि त्वां दुर्भगां करिष्यामीति प्रत्याख्याप्य । तां अनेन मन्त्रेण उपगच्छेत् । “इन्द्रियेण ते यशसा यश ऽआददे” इति । सा तस्मात् तदभिशापोद्बन्धात् दुर्भगा इति ख्याता ‘अयशा एव भवति’ । शाखान्तरा ऽनुसारेणेदमुच्यते । सा चेत् अस्मै दद्यात् । अनुगुणा एव स्यात् भर्तुः । तदा अनेन मन्त्रेणोपगच्छेत् । “इन्द्रियेण ते यशसा यश आदधामि” इति । तदा यशस्विनावेव उभावपि भवतः ॥ ७ ॥
०८
विश्वास-प्रस्तुतिः
स या᳘मिच्छे᳘त्॥
(त्का) काम᳘येत मे᳘ति त᳘स्यामर्थ᳘न्निष्ठा᳘प्य मु᳘खेन मु᳘खᳫँ᳭ सन्धा᳘योप᳘स्थमस्या ऽअभिमृ᳘श्य जपेद᳘ङ्गादङ्गात्स᳘म्भवसि हृ᳘दयाद᳘धि जायसे। स त्व᳘मङ्गकषायो ऽसि[[!!]] दि᳘ग्धविद्धामिव मादये᳘ति॥
मूलम् - श्रीधरादि
स या᳘मिच्छे᳘त्॥
(त्का) काम᳘येत मे᳘ति त᳘स्यामर्थ᳘न्निष्ठा᳘प्य मु᳘खेन मु᳘खᳫँ᳭ सन्धा᳘योप᳘स्थमस्या ऽअभिमृ᳘श्य जपेद᳘ङ्गादङ्गात्स᳘म्भवसि हृ᳘दयाद᳘धि जायसे। स त्व᳘मङ्गकषायो ऽसि[[!!]] दि᳘ग्धविद्धामिव मादये᳘ति॥
मूलम् - Weber
स या᳘मिछे᳘त्॥
काम᳘येत मे᳘ति त᳘स्यामर्थं᳘ निष्ठा᳘प्य मु᳘खेन मु᳘खᳫं 9 संधा᳘योप᳘स्थमस्या अभिमृ᳘श्य जपेद᳘ङ्गात्स᳘म्भवसि हृ᳘दयाद᳘धि जायसे॥
स त्व᳘मङ्गकषाॗयोऽसि 10 दि᳘ग्धविद्धामिव मादये᳘ति॥
मूलम् - विस्वरम्
स यामिच्छेत् । कामयेत मेति । तस्यामर्थं निष्ठाप्य । सुखेन मुखं सन्धाय । उपस्थमस्या अभिमृश्य जपेत्- “अङ्गादङ्गात्सम्भवसि हृदयादधि जायसे । स त्वमङ्गकषायो ऽसि दिग्ध-विद्धामिव मादय”- इति ॥ ८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
स यामिति । ‘सः यां’ भार्यामिच्छेत् इयं ‘मा’ मां ‘कामयेतेति’ । ‘तस्यां’ ‘योनौ’ ‘अर्थं’ प्रजननेन्द्रियं ‘निष्ठाप्य’ निक्षिप्य । ‘मुखेन मुखं सन्धाय’ । ‘उपस्थं अस्याः अभिमृश्य जपेत्’ इमं मन्त्रं “अङ्गादङ्गात्” इति ॥ ८ ॥
०९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ या᳘मिच्छे᳘न्न ग᳘र्भ्भन्द᳘धीते᳘ति॥ त᳘स्यामर्थं᳘ निष्ठा᳘प्य मुखेन[[!!]] मु᳘खᳫँ᳭ सन्धा᳘याभिप्प्राण्या᳘पान्यादिन्द्द्रिये᳘ण ते रे᳘तसा रे᳘त ऽआ᳘दद ऽइ᳘त्यरेता᳘ ऽएव᳘ भवति॥ शतम् ७६००॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ या᳘मिच्छे᳘न्न ग᳘र्भ्भन्द᳘धीते᳘ति॥ त᳘स्यामर्थं᳘ निष्ठा᳘प्य मुखेन[[!!]] मु᳘खᳫँ᳭ सन्धा᳘याभिप्प्राण्या᳘पान्यादिन्द्द्रिये᳘ण ते रे᳘तसा रे᳘त ऽआ᳘दद ऽइ᳘त्यरेता᳘ ऽएव᳘ भवति॥ शतम् ७६००॥
मूलम् - Weber
अ᳘थ या᳘मिछे᳘त्॥
न ग᳘र्भं दधीते᳘ति त᳘स्यामर्थं᳘ निष्ठा᳘प्य मु᳘खेन मु᳘खᳫं 11 संधा᳘याभिप्राण्या᳘पान्यादिन्द्रिये᳘ण 12 ते रे᳘तसा रे᳘त आ᳘दद इ᳘त्यरेता᳘ एव᳘ भवति॥
मूलम् - विस्वरम्
अथ यामिच्छेत् । न गर्भं दधीतेति । तस्यामर्थं निष्ठाप्य । मुखेन मुखं सन्धाय-अभिप्राण्यापाण्यात्- “इन्द्रियेण ते रेतसा रेत आददे”- इति । अरेता एव भवति ॥ ९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अथ यामिच्छेत् न गर्भं दधीत’ न धारयेत् गर्भिणी मा भूदिति । तस्यामर्थमिति । पूर्ववत् । ‘अभिप्राण्य’ प्राणनं प्रथमं कृत्वा, पश्चादपान्यात् । “इन्द्रियेण ते रेतसा रेत आददे” इत्यनेन मन्त्रेण । ‘अरेता एव भवति’ न गर्भ-धारिणी भवतीत्य् अर्थः ॥ ९ ॥
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ या᳘मिच्छे᳘द्ग᳘र्भ्भन्दधीते᳘ति॥ त᳘स्यामर्थ᳘न्निष्ठा᳘प्य मु᳘खेन मुखᳫँ᳭[[!!]] सन्धा᳘यापा᳘न्याभिप्प्रा᳘ण्यादिन्द्रिये᳘ण ते रे᳘तसा रे᳘त ऽआ᳘दधामी᳘ति गर्भ्भि᳘ण्येव᳘ भवति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ या᳘मिच्छे᳘द्ग᳘र्भ्भन्दधीते᳘ति॥ त᳘स्यामर्थ᳘न्निष्ठा᳘प्य मु᳘खेन मुखᳫँ᳭[[!!]] सन्धा᳘यापा᳘न्याभिप्प्रा᳘ण्यादिन्द्रिये᳘ण ते रे᳘तसा रे᳘त ऽआ᳘दधामी᳘ति गर्भ्भि᳘ण्येव᳘ भवति॥
मूलम् - Weber
अ᳘थ या᳘मिछे᳘त्॥
ग᳘र्भं दधीते᳘ति त᳘स्यामर्थं᳘ निष्ठा᳘प्य मु᳘खेन मु᳘खᳫं 13 संधा᳘यापा᳘न्याभिप्रा᳘ण्यादिन्द्रिये᳘ण 14 ते रे᳘तसा रे᳘त आ᳘दधामी᳘ति गर्भि᳘ण्येव᳘ भवति॥
मूलम् - विस्वरम्
अथ यामिच्छेत् । गर्भं दधीतेति । तस्यामर्थं निष्ठाप्य । मुखेन मुखं सन्धाय अपान्याभिप्राण्यात्- “इन्द्रियेण रेतसा ते रेत आदधामि”- इति । गर्भिण्य् एव भवति ॥ १० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथ यामिच्छेद्गर्भं दधीत इति । तस्या अर्थमित्यादि पूर्ववत् । पूर्व-विपर्ययेण ‘अपान्य अभिप्राण्यात्’ “इन्द्रियेण ते रेतसा रेत आदधामि” इति । ‘गर्भिण्य् एव भवति’ ॥ १० ॥
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘स्य जाया᳘यै जारः स्यात्[[!!]]॥
(त्त) तञ्चे᳘द्द्विष्यादा᳘मपात्रे ऽग्नि᳘मुपसमाधा᳘य प्प्रतिलोम᳘ᳫँ᳘ शरबर्हि᳘ स्तीर्त्वा त᳘स्मिन्नेता᳘स्तिस्रः᳘ शर᳘भृष्टीः प्प्रतिलोमाः᳘ सर्प्पि᳘षा ऽक्त्वा᳘ जुहुयान्म᳘म स᳘मिद्धे᳘ ऽहौषीराशापराकाशौ᳘ त ऽआद᳘दे ऽसावि᳘ति[[!!]] ना᳘म गृह्णाति म᳘म स᳘मिद्धे᳘ ऽहौषीः पुत्रपशूँ᳘स्त ऽआ᳘ददे ऽसावि᳘ति ना᳘म गृह्णाति म᳘म स᳘मिद्धे᳘ ऽहौषीः प्प्राणापानौ᳘ त ऽआ᳘ददे ऽसावि᳘ति ना᳘म गृह्णाति स वा᳘ ऽएष᳘ निरिन्द्रियो᳘ व्विसुकृ᳘दस्मा᳘ल्लोकात्प्रै᳘ति य᳘मेवंवि᳘द्ब्राह्मणः श᳘पति त᳘स्मादेवंविच्छ्रो᳘त्रियस्य जाया᳘या ऽउपहा᳘सन्नेच्छेदुत᳘ ह्येवम्वित्प᳘रो भ᳘वति॥

अ᳘थ य᳘स्य जाया᳘यै जारः स्या᳘त्॥
तं चे᳘द्द्विष्यादा᳘मपात्रेऽग्नि᳘मुपसमाधा᳘य प्रतिलोमं᳘ शरबर्हि᳘ स्तीर्त्वा त᳘स्मिन्नेता᳘स्तिस्रः᳘ शर᳘भृष्ठीः प्रतिलोमाः᳘ सर्पि᳘षात्त्का᳘ जुहुयान्म᳘म स᳘मिद्धे᳘ऽहौषीराशापराकाशौ᳘ त आ᳘ददेऽसावि᳘ति ना᳘म गृह्णाति म᳘म स᳘मिद्धे᳘ऽहौषीः पुत्रपशू᳘ᳫं᳘स्त आ᳘ददेऽसावि᳘ति ना᳘म गृह्णाति म᳘म स᳘मिद्धे᳘ऽहौषीः प्राणापानौ᳘ त आ᳘ददेऽसावि᳘ति ना᳘म गृह्णाति स वा᳘ एष᳘ निरिन्द्रियो᳘ विसुकृ᳘दस्मा᳘ल्लोकात्प्रै᳘ति य᳘मेवंवि᳘द्ब्राह्मणः 15 श᳘पति त᳘स्मादेवंविछ्रो᳘त्रियस्य जाया᳘या उपहाॗसं नेछेदुतॗ ह्येवंवित्प᳘रो भ᳘वति॥
मूलम् - विस्वरम्
अथ यस्य जायायै जारः स्यात् । तं चेद्द्विष्यात् । आमपात्रे अग्निमुपसमाधाय । प्रतिलोमं शरबर्हिः स्तीर्त्वा । तस्मिन्नेतास्तिस्रः शरभृष्टीः प्रतिलोमाः सर्पिषा अक्त्वा जुहुयात्- “मम समिद्धे ऽहौषीराशापराकाशौ 16 त आददे असौ”- इति नाम गृह्णाति । “मम समिद्धे ऽहौषीः पुत्रपशूँस्त आददे असौ”- इति नाम गृह्णाति । “मम समिद्धे ऽहौषीः प्राणापानौ त आददे असौ”- इति नाम गृह्णाति । स वा एष निरिन्द्रियो विसुकृदस्माल्लोकात्प्रैति । यमेवंवित् ब्राह्मणः शपति । तस्मादेवंवित् श्रोत्रियस्य जायाया उपहासं नेच्छेत् । उत हि एवंवित्परो भवति ॥ ११ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अथ’ पुनः ‘यस्य जायायै जारः’ उपपतिः ‘स्यात्’ । ‘तं चेत् द्विष्यात्’ अभिचरिष्यामि एनं इति मन्येत । तस्येदं कर्म । ‘आमपात्रे’ ‘अग्निमुपसमाधाय’ । सर्वं ‘प्रतिलोमं’ कुर्यात् । तत् तस्मिन्नग्नौ ‘एताः तिस्रः शरभृष्टीः’ शरेषीकाः ‘सर्पिषा अक्त्वा’ घृतेनाभ्यज्य ‘प्रतिलोमाः’ विपरीताग्राः ‘जुहुयात्’ । “मम समिद्धे ऽहौषीः” इत्याद्या आहुतीः । ‘असाविति’ नामग्रहणं प्रत्येकम् । स एषः ‘एवंवित्’ ब्राह्मणः ‘यं’ शपति । ‘स विसुकृत्’ विकृत-पुण्य-कर्मा ‘प्रैति’ । ‘तस्मात् एवंवित् श्रोत्रियस्य जायायाः’ दारेण ‘नोपहासं’ नर्मापि न कुर्यात् । किमुत अधोपहासम् । ‘हि’ यस्मात् एवंविदपि तावत् ‘परो भवति’ । शत्रुर्भवतीत्य् अर्थः ॥ ११ ॥
१२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘स्य जाया᳘मार्त्तव᳘म्विन्दे᳘त्॥
(त्त्र्य) त्र्यह᳘ङ्कᳫँ᳭से न᳘ पिबेद᳘हतवासा᳘ नैनाम्वृ᳘षलो न व्वृ᳘षल्यु᳘पहन्यात्त्रिरात्रान्त᳘ ऽआप्लू᳘य व्व्रीहीन᳘वघातयेत्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘स्य जाया᳘मार्त्तव᳘म्विन्दे᳘त्॥
(त्त्र्य) त्र्यह᳘ङ्कᳫँ᳭से न᳘ पिबेद᳘हतवासा᳘ नैनाम्वृ᳘षलो न व्वृ᳘षल्यु᳘पहन्यात्त्रिरात्रान्त᳘ ऽआप्लू᳘य व्व्रीहीन᳘वघातयेत्॥
मूलम् - Weber
अ᳘थ य᳘स्य जाया᳘मार्तवं᳘ विन्दे᳘त्॥
त्र्यहं᳘ कंसे न᳘ पिबेद᳘हतवासाॗ नैनां वृ᳘षलो न वृ᳘षल्यु᳘पहन्यात्त्रिरात्रान्त᳘ आप्लू᳘य व्रीहीन᳘वघातयेत् 17 ॥
मूलम् - विस्वरम्
अथ यस्य जायामार्तवं विन्देत् । त्र्यहं कंसे न पिबेत् । अहतवासाः । नैनां वृषलो न वृषल्य् उपहन्यात् । त्रिरात्रान्त आप्लूय । व्रीहीनवघातयेत् ॥ १२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अथ यस्य जायामार्तवं विन्देत्’ ऋतुभावः प्राप्नुयात् इत्य् एवमादि-ग्रन्थः “श्रीर्ह वा एषा स्त्रीणां”- (कं. ७) इत्यतः पूर्वं द्रष्टव्यः । सामर्थ्यात् । ‘त्र्यहं कंसे न पिबेत्’ । अहतवासाश्च भवेत् । ‘न एनां’ स्नातां अस्नातां च ‘वृषलो वृषली वा’ नोपहन्यान्नोपस्पृशेत् । ‘त्रिरात्रान्ते’ त्रिरात्रऋतुसमाप्तौ ‘आप्लूय’ स्नात्वा ‘अहतवासाः’ स्यात् । इति व्यवहितेन सम्बन्धः । तामाप्लुतां ‘व्रीहीनवघातयेत्’ व्रीह्यवघाताय तामेव विनियुञ्ज्यात् ॥ १२ ॥
१३
विश्वास-प्रस्तुतिः
(त्स) स य᳘ ऽइच्छे᳘त्॥
(त्पु) पुत्रो᳘ मे गौरो᳘ जायेत व्वे᳘दम᳘नुब्ब्रुवीत स᳘र्व्वमा᳘युरियादि᳘ति क्षीरौ᳘दनम्पाचयित्वा स᳘र्प्पिष्मन्तमश्नीया᳘तामीश्वरौ ज᳘नयितवै[[!!]]॥
मूलम् - श्रीधरादि
(त्स) स य᳘ ऽइच्छे᳘त्॥
(त्पु) पुत्रो᳘ मे गौरो᳘ जायेत व्वे᳘दम᳘नुब्ब्रुवीत स᳘र्व्वमा᳘युरियादि᳘ति क्षीरौ᳘दनम्पाचयित्वा स᳘र्प्पिष्मन्तमश्नीया᳘तामीश्वरौ ज᳘नयितवै[[!!]]॥
मूलम् - Weber
स य᳘ इछे᳘त्॥
पुत्रो᳘ मे गौरो᳘ जायेत वे᳘दम᳘नुब्रुवीत स᳘र्वमा᳘युरियादि᳘ति क्षीरौ᳘दनम् 18 पाचयित्वा स᳘र्पिष्मन्तमश्नीया᳘तामीश्वरौ ज᳘नयितवै᳟ 19 ॥
मूलम् - विस्वरम्
स य इच्छेत् । पुत्रो मे गौरो जायेत । वेदमनुब्रुवीत । सर्वमायुरियात् इति । क्षीरौदनं पाचयित्वा । सर्पिष्मन्तमश्नीयाताम् । ईश्वरौ जनयितवै ॥ १३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘स य इच्छेत् पुत्रो मे गौरः’ वर्णतः ‘जायेत्’ । ‘वेदमेकमनुब्रुवीत’ । ‘सर्वमायुरियात्’ वर्षशतम् । ‘क्षीरौदनं पाचयित्वा’ । ‘सर्पिष्मन्तमश्नीयातां’ । ‘ईश्वरौ जनयितवै’ ॥ १३ ॥
१४
विश्वास-प्रस्तुतिः
(वा ऽअ᳘) अ᳘थ य᳘ ऽइच्छे᳘त्॥
(त्पु) पुत्त्रो᳘ मे कपिलः᳘ पिङ्गलो᳘ जायेत द्वौ व्वे᳘दाव᳘नुब्ब्रुवीत स᳘र्व्वमा᳘युरियादि᳘ति द᳘ध्योदनम्पाचयित्वा[[!!]] स᳘र्प्पिष्मन्तमश्नीया᳘तामीश्वरौ ज᳘नयितवै[[!!]]॥
मूलम् - श्रीधरादि
(वा ऽअ᳘) अ᳘थ य᳘ ऽइच्छे᳘त्॥
(त्पु) पुत्त्रो᳘ मे कपिलः᳘ पिङ्गलो᳘ जायेत द्वौ व्वे᳘दाव᳘नुब्ब्रुवीत स᳘र्व्वमा᳘युरियादि᳘ति द᳘ध्योदनम्पाचयित्वा[[!!]] स᳘र्प्पिष्मन्तमश्नीया᳘तामीश्वरौ ज᳘नयितवै[[!!]]॥
मूलम् - Weber
अ᳘थ य᳘ इछे᳘त्॥
पुत्रो᳘ मे कपिलः᳘ पिङ्गलो᳘ जायेत द्वौ वे᳘दाव᳘नुब्रुवीत स᳘र्वमा᳘युरियादि᳘ति दध्यो᳘दनम् 20 पाचयित्वा स᳘र्पिष्मन्तमश्नीया᳘तामीश्वरौ ज᳘नयितवै᳟॥
मूलम् - विस्वरम्
अथ य इच्छेत् । पुत्रो मे कपिलः पिङ्गलो जायेत । द्वौ वेदावनुब्रुवीत । सर्वमायुरियात् इति । दध्योदनं पाचयित्वा । सर्पिष्मन्तमश्नीयाताम् । ईश्वरौ जनयितवै ॥ १४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘दध्योदनं’ दध्ना चरुं ‘पाचयित्वा’ ‘पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदावनुब्रुवीत सर्वमायुरियादिति’ पुत्रं चेदिच्छति ॥ १४ ॥
१५
विश्वास-प्रस्तुतिः
(वा ऽअ᳘) अ᳘थ य᳘ ऽइच्छे᳘त्॥
(त्पु) पुत्रो᳘ मे श्यामो᳘ लोहिताक्षो᳘ जायेत त्रीन्वे᳘दान᳘नुब्ब्रुवीत स᳘र्व्वमा᳘युरियादि᳘त्युदौ᳘दनम्पाचयित्वा स᳘र्प्पिष्मन्तमश्नीया᳘तामीश्वरौ ज᳘नयितवै[[!!]]॥
मूलम् - श्रीधरादि
(वा ऽअ᳘) अ᳘थ य᳘ ऽइच्छे᳘त्॥
(त्पु) पुत्रो᳘ मे श्यामो᳘ लोहिताक्षो᳘ जायेत त्रीन्वे᳘दान᳘नुब्ब्रुवीत स᳘र्व्वमा᳘युरियादि᳘त्युदौ᳘दनम्पाचयित्वा स᳘र्प्पिष्मन्तमश्नीया᳘तामीश्वरौ ज᳘नयितवै[[!!]]॥
मूलम् - Weber
अ᳘थ य᳘ इछे᳘त्॥
पुत्रो᳘ मे श्यामो᳘ लोहिताक्षो᳘ जायेत त्रीन्वे᳘दान᳘नुब्रुवीत 21 स᳘र्वमा᳘युरियादि᳘त्युदौ᳘दनम् पाचयित्वा स᳘र्पिष्मन्तमश्नीया᳘तामीश्वरौ ज᳘नयितवै᳟ 22 ॥
मूलम् - विस्वरम्
अथ य इच्छेत् । पुत्रो मे श्यामो लोहिताक्षो जायेत । त्रीन् वेदाननुब्रुवीत । सर्वमायुरियात् इति । उदौदनं पाचयित्वा । सर्पिष्मन्तमश्नीयाताम् । ईश्वरौ जनयितवै ॥ १५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन् वेदाननुब्रुवीत” इत्यादि । इच्छति पुत्रम् । तदा एवमत्र न नियमः । केवलमेव स्वाभाविकं ओदनम् । उदक-ग्रहणमन्य-प्रसङ्ग-निरासार्थम् 23 ॥ १५ ॥
१६
विश्वास-प्रस्तुतिः
(वा ऽअ᳘) अ᳘थ य᳘ ऽइच्छे᳘त्॥
(द्दु) दुहिता᳘ मे पण्डिता᳘ जायेत स᳘र्व्वमा᳘युरियादि᳘ति तिलौ᳘दनम्पाचयित्वा स᳘र्प्पिष्मन्तमश्नीया᳘तामीश्वरौ ज᳘नयितवै[[!!]]॥
मूलम् - श्रीधरादि
(वा ऽअ᳘) अ᳘थ य᳘ ऽइच्छे᳘त्॥
(द्दु) दुहिता᳘ मे पण्डिता᳘ जायेत स᳘र्व्वमा᳘युरियादि᳘ति तिलौ᳘दनम्पाचयित्वा स᳘र्प्पिष्मन्तमश्नीया᳘तामीश्वरौ ज᳘नयितवै[[!!]]॥
मूलम् - Weber
अ᳘थ य᳘ इछे᳘त्॥
दुहिता᳘ मे पण्डिता᳘ जायेत स᳘र्वमा᳘युरियादि᳘ति तिलौ᳘दनम् पाचयित्वा स᳘र्पिष्मन्तमश्नीया᳘तामीश्वरौ ज᳘नयितवै᳟ 24 ॥
मूलम् - विस्वरम्
अथ य इच्छेत् । दुहिता मे पण्डिता जायेत । सर्वमायुरियात् इति । तिलौदनं पाचयित्वा । सर्पिष्मन्तमश्नीयाताम् । ईश्वरौ जनयितवै ॥ १६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘दुहिता मे पण्डिता जायेत’ । दुहितुः पाण्डित्यं गृह-तन्त्र-विषयमेव । वेदे अनधिकारात् । ‘तिलौदनं’ कृसरम् ॥ १६ ॥
१७
विश्वास-प्रस्तुतिः
(वा ऽअ᳘) अ᳘थ य᳘ ऽइच्छे᳘त्॥
(त्पु) पुत्रो᳘ मे पण्डितो᳘ व्विजिगीथः᳘ समिति᳘ङ्गमः शूश्रू᳘षिताम्वा᳘चम्भा᳘षिता जायेत स᳘र्व्वान्वे᳘दान᳘नुब्ब्रुवीत स᳘र्व्वमा᳘युरियादि᳘ति माᳫँ᳭सौ᳘दनम्पाचयित्वा स᳘र्प्पिष्मन्तमश्नीया᳘तामीश्वरौ ज᳘नयितवा᳘ ऽऔक्ष्णे᳘न वा᳘ ऽऽर्षभेण वा॥
मूलम् - श्रीधरादि
(वा ऽअ᳘) अ᳘थ य᳘ ऽइच्छे᳘त्॥
(त्पु) पुत्रो᳘ मे पण्डितो᳘ व्विजिगीथः᳘ समिति᳘ङ्गमः शूश्रू᳘षिताम्वा᳘चम्भा᳘षिता जायेत स᳘र्व्वान्वे᳘दान᳘नुब्ब्रुवीत स᳘र्व्वमा᳘युरियादि᳘ति माᳫँ᳭सौ᳘दनम्पाचयित्वा स᳘र्प्पिष्मन्तमश्नीया᳘तामीश्वरौ ज᳘नयितवा᳘ ऽऔक्ष्णे᳘न वा᳘ ऽऽर्षभेण वा॥
मूलम् - Weber
अ᳘थ य᳘ इछे᳘त्॥
पुत्रो᳘ मे पण्डितो᳘ विजिगीथः᳘ समितिं᳘गमः शूश्रू᳘षितां वा᳘चम् भा᳘षिता जायेत स᳘र्वान्वे᳘दान᳘नुब्रुवीत स᳘र्वमा᳘युरियादि᳘ति मांसौ᳘दनम् पाचयित्वा स᳘र्पिष्मन्तमश्नीया᳘तामीश्वरौ ज᳘नयितवा᳘ 25 औक्ष्णे᳘न 26 वा᳘र्षभेण वा॥
मूलम् - विस्वरम्
अथ य इच्छेत् । पुत्रो मे पण्डितो विजिगीथः समितिङ्गमः शुश्रूषितां वाचं भाषिता जायेत । सर्वान् वेदाननुब्रुवीत । सर्वमायुरियात् इति । मांसौदनं पाचयित्वा । सर्पिष्मन्तमश्नीयाताम् । ईश्वरौ जनयितवै । औक्ष्णेन वा । आर्षभेण वा ॥ १७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
विविधं जिगीथः ‘विजिगीथः’ प्रख्यात इति यावत् । ‘समितिङ्गमः’ सभां गच्छतीति प्रगल्भः इत्य् एतत्-पाण्डित्यस्य पृथक् ग्रहणात् । ‘शुश्रूषितां’ श्रोतुमिष्टां रमणीयां ‘वाचं’ ‘भाषिता’ संस्कृताया अर्थवत्या वाचो भाषितेत्य् अर्थः । मांस-मिश्रमोदनं ‘मांसौदनं’ तन्-मांस-नियमार्थं ब्रवीति ‘औक्ष्णेन वा’ मांसेन । उक्षा सेचनसमर्थः पुङ्गवः । तदीयं मांसम् । ‘आर्षभेण वा’ । ऋषभस्ततो ऽप्यधिकवयाः । तदीयमार्षभं मांसम् । १७ ॥
१८
विश्वास-प्रस्तुतिः
(वा᳘ ऽथा) अ᳘थाभिप्प्रात᳘रेव᳘॥
स्थालीपाकावृता᳘ ऽऽज्यञ्चेष्टित्वा᳘ स्थालीपाक᳘स्योपघा᳘तञ्जु᳘होत्यग्न᳘ये स्वा᳘हा ऽनुमतये स्वा᳘हा देवा᳘य सवित्रे᳘ सत्य᳘प्प्रसवाय स्वाहे᳘ति हु᳘त्वोद्धृत्य प्प्रा᳘श्नाति प्प्राश्ये᳘तरस्याः प्प्र᳘यच्छति प्प्रक्षा᳘ल्य पाणी᳘ ऽउदपात्र᳘म्पूरयित्वा ते᳘नैनान्त्रि᳘र᳘भ्युक्षत्यु᳘त्तिष्ठातो᳘ व्विश्वावसो ऽन्या᳘मिच्छ प्प्रफ᳘र्व्यम्[[!!]]। स᳘ञ्जायाम्प᳘त्या सहे᳘ति॥

अ᳘थाभिप्रात᳘रेव᳟॥
स्थालीपाकावृता᳘ज्यं चेष्टित्वा᳘ स्थालीपाक᳘स्योपघा᳘तं जुहोत्यग्न᳘ये स्वाहा᳘नुमतये स्वा᳘हा देवा᳘य सवित्रे᳘ सत्य᳘प्रसवाय स्वाहे᳘ति हुॗत्वोद्धृत्य प्रा᳘श्नाति प्राश्ये᳘तरस्याः प्र᳘यछति प्रक्षा᳘ल्य पाणी᳘ उदपात्र᳘म् पूरयित्वा ते᳘नैनां त्रि᳘रॗभ्युक्षत्यु᳘तिष्ठातो᳘ विश्वावसोऽन्या᳘मिछ 27 प्रफर्व्य᳘म्॥
सं᳘ जायाम् प्र᳘त्या सहे᳘ति॥
मूलम् - विस्वरम्
अथाभिप्रातरेव । स्थालीपाकावृता आज्यं चेष्टित्वा । स्थालीपाकस्योपघातं जुहोति- “अग्नये स्वाहा । अनुमतये स्वाहा । देवाय सवित्रे प्रसवित्रे सत्यप्रसवाय स्वाहा”- इति । हुत्वा, उद्धृत्य, प्राश्नाति । प्राश्य, इतरस्याः प्रयच्छति । प्रक्षाल्य पाणी, उदपात्रं पूरयित्वा, तेनैनां त्रिरभ्युक्षति- “उत्तिष्ठातो विश्वावसो ऽन्यामिच्छ 28 प्रफर्व्यम् 29 । सं जायां पत्या सह”- इति ॥ १८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अथाभिप्रातरेव’ काले अवघात-निर्वृत्तान् तण्डुलानादाय ‘स्थालीपाकावृता’ ‘आज्यं चेष्टित्वा’ आज्यसंस्कारं कृत्वा चरुं श्रपयित्वा स्थालीपाकस्याहुतीः ‘जुहोति’ उपघातमुपहत्योपहत्य । “अग्नये स्वाहा” इत्याद्याः । गार्ह्यः सर्वो विधिर्द्रष्टव्यो ऽत्र । ‘हुत्वोद्धृत्य’ चरुशेषं ‘प्राश्नाति’ स्वयं ‘प्राश्य’ ‘इतरस्याः’ पत्न्यै ‘प्रयच्छति’ उच्छिष्टम् । ‘प्रक्षाल्य पाणी’ आचम्य ‘उदपात्रं पूरयित्वा’ । तेनोदकेनैनां ‘त्रिरभ्युक्षति’ अनेन मन्त्रेण “उत्तिष्ठातो विश्वावसो”- इति । सकृन्मन्त्रोच्चारणम् ॥ १८ ॥
१९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनामभि᳘पद्यते॥
(ते ऽमो) अमो ऽह᳘मस्मि सा त्वᳫँ᳭ सा त्व᳘मस्यमो᳘ ऽअह᳘म्। सा᳘माह᳘मस्मि ऽऋक्त्वन्द्यौ᳘रह᳘म्पृथिवी त्वम्[[!!]]॥ तावे᳘हि सᳫँ᳭रभा᳘वहै सह रे᳘तो दधा᳘वहै। पुᳫँ᳭से᳘ पुत्रा᳘य व्वि᳘त्तय ऽइ᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनामभि᳘पद्यते॥
(ते ऽमो) अमो ऽह᳘मस्मि सा त्वᳫँ᳭ सा त्व᳘मस्यमो᳘ ऽअह᳘म्। सा᳘माह᳘मस्मि ऽऋक्त्वन्द्यौ᳘रह᳘म्पृथिवी त्वम्[[!!]]॥ तावे᳘हि सᳫँ᳭रभा᳘वहै सह रे᳘तो दधा᳘वहै। पुᳫँ᳭से᳘ पुत्रा᳘य व्वि᳘त्तय ऽइ᳘ति॥
मूलम् - Weber
अ᳘थैनामभि᳘पद्यते॥
अमोऽह᳘मस्मि सा त्वᳫं सा त्व᳘मस्यमो᳘ अह᳘ᳫं᳘ सा᳘माह᳘मस्मि ऋक्त्वं द्यौ᳘रह᳘म् पृथिवी त्व᳘म्॥
तावे᳘हि संरभा᳘वहै सह रे᳘तो दधा᳘वहै॥
पुंसे᳘ पुत्रा᳘य वि᳘त्तय इ᳘ति 30 ॥
मूलम् - विस्वरम्
अथैनामभिपद्यते- “अमो ऽहमस्मि 28 सा 29 त्वं सा त्वमस्यमो ऽअहम् । सामाहमस्मि ऋक् त्वं द्यौरहं पृथिवी त्वम् ॥ तावेहि संरभावहै सह रेतो दधावहै । पुंसे पुत्राय वित्तये” 31 इति ॥ १९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अथैनामभिपद्यते’ । क्षीरौदनादि यथा ऽपत्यकामं भुक्त्वेति क्रमो ऽत्र द्रष्टव्यः । सन्निवेश-काले “अमो ऽहमस्मि” इत्यादि-मन्त्रेणाभिपद्यते ॥ १९ ॥
२०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थास्या ऽऊरू व्वि᳘हापयति॥
व्वि᳘जिहीथान्द्या᳘वापृथिवी ऽइ᳘ति त᳘स्यामर्थ᳘न्निष्ठा᳘प्य मु᳘खेन मु᳘खᳫँ᳭ सन्धा᳘य त्रि᳘रेनाम᳘नुलोमाम᳘नुमार्ष्टि व्वि᳘ष्णुर्य्योनिङ्कल्पयतु त्व᳘ष्टा रूपा᳘णि पिᳫँ᳭शतु। आ᳘सिञ्चतु प्प्रजा᳘पतिर्द्धाता ग᳘र्भ्भन्दधातु ते। ग᳘र्भ्भन्धेहि सिनीवालि ग᳘र्भ्भन्धेहि पृथुष्टुके। ग᳘र्भन्ते ऽअश्वि᳘नौ देवावा᳘धत्ताम्पुष्करस्र᳘जौ॥

अ᳘थास्या ऊरू वि᳘हापयति॥
वि᳘जिहीथां द्यावापृथिवी इ᳘ति त᳘स्यामर्थं᳘ निष्ठा᳘प्य मु᳘खेन मु᳘खᳫं 32 संधा᳘य त्रि᳘रेनाम᳘नुलोमाम᳘नुमार्ष्टि वि᳘ष्णुर्यो᳘निं कल्पयतु त्व᳘ष्टा रूपा᳘णि पिंशतु॥
आ᳘सिञ्चतु प्रजा᳘पतिर्धाता ग᳘र्भं दधातु ते॥
ग᳘र्भं धेहि सिनीवालि ग᳘र्भं धेहि पृथुष्टुके॥
ग᳘र्भं ते अश्वि᳘नौ देवावा᳘धत्ताम् 33 पुष्करस्र᳘जौ॥
मूलम् - विस्वरम्
अथ गर्भाधानम् ।
अथास्या ऊरू विहापयति- “विजिहीथां द्यावापृथिवी”- इति । तस्यामर्थं निष्ठाप्य । मुखेन मुखं सन्धाय । त्रिरेनामनुलोमामनुमार्ष्टि- “विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि 34 पिंशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥ गर्भं धेहि सिनीवालि 35 गर्भं धेहि पृथुष्टुके 36 । गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ २० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अथास्या ऊरू विहापयति’ विश्लेषयति । “विजिहीथां द्यावापृथिवी” इत्य् अनेन । तस्यामर्थमित्यादि पूर्ववत् । ‘त्रिरेनां’ शिरःप्रभृत्यनुलोमामनुमार्ष्टि । “व्विष्णुर्योनिम्” इत्यादि प्रतिमन्त्रम् । अन्ते ‘नाम गृह्णाति’ ‘असाविति‘ तस्याः ॥ २० ॥ २१ ॥
२१
विश्वास-प्रस्तुतिः
हिरण्य᳘यी ऽअर᳘णी॥
या᳘भ्यान्निर्म्म᳘न्थतामश्वि᳘नौ दे᳘वौ[[!!]]॥
त᳘न्ते ग᳘र्भ्भन्दधा᳘महे दशमे᳘ मासि सू᳘तवे॥ य᳘था ऽग्नि᳘गर्भ्भा पृथि᳘वी य᳘था द्यौरि᳘न्द्द्रेण गर्भ्भि᳘णी। व्वा᳘युर्द्दिशां[[!!]] य᳘था ग᳘र्भ्भ ऽए᳘वङ्ग᳘र्भ्भन्दधा᳘मि ते ऽसावि᳘ति ना᳘म गृह्णाति॥
मूलम् - श्रीधरादि
हिरण्य᳘यी ऽअर᳘णी॥
या᳘भ्यान्निर्म्म᳘न्थतामश्वि᳘नौ दे᳘वौ[[!!]]॥
त᳘न्ते ग᳘र्भ्भन्दधा᳘महे दशमे᳘ मासि सू᳘तवे॥ य᳘था ऽग्नि᳘गर्भ्भा पृथि᳘वी य᳘था द्यौरि᳘न्द्द्रेण गर्भ्भि᳘णी। व्वा᳘युर्द्दिशां[[!!]] य᳘था ग᳘र्भ्भ ऽए᳘वङ्ग᳘र्भ्भन्दधा᳘मि ते ऽसावि᳘ति ना᳘म गृह्णाति॥
मूलम् - Weber
हिरण्य᳘यी अर᳘णी॥
या᳘भ्यां निर्म᳘न्थतामश्वि᳘नौ देवौ᳟॥
तं᳘ ते ग᳘र्भं दधामहे दशमे᳘ मासि सू᳘तवे॥
य᳘थाग्नि᳘गर्भा पृथिवी य᳘था द्यौरि᳘न्द्रेण गर्भि᳘णी वायु᳘र्दिशां य᳘था ग᳘र्भ एवं ग᳘र्भं दधामि 37 तेऽसावि᳘ति ना᳘म गृह्णाति॥
मूलम् - विस्वरम्
हिरण्ययी अरणी याभ्यां निर्मन्थतामश्विनौ देवौ । तं ते गर्भं दधामहे दशमे मासि सूतवे 34 ॥ यथा ऽग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी । वायुर्दिशां यथा गर्भ एवं गर्भं दधामि ते” ॥ ‘असौ’ इति नाम गृह्णाति ॥ २१ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
[व्याख्यानं विंशतितमे]
२२
विश्वास-प्रस्तुतिः
सोष्य᳘न्तीमद्भि᳘र᳘भ्युक्षति॥
य᳘था व्वा᳘तः पुष्करि᳘णीᳫँ᳭ समीङ्ग᳘यति सर्व्व᳘तः। एवा᳘ ते ग᳘र्भ्भ ऽए᳘जतु सहा᳘वैतु जरा᳘युणा॥ इ᳘न्द्द्रस्याय᳘म्वज्ज्रः᳘ कृतः सा᳘र्ग्गडः स᳘परि᳘श्रयः। त᳘मिन्द्द्र नि᳘र्ज्जहि ग᳘र्भ्भेण सा᳘वरᳫँ᳭ सहे᳘ति॥
मूलम् - श्रीधरादि
सोष्य᳘न्तीमद्भि᳘र᳘भ्युक्षति॥
य᳘था व्वा᳘तः पुष्करि᳘णीᳫँ᳭ समीङ्ग᳘यति सर्व्व᳘तः। एवा᳘ ते ग᳘र्भ्भ ऽए᳘जतु सहा᳘वैतु जरा᳘युणा॥ इ᳘न्द्द्रस्याय᳘म्वज्ज्रः᳘ कृतः सा᳘र्ग्गडः स᳘परि᳘श्रयः। त᳘मिन्द्द्र नि᳘र्ज्जहि ग᳘र्भ्भेण सा᳘वरᳫँ᳭ सहे᳘ति॥
मूलम् - Weber
सोष्य᳘न्तीमद्भि᳘रॗभ्युक्षति॥
य᳘था वा᳘तः पुष्करि᳘णीᳫं समीङ्ग᳘यति सर्व᳘तः॥
एवा᳘ ते ग᳘र्भ ए᳘जतु सहा᳘वैतु जरा᳘युणा॥
इ᳘न्द्रस्यायं᳘ व्रजः᳘ कृतः सा᳘र्गडः स᳘परिश्रयः 38 ॥
त᳘मिन्द्र नि᳘र्जहि ग᳘र्भेण सा᳘वरᳫं सहे᳘ति॥
मूलम् - विस्वरम्
अथ सोष्यन्तीकर्म ।
सोष्यन्तीमद्भिरभ्युक्षति- “यथा वातः पुष्करिणीं समीङ्गयति 34 सर्वतः । एवा 35 ते गर्भ एजतु सहावैतु जरायुणा ॥ इन्द्रस्यायं वज्रः कृतः सार्गडः 36 सपरिश्रयः 39 । तमिन्द्र 40 निर्जहि गर्भेण सावरं 41 सह”- इति ॥ २२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘सोष्यन्तीमद्भिरभ्युक्षति’ प्रसूतिकाले सुख-प्रसवार्थं अनेन मन्त्रद्वयेन “यथा व्वातः पुष्करिणीं समीङ्गमयति सर्वतः । एवा ते गर्भ एजतु” इत्यादिना ॥ २२ ॥
२३
विश्वास-प्रस्तुतिः
जा᳘ते ऽग्नि᳘मुपसमाधा᳘य॥
(या) अङ्क᳘ ऽआधा᳘य कᳫँ᳭से᳘ पृषदाज्य᳘मानी᳘य पृषदाज्य᳘स्योपघा᳘तञ्जुहोत्यस्मि᳘न्त्सह᳘स्रम्पु᳘ष्यास᳘मेधमानः[[!!]] स्वे᳘ गृहे। अस्यो᳘पसन्द्याम्मा᳘ च्छैत्सीत्प्रज᳘या च पशुभिश्च[[!!]] स्वा᳘हा। म᳘यि प्प्रा᳘णांस्त्व᳘यि म᳘नसा जुहोमि स्वा᳘हा॥
मूलम् - श्रीधरादि
जा᳘ते ऽग्नि᳘मुपसमाधा᳘य॥
(या) अङ्क᳘ ऽआधा᳘य कᳫँ᳭से᳘ पृषदाज्य᳘मानी᳘य पृषदाज्य᳘स्योपघा᳘तञ्जुहोत्यस्मि᳘न्त्सह᳘स्रम्पु᳘ष्यास᳘मेधमानः[[!!]] स्वे᳘ गृहे। अस्यो᳘पसन्द्याम्मा᳘ च्छैत्सीत्प्रज᳘या च पशुभिश्च[[!!]] स्वा᳘हा। म᳘यि प्प्रा᳘णांस्त्व᳘यि म᳘नसा जुहोमि स्वा᳘हा॥
मूलम् - Weber
जाॗतेऽग्नि᳘मुपसमाधा᳘य॥
अङ्क᳘ आधा᳘य कंसे᳘ पृषदाज्य᳘मानी᳘य पृषदाज्य᳘स्योपघा᳘तं जुहोत्यस्मि᳘न्त्सह᳘स्रम् पुष्यासमे᳘धमानः स्व᳘गृहे अस्यो᳘पसद्याम् मा᳘ छैत्सीत्प्रज᳘या च पशु᳘भिश्च स्वा᳘हा म᳘यि प्राणांस्त्व᳘यि 42 म᳘नसा जुहोमि स्वा᳘हा॥
मूलम् - विस्वरम्
अथ जातकर्म ।
जाते अग्निमुपसमाधाय । अङ्के आधाय । कंसे पृषदाज्यमानीय । पृषदाज्यस्योपघातं जुहोति- “अस्मिन् सहस्रं 43 पुष्यासमेधमानः स्वे गृहे । अस्योपसन्द्याम्मा 44 च्छैत्सीत्प्रजया च पशुभिश्च स्वाहा ॥ मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा” ॥ २३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथ जातकर्म । ‘जाते ऽग्निमुपसमाधाय’ ‘अङ्क आधाय’ ‘कंसे पृषदाज्यमानीय’ सन्नीय संयोज्य ‘पृषदाज्यस्योपघातं जुहोति’ । “अस्मिन् सहस्रम्” इति । आवापस्थाने ॥ २३ ॥ २४ ॥
२४
विश्वास-प्रस्तुतिः
यत्क᳘र्म्मणा ऽत्यरीरिचम्[[!!]]॥
य᳘द्वा᳘ न्यून᳘मिहा᳘करम्।
अग्निष् ट᳘त् स्विष्टकृ᳘द् विद्वा᳘न्त्
स्विष्टᳫँ᳭ सु᳘हुतङ्करोतु[[!!]] स्वाहे᳘ति॥
मूलम् - श्रीधरादि
यत्क᳘र्म्मणा ऽत्यरीरिचम्[[!!]]॥
य᳘द्वा᳘ न्यून᳘मिहा᳘करम्। अग्निष्ट᳘त्स्विष्टकृ᳘द्विद्वा᳘न्त्स्विष्टᳫँ᳭ सु᳘हुतङ्करोतु[[!!]] स्वाहे᳘ति॥
मूलम् - Weber
यत्क᳘र्मणात्य᳘रीरिचम्॥
य᳘द्वाॗ न्यूनमिहा᳘करम् 45 अग्निष्ट᳘त्स्विष्टकृ᳘द्विद्वाॗन्त्स्विष्टᳫं सु᳘हुतं करोतु᳘ स्वाहे᳘ति॥
मूलम् - विस्वरम्
“यत्कर्मणा ऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृत् विद्वान् स्विष्टं सुहुतं करोतु स्वाहा”- इति ॥ २४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
[व्याख्यानं त्रयोविंशतितमे]
२५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थास्यायुष्य᳘ङ्करोति॥
द᳘क्षिणङ्क᳘र्ण्णमभिनिधा᳘य व्वाग्वागि᳘ति त्रिर᳘थास्य नामधे᳘य᳘ङ्करोति व्वे᳘दो ऽसी᳘ति त᳘दस्यैतद्गुह्यमेव[[!!]] ना᳘म स्याद᳘थ द᳘धि म᳘धु घृत᳘ᳫँ᳘ सᳫँ᳭सृज्या᳘नन्तर्हितेन जातरूपे᳘ण प्प्रा᳘शयति भूस्त्व᳘यि दधामि भु᳘वस्त्व᳘यि दधामि᳘ भूर्भ्भुवः᳘[[!!]] स्वः[[!!]] स᳘र्व्वन्त्व᳘यि दधामी᳘ति॥

अ᳘थास्यायुष्यं᳘ करोति॥
द᳘क्षिणं क᳘र्णमभिनिधा᳘य वाग्वागि᳘ति त्रिर᳘थास्य नामधे᳘यं करोति वे᳘दोऽसी᳘ति त᳘दस्यैतद्गु᳘ह्यमेव ना᳘म स्याद᳘थ द᳘धि म᳘धु घृत᳘ᳫं᳘ संसृज्या᳘नन्तर्हितेन जातरूपे᳘ण प्रा᳘शयति भूस्त्व᳘यि दधामि भु᳘वस्त्व᳘यि दधामि भूर्भु᳘वः स्वः᳘ स᳘र्वं त्व᳘यि 46 दधामी᳘ति॥
मूलम् - विस्वरम्
अथायुष्यकरणम् ।
अथास्यायुष्यं करोति- दक्षिणं कर्णमभिनिधाय, वाग्वागिति त्रिः । अथास्य नामधेयं करोति- “वेदो ऽसि” इति । तदस्यैतद् गुह्यमेव नाम स्यात् । अथ दधि-मधु-घृतं संसृज्य, अनन्तर्हितेन जात-रूपेण प्राशयति- “भूस्त्वयि दधामि । भुवस्त्वयि दधामि । स्वस्त्वयि दधामि । भूर्भुवः स्वः सर्वं त्वयि दधामि”- इति ॥ २५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अथास्यायुष्यं करोति’ । ‘अथास्य’ ‘दक्षिणं कर्णमभिनिधाय’ स्वमुखम् । ‘वाग्वागिति त्रिः’ जपेत् । ‘अथास्य नामधेयं करोति’ “वेदो ऽसि” इति । ‘तदस्यैतत्’ ‘गुह्यमेव’ गोप्यमेव नाम भवति “वेदः“ 47 इति । ‘अथ दधि मधु घृतं संसृज्य’ सन्नीय ‘अनन्तर्हितेन’ वस्त्व्-अन्तराव्यवहितेन ‘जातरूपेण’ हिरण्येन ‘प्राशयति’ “भूस्त्वयि दधामि” इत्य् एतैर्मन्त्रैः प्रत्येकम् ॥ २५ ॥
२६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनमभि᳘मृशति॥
(त्य᳘) अ᳘श्मा भवपरशु᳘र्भ्भव हि᳘रण्यमस्रुत᳘म्भव आ᳘त्मा वै᳘ पुत्रना᳘मा ऽसि स᳘ जीव शर᳘दः शतमि᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनमभि᳘मृशति॥
(त्य᳘) अ᳘श्मा भवपरशु᳘र्भ्भव हि᳘रण्यमस्रुत᳘म्भव आ᳘त्मा वै᳘ पुत्रना᳘मा ऽसि स᳘ जीव शर᳘दः शतमि᳘ति॥
मूलम् - Weber
अ᳘थैनमभि᳘मृशति॥
अ᳘श्मा भव परशु᳘र्भव हि᳘रण्यमस्रुत᳘म् भव आत्मा वै᳘ पुत्रना᳘मासि 48 स᳘ जीव शर᳘दः शतमि᳘ति॥
मूलम् - विस्वरम्
अथैनमभिमृशति- “अश्मा भव परशुर्भव हिरण्यमस्रुतं भव । आत्मा वै पुत्रनामा ऽसि स जीव शरदः शतम्”- इति ॥ २६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अथैनमभिमृशति’- “अश्मा भव” इत्यादिना । हे पुत्र ! ‘अश्मा भव’ पाषाणवत्स्थिरो भवेत्य् अर्थः । ‘परशुर्भव’ यथा अयःस्पृगच्छं यं स्पृशति तस्य सुवर्णत्वं करोति, तथा त्वमपि यं स्पृशसि करेण मस्तके तस्य सुवर्णत्वं सुब्रह्मण्यं कर्तुं समर्थो भवेत्य् अर्थः । किं च ‘हिरण्यमस्रुतं भव’ अक्षयं सुवर्णं परमात्मरूपं वित्तं भवेत्य् अर्थः । तदेवोक्तं- “नादिर्नान्तो न मध्यं वा यस्य वित्तस्य विद्यते । भोगे न च क्षयं याति तदेव वसु दीयताम्”- ( ) इति । तदेव स्फुटयति- “आत्मा वै पुत्रनामा ऽसि स जीव शरदः शतम्”- व्यवहारत इति ॥ २६ ॥
२७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थास्य मात᳘रमभि᳘मन्त्रयते॥
(त ऽइ᳘) इ᳘डा ऽसि मैत्रावरुणी व्वी᳘रे व्वीर᳘मजीजनथाः। सा त्व᳘म्वीर᳘वती भव᳘ या ऽस्मा᳘न्वीर᳘वतो᳘ ऽकरदि᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थास्य मात᳘रमभि᳘मन्त्रयते॥
(त ऽइ᳘) इ᳘डा ऽसि मैत्रावरुणी व्वी᳘रे व्वीर᳘मजीजनथाः। सा त्व᳘म्वीर᳘वती भव᳘ या ऽस्मा᳘न्वीर᳘वतो᳘ ऽकरदि᳘ति॥
मूलम् - Weber
अ᳘थास्य मात᳘रमभि᳘मन्त्रयते॥
इ᳘डासि मैत्रावरुणी वी᳘रे वीर᳘मजीजनथाः॥
सा त्वं᳘ वीर᳘वती भवॗ यास्मा᳘न्वीर᳘वतो᳘ऽकरदि᳘ति 49 ॥
मूलम् - विस्वरम्
अथास्य मातरमभिमन्त्रयते- “इडाऽसि 47 मैत्रावरुणी 50 वीरे वीरमजीजनथाः । सा त्वं वीरवती भव या ऽस्मान् वीरवतो ऽकरत्”- इति ॥ २७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अथास्य मातरमभिमन्त्रयते’- “इडा ऽसि” इत्य् अनेन मन्त्रेण ॥ २७ ॥
२८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनम्मात्रे᳘ प्प्रदा᳘य स्त᳘नम्प्र᳘यच्छति॥
य᳘स्ते स्त᳘नः शशयो यो᳘ मयोभूर्य्यो᳘ रत्नधा᳘ व्वसुविद्यः᳘ सुद᳘त्रः। ये᳘न व्वि᳘श्वा पु᳘ष्यसि व्वा᳘र्य्याणि स᳘रस्वति त᳘मिह धा᳘तवे ऽकरि᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनम्मात्रे᳘ प्प्रदा᳘य स्त᳘नम्प्र᳘यच्छति॥
य᳘स्ते स्त᳘नः शशयो यो᳘ मयोभूर्य्यो᳘ रत्नधा᳘ व्वसुविद्यः᳘ सुद᳘त्रः। ये᳘न व्वि᳘श्वा पु᳘ष्यसि व्वा᳘र्य्याणि स᳘रस्वति त᳘मिह धा᳘तवे ऽकरि᳘ति॥
मूलम् - Weber
अ᳘थैनम् मात्रे᳘ प्रदा᳘य स्त᳘नम् प्र᳘यछति॥
य᳘स्ते स्त᳘नः शशयो यो᳘ मयोभूर्यो᳘ रत्नधा᳘ वसुविद्यः᳘ सुद᳘त्रः॥
ये᳘न वि᳘श्वा पु᳘ष्यसि वा᳘र्याणि स᳘रस्वति त᳘मिह धा᳘तवे करि᳘ति॥
मूलम् - विस्वरम्
अथ स्तन्यप्रदानम् ।
अथैनं मात्रे प्रदाय स्तनं प्रयच्छति- “यस्ते स्तनः शशयो 47 यो मयो भूर्यो रत्नधा वसुवित् 51 यः सुदत्रः 52 । येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे ऽकः”- (वा० सं० ३८ । ५) इति ॥ २८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अथैनं मात्रे प्रदाय’ स्वाङ्कस्थम् । ‘स्तनम्प्रयच्छति’- “यस्ते स्तनः” इत्यादिमन्त्रेण 47 ॥ २८ ॥
२९
विश्वास-प्रस्तुतिः
तम्वा᳘ ऽएत᳘माहुः॥
(र᳘) अ᳘तिपिता बता᳘भूर᳘तिपितामहो बता᳘भूः। परमा᳘म्बत का᳘ष्ठाम्प्रा᳘प श्रिया य᳘शसा ब्ब्रह्मवर्च्चसे᳘न य᳘ ऽएवम्वि᳘दो ब्ब्राह्मण᳘स्य पुत्रो जा᳘यते॥
मूलम् - श्रीधरादि
तम्वा᳘ ऽएत᳘माहुः॥
(र᳘) अ᳘तिपिता बता᳘भूर᳘तिपितामहो बता᳘भूः। परमा᳘म्बत का᳘ष्ठाम्प्रा᳘प श्रिया य᳘शसा ब्ब्रह्मवर्च्चसे᳘न य᳘ ऽएवम्वि᳘दो ब्ब्राह्मण᳘स्य पुत्रो जा᳘यते॥
मूलम् - Weber
तं वा एत᳘माहुः॥
अ᳘तिपिता बता᳘भूर᳘तिपितामहो बता᳘भूः परमा᳘म् बत का᳘ष्ठाम् प्रा᳘प श्रिया य᳘शसा ब्रह्मवर्चसे᳘न य᳘ एवंवि᳘दो ब्राह्मण᳘स्य पुत्रो जा᳘यत इ᳘ति 53 ॥
मूलम् - विस्वरम्
तं वा एतमाहुः । अतिपिता बता ऽभूरतिपितामहो बता ऽभूः । परमां बत काष्ठां प्राप श्रिया यशसा ब्रह्मवर्चसेन । यः एवंविदो ब्राह्मणस्य पुत्रो जायते ॥ २९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तं वा एतमाहुरिति । अनेन विधिना 51 मन्त्रवद्-गर्भाधान-जातकर्मादिना जातः संस्कृतश्च पुत्रः पितरं पितामहं वा अतिशेते । ‘बतेति’ विस्मये । ‘श्रिया यशसा ब्रह्मवर्चसेन’ च ‘परमां काष्ठां’ निष्ठां ‘प्राप’ इत्य् एवं स्तुत्यो भवतीत्य् अर्थः । यस्य च ‘एवंविदो ब्राह्मणस्य पुत्रो जायते’ । स चैवं स्तुत्यो भवतीत्यध्याहारः । इति ॥ २९ ॥
३०
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ व्वᳫँ᳭शः[[!!]]॥
(स्त᳘) त᳘दिद᳘म्वयम्भा᳘रद्वाजी पु᳘त्राद्भा᳘रद्वाजीपु᳘त्रो व्वा᳘त्सीमाण्डवीपु᳘त्राद्वा᳘त्सीमाण्डवीपु᳘त्रः पा᳘राशरीपु᳘त्रात्पा᳘राशरीपु᳘त्रो गा᳘र्ग्गीपु᳘त्राद्गा᳘र्ग्गीपु᳘त्रः पा᳘राशरीकौण्डिनीपु᳘त्रात्पा᳘राशरीकौण्डिनीपु᳘त्रो गा᳘र्ग्गीपु᳘त्राद्गा᳘र्ग्गीपुत्रो[[!!]] गा᳘र्ग्गीपु᳘त्राद्गा᳘र्ग्गीपुत्रो[[!!]] बा᳘डेयीपुत्राद्बा᳘डेयीपु᳘त्रो[[!!]] मौ᳘षिकीपुत्रान्मौ᳘षिकीपु᳘त्रो[[!!]] हा᳘रिकर्ण्णीपुत्राद्धा᳘रिकर्ण्णीपु᳘त्रो[[!!]] भा᳘रद्वाजीपुत्राद्भा᳘रद्वाजीपु᳘त्रः[[!!]] पै᳘ङ्गीपुत्रात्पै᳘ङ्गीपु᳘त्रः[[!!]] शौ᳘नकीपु᳘त्राच्छौ᳘नकीपुत्रः[[!!]]॥

अ᳘थ वंशः᳟॥
त᳘दिदं᳘ वयम् भा᳘रद्वाजीपु᳘त्राद्भा᳘रद्वाजीपु᳘त्रो वा᳘त्सीमाण्डवीपु᳘त्राद्वा᳘त्सीमाण्डवीपु᳘त्रः पा᳘राशरीपु᳘त्रात्पा᳘राशरीपु᳘त्रो गा᳘र्गीपु᳘त्राद्गा᳘र्गीपु᳘त्रः पा᳘राशरीकौण्डिनीपु᳘त्रात्पा᳘राशरीकौण्डिनीपु᳘त्रो गा᳘र्गीपु᳘त्राद्गा᳘र्गीपु᳘त्रो गा᳘र्गीपु᳘त्राद्गा᳘र्गीपु᳘त्रो बा᳘डेयीपु᳘त्राद्बा᳘डेयीपु᳘त्रो 54 मौ᳘षिकीपु᳘त्रान्मौ᳘षिकीपु᳘त्रो हा᳘रिकर्णीपु᳘त्राद्धा᳘रिकर्णीपु᳘त्रो भा᳘रद्वाजीपु᳘त्राद्भा᳘रद्वाजीपु᳘त्रः पै᳘ङ्गीपु᳘त्रात्पै᳘ङ्गीपु᳘त्रः शौ᳘नकीपु᳘त्राछौ᳘नकीपु᳘त्रः॥
मूलम् - विस्वरम्
अथ स्त्रीप्रधानो विद्यावंशः ।
अथ वंशः । तदिदम् १ वयं भारद्वाजीपुत्रात् । २ भारद्वाजीपुत्रो वात्सीमाण्डवीपुत्रात् । ३ वात्सीमाण्डवीपुत्रः पाराशरीपुत्रात् । ४ पाराशरीपुत्रो गार्गीपुत्रात् । ५ गार्गीपुत्रः पाराशरीकौण्डिनीपुत्रात् । ६ पाराशरीकौण्डिनीपुत्रो गार्गीपुत्रात् । ७ गार्गीपुत्रो गार्गीपुत्रात् । ८ गार्गीपुत्रो बाडेयीपुत्रात् । ९ बाडेयीपुत्रो मौषिकीपुत्रात् । १० मौषिकीपुत्रो हारिकर्णीपुत्रात् । ११ हारिकर्णीपुत्रो भारद्वाजीपुत्रात् । १२ भारद्वाजीपुत्रः पैङ्गीपुत्रात् । १३ पैङ्गीपुत्रः शौनकीपुत्रात् । १४ शौनकीपुत्रः- ॥ ३० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथानन्तरं समस्त-प्रवचन-वंशः स्त्री-प्राधान्यात् गुणवान् पुत्रो भवतीति प्रस्तुतम् । अतः स्त्री-विशेषणेनैव 51 पुत्रविशेषणात् आचार्य-परम्परा कीर्त्यते । आदित्यमारभ्य यावद्भारद्वाजीपुत्रः तावदधोमुखो नियताचार्य-पर्व-क्रमः ‘वंशः’ समस्तस्यैव प्रवचनस्य न त्व् एकस्य खिलकाण्डस्य । तस्य च सर्व-वेद-शेषत्वावधारणात् । आदित्याल्लब्धान्यादित्यानि । तानीमानि ‘शुक्लानि’ अव्यामिश्राणि ब्राह्मणेन । अथवा यानि ‘इमानि यजूंषि’ तानीमानि ‘शुक्लानि’ शुद्धानि ‘वाजसनेयेन याज्ञवल्क्येन आख्यायन्ते’ 55 प्रवचन-विषयीक्रियन्ते इति ॥ ३०-३३ ॥
दृष्टिमात्रं भवेद्दृश्यं कैवल्यं तत्परं पदम् ।
वेदान्त-सार-सर्वस्वं स्व-संवेद्यं शिवोदितम् ॥ १ ॥
अहं ब्रह्मेत्येतन्मननमपि विप्लाव्य सहसा समाध्यन्तं सर्वं स्वयमपि गिलत्युद्भटतया ।
परानन्दः को ऽपि प्रकट-पद-भूम्य्-एक-विजयी परस्तुर्यातीतो जयति हि विवेकानवसरः ॥ २ ॥ इति ॥
इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठकानिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे षष्ठे ऽध्याये चतुर्थं पुत्रमन्थ-कर्म-ब्राह्मणं परिसमाप्तम् ॥ १४ । (९) ६ । ४ ॥
इति बृहदारण्यकोपनिषद्यन्तिमं खिलकाण्डं परिसमाप्तम् ॥ १४ । ३ ॥
३१
विश्वास-प्रस्तुतिः
का᳘श्यपीबालाक्यामाठरीपुत्रात्॥ (त्का᳘) का᳘श्यपीबालाक्यामाठरीपु᳘त्रः कौ᳘त्सीपुत्रात्कौ᳘त्सीपु᳘त्रो[[!!]] बौ᳘धीपुत्राद्बौ᳘धीपुत्रो[[!!]] शा᳘लङ्कायनीपु᳘त्राच्छा᳘लङ्कायनीपु᳘त्रो व्वा᳘र्षगणीपु᳘त्राद्वार्षगणीपु᳘त्रो गौ᳘तमीपु᳘त्राद्गौ᳘तमीपु᳘त्र ऽआ᳘त्रेयीपुत्रादा᳘त्रेयीपु᳘त्रो गौ᳘तमीपुत्राद्गौ᳘तमीपु᳘त्रो[[!!]] व्वा᳘त्सीपु᳘त्राद्वा᳘त्सीपु᳘त्रो भा᳘रद्वाजीपुत्राद्भा᳘रद्वाजीपु᳘त्रः[[!!]] पा᳘राशरीपु᳘त्रात्पा᳘राशरीपु᳘त्रो व्वा᳘र्क्कारुणीपु᳘त्राद्वा᳘र्क्कारुणीपु᳘त्र ऽआ᳘र्त्तभागीपु᳘त्रादा᳘र्त्तभागीपु᳘त्रः शौ᳘ङ्गीपु᳘त्राच्छौ᳘ङ्गीपु᳘त्रः सा᳘ङ्कृतीपु᳘त्रात्सा᳘ङ्कृतीपुत्रः[[!!]]॥

का᳘श्यपीबालाक्यामाठरीपु᳘त्रात्का᳘श्यपीबालाक्यामाठरीपु᳘त्रः कौ᳘त्सीपु᳘त्रात्कौ᳘त्सीपु᳘त्रो बौ᳘धीपु᳘त्राद्बौ᳘धीपु᳘त्रो 56 शा᳘लङ्कायनीपु᳘त्राछा᳘लन्कायनीपु᳘त्रो वा᳘र्षगणीपु᳘त्राद्वार्षगणीपु᳘त्रो गौ᳘तमीपु᳘त्राद्गौ᳘तमीपु᳘त्र आ᳘त्रेयीपु᳘त्रादा᳘त्रेयीपु᳘त्रो गौ᳘तमीपु᳘त्राद्गौ᳘तमीपु᳘त्रो वा᳘त्सीपु᳘त्राद्वा᳘त्सीपु᳘त्रो भा᳘रद्वाजीपु᳘त्राद्भा᳘रद्वाजीपु᳘त्रः पा᳘राशरीपु᳘त्रात्पा᳘राशरीपु᳘त्रो वा᳘र्कारुणीपु᳘त्राद्वा᳘र्कारुणीपु᳘त्र आ᳘र्तभागीपु᳘त्रादा᳘र्तभागीपु᳘त्रः शौ᳘ङ्गीपु᳘त्राछौ᳘ङ्गीपु᳘त्रः सां᳘कृतीपु᳘त्रात्सां᳘कृतीपु᳘त्रः॥
मूलम् - विस्वरम्
काश्यपीबालाक्यामाठरीपुत्रात् । १५ काश्यपीबालाक्यामाठरीपुत्रः कौत्सीपुत्रात् । १६ कौत्सीपुत्रो बौधीपुत्रात् । १७ बौधीपुत्रः शालङ्कायनीपुत्रात् । १८ शालङ्कायनीपुत्रो वार्षगणीपुत्रात् । १९ वार्षगणीपुत्रो गौतमीपुत्रात् । २० गौतमीपुत्र आत्रेयीपुत्रात् । २१ आत्रेयीपुत्रो गौतमीपुत्रात् । २२ गौतमीपुत्रो वात्सीपुत्रात् । २३ वात्सीपुत्रो भारद्वाजीपुत्रात् । २४ भारद्वाजीपुत्रः पाराशरीपुत्रात् । २५ पाराशरीपुत्रो वार्क्कारूणीपुत्रात् । २६ वार्कारूणीपुत्र आर्तभागीपुत्रात् । २७ आर्तभागीपुत्रः शौङ्गीपुत्रात् । २८ शौङ्गीपुत्रः साङ्कृतीपुत्रात् । २९ साङ्कृतीपुत्रः- ॥ ३१ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
[व्याख्यानं त्रिंशत्तमे]
३२
विश्वास-प्रस्तुतिः
(ऽ) आ᳘लम्बीपु᳘त्रात्॥
(दा᳘) आ᳘लम्बीपु᳘त्र ऽआ᳘लम्बायनीपु᳘त्रादा᳘लम्बायनीपु᳘त्रो जा᳘यन्तीपु᳘त्राज्जा᳘यन्तीपु᳘त्रो मा᳘ण्डूकायनीपु᳘त्रान्मा᳘ण्डूकायनीपु᳘त्रो मा᳘ण्डूकीपु᳘त्रान्मा᳘ण्डूकीपु᳘त्रः शा᳘ण्डिलीपु᳘त्राच्छा᳘ण्डिलीपु᳘त्रो रा᳘थीतरीपु᳘त्राद्द्रा᳘थीतरीपु᳘त्रः क्रौ᳘ञ्चिकीपु᳘त्राभ्याङ्क्रौ᳘ञ्चिकीपु᳘त्रौ बै᳘दभृतीपुत्राद्बै᳘दभृतीपु᳘त्रो[[!!]] भा᳘लुकीपु᳘त्राद्भा᳘लुकीपुत्रः[[!!]] प्प्रा᳘चीनयोगीपु᳘त्रात्प्रा᳘चीनयोगीपुत्रः[[!!]] सा᳘ञ्जीवीपुत्रात्सा᳘ञ्जीवीपुत्रः[[!!]] का᳘र्शकेयीपु᳘त्रात्का᳘र्शकेयीपु᳘त्रः॥

आ᳘लम्बीपु᳘त्रात्॥
आ᳘लम्बीपु᳘त्र आ᳘लम्बायनीपु᳘त्रादा᳘लम्बायनीपुत्रो जा᳘यन्तीपु᳘त्राज्जा᳘यन्तीपु᳘त्रो मा᳘ण्डूकायनीपु᳘त्रान्मा᳘ण्डूकायनीपु᳘त्रो मा᳘ण्डूकीपु᳘त्रान्मा᳘ण्डूकीपु᳘त्रः 57 शा᳘ण्डिलीपु᳘त्राछा᳘ण्डिलीपु᳘त्रो रा᳘थीतरीपु᳘त्राद्रा᳘थीतरीपु᳘त्रः क्रौ᳘ञ्चिकीपु᳘त्राभ्यां क्रौ᳘ञ्चिकीपु᳘त्रौ वै᳘दभृतीपु᳘त्राद्वै᳘दभृतीपु᳘त्रो भा᳘लुकीपु᳘त्राद्भा᳘लुकीपु᳘त्रः प्रा᳘चीनयोगीपु᳘त्रात्प्रा᳘चीनयोगीपु᳘त्रः सां᳘जीवीपु᳘त्रात्सां᳘जीवीपु᳘त्रः का᳘र्शकेयीपु᳘त्रात्का᳘र्शकेयीपु᳘त्रः॥
मूलम् - विस्वरम्
आलम्बीपुत्रात् । ३० आलम्बीपुत्र आलम्बायनीपुत्रात् । ३१ आलम्बायनीपुत्रो जायन्तीपुत्रात् । ३२ जायन्तीपुत्रो माण्डूकायनीपुत्रात् । ३३ माण्डूकायनीपुत्रो माण्डूकीपुत्रात् । ३४ माण्डूकीपुत्रः शाण्डिलीपुत्रात् । ३५ शाण्डिलीपुत्रो राथीतरीपुत्रात् । ३६ राथीतरीपुत्रः क्रौञ्चिकीपुत्राभ्याम् । ३७ क्रौञ्चिकीपुत्रौ बैदभृतीपुत्रात् । ३८ बैदभृतीपुत्रो भालुकीपुत्रात् । ३९ भालुकीपुत्रः प्राचिनयोगीपुत्रात् । ४० प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात् । ४१ साञ्जीवीपुत्रः कार्शकेयीपुत्रात् । ४२ कार्शकीयीपुत्रः॥ ३२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
[व्याख्यानं त्रिंशत्तमे]
३३
विश्वास-प्रस्तुतिः
प्प्रा᳘श्नीपु᳘त्रादा᳘सुरिवा᳘सिनः॥ प्प्राश्नीपुत्र᳘ ऽआसुरायणा᳘दासुरायण᳘ ऽआसुरे᳘रासुरि᳘र्य्याज्ञवल्क्या᳘द्याज्ञवल्क्य᳘ ऽउद्दा᳘लकादुद्दा᳘लको ऽरुणाद᳘रुण ऽउ᳘पवेशेरु᳘पवेशिः[[!!]] कु᳘श्रेः कु᳘श्रिर्व्वाजश्र᳘वसो व्वाजश्र᳘वा जिह्वा᳘वतो बा᳘ध्योगाज्जिह्वा᳘वान्बा᳘ध्योगो᳘ ऽसिताद्वा᳘र्षगणाद᳘सितो व्वा᳘र्षगणो ह᳘रितात्क᳘श्यपाद्ध᳘रितः क᳘श्यपः शि᳘ल्पात्क᳘श्यपाच्छि᳘ल्पः क᳘श्यपः क᳘श्यपान्नै᳘ध्रुवेः क᳘श्यपो नै᳘ध्रुविर्व्वा᳘चो वा᳘गम्भि᳘ण्या ऽअम्भि᳘ण्यादित्या᳘दादित्या᳘नीमा᳘नि शुक्ला᳘नि य᳘जूᳫँ᳭षि व्वाजसनेये᳘न याज्ञवल्क्ये᳘नाख्याय᳘न्ते[[!!]]॥

प्रा᳘श्नीपु᳘त्रात्॥
आ᳘सुरिवा᳘सिनः प्राश्नीपुत्र᳘ आसुरायणा᳘दासुरायण᳘ आसुरे᳘रासुरि᳘र्याज्ञवल्क्या᳘द्याज्ञवल्क्य᳘ उद्दा᳘लकादुद्दा᳘लको᳘ऽरुणाद᳘रुण उ᳘पवेशेरु᳘पवेशिः कु᳘श्रेः कु᳘श्रिर्वाजश्र᳘वसो वाजश्र᳘वा जिह्वा᳘वतो बा᳘ध्योगाज्जिह्वाया बा᳘ध्योगो᳘ऽसिताद्वा᳘र्षगणाद᳘सितो वा᳘र्षगणो ह᳘रितात्क᳘श्यपाद्ध᳘रितः क᳘श्यपः शि᳘ल्पात्क᳘श्यपाछि᳘ल्पः क᳘श्यपः क᳘श्यपान्नै᳘ध्रुवेः क᳘श्यपो नै᳘ध्रुविर्वा᳘चो वा᳘गम्भि᳘ण्या अम्भि᳘ण्यादित्या᳘दादित्या᳘नीमा᳘नि शुक्ला᳘नि य᳘जूंषि वाजसनेये᳘न याज्ञवल्क्येना᳘ख्यायन्ते 58 ॥
मूलम् - विस्वरम्
प्राश्नीपुत्रादासुरिवासिनः ४३ प्राश्नीपुत्र आसुरायणात् । ४४ आसुरायण आसुरेः । ४५ आसुरिर्याज्ञवल्क्यात् । ४६ याज्ञवल्क्य उद्दालकात् । ४७ उद्दालको ऽरुणात् । ४८ अरुण उपवेशेः । ४९ उपवेशिः कुश्रेः । ५० कुश्रिर्वाजश्रवसः । ५१ वाजश्रवा जिह्वावतो बाध्योगात् । ५२ जिह्वावान् बाध्योगो ऽसिताद्वार्षगणात् । ५३ असितो वार्षगणो हरितात् कश्यपात् । ५४ हरितः कश्यपः शिल्पात्कश्यपात् । ५५ शिल्पः कश्यपः कश्यपान्नैध्रुवेः । ५६ कश्यपो नैध्रुविर्वाचः । ५७ वागम्भिण्याः । ५८ अम्भिण्यादित्यात् । आदित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते ॥ ३३ ॥
अस्मिंश्चतुर्थे काण्डे बृहदारण्यकोपनिषदि यद्यपि श्रीसायणाचार्यकृतं भाष्यं नास्ति तथापि आदित आरभ्य औपनिषदं शतपथब्राह्मणे भूयस्त्वेन श्रीसायणाचार्यकृतं भाष्यमेवास्ते ऽतः सर्वेषु विषमपृष्ठेषु एष एव शिरोलेखश्छत्रिन्यायेन स्थापित इति ॥
श्रीमद्वासुदेवब्रह्मभगवान्
[व्याख्यानं त्रिंशत्तमे]
-
पृथिव्या आपो᳘ AM. - ibid. पुष्प᳘ acc.! ↩︎
-
स᳘ स्त्रिय᳘ᳫ ससृजे त᳘स्मास्त्रि᳘यम᳘ध उ᳘पासीत AM. ↩︎
-
शतरूपाख्याम्, इति द्विवेदगङ्गः ॥ ↩︎
-
वे᳘दिरु᳘पस्थो लोमा᳘नि समिद्धो᳘, म᳘विद्वानधोपहासं च᳘रत्यास्य᳘ स्त्रियः᳘ AM. ↩︎
-
इदम᳘विद्वा᳘ᳫसो᳘ (सो M.) ऽधोपहासं AM. ↩︎
-
यन्मे᳘ऽद्य रे᳘तः, धीर᳘प्यसरद्यद᳘पः, पु᳘नर्मामैत्विन्द्रियं धिष्ल्या᳘, न्तामित्य᳘नामिकाङ्गुष्ठा᳘भ्या, स्तनौ᳘ वा भ्रुवौ᳘ AM. ↩︎
-
सु᳘कृतमि᳘ति AM. ↩︎
-
एषा स्त्री᳘णां य᳘न्म, पाणिना वो᳘पहत्या᳘तिक्रामेदि᳘न्द्रियेण AM. ↩︎
-
अर्थं᳘, मुखे᳘न मुख᳘ᳫ AM. ↩︎
-
संधायो᳘पस्थमस्या, यादधिजा᳘यसे स᳘ त्वमङ्गकषायो᳘ऽसि AM. ↩︎
-
अर्थं᳘, मुखे᳘न मुख᳘ᳫ AM. ↩︎
-
is left out in A, but merely by chance as the numeration of the कण्डिका-s shows ) द᳘धीते᳘ति, संधाया᳘भिप्राण्या᳘पान्यादि᳘न्द्रियेण M. ↩︎
-
अर्थं᳘, मुखे᳘न मुख᳘ᳫ AM. ↩︎
-
द᳘धीते᳘ति, संधाया᳘पान्या᳘भिप्राण्यादि᳘न्द्रियेण AM. ↩︎
-
जाया᳘यै जारः᳘ स्यात् AM. - ibid. म᳘म समिद्धे᳘ऽहौषी AM. throughout. - ibid. य᳘ एवंवि᳘द्ब्राह्मणः A. यमेवंविद्ब्राह्मणं D. ↩︎
-
आशा प्रार्थना वाचा यत्प्रतिज्ञातं कर्मणा च नोपपादितं तस्य परीक्षा पराकाशः । इति द्विवेदगङ्गः । ↩︎
-
जा᳘यामार्त, कᳫसे न पिबेद᳘हतवा᳘सा᳘ नैनां वृ᳘षलो न᳘ वृषल्यु᳘प, व्रीही᳘नवघा᳘तयेत् AM. ↩︎
-
वे᳘दमनु᳘ब्रुवीत AM. - ibid. क्षीरौ᳘दन acc.! ↩︎
-
पुत्रो मे᳘ (दुहिता मे᳘ in १६), पा᳘चयित्वा, मश्नीया᳘तामीश्वरौ ज᳘नयि᳘तवै AM. ↩︎
-
जाये᳘त द्वौ᳘ वेदा᳘वनु᳘ब्रुवीत AM. - ibid. दध्यौदनं D. ? ↩︎
-
त्री᳘न्वेदा᳘ननु᳘ब्रु AM. ↩︎
-
पुत्रो मे᳘ (दुहिता मे᳘ in १६), पा᳘चयित्वा, मश्नीया᳘तामीश्वरौ ज᳘नयि᳘तवै AM. ↩︎
-
अन्यस्य क्षीरादेर्निवृत्त्यर्थमित्य् अर्थः । ↩︎
-
पुत्रो मे᳘ (दुहिता मे᳘ in १६), पा᳘चयित्वा, मश्नीया᳘तामीश्वरौ ज᳘नयि᳘तवै AM. ↩︎
-
पुत्रो मे᳘ (दुहिता मे᳘ in १६), पा᳘चयित्वा, मश्नीया᳘तामीश्वरौ ज᳘नयि᳘तवै AM. ↩︎
-
शुश्रू᳘षितां acc.! - ibid. जा᳘येत स᳘र्वान्वे᳘दाननु᳘ब्रु AM. - ibid. औक्ष्ण᳘ acc.! ↩︎
-
स्थालीपाकावृ᳘ताज्यं᳘ चेष्टित्वा स्था᳘लीपाक᳘स्यो, स्वा᳘हनुमत᳘ये, पा᳘णी ऽउदपात्रं पू᳘रयित्वा, ष्ठातो विश्वा᳘वसो᳘ऽन्यामिछ AM. ↩︎
-
‘प्रफर्व्यम्’ प्रकर्षेण गम्या तां प्रथमयुवतिं तरुणीमित्य् अर्थः । ↩︎ ↩︎
-
मभिप᳘द्यते᳘ । ऽमो (अमो M.) ऽहमस्मि सा᳘ त्वᳫ, सा᳘माहमस्मि ऽऋ᳘त्कं द्यौ᳘रहं पृथिवी᳘ त्वम्, ता᳘वेहि, स᳘ह रेतो दधा᳘वहै पु᳘ᳫसे पुत्राय᳘ वित्तयऽइ᳘ति AM. – ibid. Read द᳘धावहै. ↩︎
-
वित्तिर्लाभ इति । ↩︎
-
अर्थं᳘, मुखे᳘न मुख᳘ᳫ AM. ↩︎
-
ऊरू वि᳘हापयति AM. - ibid. त्रिरेणामनु D. – ibid. र्योनिं क᳘ल्पयतु, पि᳘ᳫशतु, र्धाता᳘ गर्भं᳘, सिनीवा᳘लि, पृथु᳘ष्टुके, दे᳘वावा᳘धत्तां AM. ↩︎
-
रूपाणि पिंशतु’ अवयवान् विभागशो दर्शनयोग्यान्करोत्विति भावः । ↩︎ ↩︎ ↩︎
-
‘पृथुष्टुके’ पृथुर्विस्तीर्णा स्तुका स्तुतिर्यस्यास्तत्सम्बुद्धौ । तद्रूपेण वर्तमाने इत्य् अर्थः । ↩︎ ↩︎
-
दे᳘वौ, दधा᳘महे द᳘शमे, पृथि᳘वी, ग᳘र्भिणी, वा᳘युर्दिशां यथा गर्भ ए᳘वं ग᳘र्भं दधा᳘मि AM. ↩︎
-
सो᳘ष्यन्तीमद्भि᳘रभ्यु᳘क्षति, पुष्क᳘रिणीᳫ समी᳘ङ्गयति (मी᳘ङ्क A), ए᳘वा ते, स᳘हावैतु, सपरि᳘श्रयः AM. ↩︎
-
‘सपरिश्रयः’ परिवेष्टनसहितः । ↩︎
-
तथा ऽस्मिन्मन्त्रे इन्द्र-शब्दो वायु-वाचकः । वायुश्चात्र प्रसूति-कालीयः । ↩︎
-
सावरं मांसपेशी तया सह । ↩︎
-
क᳘ᳫसे, पु᳘ष्यास AM. - ibid. उपसंद्यां D. ibid. मा छै᳘त्सी (क्षै᳘त्सी M.), म᳘यि प्रा᳘णांस्त्व᳘यि AM. ↩︎
-
सहस्रम्पुष्यासम्’ अनेकपोषकः । ↩︎
-
‘उपसन्द्यां’ सन्ततौ । ‘मा च्छैत्सीत्’ मा विच्छिन्ना भूत् । इति । ↩︎
-
र्मणा᳘त्यरीरिचम् । य᳘द्वा न्यून᳘मिहा᳘करम् AM. ↩︎
-
आयुष्यं᳘ acc.! - ibid. नामधेयं᳘ करोति, स्यैत᳘द्गुह्य᳘मेव᳘ नाम᳘ स्या, दधामि स्वस्त्व᳘यि AM. ↩︎
-
‘वेदः’ अनुभवः सर्वस्य निजं स्वरूपं परमात्म-लक्षणम् । इति द्विवेदगङ्गो व्याचख्यौ ॥ ↩︎ ↩︎ ↩︎ ↩︎
-
हि᳘रण्यमश्नुतं᳘ A., स्तूतं D., स्रुतं᳘ M. and पारस्कर १.१६. – ibid. आ᳘त्मा वै पुत्रनामा᳘सि AM. ↩︎
-
मैत्रा᳘वरुणी, वीर᳘मजी᳘जनथाः, वीर᳘वती᳘ भव या AM. ↩︎
-
‘मैत्रावरुणी’ मैत्रावरुणो वसिष्ठस्य भार्या अरुन्धती, यद्वा मैत्रावरुणर्त्विग्विषयिणी, यद्वा मित्रावरुणयोरुत्पन्ना इति । ↩︎
-
‘सुदत्रः’ सुष्ठु ददातीति सुदत्रः कल्याणद इति ॥ ↩︎
-
मा᳘त्रे, स्तनं (स्त᳘नं M first hand) AM. परमां᳘ बत᳘ (वत᳘ A) काष्ठां प्रा᳘प, पुत्रो᳘ जायतऽइ᳘ति AM. ↩︎
-
वा᳘डेयीपु᳘त्राद्वा A. बाडेयीपुत्राद्वा R. ↩︎
-
“आख्या प्रवचन-संयोगात्” (जै. सू. १ । १ । ८ । २८) इति जैमिन्याचार्योदितराद्धान्तात् । इति गम्यते ॥ ↩︎
-
वालाक्या A. बालाक्या R. - ibid. वौ᳘धीपु᳘त्राद्वौ᳘ A. बौधीपुत्राद्वौ R. ↩︎
-
लंवी, लंवा A. लंबी, लंबा R. - ibid. जा᳘यतीपु᳘त्राज्जा᳘यती A. जायंतीपुत्राज्जायंती R. - ibid. माण्डुकीपुत्रान्माण्डुकीपुत्रः R. ↩︎
-
आसुरीवासिनः R. - ibid. वाध्यो A. बाध्यो R. - ibid. वि᳘र्वाचो ! AM. Read विर्वाचो - ibid. याज्ञवल्क्ये᳘नाख्यायन्ते AM. ↩︎