०१

विश्वास-प्रस्तुतिः

स यः᳘ काम᳘यते महत्प्रा᳘प्नुयामि᳘ति॥ (त्यु) उदगयन᳘ ऽआपूर्य्यमाणपक्षे᳘ पुण्या᳘हे द्वा᳘दशाहमुपसद्व्रती᳘ भूत्वौ᳘दुम्बरे कᳫँ᳭से᳘ चमसे᳘ वा᳘ सर्व्वौषध᳘म्फलानी᳘ति सम्भृ᳘त्य परिसमु᳘ह्य परिलि᳘ख्याग्नि᳘मुपसमाधा᳘यावृ᳘ता ऽऽज्य᳘ᳫँ᳘ सᳫँ᳭स्कृ᳘त्य पुᳫँ᳭सा᳘ नक्षत्रे᳘ण म᳘न्थᳫँ᳭ सन्नी᳘य जुहोति॥

मूलम् - श्रीधरादि

मूलम् - Weber

स यः᳘ काम᳘यते॥
महत्प्रा᳘प्नुयामि᳘त्युदगयन᳘ आपूर्यमाणपक्षे᳘ पुण्या᳘हे द्वा᳘दशाहमुपसद्व्रती᳘ भूत्वौ᳘दुम्बरे कंसे᳘ चमसे᳘ वा᳘ वा सर्वौषध᳘म् फलानी᳘ति सम्भृ᳘त्य परिसमु᳘ह्य परिलि᳘प्याग्नि᳘मुपसमाधा᳘यावृ᳘ताज्य᳘ᳫं᳘ संस्कृ᳘त्य पुंसा᳘ नक्षत्रे᳘ण म᳘न्थᳫं संनी᳘य 1 जुहोति॥

मूलम् - विस्वरम्

श्रीमन्थ-कर्म-ब्राह्मणम् ।

स यः कामयेत । महत्प्राप्नुयामिति । उदगयन आपूर्यमाणपक्षे पुण्याहे द्वादशाहमुपसद्व्रती भूत्वा, औदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति संभृत्य, परिसमुह्य, परिलिख्य, अग्निमुपसमाधाय, आवृता ऽऽज्यं संस्कृत्य, पुंसा नक्षत्रेण मन्थं सन्नीय जुहोति ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

ज्ञानकर्मणोर्गतिरुक्ता । तत्र ज्ञानं स्वतन्त्रम् । कर्म तु दैव-मानुष-वित्त-द्वयायत्तम् । तेन कर्मार्थं वित्तमुपार्जनीयम् । तच्च अप्रत्यवायकारिणोपायेनेति । तदर्थं श्रीमन्थाख्यं कर्म आरभ्यते महत्त्व-प्राप्तये । महत्त्वे च सति अर्थसिद्धं वित्तम् । तदेतदभिधीयते- स यः कामयेतेति । ‘सः’ वित्तार्थी कर्मण्यधिकृतः ‘यः’ कामयेत’ । किं? ‘महत्’ महत्त्वं ‘प्राप्नुयां’ महान् स्यामिति यावत् । तत्र श्रीमन्थ-कर्मणो विधित्सितस्य काल उच्यते । ‘उदगयने’ आदित्यस्य । तत्र सर्वत्र प्राप्तौ ‘आपूर्यमाणपक्षे’ शुक्ल-पक्षे । तत्रापि सर्वत्र प्राप्तौ ‘पुण्याहे’ अनुकूले ऽह्नि आत्मनः कर्म-सिद्धि-करे इति । एतत् ‘द्वादशाहं’ यस्मिन् पुण्ये ऽहनि अनुकूले ऽहनि कर्म चिकीर्षति । ततः प्राक् पुण्याहमेवारभ्य ‘द्वादशाहमुपसद्व्रती’ उपसदो व्रतमुपसद्व्रतम् । उपसदः प्रसिद्धा ज्योतिष्टोमे । तत्र च स्ततोपचयापचय-द्वारेण पयो-भक्षणं तद्व्रतम् । अत्र च तत्-कर्मानुपसंहारत् केवलं इतिकर्तव्यता-शून्यं पयो-भक्षण-मात्रं गृह्यते । ननूपसद एव व्रतमिति यदा विग्रहः, तदा सर्वमितिकर्तव्यता-रूपं ग्राह्यं भवति । तत्कस्मान्नोपादीयते इति । कथ्यते, स्मार्तत्त्वात् कर्मणः । स्मार्तं हीदं श्रीमन्थ-कर्म । ननु श्रुति-विहितं सत् कथं स्मार्तं भवितुमर्हति । स्मृत्य्-अनुवादिनी हि श्रुतिरियम् । श्रौतत्वे हि प्रकृति-विकार-भावः । ततश्च प्राकृत-धर्मग्राहित्वं विकार-कर्मणः । न त्विह श्रौतत्वम् । अत एव च आवसथ्याग्नौ एतत्कर्म विधीयते । सर्वा चावृत् स्मार्तैवेति । ‘उपसद्व्रती भूत्वा’ पयोव्रती सन्नित्यर्थः । ‘औदुम्बरे’ उदुम्बर-वृक्ष-मये ‘कंसे चमसे’ वा तस्यैव विशेषणम् । कंसाकारे चमसाकारे वा औदुम्बर एव । आकारे विकल्पः । नौदुम्बरत्वे । ‘सर्वौषधं’ सर्वासामोषधीनां समूहम् । यथासम्भवं यथाशक्ति च सर्वा ओषधीः समाहृत्य । तत्र ग्राम्याणां तु दश नियमेन ग्राह्याः । व्रीहि-यवाद्या वक्ष्यमाणाः । अधिक-ग्रहणे तु न दोषो ग्राम्याणाम् । ‘फलानीति’ । फलानि च यथासम्भवं यथाशक्ति च । इति-शब्दः समस्त-सम्भारोपचय-प्रदर्शनार्थः । अन्यदपि यत्-सम्भरणीयं तत्सकलं सम्भृत्येत्य् अर्थः । क्रमस्तत्र गृह्योक्तो द्रष्टव्यः । परिसमूहन-परिलेखने भूमि-संस्कारः ‘अग्निमुपसमाधाय’ इति वचनात् आवसथ्ये ऽग्नाविति गम्यते । एकवचनात् उपसमाधान-श्रवणाच्च विद्यमानस्यैवोपसमाधानम् । परिस्तीर्य दर्भान् ‘आवृता’ स्मार्तत्वात्कर्मणः स्थालीपाकावृता गृह्यते । तया ‘आज्यं संस्कृत्य’ । ‘पुंसा नक्षत्रेण’ पुंनाम-संयुक्तेन ‘मन्थं’ सर्वौषध-फल-पिष्टम् । तत्रौदुम्बरे कंसे वा चमसे वा । ‘दध्ना मधुना घृतेनोपसिच्य’ । एकया उपमन्थन्या उपसंमथ्य ‘सन्नीय’ अग्नेः स्वस्य च मध्ये संस्थाप्य औदुम्बरेण स्रुवेण च उपस्थाने ‘आज्यस्य’ जुहोति’ एतैर्मन्त्रैः ॥ १ ॥

०२

विश्वास-प्रस्तुतिः

या᳘वन्तो देवाः॥ (स्त्व᳘) त्व᳘यि जा᳘तवेदस्तिर्य्य᳘ञ्चो घ्न᳘न्ति पुरुषस्य[[!!]] का᳘मान्। ते᳘भ्यो ऽह᳘म्भागधे᳘यञ्जुहोमि ते᳘ मा तृप्ताः का᳘मैस्तर्प्पयन्तु स्वा᳘हा॥

मूलम् - श्रीधरादि

या᳘वन्तो देवाः॥ (स्त्व᳘) त्व᳘यि जा᳘तवेदस्तिर्य्य᳘ञ्चो घ्न᳘न्ति पुरुषस्य[[!!]] का᳘मान्। ते᳘भ्यो ऽह᳘म्भागधे᳘यञ्जुहोमि ते᳘ मा तृप्ताः का᳘मैस्तर्प्पयन्तु स्वा᳘हा॥

मूलम् - Weber

या᳘वन्तो देवास्त्व᳘यि जातवेदः॥
तिर्य᳘ञ्चो घ्न᳘न्ति पु᳘रुषस्य का᳘मान् ते᳘भ्योऽह᳘म् भागधे᳘यं जुहोमि ते᳘ मा तृप्ताः का᳘मैस्तर्पयन्तु 2 स्वा᳘हा॥

मूलम् - विस्वरम्

(१) “यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् । तेभ्यो ऽहं भागधेयं जुहोमि ते मा तृप्ताः कामैस्तर्पयन्तु स्वाहा ॥ २॥

श्रीमद्वासुदेवब्रह्मभगवान्

“यावन्तो देवाः” इत्याद्यैः ॥ २ ॥

०३

विश्वास-प्रस्तुतिः

या᳘ तिर᳘श्ची निप᳘द्यसे ऽह᳘म्विधरणी᳘ ऽइ᳘ति॥
ता᳘न्त्वा घृत᳘स्य धा᳘रया य᳘जे स᳘ᳫँ᳘राधनीमहᳫँ᳭ स्वा᳘हा॥ प्र᳘जापते न त्व᳘देता᳘न्यन्य ऽइ᳘ति तृती᳘या᳘ञ्जुहोति॥

मूलम् - श्रीधरादि

या᳘ तिर᳘श्ची निप᳘द्यसे ऽह᳘म्विधरणी᳘ ऽइ᳘ति॥
ता᳘न्त्वा घृत᳘स्य धा᳘रया य᳘जे स᳘ᳫँ᳘राधनीमहᳫँ᳭ स्वा᳘हा॥ प्र᳘जापते न त्व᳘देता᳘न्यन्य ऽइ᳘ति तृती᳘या᳘ञ्जुहोति॥

मूलम् - Weber

या᳘ तिर᳘श्ची निप᳘द्यसेऽहं᳘ विधरणी इ᳘ति॥
तां᳘ त्वा घृत᳘स्य धा᳘रया य᳘जे सं᳘राधनीमहᳫं 3 स्वा᳘हा॥
प्र᳘जापते न त्व᳘देता᳘न्यन्य इ᳘ति तृती᳘यां जुहोति॥

मूलम् - विस्वरम्

(२) या तिरश्ची निपद्यसे ऽहं विधरणी ऽइति । तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा ॥ (३) प्रजापते न त्वदेतान्यन्यः”- (वा. सं. २३ । ६५) इति तृतीयां जुहोति ॥ ३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहा” इत्यारभ्य द्वे द्वे आहुती हुत्वा ‘मन्थे संस्रवमवनयति’ स्रुचा ऽवलेपमाज्यं मन्थे संस्रावयति । एतस्मादेव “ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहा” इत्यादि-प्राण-लिङ्गात् ज्येष्ठ-श्रेष्ठ-आदि-प्राण-विद एवास्मिन् कर्मण्यधिकारः । “रेतसे स्वाहा” इत्यारभ्य एकैकामाहुतिं हुत्वा ‘मन्थे संस्रवमवनयति’ । अपरया उपमन्थन्या पुनर्मथ्नाति ॥ ३-८ ॥

०४

विश्वास-प्रस्तुतिः

ज्ये᳘ष्ठाय स्वा᳘हा श्रे᳘ष्ठाय स्वाहे᳘ति॥
(त्य) अग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति प्प्राणा᳘य स्वा᳘हा व्व᳘सिष्ठायै स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति व्वाचे स्वा᳘हा प्प्रतिष्ठायै स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति च᳘क्षुषे स्वा᳘हा सम्प᳘दे स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति श्रो᳘त्राय स्वा᳘हा ऽऽय᳘तनाय स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति म᳘नसे स्वा᳘हा प्प्र᳘जात्यै स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति रे᳘तसे स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति॥

ज्ये᳘ष्ठाय स्वा᳘हा श्रे᳘ष्ठाय स्वाहे᳘ति 4
अग्नौ᳘ हुत्वा म᳘न्थे संस्रवम᳘वनयति प्राणा᳘य स्वा᳘हा व᳘सिष्ठायै स्वाहे᳘त्यग्नौ᳘ च᳘क्षुषे स्वा᳘हा सम्प᳘दे स्वाहे᳘त्यग्नौ᳘ श्रो᳘त्राय स्वा᳘हाय᳘तनाय स्वाहे᳘त्यग्नौ᳘॰ म᳘नसे स्वा᳘हा प्र᳘जात्यै स्वाहे᳘त्यग्नौ᳘॰ रे᳘तसे स्वाहे᳘त्यग्नौ᳘॰॥

मूलम् - विस्वरम्

१ ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । २ प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थ्ये संस्रवमवनयति । ३ वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थ्ये संस्रवमवनयति । ४ चक्षुषे स्वाहा सम्पदे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । ५ श्रोत्राय स्वाहा आयतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । ६ मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । ७ रेतसे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ ४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

[व्याख्यानं तृतीये]

०५

विश्वास-प्रस्तुतिः

भूता᳘य स्वाहे᳘ति॥
(त्य) अग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति भविष्य᳘ते स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति व्वि᳘श्वाय स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति स᳘र्व्वाय स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति॥

मूलम् - श्रीधरादि

भूता᳘य स्वाहे᳘ति॥
(त्य) अग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति भविष्य᳘ते स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति व्वि᳘श्वाय स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति स᳘र्व्वाय स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति॥

मूलम् - Weber

भूता᳘य स्वाहे᳘ति॥
अग्नौ᳘॰ भविष्य᳘ते स्वाहे᳘त्यग्नौ᳘॰ वि᳘श्वाय स्वाहे᳘त्यग्नौ᳘॰ स᳘र्वाय स्वाहे᳘त्यग्नौ᳘॰ 5

मूलम् - विस्वरम्

८ भूताय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । ९ भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । १० विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । ११ सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ ५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

[व्याख्यानं तृतीये]

०६

विश्वास-प्रस्तुतिः

प्पृथिव्यै स्वाहे᳘ति॥
(त्य) अग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयत्यन्त᳘रिक्षाय स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति दिवे स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति दिग्भ्यः स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति ब्ब्र᳘ह्मणे स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति क्षत्रा᳘य स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति॥

पृथिव्यै स्वाहे᳘ति॥
अग्नौ᳘॰ अन्त᳘रिक्षाय स्वाहे᳘त्यग्नौ᳘॰ दिवे स्वाहे᳘त्यग्नौ᳘॰ दिग्भ्यः स्वाहे᳘त्यग्नौ᳘॰ ब्र᳘ह्मणे स्वाहे᳘त्यग्नौ᳘॰ क्षत्रा᳘य स्वाहे᳘त्यग्नौ᳘॰ 6

मूलम् - विस्वरम्

१२ पृथिव्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । १३ अन्तरिक्षाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । १४ दिवे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । १५ दिग्भ्यः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । १६ ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । १७ क्षत्त्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ ६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

[व्याख्यानं तृतीये]

०७

विश्वास-प्रस्तुतिः

भूः स्वाहे᳘ति॥
(त्य) अग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति भु᳘वः स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति स्वः स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति भूर्भ्भु᳘वः᳘ स्वः[[!!]] स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति॥

मूलम् - श्रीधरादि

भूः स्वाहे᳘ति॥
(त्य) अग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति भु᳘वः स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति स्वः स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति भूर्भ्भु᳘वः᳘ स्वः[[!!]] स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति॥

मूलम् - Weber

भूः स्वाहे᳘ति॥
अग्नौ᳘॰ भु᳘वः स्वाहे᳘त्यग्नौ᳘ स्वः स्वाहे᳘त्यग्नौ᳘॰ भूर्भु᳘वः स्वः᳘ स्वाहे᳘त्यग्नौ᳘॰ 7

मूलम् - विस्वरम्

१८ भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । १९ भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । २० स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । २१ भूर्भुवः स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ ७ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

[व्याख्यानं तृतीये]

०८

विश्वास-प्रस्तुतिः

(त्य) अग्न᳘ये स्वाहे᳘ति॥
(त्य) अग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति सो᳘माय स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति ते᳘जसे स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति श्रियै स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति लक्ष्म्यै स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति सवित्रे स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति स᳘रस्वत्यै स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति व्वि᳘श्वेभ्यो देवे᳘भ्यः स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति प्प्रजा᳘पतये स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे सᳫँ᳭स्रवम᳘वनयति॥

अग्न᳘ये स्वाहे᳘ति॥
अग्नौ᳘॰ सो᳘माय स्वाहे᳘त्यग्नौ᳘॰ ते᳘जसे स्वाहे᳘त्यग्नौ᳘॰ श्रियै स्वाहे᳘त्यग्नौ᳘॰ लक्ष्म्यै स्वाहे᳘त्यग्नौ᳘॰ सवित्रे स्वाहे᳘त्यग्नौ᳘॰ स᳘रस्वत्यै स्वाहे᳘त्यग्नौ᳘ वि᳘श्वेभ्यो देवे᳘भ्यः स्वाहे᳘त्यग्नौ᳘॰ प्रजा᳘पतये स्वाहे᳘त्यग्नौ᳘ हुत्वा म᳘न्थे 8 संस्रवम᳘वनयति॥

मूलम् - विस्वरम्

२२ अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । २३ सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । २४ तेजसे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । २५ श्रियै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । २६ लक्ष्म्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । २७ सवित्रे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । २८ सरस्वत्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । २९ विश्वेभ्यो देवेभ्यः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । ३० प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ ८ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

[व्याख्यानं तृतीये]

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनमभि᳘मृशति॥
भ्भ्र᳘मसि ज्वल᳘दसि पूर्ण्ण᳘मसि प्प्रस्तब्ध᳘मस्येकसभ᳘मसि हिङ्कृत᳘मसि हिङ्क्रियमाण᳘मस्युद्गीथ᳘मस्युद्गीयमान᳘मसि श्रा᳘वित᳘मसि प्प्रत्याश्रावित᳘मस्या᳘र्द्द्रे सन्दीप्त᳘मसि व्विभू᳘रसि प्प्रभू᳘रसि ज्यो᳘तिरस्य᳘न्नमसि निध᳘नमसि सम्व᳘र्ग्गो ऽसी᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनमभि᳘मृशति॥
भ्भ्र᳘मसि ज्वल᳘दसि पूर्ण्ण᳘मसि प्प्रस्तब्ध᳘मस्येकसभ᳘मसि हिङ्कृत᳘मसि हिङ्क्रियमाण᳘मस्युद्गीथ᳘मस्युद्गीयमान᳘मसि श्रा᳘वित᳘मसि प्प्रत्याश्रावित᳘मस्या᳘र्द्द्रे सन्दीप्त᳘मसि व्विभू᳘रसि प्प्रभू᳘रसि ज्यो᳘तिरस्य᳘न्नमसि निध᳘नमसि सम्व᳘र्ग्गो ऽसी᳘ति॥

मूलम् - Weber

अ᳘थैनमभि᳘मृशति॥
भ्र᳘मसि ज्वल᳘दसि पूर्ण᳘मसि प्रस्तब्ध᳘मस्येकसभ᳘मसि हिङ्कृत᳘मसि हिङ्क्रियमाण᳘मस्युद्गीथ᳘मस्युद्गीयमान᳘मसि श्रावित᳘मसि प्रत्याश्रावित᳘मस्या᳘र्द्रे संदीप्त᳘मसि 9 विभू᳘रसि प्रभू᳘रसि ज्यो᳘तिरस्य᳘न्नमसि निध᳘नमसि संवॗर्गोऽसी᳘ति॥

मूलम् - विस्वरम्

अथैनमभिमृशति- “भ्रमसि ज्वलदसि पूर्णमसि प्रस्तब्धमस्य् एकसभमसि हिङ्कृतमसि हिङ्क्रियमाणमस्युद्गीयमस्युद्गीयमानमसि श्रावितमसि प्रत्याश्रावितमस्यार्द्रे सन्दीप्तमसि विभूरसि प्रभूरसि ज्योतिरस्यन्नमसि निधनमसि संवर्गो ऽसि” इति ॥ ९ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘अथैनमभिमृशति’ “भ्रमसि” इत्य् अनेन मन्त्रेण ॥ ९ ॥

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनमु᳘द्यच्छति॥
(त्या᳘) आ᳘मो ऽस्यामᳫँ᳭ हि᳘ ते म᳘यि। स हि राजे᳘शानो᳘ ऽधिपतिः स᳘ मा राजे᳘शानो᳘ ऽधिपतिङ्करोत्वि᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनमु᳘द्यच्छति॥
(त्या᳘) आ᳘मो ऽस्यामᳫँ᳭ हि᳘ ते म᳘यि। स हि राजे᳘शानो᳘ ऽधिपतिः स᳘ मा राजे᳘शानो᳘ ऽधिपतिङ्करोत्वि᳘ति॥

मूलम् - Weber

अ᳘थैनमु᳘द्यछति॥
आॗमोऽस्यामᳫं हि᳘ ते म᳘यि स हि राजे᳘शानो᳘ऽधिपतिः स᳘ मा राजे᳘शानो᳘ऽधिपतिं 10 करोत्वि᳘ति॥

मूलम् - विस्वरम्

अथैनमुद्यच्छति- “आमो ऽस्यामं हि ते मयि । स हि राजेशानो ऽधिपतिः स मा राजेशानो ऽधिपतिं करोतु”- इति ॥ १० ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘अथैनमुद्यच्छति’ सह पात्रेण हस्ते गृह्णाति । “आमो ऽस्यामं हि ते मयि” इत्य् अनेन ॥ १० ॥

११

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनमा᳘चामति॥
त᳘त्सवितुर्व्व᳘रेण्यम्। म᳘धु व्वा᳘ता ऽऋतायते म᳘धु क्षरन्ति सि᳘न्धवः। मा᳘ध्वीर्न्नः सन्त्वो᳘षधीः॥ भूः स्वा᳘हा॥
भूः स्वा᳘हा॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनमा᳘चामति॥
त᳘त्सवितुर्व्व᳘रेण्यम्। म᳘धु व्वा᳘ता ऽऋतायते म᳘धु क्षरन्ति सि᳘न्धवः। मा᳘ध्वीर्न्नः सन्त्वो᳘षधीः॥ भूः स्वा᳘हा॥
भूः स्वा᳘हा॥

मूलम् - Weber

अ᳘थैनमा᳘चामति॥
त᳘त्सवितुर्व᳘रेण्यम्॥
म᳘धु वा᳘ता ऋतायते म᳘धु क्षरन्ति सि᳘न्धवः मा᳘ध्वीर्नः सन्त्वो᳘षधीः॥
भूः स्वा᳘हा॥

मूलम् - विस्वरम्

अथैनमाचामति- “तत्सवितुर्वरेण्यम्” । “मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः”- (वा. सं. १३ । २७) “भूः स्वाहा” ॥ ११ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘अथैनमाचामति’ भक्षयति । गायत्र्याः प्रथम-पादेन मधुमत्यैकया व्याहृत्या च प्रथमया प्रथमं ग्रासं आचामति ॥ ११ ॥

१२

विश्वास-प्रस्तुतिः

भ᳘र्ग्गो देव᳘स्य धीमहि॥
म᳘धु न᳘क्तमु᳘तोष᳘सो म᳘धुमत्पा᳘र्थिवᳫँ᳭ र᳘जः। म᳘धु द्यौ᳘रस्तु नः पिता᳘॥
भु᳘वः स्वा᳘हा॥

मूलम् - श्रीधरादि

भ᳘र्ग्गो देव᳘स्य धीमहि॥
म᳘धु न᳘क्तमु᳘तोष᳘सो म᳘धुमत्पा᳘र्थिवᳫँ᳭ र᳘जः। म᳘धु द्यौ᳘रस्तु नः पिता᳘॥
भु᳘वः स्वा᳘हा॥

मूलम् - Weber

भ᳘र्गो देव᳘स्य धीमहि॥
म᳘धु न᳘क्तमुॗतोष᳘सो 11 म᳘धुमत्पा᳘र्थिवं र᳘जः॥
म᳘धु द्यौ᳘रस्तु नः पिता᳟॥
भु᳘वः स्वा᳘हा॥

मूलम् - विस्वरम्

“भर्गो देवस्य धीमहि” । “मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता” (वा. सं. १३ । २८) “भुवः स्वाहा” ॥ १२ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तथा गायत्री-द्वितीय-पादेन मधुमत्या द्वितीयया द्वितीयया च व्याहृत्या द्वितीयं ग्रासम् ॥ १२ ॥

१३

विश्वास-प्रस्तुतिः

धि᳘यो यो᳘ नः प्प्रचोद᳘यात्॥
म᳘धुमान्नो व्व᳘नस्प᳘तिर्म्म᳘धुमाँ२ ऽअस्तु सू᳘र्य्यः। मा᳘ध्वीर्ग्गा᳘वो भुवन्तु नः᳘॥ स्वः[[!!]] स्वाहे᳘ति स᳘र्व्वाञ्च सावित्री᳘मन्वा᳘ह स᳘र्व्वाश्च म᳘धुमतीः स᳘र्व्वाश्च व्या᳘हृतीरह᳘मे᳘वेदᳫँ᳭ स᳘र्व्वम्भूयासम्भूर्भ्भुवः᳘ स्वः[[!!]] स्वाहे᳘त्यन्तत᳘ ऽआचम्य प्प्रक्षा᳘ल्य पाणी᳘ जघ᳘नेनाग्निम्प्रा᳘क्शिराः स᳘म्विशति॥

धियो यो᳘ नः प्रचोद᳘यात्॥
म᳘धुमान्नो व᳘नस्प᳘तिर्म᳘धुमाम् अस्तु सू᳘र्यः॥
मा᳘ध्वीर्गा᳘वो भुवन्तु नः॥
स्वः᳘ स्वाहे᳘ति स᳘र्वां च सावित्री᳘मन्वा᳘ह स᳘र्वाश्च म᳘धुमतीः स᳘र्वाश्च व्या᳘हृतीरह᳘मेॗवेदᳫं स᳘र्वम् भूयासम् भूर्भु᳘वः स्वः᳘ स्वाहे᳘त्यन्तत᳘ आचम्य प्रक्षा᳘ल्य प्राणी᳘ 12 जघ᳘नेनाग्निम् प्रा᳘क्शिराः सं᳘विशति॥

मूलम् - विस्वरम्

“धियो यो नः प्रचोदयात्”- (वा. सं. ३ । ३५) “मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः”- (वा. सं. १३ । २९) “स्वः स्वाहा”- इति । सर्वां च सावित्रीमन्वाह । सर्वाश्च मधुमतीः । सर्वाश्च व्याहृतीः । “अहमेवेदं सर्वं भूयासम्” “भूर्भुवः स्वः स्वाहा” इति । अन्ततः आचम्य । प्रक्षाल्य पाणी । जघनेनाग्निं प्राक्शिराः संविशति ॥ १३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तथा तृतीयेन गायत्री-पादेन तृतीयया मधुमत्या तृतीयया च व्याहृत्या तृतीयं ग्रासम् । ‘सर्वां सावित्रीं’ ‘सर्वाश्च मधुमतीः सर्वाश्च व्याहृतीरुक्त्वा “अहमेवेदं सर्वं भूयासम्” इति च अन्ते भूर्भुवः स्वः स्वाहेति समस्तं भक्षयति । यथा चतुर्भिर्ग्रासैः तत् द्रव्यं सर्वं परिसमाप्यते । तथा पूर्वमेव निरूपयेत् । यत्पात्रावलिप्तं तत्पात्रं सर्वं निर्णिज्य तूष्णीं पिबेत् । ‘पाणी प्रक्षाल्य’ ‘आचम्य’ । ‘जघनेनाग्निं’ पश्चादग्नेः ‘प्राक्शिराः’ ‘संविशति’ शेते ॥ १३ ॥

१४

विश्वास-प्रस्तुतिः

प्प्रात᳘रादित्यमु᳘पतिष्ठते॥
दिशा᳘मेकपुण्डरीकमस्यह᳘म्मनु᳘ष्याणामेकपुण्डरीक᳘म्भूयासमि᳘ति[[!!]] य᳘थेतमे᳘त्य जघ᳘नेनाग्निमा᳘सीनो व्वᳫँ᳭श᳘ञ्जपति॥

मूलम् - श्रीधरादि

प्प्रात᳘रादित्यमु᳘पतिष्ठते॥
दिशा᳘मेकपुण्डरीकमस्यह᳘म्मनु᳘ष्याणामेकपुण्डरीक᳘म्भूयासमि᳘ति[[!!]] य᳘थेतमे᳘त्य जघ᳘नेनाग्निमा᳘सीनो व्वᳫँ᳭श᳘ञ्जपति॥

मूलम् - Weber

प्रात᳘रादित्यमु᳘पतिष्ठते॥
दिशा᳘मेकपुण्डरीक᳘मस्यह᳘म् 13 मनुॗष्याणामेकपुण्डरीक᳘म् भूयासमि᳘ति य᳘थेतमे᳘त्य जघ᳘नेनाग्निमा᳘सीनो वंशं᳘ जपति॥

मूलम् - विस्वरम्

प्रातरादित्यमुपतिष्ठते- “दिशामेकपुण्डरीकमस्यहं मनुष्याणामेकपुण्डरीकं भूयासम्”- इति । यथेतमेत्य । जघनेनाग्निमासीनो वंशं जपति ॥ १४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘प्रातः’ सन्ध्यामुपास्य ‘आदित्यमुपतिष्ठते’ “दिशामेकपुण्डरीकं” इत्य् अनेन मन्त्रेण । ‘यथेतं’ यथा-गतमेत्यागत्य । जघनेनाग्निमुपासीनः ‘वंशं जपति’ ॥ १४ ॥

१५

विश्वास-प्रस्तुतिः

त᳘ᳫँ᳘ हैत᳘मुद्दा᳘लक ऽआ᳘रुणिः॥
(र्व्वा) व्वाजसनेया᳘य याज्ञवल्क्या᳘यान्तेवासि᳘न ऽउ᳘क्त्वोवाचा᳘ ऽपि य᳘ ऽएनᳫँ᳭ शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्प्ररोहे᳘युः प᳘लाशानी᳘ति॥

मूलम् - श्रीधरादि

त᳘ᳫँ᳘ हैत᳘मुद्दा᳘लक ऽआ᳘रुणिः॥
(र्व्वा) व्वाजसनेया᳘य याज्ञवल्क्या᳘यान्तेवासि᳘न ऽउ᳘क्त्वोवाचा᳘ ऽपि य᳘ ऽएनᳫँ᳭ शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्प्ररोहे᳘युः प᳘लाशानी᳘ति॥

मूलम् - Weber

त᳘ᳫं᳘ हैत᳘मुद्दा᳘लक आ᳘रुणिः॥
वाजसनेया᳘य याज्ञवल्क्या᳘यान्तेवासि᳘न उॗक्त्वोवाचा᳘पि य᳘ एनं शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्ररोहे᳘युः प᳘लाशानी᳘ति 14

मूलम् - विस्वरम्

तं हैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाच । अपि य एनं शुष्के स्थाणौ निषिञ्चेत् । जायेरन् शाखाः । प्ररोहेयुः पलाशानि इति ॥ १५ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

“तं हैतमुद्दालक आरुणिः” इत्यादि “सत्यकामो जाबालो ऽन्तेवासिभ्य उक्त्वोवाचा ऽपि य एनं शुष्के स्थाणौ निषिञ्चेत् जायेरञ्छाखाः प्ररोहेयुः पलाशानि” इत्य् एवमन्तम् । ‘एनं’ मन्थम् उद्दालकात्प्रभृति एकैकाचार्यक्रमागतं सत्यकाम आचार्यो बहुभ्यः ‘अन्तेवासिभ्य उक्त्वा उवाच’ । किमन्यदुवाचेत्यभिधीयते । ‘अपि य एनं शुष्के स्थाणौ’ गत-प्राणे ऽपि ‘एनं’ मन्थं भक्षणाय संस्कृतं निषिञ्चेत्प्रक्षिपेत् । ‘जायेरान्’ उत्पद्येरन् एवास्मिन् स्थाणौ किमुत अनेन कर्मणा कामः सिध्येदिति ध्रुवफलमिदं 15 कर्मेति कर्म-स्तुत्य् अर्थमेतत् । विद्याधिगमे षट् तीर्थानि । तेषामिह प्राण-दर्शनस्य मन्थ-विज्ञानस्याधिगमे द्वे एव तीर्थे अनुज्ञायेते । पुत्रश्चान्तेवासी च ॥ १५-२० ॥

१६

विश्वास-प्रस्तुतिः

(त्ये) एत᳘मु हैव᳘ व्वाजसनेयो᳘ याज्ञवल्क्यः᳘॥
(ल्क्यो᳘) मधुका᳘य पैङ्ग्या᳘यान्तेवासि᳘न ऽउ᳘क्त्वोवाचा᳘ ऽपि य᳘ ऽएनᳫँ᳭ शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्प्ररोहे᳘युः प᳘लाशानी᳘ति ॥

मूलम् - श्रीधरादि

(त्ये) एत᳘मु हैव᳘ व्वाजसनेयो᳘ याज्ञवल्क्यः᳘॥
(ल्क्यो᳘) मधुका᳘य पैङ्ग्या᳘यान्तेवासि᳘न ऽउ᳘क्त्वोवाचा᳘ ऽपि य᳘ ऽएनᳫँ᳭ शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्प्ररोहे᳘युः प᳘लाशानी᳘ति ॥

मूलम् - Weber

एत᳘मु हैव᳘ वाजसनेयो᳘ याज्ञवल्क्यो᳟॥
मधुका᳘य पैङ्ग्या᳘यान्तेवासि᳘न उॗक्त्वोवाचा᳘पि य᳘ एनं शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्ररोहे᳘युः प᳘लाशानी᳘ति 16

मूलम् - विस्वरम्

एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाच । अपि य एनं शुष्के स्थाणौ निषिञ्चेत् । जायेरन् शाखाः । प्ररोहेयुः पलाशानि इति ॥ १६ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

[व्याख्यानं पञ्चदशे]

१७

विश्वास-प्रस्तुतिः

(त्ये) एत᳘मु हैव म᳘धुकः पै᳘ङ्ग्यः॥
(श्चू᳘) चू᳘डाय भागवित्त᳘ये ऽन्तेवासि᳘न ऽउ᳘क्त्वोवाचा᳘ ऽपि य᳘ ऽएनᳫँ᳭ शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्प्ररोहे᳘युः प᳘लाशानी᳘ति ॥

मूलम् - श्रीधरादि

(त्ये) एत᳘मु हैव म᳘धुकः पै᳘ङ्ग्यः॥
(श्चू᳘) चू᳘डाय भागवित्त᳘ये ऽन्तेवासि᳘न ऽउ᳘क्त्वोवाचा᳘ ऽपि य᳘ ऽएनᳫँ᳭ शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्प्ररोहे᳘युः प᳘लाशानी᳘ति ॥

मूलम् - Weber

एत᳘मु हैव म᳘धुकः पै᳘ङ्ग्यः॥
चू᳘डाय भागवित्त᳘येऽन्तेवासि᳘न उॗक्त्वोवाचा᳘पि य᳘ एनं शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्ररोहे᳘युः प᳘लाशानी᳘ति 17

मूलम् - विस्वरम्

एतमु हैव मधुक्कः पैङ्ग्यश्चूडाय भागवित्तये ऽन्तेवासिन उक्त्वोवाच । अपि य एनं शुष्के स्थाणौ निषिञ्चेत् । जायेरन् शाखाः । प्ररोहेयुः पलाशानि इति ॥ १७ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

[व्याख्यानं पञ्चदशे]

१८

विश्वास-प्रस्तुतिः

(त्ये) एत᳘मु हैव चू᳘डो भा᳘गवित्तिः॥
(र्ज्जा) जानक᳘य ऽआयस्थूणा᳘यान्तेवासि᳘न ऽउ᳘क्त्वोवाचा᳘ ऽपि य᳘ ऽएनᳫँ᳭ शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्प्ररोहे᳘युः प᳘लाशानी᳘ति ॥

मूलम् - श्रीधरादि

(त्ये) एत᳘मु हैव चू᳘डो भा᳘गवित्तिः॥
(र्ज्जा) जानक᳘य ऽआयस्थूणा᳘यान्तेवासि᳘न ऽउ᳘क्त्वोवाचा᳘ ऽपि य᳘ ऽएनᳫँ᳭ शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्प्ररोहे᳘युः प᳘लाशानी᳘ति ॥

मूलम् - Weber

एत᳘मु हैव चू᳘डो भा᳘गवित्तिः॥
जानक᳘य आयस्थूणा᳘यान्तेवासि᳘न उॗक्त्वोवाचा᳘पि य᳘ एनं शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्ररोहे᳘युः प᳘लाशानी᳘ति 18

मूलम् - विस्वरम्

एतमु हैव चूडो भागवित्तिर्जानकय आयस्थूणायान्तेवासिन उक्त्वोवाच । अपि य एनं शुष्के स्थाणौ निषिञ्चेत् । जायेरन् शाखाः । प्ररोहेयुः पलाशानि इति ॥ १८ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

[व्याख्यानं पञ्चदशे]

१९

विश्वास-प्रस्तुतिः

(त्ये) एत᳘मु हैव जा᳘नकिरा᳘यस्थूणः॥
स᳘त्यकामाय[[!!]] जाबाला᳘यान्तेवासि᳘न ऽउ᳘क्त्वोवाचा᳘ ऽपि य᳘ ऽएनᳫँ᳭ शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्प्ररोहे᳘युः प᳘लाशानी᳘ति ॥

मूलम् - श्रीधरादि

(त्ये) एत᳘मु हैव जा᳘नकिरा᳘यस्थूणः॥
स᳘त्यकामाय[[!!]] जाबाला᳘यान्तेवासि᳘न ऽउ᳘क्त्वोवाचा᳘ ऽपि य᳘ ऽएनᳫँ᳭ शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्प्ररोहे᳘युः प᳘लाशानी᳘ति ॥

मूलम् - Weber

एत᳘मु हैव जा᳘नकिरायस्थूणः 19
सत्य᳘कामाय जाबाला᳘यान्तेवासि᳘न उॗक्त्वोवाचा᳘पि य᳘ एनं शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्ररोहे᳘युः प᳘लाशानी᳘ति 20

मूलम् - विस्वरम्

एतमु हैव जानकिरायस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाच । अपि य एनं शुष्के स्थाणौ निषिञ्चेत् । जायेरन् शाखाः । प्ररोहेयुः पलाशानि इति ॥ १९ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

[व्याख्यानं पञ्चदशे]

२०

विश्वास-प्रस्तुतिः

(त्ये) एत᳘मु हैव᳘ सत्य᳘कामो जाबा᳘लः॥
(लो ऽन्ते) अन्तेवासि᳘भ्य ऽउ᳘क्त्वोवाचा᳘ ऽपि य᳘ ऽएनᳫँ᳭ शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्प्ररोहे᳘युः प᳘लाशानी᳘ति त᳘मेतन्ना᳘पुत्राय वा᳘ ऽनन्तेवासिने वा ब्ब्रूयात्॥

मूलम् - श्रीधरादि

(त्ये) एत᳘मु हैव᳘ सत्य᳘कामो जाबा᳘लः॥
(लो ऽन्ते) अन्तेवासि᳘भ्य ऽउ᳘क्त्वोवाचा᳘ ऽपि य᳘ ऽएनᳫँ᳭ शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्प्ररोहे᳘युः प᳘लाशानी᳘ति त᳘मेतन्ना᳘पुत्राय वा᳘ ऽनन्तेवासिने वा ब्ब्रूयात्॥

मूलम् - Weber

एत᳘मु हैव᳘ सत्य᳘कामो जाबाॗलो॥
अन्तेवासि᳘भ्य उॗक्त्वोवाचा᳘पि य᳘ एनं शु᳘ष्के स्थाणौ᳘ निषिञ्चेज्जा᳘येरञ्छा᳘खाः प्ररोहे᳘युः प᳘लाशानी᳘ति 21 त᳘मेतं ना᳘पुत्राय वा᳘नन्तेवासिने वा ब्रूयात्॥

मूलम् - विस्वरम्

एतमु हैव सत्यकामो जाबालो ऽन्तेवासिभ्य उक्त्वोवाच । अपि य एनं शुष्के स्थाणौ निषिञ्चेत् । जायेरन् शाखाः । प्ररोहेयुः पलाशानि इति । तमेतं नापुत्राय वा अनन्तेवासिने वा ब्रूयात् ॥ २० ॥

श्रीमद्वासुदेवब्रह्मभगवान्

[व्याख्यानं पञ्चदशे]

२१

विश्वास-प्रस्तुतिः

(च्च) चतुरौदुम्बरो᳘ भवति॥
(त्यौ᳘) औ᳘दुम्बरश्चमस ऽऔ᳘दुम्बरः स्रु᳘व ऽऔ᳘दुम्बर ऽइध्म ऽऔ᳘दुम्बर्य्या ऽउपमन्थ᳘न्यौ॥

मूलम् - श्रीधरादि

(च्च) चतुरौदुम्बरो᳘ भवति॥
(त्यौ᳘) औ᳘दुम्बरश्चमस ऽऔ᳘दुम्बरः स्रु᳘व ऽऔ᳘दुम्बर ऽइध्म ऽऔ᳘दुम्बर्य्या ऽउपमन्थ᳘न्यौ॥

मूलम् - Weber

चतुरौदुम्बरो᳘ भवति॥
औ᳘दुम्बरश्चमस औ᳘दुम्बर स्रुव औ᳘दुम्बर इध्म औ᳘दुम्बर्या 22 उपमन्थॗन्यौ॥

मूलम् - विस्वरम्

चतुरौदुम्बरो भवति । (१) औदुम्बरश्चमसः । (२) औदुम्बरः स्रुवः । (३) औदुम्बर इध्मः । (४) औदुम्बर्यौ उपमन्थन्यौ ॥ २१ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘चतुरौदुम्बरो भवतीति’ व्याख्यातम् ॥ २१ ॥

२२

विश्वास-प्रस्तुतिः

द᳘श ग्ग्राम्या᳘णि धा᳘न्यानि भवन्ति॥
व्व्रीहिय᳘वास्ति᳘लमा᳘षा ऽअ᳘णुप्प्रिय᳘ङ्गवो गोधू᳘माश्च मसू᳘राश्च ख᳘ल्वाश्च खल᳘कुलाश्च ता᳘न्त्सार्द्ध᳘म्पिष्ट्वा᳘ दध्ना म᳘धुना घृतेनो᳘पसिञ्चत्या᳘ज्यस्य जुहोति॥

मूलम् - श्रीधरादि

द᳘श ग्ग्राम्या᳘णि धा᳘न्यानि भवन्ति॥
व्व्रीहिय᳘वास्ति᳘लमा᳘षा ऽअ᳘णुप्प्रिय᳘ङ्गवो गोधू᳘माश्च मसू᳘राश्च ख᳘ल्वाश्च खल᳘कुलाश्च ता᳘न्त्सार्द्ध᳘म्पिष्ट्वा᳘ दध्ना म᳘धुना घृतेनो᳘पसिञ्चत्या᳘ज्यस्य जुहोति॥

मूलम् - Weber

द᳘श ग्राम्या᳘णि धाॗन्यानि भवन्ति॥
व्रीहिय᳘वास्ति᳘लमा᳘षा अ᳘णुप्रिय᳘ङ्गवो गोधू᳘माश्च मसू᳘राश्च ख᳘ल्वाश्च खल᳘कुलाश्च ता᳘न्त्सार्ध᳘म् पिष्ट्वा᳘ दध्ना म᳘धुना घृतेनो᳘पसिञ्चत्या᳘ज्यस्य जुहोति 23

मूलम् - विस्वरम्

दश ग्राम्याणि धान्यानि भवन्ति- १ व्रीहि २ यवाः ३ तिल ४ माषाः ५ अणु ६ प्रियङ्गवः ७ गोधूमाश्च ८ मसूराश्च ९ खल्वाश्च १० खलकुलाश्च । तान् सार्द्धं पिष्ट्वा दध्ना मधुना घृतेनोपसिञ्चति । आज्यस्य जुहोति ॥ २२ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

‘दश ग्राम्याणि धान्यानि भवन्ति’ । ग्राम्याणां तु धान्यानां दश नियमेन ग्राह्याणि इत्यवादि । तान्य् एतानि निर्द्दिश्यन्ते ‘व्रीहि-यवास्तिल-माषा अणु-प्रियङ्गवः’ अणवश्च अणु-शब्द-वाच्याः क्वचिद्देशे । प्रियङ्गवः प्रसिद्धाः कङ्गुशब्देन । ‘खल्वाः’ निष्पावाः वल्ल-शब्द-वाच्या लोके । ‘खलकुलाः’ कुलत्थाः । एतद्व्यतिरेकेण यथाशक्ति सर्वौषधयो ग्राह्याः फलानि चेत्यवोचाम । अयज्ञिकानि वर्जयित्वा ॥ २२ ॥

इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-व्याख्यायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे षष्ठे ऽध्याये तृतीयं श्रीमन्थ-कर्म-ब्राह्मणं परिसमाप्तम् ॥ १४ । (९) ६-३ ॥

  1. माणपक्षे पुण्या᳘हे (!) द्वा᳘दशाह (!) मुपसद्व्रती᳘ भू᳘त्वौदु᳘म्बरे, पु᳘ᳫसा, म᳘न्थᳫ (!) संनीय᳘ AM. ↩︎

  2. जा᳘तवेदः, तृ᳘प्ताः का᳘मैस्त᳘र्पयन्तु AM. ↩︎

  3. या᳘ तिरश्ची नि᳘पद्यसे᳘ऽहं (अहं M.) विधरणी᳘ इति AM. The want of सन्धि at the last two words is deserving notice. ibid. तृतीयां᳘ जुहोति AM. ↩︎

  4. ज्येष्ठा᳘य स्वा᳘हा श्रेष्ठा᳘य, प्र᳘तिष्ठायै AM. – ibid. ↩︎

  5. म᳘न्थे acc. ! ↩︎

  6. म᳘न्थे acc. ! ↩︎

  7. म᳘न्थे acc. ! ↩︎

  8. म᳘न्थे acc. ! ↩︎

  9. ज्वल᳘त् to संदीप्त᳘म् acc.! AM. - ibid. संवर्गेऽसीति AM. ↩︎

  10. स्यामᳫ हि ते᳘ मयि स᳘ हि राजेशानो᳘ऽधिपतिः स᳘ मा राजेशानो᳘ AM. ↩︎

  11. न᳘क्तमुतो᳘षसो AM. ↩︎

  12. पा᳘णी AM. ↩︎

  13. प्रातरादित्य᳘मुपति᳘ष्ठते दिशामेक AM. – ibid. य᳘थेतम् acc.! ↩︎

  14. न्तेवासिन᳘ (सिभ्य᳘ २०) प्ररोहे᳘युः AM. - ibid. प᳘लाश acc.! - ibid. The accent of the names is printed in the form given by AM: याज्ञवल्क्य᳘ here and 8. ३३ instead of या᳘ज्ञवल्क्य ! ↩︎

  15. समान-प्रकरणे छान्दोग्ये “स यदि स्त्रियं (स्वप्ने) पश्येत्समृद्धं कर्मेति विद्यात्” इति (छां. उ. ५ । २ । ८) इति कर्म-सिद्धि-ज्ञानोपायो ज्ञापितः ॥ ↩︎

  16. न्तेवासिन᳘ (सिभ्य᳘ २०) प्ररोहे᳘युः AM. - ibid. प᳘लाश acc.! - ibid. The accent of the names is printed in the form given by AM: याज्ञवल्क्य᳘ here and 8. ३३ instead of या᳘ज्ञवल्क्य ! ↩︎

  17. न्तेवासिन᳘ (सिभ्य᳘ २०) प्ररोहे᳘युः AM. - ibid. प᳘लाश acc.! - ibid. The accent of the names is printed in the form given by AM: याज्ञवल्क्य᳘ here and 8. ३३ instead of या᳘ज्ञवल्क्य ! ↩︎

  18. न्तेवासिन᳘ (सिभ्य᳘ २०) प्ररोहे᳘युः AM. - ibid. प᳘लाश acc.! - ibid. The accent of the names is printed in the form given by AM: याज्ञवल्क्य᳘ here and 8. ३३ instead of या᳘ज्ञवल्क्य ! ↩︎

  19. रा᳘यस्थूणः ↩︎

  20. न्तेवासिन᳘ (सिभ्य᳘ २०) प्ररोहे᳘युः AM. - ibid. प᳘लाश acc.! - ibid. The accent of the names is printed in the form given by AM: याज्ञवल्क्य᳘ here and 8. ३३ instead of या᳘ज्ञवल्क्य ! ↩︎

  21. न्तेवासिन᳘ (सिभ्य᳘ २०) प्ररोहे᳘युः AM. - ibid. प᳘लाश acc.! - ibid. The accent of the names is printed in the form given by AM: याज्ञवल्क्य᳘ here and 8. ३३ instead of या᳘ज्ञवल्क्य ! ↩︎

  22. औदु᳘म्बरश्च᳘मस औदु᳘म्बरः स्रु᳘व औदु᳘म्बर इ᳘ध्म औदु᳘म्बर्या AM. ↩︎

  23. व्रीहिय᳘वास्तिलमा᳘षा अ᳘णुप्रि᳘यङ्गवो acc.! - ibid दध्ना᳘ मधुना᳘ घृते᳘नोपसि᳘ञ्चत्या᳘ज्यस्य᳘ जु AM. ↩︎