०१
विश्वास-प्रस्तुतिः
यो᳘ ह वै ज्ये᳘ष्ठञ्च श्रे᳘ष्ठञ्च व्वे᳘द॥
ज्ये᳘ष्ठश्च श्रे᳘ष्ठश्च स्वा᳘नाम्भवति प्प्राणो वै ज्ये᳘ष्ठश्च श्रे᳘ष्ठश्च ज्ये᳘ष्ठश्च श्रे᳘ष्ठश्च स्वा᳘नाम्भवत्य᳘पि च ये᳘षाम्बुभूषति[[!!]] य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
यो᳘ ह वै ज्ये᳘ष्ठञ्च श्रे᳘ष्ठञ्च व्वे᳘द॥
ज्ये᳘ष्ठश्च श्रे᳘ष्ठश्च स्वा᳘नाम्भवति प्प्राणो वै ज्ये᳘ष्ठश्च श्रे᳘ष्ठश्च ज्ये᳘ष्ठश्च श्रे᳘ष्ठश्च स्वा᳘नाम्भवत्य᳘पि च ये᳘षाम्बुभूषति[[!!]] य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
यो᳘ ह वै ज्ये᳘ष्ठं च श्रे᳘ष्ठं च वे᳘द॥
ज्ये᳘ष्ठश्च श्रे᳘ष्ठश्च स्वा᳘नाम् भवति प्राणो वै ज्ये᳘ष्ठश्च श्रे᳘ष्ठश्च ज्ये᳘ष्ठश्च श्रे᳘ष्ठश्च स्वा᳘नाम् भवत्य᳘पि च ये᳘षाम् बु᳘भूषति 1 य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
ज्येष्ठ-श्रेष्ठ-ब्राह्मणं वा प्राण-विद्या-ब्राह्मणम् ।
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद । ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति । प्राणो वै ज्येष्ठश्च श्रेष्ठश्च । ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति । अपि च येषां बुभूषति । य एवं वेद ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
प्राणो गायत्रीत्युक्तं पूर्वम् । कस्मात्पुनः कारणात् प्राण-भावो गायत्र्याः न पुनर्वागादिभावः इति । यस्मात् ज्येष्ठश्च श्रेष्ठश्च प्राणो न वागादयो ज्यैष्ठ्यश्रैष्ठ्यभाजः । कथं ज्येष्ठत्वं श्रेष्ठत्वं च प्राणस्य इत्य् एतन्निर्धारयिषया इदं प्रक्रम्यते । अथवा- उक्थ-यजुः-साम-क्षत्त्रादि-भावैः प्राणस्यैवोपासनमुक्तं सत्स्वप्यन्येषु चक्षुरादिषु । तत्र हेतु-मात्रमिहानन्तर्येण सम्बध्यते । न पुनः पूर्वशेषता । विवक्षितं तु खिलत्वादस्य काण्डस्य पूर्वत्र यत् अनभिहितं विशिष्ट-फलं प्राण-विषयमुपासनं तत् वक्तव्यमिति । ‘यः’ कश्चित् । ‘ह वै’ इत्य् अवधारणार्थौ । यं ज्येष्ठ-श्रेष्ठ-गुणं वक्ष्यमाणं ‘यो वेद’ । असौ भवत्य् एव ‘ज्येष्ठश्च श्रेष्ठश्च’ । एवं फलेन प्रलोभितः सन् प्रश्नायाभिमुखीभूतः । तस्मै चाह- ‘प्राणो वै ज्येष्ठश्च श्रेष्ठश्च’ । कथं पुनर्ज्ञायते प्राणो ज्येष्ठश्च श्रेष्ठश्चेति । यस्मान्निषेककाल एव शुक्र-शोणित-सम्बन्धः प्राणादि-कलापस्यावशिष्टः । तथा ऽपि नाप्राणं शुक्रं विरोहतीति प्रथमो वृत्ति-लाभः प्राणस्य नयनादिभ्यः, अतः ज्येष्ठो वयसा प्राणः । निषेक-कालादारभ्य गर्भं पुष्यति प्राणः । प्राणे हि लब्ध-वृत्तौ पश्चाच्चक्षुरादीनां वृत्ति-लाभः । अतः प्राणस्य ज्येष्ठत्वं चक्षुरादिषु भवति ।
ननु- कश्चित् कुले ज्येष्ठो गुणहीनत्वात्तु न श्रेष्ठः, मध्यमः कनिष्ठो वा गुणाढ्यत्वात् भवेत् श्रेष्ठः । न तथेत्य् आह- प्राणो वै ज्येष्ठश्च श्रेष्ठश्च इति । कथं पुनः प्राणस्य श्रैष्ठ्यं जायते । तदिह सम्वादेन दर्शयिष्यामः । सर्वथा ऽपि तु प्राणं ज्येष्ठ-गुणं ‘यः’ वेदोपास्ते । सः ‘स्वानां’ ज्ञातीनां ‘ज्येष्ठश्च श्रेष्ठश्च’ ‘भवति’ । ‘अपि च’ ‘येषां’ स्व-जाति-व्यतिरिक्तानां मध्ये ज्येष्ठश्च श्रेष्ठश्च भविष्यामीति ‘बुभूषति’ भवितुमिच्छति तेषामपि ज्येष्ठ-श्रेष्ठ-प्राण-दर्शी ज्येष्ठश्च श्रेष्ठश्च भवति । ननु- च योनि-निमित्तं ज्येष्ठत्वं तदिच्छातः कथं भवतीति । नैष दोषः । प्राणवत् वृत्ति-लाभत्वस्यैव ज्येष्ठत्वस्य विवक्षितत्वात् ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
यो᳘ ह वै व्व᳘सिष्ठाम्वे᳘द॥
व्व᳘सिष्ठः स्वा᳘नाम्भवति व्वाग्वै व्व᳘सिष्ठा व्व᳘सिष्ठः स्वा᳘नाम्भवति य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
यो᳘ ह वै व्व᳘सिष्ठाम्वे᳘द॥
व्व᳘सिष्ठः स्वा᳘नाम्भवति व्वाग्वै व्व᳘सिष्ठा व्व᳘सिष्ठः स्वा᳘नाम्भवति य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
यो᳘ ह वै व᳘सिष्ठां वे᳘द॥
व᳘सिष्ठः स्वा᳘नाम् भवति वाग्वै व᳘सिष्ठा व᳘सिष्ठः स्वा᳘नाम् भवति य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
यो ह वै वसिष्ठां वेद । वसिष्ठः स्वानां भवति । वाग्वै वसिष्ठा । वसिष्ठः स्वानां भवति । य एवं वेद ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति’ । तद्दर्शनानु-रूपेण फलम् । येषां च ज्ञाति-व्यतिरेकेण वसिष्ठो भवितुमिच्छति तेषां च वसिष्ठो भवतीत्य् उच्यतां तर्हि का सा वसिष्ठा भवति । ‘वाग्वै वसिष्ठा’ । वासयति अतिशयेन वसति वा इति वसिष्ठा । वाग्ग्मिनो हि धनवन्तो वसन्ति अतिशयेन । आच्छादनार्थस्य वसे रूपम् । वासयन्ति च अभिभवन्ति हि वाचा वाग्ग्मिनो ऽन्यान् । तेन वसिष्ठ-गुणवत्-परिज्ञानात् वसिष्ठ-गुणो भवतीति दर्शनानुरूपं फलम् ॥ २ ॥
०३
विश्वास-प्रस्तुतिः
यो᳘ ह वै᳘ प्प्रतिष्ठाम्वे᳘द॥
प्प्र᳘तितिष्ठति समे प्प्र᳘तितिष्ठति दुर्ग्गे च᳘क्षुर्व्वै᳘ प्प्रतिष्ठा᳘ चक्षुषा[[!!]] हि᳘ समे᳘ च दुर्ग्गे᳘ च प्प्र᳘तितिष्ठति प्र᳘तितिष्ठति समे प्प्र᳘तितिष्ठति दुर्ग्गे य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
यो᳘ ह वै᳘ प्प्रतिष्ठाम्वे᳘द॥
प्प्र᳘तितिष्ठति समे प्प्र᳘तितिष्ठति दुर्ग्गे च᳘क्षुर्व्वै᳘ प्प्रतिष्ठा᳘ चक्षुषा[[!!]] हि᳘ समे᳘ च दुर्ग्गे᳘ च प्प्र᳘तितिष्ठति प्र᳘तितिष्ठति समे प्प्र᳘तितिष्ठति दुर्ग्गे य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
यो᳘ ह वै᳘ प्रतिष्ठां वे᳘द॥
प्र᳘तितिष्ठति समे प्र᳘तितिष्ठति दुर्गे च᳘क्षुर्वै᳘ प्रतिष्ठा च᳘क्षुषा हि᳘ समे᳘ च दुर्गे᳘ च प्र᳘तितिष्ठति प्र᳘तितिष्ठति समे प्र᳘तितिष्ठति दुर्गे य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
यो ह वै प्रतिष्ठां वेद । प्रतितिष्ठति समे । प्रतितिष्ठति दुर्गे । चक्षुर्वै प्रतिष्ठा । चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति । प्रतितिष्ठति समे । प्रतितिष्ठति दुर्गे । य एवं वेद ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘यो ह वै प्रतिष्ठां वेद’ अतिशयेन प्रतिष्ठानां प्रतिष्ठां प्रतिष्ठा-गुणवत् तत् चक्षुर्यो वेद । तस्यैतत्फलं ‘प्रतितिष्ठति समे’ देशे काले च । तथा ‘दुर्गे’ विषमे च दुर्गमने च देशे दुर्भिक्षादौ वा काले विषमे । यद्येवं कथ्यतां का असौ प्रतिष्ठा? ‘चक्षुर्वै प्रतिष्ठा’ । कथं चक्षुषः प्रतिष्ठात्वं, इति ब्रवीति- ‘चक्षुषा’ ‘समे च दुर्गे च’ दृष्ट्वा ‘प्रतितिष्ठति’ । अतः अनुरूपं फलं ‘प्रतितिष्ठति समे’ । ‘प्रतितिष्ठति दुर्गे’ । ‘य एवं वेद’ ॥ ३ ॥
०४
विश्वास-प्रस्तुतिः
यो᳘ ह वै᳘ सम्प᳘दम्वे᳘द॥
स᳘ᳫँ᳘ हास्मै पद्यते यङ्का᳘मङ्काम᳘यते श्रो᳘त्रम्वै᳘ सम्पच्छ्रो᳘त्रे᳘ हीमे स᳘र्व्वे व्वे᳘दा ऽअभिस᳘म्पन्नाः स᳘ᳫँ᳘ हास्मै पद्यते यङ्का᳘मङ्काम᳘यते य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
यो᳘ ह वै᳘ सम्प᳘दम्वे᳘द॥
स᳘ᳫँ᳘ हास्मै पद्यते यङ्का᳘मङ्काम᳘यते श्रो᳘त्रम्वै᳘ सम्पच्छ्रो᳘त्रे᳘ हीमे स᳘र्व्वे व्वे᳘दा ऽअभिस᳘म्पन्नाः स᳘ᳫँ᳘ हास्मै पद्यते यङ्का᳘मङ्काम᳘यते य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
यो᳘ ह वै᳘ सम्प᳘दं वे᳘द॥
स᳘ᳫं᳘ हास्मै पद्यते यं का᳘मं काम᳘यते श्रो᳘त्रं वै᳘ सम्पछ्रो᳘त्रेॗ हीमे स᳘र्वे वे᳘दा अभिस᳘म्पन्नाः स᳘ᳫं᳘ हास्मै पद्यते यं का᳘मं काम᳘यते य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
यो ह वै सम्पदं वेद । सं हास्मै पद्यते । यं कामं कामयते । श्रोत्रं वै सम्पत् । श्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः । सं हास्मै पद्यते । यं कामं कामयते । य एवं वेद ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘यो ह वै सम्पदं वेद’ सम्पद्-गुण-युक्तं ‘यो वेद’ । तस्यैतत्फलं ‘अस्मै’ विदुषे ‘सम्पद्यते ह’ । ‘यं कामं कामयते’ स कामः । किं पुनः सम्पद्-गुणकम्? ‘श्रोत्रं वै सम्पत्’ । कथं पुनःश्रोत्रस्य सम्पद्-गुणत्वं इत्य् अभिधीयते- ‘श्रोत्रे’ सति ‘हि’ यस्मादिमे ‘सर्वे वेदा अभिसम्पन्नाः’ । श्रोत्रेन्द्रियवतः अध्येयत्वात् वेद-विहित-कर्मायत्ताश्च कामाः । तस्मात् ‘श्रोत्रं वै सम्पत्’ । अतो विज्ञानानुरूपं फलं ‘संहास्मै पद्यते’ । सः ‘यं कामं कामयते’ । ‘य एवं वेद’ ॥ ४ ॥
०५
विश्वास-प्रस्तुतिः
यो᳘ ह वा᳘ ऽआय᳘तनम्वे᳘द॥
(दा) आय᳘तनᳫँ᳭ स्वा᳘नाम्भवत्याय᳘तनञ्ज᳘नानाम्म᳘नो वा᳘ ऽआय᳘तनमाय᳘तनᳫँ᳭ स्वा᳘नाम्भवत्यायतनञ्ज᳘नानां[[!!]] य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
यो᳘ ह वा᳘ ऽआय᳘तनम्वे᳘द॥
(दा) आय᳘तनᳫँ᳭ स्वा᳘नाम्भवत्याय᳘तनञ्ज᳘नानाम्म᳘नो वा᳘ ऽआय᳘तनमाय᳘तनᳫँ᳭ स्वा᳘नाम्भवत्यायतनञ्ज᳘नानां[[!!]] य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
यो᳘ ह वा᳘ आय᳘तनं वे᳘द॥
आय᳘तनᳫं स्वा᳘नाम् भवत्याय᳘तनं ज᳘नानाम् म᳘नो वा᳘ आय᳘तनमाय᳘तनᳫं स्वा᳘नाम् भवत्याय᳘तनं ज᳘नानां य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
यो ह वा आयतनं वेद । आयतनं हि स्वानां भवति । आयतनं जनानाम् । मनो वा आयतनम् । आयतनं स्वानां भवति । आयतनं जनानाम् । य एवं वेद ॥ ५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘यो ह वा आयतनं वेद’ । आयतनमाश्रयः । तद्यो वेद ‘आयतनं स्वानां भवत्य् आयतनं जनानाम्’ अन्येषामपि । किं पुनस्तदायतनमित्य् अभिधीयते । ‘मनो वा’ आयतनमाश्रय इन्द्रियाणां विषयाणां च । मनआश्रिता हि विषया आत्मनो भोग्यत्वं प्रतिपद्यन्ते । मनःसङ्कल्प-वशानि चेन्द्रियाणि प्रवर्तन्ते । अतः ‘मनः’ आयतनमिन्द्रियाणाम् । अतो दर्शनानु-रूप्येण फलम् । ‘आयतनं स्वानां भवति’ ‘आयतनं जनानां’ ‘य एवं वेद’ ॥ ५ ॥
०६
विश्वास-प्रस्तुतिः
यो᳘ ह वै प्प्र᳘जातिम्वे᳘द॥
प्प्र᳘जायते प्प्रज᳘या पशु᳘भी रे᳘तो वै प्प्रजातिः[[!!]] प्प्र᳘जायते प्प्र᳘जया[[!!]] पशु᳘भिर्य्य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
यो᳘ ह वै प्प्र᳘जातिम्वे᳘द॥
प्प्र᳘जायते प्प्रज᳘या पशु᳘भी रे᳘तो वै प्प्रजातिः[[!!]] प्प्र᳘जायते प्प्र᳘जया[[!!]] पशु᳘भिर्य्य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
यो᳘ ह वै प्र᳘जातिं वे᳘द 2 ॥
प्र᳘जायते प्रज᳘या पशु᳘भी रे᳘तो वै प्र᳘जातिः प्र᳘जायते प्रज᳘या पशु᳘भिर्य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
यो ह वै प्रजातिं वेद । प्रजायते प्रजया पशुभिः । रेतो वै प्रजातिः । प्रजायते प्रजया पशुभिः । य एवं वेद ॥ ६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘यो ह वै प्रजातिं वेद’ । ‘प्रजायते प्रजया’ पशुभिश्च सम्पन्नः । ‘रेतो वै प्रजातिः’ । रेतसा प्रजननेन्द्रियमुपलक्ष्यते । तद्विज्ञानानुरूपं फलम् । ‘प्रजायते प्रजया पशुभिर्य एवं वेद ॥ ६ ॥
०७
विश्वास-प्रस्तुतिः
ते᳘ हेमे᳘ प्प्राणाः᳘॥
(ऽ) अहᳫँ᳭श्रे᳘यसे व्विव᳘दमाना ब्ब्र᳘ह्म जग्मुः * को᳘ नो व्व᳘सिष्ठ ऽइ᳘ति त᳘द्धोवाच य᳘स्मिन्व ऽउ᳘त्क्रान्त ऽइदᳫँ᳭ श᳘रीरम्पा᳘पीयो म᳘न्यते स᳘ वो व्व᳘सिष्ठ ऽइ᳘ति॥
मूलम् - श्रीधरादि
ते᳘ हेमे᳘ प्प्राणाः᳘॥
(ऽ) अहᳫँ᳭श्रे᳘यसे व्विव᳘दमाना ब्ब्र᳘ह्म जग्मुः * 3 को᳘ नो व्व᳘सिष्ठ ऽइ᳘ति त᳘द्धोवाच य᳘स्मिन्व ऽउ᳘त्क्रान्त ऽइदᳫँ᳭ श᳘रीरम्पा᳘पीयो म᳘न्यते स᳘ वो व्व᳘सिष्ठ ऽइ᳘ति॥
मूलम् - Weber
ते᳘ हेमे᳘ प्राणाः᳟॥
अहंश्रे᳘यसे विव᳘दमाना ब्र᳘ह्म जग्मुः को᳘ नो व᳘सिष्ठ इ᳘ति य᳘स्मिन्व उ᳘त्क्रान्त इदं श᳘रीरम् पा᳘पीयो म᳘न्यते 4 स᳘ वो व᳘सिष्ठ इ᳘ति॥
मूलम् - विस्वरम्
ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः । को नो वसिष्ठ इति । तद्धोवाच । यस्मिन् व उत्क्रान्ते इदं शरीरं पापीयो मन्यते । स वो वसिष्ठ इति ॥ ७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘ते ह इमे प्राणाः’ वागादयः ‘अहंश्रेयसे’ अहं श्रेयान् इत्य् एतस्मै प्रयोजनाय ‘विवदमानाः’ विरुद्धं वदमानाः ‘ब्रह्म जग्मुः’ ब्रह्म गतवन्तः ब्रह्म-शब्द-वाच्यं प्रजापतिं गत्वा च तत् ब्रह्म ऊचुरुक्तवन्तः । ‘कः’ नो ऽस्माकं मध्ये ‘वसिष्ठः’ को नो ऽस्माकं मध्ये वसति च वासयति च । ‘तत्’ ब्रह्म तैः पृष्टं सत् ‘ह उवाच’ उक्तवत् । ‘यस्मिन् वः’ युष्माकं मध्ये ‘उत्क्रान्ते’ निर्गते देहात् ‘इदं शरीरं’ पूर्वस्मात् अतिशयेन ‘पापीयः’ पापतरं ‘मन्यते’ लोकः । शरीरं हि नाम अनेक-अशुचि-सङ्घातत्वात् जीवतो ऽपि पापमेव । ततो ऽपि कष्टतरं यस्मिन्नुत्क्रान्ते भवति । वैराग्यार्थमिदमुच्यते पापीय इति । ‘स वः’ युष्माकं मध्ये ‘वसिष्ठः’ भविष्यति । जानन्नपि वसिष्ठं प्रजापतिर्नोवाच अयं वसिष्ठः इतीतरेषामप्रियपरिहाराय । ते एवमुक्ता ब्रह्मणा प्राणादय आत्मनो वीर्य-परीक्षणाय क्रमेण उच्चक्रमुः ॥ ७ ॥
०८
विश्वास-प्रस्तुतिः
व्वाग्घो᳘च्चक्राम॥
सा᳘ सम्वत्सरम्प्रो᳘ष्याग᳘त्योवाच कथ᳘मशकत म᳘दृते जी᳘वितुमि᳘ति ते᳘ होचुर्य्य᳘था कडा᳘ ऽअवद᳘न्तो व्वाचा᳘ प्प्राण᳘न्तः प्प्राणे᳘न प᳘श्यन्तश्च᳘क्षुषा शृण्व᳘न्तः श्रो᳘त्रेण व्विद्वा᳘ᳫँ᳘सो म᳘नसा प्प्रजा᳘यमाना रे᳘तसैव᳘मजीविष्मे᳘ति प्प्र᳘विवेश ह व्वा᳘क्॥
मूलम् - श्रीधरादि
व्वाग्घो᳘च्चक्राम॥
सा᳘ सम्वत्सरम्प्रो᳘ष्याग᳘त्योवाच कथ᳘मशकत म᳘दृते जी᳘वितुमि᳘ति ते᳘ होचुर्य्य᳘था कडा᳘ ऽअवद᳘न्तो व्वाचा᳘ प्प्राण᳘न्तः प्प्राणे᳘न प᳘श्यन्तश्च᳘क्षुषा शृण्व᳘न्तः श्रो᳘त्रेण व्विद्वा᳘ᳫँ᳘सो म᳘नसा प्प्रजा᳘यमाना रे᳘तसैव᳘मजीविष्मे᳘ति प्प्र᳘विवेश ह व्वा᳘क्॥
मूलम् - Weber
वाग्घो᳘च्चक्राम॥
सा᳘ संवत्सरम् प्रो᳘ष्याग᳘त्योवाच कथ᳘मशकत म᳘दृते जी᳘वितुमि᳘ति ते᳘ होचुर्य᳘था कडा᳘ अवद᳘न्तो वाचा᳘ प्राण᳘न्तः प्राणे᳘न प᳘श्यन्तश्च᳘क्षुषा 5 शृण्व᳘न्तः श्रो᳘त्रेण विद्वा᳘ᳫं᳘सो म᳘नसा प्रजा᳘यमाना रे᳘तसैव᳘मजीविष्मे᳘ति प्र᳘विवेश ह वा᳘क्॥
मूलम् - विस्वरम्
वाग् होच्चक्राम । सा संवत्सरं प्रोष्यागत्योवाच । कथमशकत मदृते जीवितुमिति । ते होचुः । यथा कडा अवदन्तो वाचा । प्राणन्तः प्राणेन । पश्यन्तश्चक्षुषा । शृण्वन्तः श्रोत्रेण । विद्वांसो मनसा । प्रजायमाना रेतसा । एवमजीविष्मेति । प्रविवेश ह वाक् ॥ ८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तत्र ‘वागेव’ प्रथमं ‘ह’ अस्माच्छरीरात् उच्चक्रामोत्क्रान्तवती । ‘सा’ चोत्क्रम्य ‘संवत्सरं’ ‘प्रोष्य’ प्रोषिता भूत्वा पुनरागत्योवाच । ‘कथमशकत’ शक्नुवन्तो यूयं ‘मदृते’ मां विना ‘जीवितुमिति’ । एवमुक्ताः ‘ऊचुः’ । ‘यथा लोके’ ‘कडाः’ मूकाः ‘अवदन्तो वाचा,’ ‘प्राणन्तः’ प्राणनव्यापारं कुर्वन्तः प्राणेन, ‘पश्यन्तः’ दर्शन-व्यापारं ‘चक्षुषा’ कुर्वन्तः, ‘शृण्वन्तः’ श्रवण-व्यापारं कुर्वन्तः ‘श्रोत्रेण,’ ‘विद्वांसः’ ‘मनसा’ कार्याकार्यादि-विषयं, ‘प्रजायमाना रेतसा’ पुत्रानुत्पादयन्तः ‘एवमजीविष्म’ वयम् । इत्य् एवं प्राणैर्दत्तोत्तरा वाक् आत्मनो न वसिष्ठत्वं बुद्ध्वा ‘प्रविवेश’ ॥ ८ ॥
०९
विश्वास-प्रस्तुतिः
(क्च᳘) च᳘क्षुर्हो᳘च्चक्राम॥
त᳘त्सम्वत्सरम्प्रो᳘ष्याग᳘त्योवाच कथ᳘मशकत म᳘दृते जी᳘वितुमि᳘ति ते᳘ होचुर्य्य᳘था ऽन्धा᳘ ऽअपश्य᳘न्तश्च᳘क्षुषा प्प्राण᳘न्तः प्प्राणे᳘न व्व᳘दन्तो व्वाचा᳘ शृण्व᳘न्तः श्रो᳘त्रेण व्विद्वा᳘ᳫँ᳘सो म᳘नसा प्प्रजा᳘यमाना रे᳘तसैव᳘मजीविष्मे᳘ति प्प्र᳘विवेश ह च᳘क्षुः॥
मूलम् - श्रीधरादि
(क्च᳘) च᳘क्षुर्हो᳘च्चक्राम॥
त᳘त्सम्वत्सरम्प्रो᳘ष्याग᳘त्योवाच कथ᳘मशकत म᳘दृते जी᳘वितुमि᳘ति ते᳘ होचुर्य्य᳘था ऽन्धा᳘ ऽअपश्य᳘न्तश्च᳘क्षुषा प्प्राण᳘न्तः प्प्राणे᳘न व्व᳘दन्तो व्वाचा᳘ शृण्व᳘न्तः श्रो᳘त्रेण व्विद्वा᳘ᳫँ᳘सो म᳘नसा प्प्रजा᳘यमाना रे᳘तसैव᳘मजीविष्मे᳘ति प्प्र᳘विवेश ह च᳘क्षुः॥
मूलम् - Weber
च᳘क्षुर्हो᳘च्चक्राम॥
त᳘त्संवत्सरम् प्रो᳘ष्याग᳘त्योवाच कथ᳘मशकत म᳘दृते जी᳘वितुमि᳘ति ते᳘ होचुर्य᳘थान्धा᳘ अपश्य᳘न्तश्च᳘क्षुषा प्राण᳘न्तः प्राणे᳘न व᳘दन्तो वाचा᳘ 6 शृण्व᳘न्तः श्रो᳘त्रेण विद्वा᳘ᳫं᳘सो म᳘नसा प्रजा᳘यमाना रे᳘तसैव᳘मजीविष्मे᳘ति 7 प्र᳘विवेश ह च᳘क्षुः॥
मूलम् - विस्वरम्
चक्षुर्होच्चक्राम । तत्संवत्सरं प्रोष्यागत्योवाच । कथमशकत मदृते जीवितुमिति । ते होचुः । यथा ऽन्धा अपश्यन्तश्चक्षुषा । प्राणन्तः प्राणेन । वदन्तो वाचा । शृण्वन्तः श्रोत्रेण । विद्वांसो मनसा । प्रजायमाना रेतसा । एवमजीविष्मेति । प्रविवेश ह चक्षुः ॥ ९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा- चक्षुर्होच्चक्रामेत्यादि पूर्ववत् । ‘श्रोत्रं मनः प्राजातिः’ इत्येतत्पर्यायत्रयं व्याख्येयम् ॥ ९-१२ ॥
१०
विश्वास-प्रस्तुतिः
श्रो᳘त्रᳫँ᳭ हो᳘च्चक्राम॥
त᳘त्सम्वत्सरम्प्रो᳘ष्याग᳘त्योवाच कथ᳘मशकत म᳘दृते जी᳘वितुमि᳘ति ते᳘ होचुर्य्य᳘था बधिरा᳘ ऽअशृण्व᳘न्तः श्रो᳘त्रेण प्प्राण᳘न्तः प्प्राणे᳘न व्व᳘दन्तो व्वाचा प᳘श्यन्तश्च᳘क्षुषा व्विद्वा᳘ᳫँ᳘सो म᳘नसा प्प्रजा᳘यमाना रे᳘तसैव᳘मजीविष्मे᳘ति प्प्र᳘विवेश ह श्रो᳘त्रम्॥
मूलम् - श्रीधरादि
श्रो᳘त्रᳫँ᳭ हो᳘च्चक्राम॥
त᳘त्सम्वत्सरम्प्रो᳘ष्याग᳘त्योवाच कथ᳘मशकत म᳘दृते जी᳘वितुमि᳘ति ते᳘ होचुर्य्य᳘था बधिरा᳘ ऽअशृण्व᳘न्तः श्रो᳘त्रेण प्प्राण᳘न्तः प्प्राणे᳘न व्व᳘दन्तो व्वाचा प᳘श्यन्तश्च᳘क्षुषा व्विद्वा᳘ᳫँ᳘सो म᳘नसा प्प्रजा᳘यमाना रे᳘तसैव᳘मजीविष्मे᳘ति प्प्र᳘विवेश ह श्रो᳘त्रम्॥
मूलम् - Weber
श्रो᳘त्रᳫं हो᳘च्चक्राम॥
त᳘त्संवत्सरम् प्रो᳘ष्याग᳘त्योवाच कथ᳘मशकत म᳘दृते जी᳘वितुमि᳘ति ते᳘ होचुर्य᳘था बधिरा᳘ अशृण्व᳘न्तः 8 श्रो᳘त्रेण प्राण᳘न्तः प्राणे᳘न व᳘दन्तो वाचा प᳘श्यन्तश्च᳘क्षुषा विद्वा᳘ᳫं᳘सो म᳘नसा प्रजा᳘यमाना रे᳘तसैव᳘मजीविष्मे᳘ति 9 प्र᳘विवेश ह श्रो᳘त्रम्॥
मूलम् - विस्वरम्
श्रोत्रं होच्चक्राम । तत्संवत्सरं प्रोष्यागत्योवाच । कथमशकत मदृते जीवितुमिति । ते होचुः । यथा बधिरा अशृण्वन्तः श्रोत्रेण । प्राणन्तः प्राणेन । वदन्तो वाचा । पश्यन्तश्चक्षुषा । विद्वांसो मनसा । प्रजायमाना रेतसा । एवमजीविष्मेति । प्रविवेश ह श्रोत्रम् ॥ १० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
[व्याख्यानं नवमे]
११
विश्वास-प्रस्तुतिः
(म्म᳘) म᳘नो हो᳘च्चक्राम॥
त᳘त्सम्वत्सरम्प्रो᳘ष्याग᳘त्योवाच कथ᳘मशकत म᳘दृते जी᳘वितुमि᳘ति ते᳘ होचुर्य्य᳘था मुग्धा᳘ ऽअविद्वा᳘ᳫँ᳘सो म᳘नसा प्प्राण᳘न्तः प्प्राणे᳘न व्व᳘दन्तो व्वाचा प᳘श्यन्तश्च᳘क्षुषा शृण्व᳘न्तः श्रो᳘त्रेण प्प्रजा᳘यमाना रे᳘तसैव᳘मजीविष्मे᳘ति प्प्र᳘विवेश ह मनः[[!!]]॥
मूलम् - श्रीधरादि
(म्म᳘) म᳘नो हो᳘च्चक्राम॥
त᳘त्सम्वत्सरम्प्रो᳘ष्याग᳘त्योवाच कथ᳘मशकत म᳘दृते जी᳘वितुमि᳘ति ते᳘ होचुर्य्य᳘था मुग्धा᳘ ऽअविद्वा᳘ᳫँ᳘सो म᳘नसा प्प्राण᳘न्तः प्प्राणे᳘न व्व᳘दन्तो व्वाचा प᳘श्यन्तश्च᳘क्षुषा शृण्व᳘न्तः श्रो᳘त्रेण प्प्रजा᳘यमाना रे᳘तसैव᳘मजीविष्मे᳘ति प्प्र᳘विवेश ह मनः[[!!]]॥
मूलम् - Weber
म᳘नो हो᳘च्चक्राम॥
त᳘त्संवत्सरम् प्रो᳘ष्याग᳘त्योवाच कथ᳘मशकत म᳘दृते जी᳘वितुमि᳘ति ते᳘ होचुर्य᳘था मुग्धा᳘ अविद्वा᳘ᳫं᳘सो 10 म᳘नसा प्राण᳘न्तः प्राणे᳘न व᳘दन्तो वाचा प᳘श्यन्तश्च᳘क्षुषा 11 शृण्व᳘न्तः श्रो᳘त्रेण प्रजा᳘यमाना रे᳘तसैव᳘मजीविष्मे᳘ति 12 प्र᳘विवेश ह म᳘नः॥
मूलम् - विस्वरम्
मनो होच्चक्राम । तत्संवत्सरं प्रोष्यागत्योवाच । कथमशकत मदृते जीवितुमिति । ते होचुः । यथा मुग्धा अविद्वांसो मनसा । प्राणन्तः प्राणेन । वदन्तो वाचा । पश्यन्तश्चक्षुषा । शृण्वन्तः श्रोत्रेण । प्रजायमाना रेतसा । एवमजीविष्मेति । प्रविवेश ह मनः ॥ ११ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
[व्याख्यानं नवमे]
१२
विश्वास-प्रस्तुतिः
(नो) रे᳘तो हो᳘च्चक्राम॥
त᳘त्सम्वत्सरम्प्रो᳘ष्याग᳘त्योवाच कथ᳘मशकत म᳘दृते जी᳘वितुमि᳘ति ते᳘ होचुर्य्य᳘था क्लीबा᳘ ऽअप्प्रजा᳘यमाना रे᳘तसा प्प्राण᳘न्तः प्प्राणे᳘न व्व᳘दन्तो व्वाचा प᳘श्यन्तश्च᳘क्षुषा शृण्व᳘न्तः श्रो᳘त्रेण व्विद्वा᳘ᳫँ᳭सो म᳘नसैव᳘मजीविष्मे᳘ति प्प्र᳘विवेश ह रे᳘तः॥
मूलम् - श्रीधरादि
(नो) रे᳘तो हो᳘च्चक्राम॥
त᳘त्सम्वत्सरम्प्रो᳘ष्याग᳘त्योवाच कथ᳘मशकत म᳘दृते जी᳘वितुमि᳘ति ते᳘ होचुर्य्य᳘था क्लीबा᳘ ऽअप्प्रजा᳘यमाना रे᳘तसा प्प्राण᳘न्तः प्प्राणे᳘न व्व᳘दन्तो व्वाचा प᳘श्यन्तश्च᳘क्षुषा शृण्व᳘न्तः श्रो᳘त्रेण व्विद्वा᳘ᳫँ᳭सो म᳘नसैव᳘मजीविष्मे᳘ति प्प्र᳘विवेश ह रे᳘तः॥
मूलम् - Weber
रे᳘तो हो᳘च्चक्राम॥
त᳘त्संवत्सरम् प्रो᳘ष्याग᳘त्योवाच कथ᳘मशकत म᳘दृते जी᳘वितुमि᳘ति ते᳘ होचुर्य᳘था क्लीबा᳘ अप्रजा᳘यमाना 13 रे᳘तसा प्राण᳘न्तः प्राणे᳘न व᳘दन्तो वाचा प᳘श्यन्तश्च᳘क्षुषा 14 शृण्व᳘न्तः श्रो᳘त्रेण विद्वा᳘ᳫं᳘सो म᳘नसैव᳘मजीविष्मे᳘ति 15 प्र᳘विवेश ह रे᳘तः॥
मूलम् - विस्वरम्
रेतो होच्चक्राम । तत्संवत्सरं प्रोष्यागत्योवाच । कथमशकत मदृते जीवितुमिति । ते होचुः । यथा क्लीबा अप्रजायमाना रेतसा । प्राणन्तः प्राणेन । वदन्तो वाचा । पश्यन्तश्चक्षुषा । शृण्वन्तः श्रोत्रेण । विद्वांसो मनसा । एवमजीविष्मेति । प्रविवेश ह रेतः ॥ १२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
[व्याख्यानं नवमे]
१३
विश्वास-प्रस्तुतिः
(तो᳘ ऽथ) अ᳘थ ह प्प्राण᳘ ऽउत्क्रमिष्य᳘न्॥
(न्य) य᳘था महासुहयः᳘ सैन्धवः᳘ पड्बी᳘शशङ्कून्त्सम्वृहे᳘देव᳘ᳫँ᳘ है᳘वेमान्प्राणान्त्स᳘म्ववर्ह ते᳘ होचुर्म्मा᳘ भगव ऽउ᳘त्क्रमीर्न्न वै᳘ शक्ष्यामस्त्व᳘दृते जी᳘वितुमि᳘ति त᳘स्य वै᳘ मे बलि᳘ङ्कुरुते᳘ति तथे᳘ति॥
मूलम् - श्रीधरादि
(तो᳘ ऽथ) अ᳘थ ह प्प्राण᳘ ऽउत्क्रमिष्य᳘न्॥
(न्य) य᳘था महासुहयः᳘ सैन्धवः᳘ पड्बी᳘शशङ्कून्त्सम्वृहे᳘देव᳘ᳫँ᳘ है᳘वेमान्प्राणान्त्स᳘म्ववर्ह ते᳘ होचुर्म्मा᳘ भगव ऽउ᳘त्क्रमीर्न्न वै᳘ शक्ष्यामस्त्व᳘दृते जी᳘वितुमि᳘ति त᳘स्य वै᳘ मे बलि᳘ङ्कुरुते᳘ति तथे᳘ति॥
मूलम् - Weber
अ᳘थ ह प्राण᳘ उत्क्रमिष्य᳘न्॥
य᳘था महासुहयः᳘ सैन्धवः᳘ पड्वी᳘शशङ्कून्त्संवृहे᳘देव᳘ᳫं᳘ हैॗवेमा᳘त्प्राणान्त्सं᳘ववर्ह ते᳘ होचुर्मा᳘ भगव उ᳘त्क्रमीर्न वै᳘ शक्ष्यामस्त्व᳘दृते 16 जी᳘वितुमि᳘ति त᳘स्य वै᳘ मे बलिं᳘ कुरुते᳘ति तथे᳘ति॥
मूलम् - विस्वरम्
अथ ह प्राण उत्क्रमिष्यन्, यथा महासुहयः सैन्धवः पड्बीशशङ्कून् संवृहेत्, एवं हैवेमान् प्राणान् संववर्ह । ते होचुः । मा भगव उत्क्रमीः । न वै शक्ष्यामः त्वदृते जीवितुमिति । तस्य वै मे बलिं कुरुतेति तथेति ॥ १३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अथ ह प्राण उत्क्रमिष्यन्’ उत्क्रमणं करिष्यन्- तदानीमेव स्वस्थानात्प्रचलिताः वागादयः किमिवेत्यब्रुवत । ‘यथा’ लोके महांश्चासौ सुहयश्च ‘महासुहयः’ । महान् परिमाणतः सुहयः शोभनो हयो लक्षणोपेतः । सिन्धु-देशे भवः ‘सैन्धवः’ अभिजनतः । ‘पड्बीशशङ्कून्’ पादबन्धनान् शङ्कून् पड्बीशाश्च ते शङ्कवश्च तान् ‘संवृहेत्’ उच्छिद्येत् युगपदुत्खनेत् अश्वारोहे आरूढे परीक्षणाय । ‘एवं ह’ एव ‘इमान्’ वागादीन् ‘प्राणान्’ ‘संववर्ह’ उद्यतवान् स्व-स्थानात् भ्रंशितवान् । ‘ते’ वागादयः ‘ऊचुः’ । हे ‘भगवः’! भगवन्! ‘मा उत्क्रमीः’ यस्मात् ‘न वै शक्ष्यामः’ ‘त्वदृते’ त्वां विना ‘जीवितुं’ । यद्य् एवं मम श्रेष्ठता विज्ञाता भवद्भिः अहमत्र श्रेष्ठ इति । ‘तस्य वै मे’ मम ‘बलिं कुरुत’ करं कुरुत करं प्रयच्छतेति । अयं च प्राण-संवादः कलितो विदुषः श्रेष्ठ-परीक्षण-प्रकारोपदेशः । अनेन हि प्रकारेण विद्वान् को नु खलु अत्र श्रेष्ठ इति परीक्षणं करोति । स एष परीक्षण-प्रकारः संवाद-भूतः कथ्यते । न हि अन्यथा संहत्य-कारिणां सताम् एषां अञ्जसैव संवत्सर-मात्रमेव एकैकस्य निर्गमनादि उपपद्यते । तस्मात् विद्वानेवानेन प्रकारेण विचारयति वागादीनां प्रधानं बुभुत्सुः उपासनाय ॥ १३ ॥
१४
विश्वास-प्रस्तुतिः
सा᳘ ह व्वा᳘गुवाच॥
यद्वा᳘ ऽअहम्व᳘सिष्ठा᳘ ऽस्मि त्वन्तद्व᳘सिष्ठो ऽसी᳘ति च᳘क्षुर्य्यद्वा᳘ ऽअह᳘म्प्रतिष्ठा᳘ ऽस्मि त्वन्त᳘त्प्रति᳘ष्ठो ऽसी᳘ति श्रो᳘त्रं यद्वा᳘ ऽअह᳘ᳫँ᳘ सम्पद᳘स्मि त्वन्त᳘त्सम्प᳘दसी᳘ति म᳘नो यद्वा᳘ ऽअह᳘माय᳘तनम᳘स्मि त्वन्त᳘दायतनमसी᳘ति[[!!]] रे᳘तो यद्वा᳘ ऽअहम्प्र᳘जातिर᳘स्मि त्वन्तत्प्र᳘जातिरसी᳘ति त᳘स्यो मे किम᳘न्नं किम्वा᳘स ऽइ᳘ति य᳘दिदं किञ्चा᳘श्वभ्य ऽआक्रि᳘मिभ्य ऽआ᳘कीटपतङ्गे᳘भ्यस्तत्ते᳘ ऽन्नमा᳘पो व्वा᳘स ऽइ᳘ति न᳘ ह वा᳘ ऽअस्या᳘नन्नञ्जग्ध᳘म्भवति ना᳘नन्नम्प्र᳘तिगृहीतं य᳘ ऽएव᳘मेत᳘दनस्या᳘न्नम्वे᳘द॥
मूलम् - श्रीधरादि
सा᳘ ह व्वा᳘गुवाच॥
यद्वा᳘ ऽअहम्व᳘सिष्ठा᳘ ऽस्मि त्वन्तद्व᳘सिष्ठो ऽसी᳘ति च᳘क्षुर्य्यद्वा᳘ ऽअह᳘म्प्रतिष्ठा᳘ ऽस्मि त्वन्त᳘त्प्रति᳘ष्ठो ऽसी᳘ति श्रो᳘त्रं यद्वा᳘ ऽअह᳘ᳫँ᳘ सम्पद᳘स्मि त्वन्त᳘त्सम्प᳘दसी᳘ति म᳘नो यद्वा᳘ ऽअह᳘माय᳘तनम᳘स्मि त्वन्त᳘दायतनमसी᳘ति[[!!]] रे᳘तो यद्वा᳘ ऽअहम्प्र᳘जातिर᳘स्मि त्वन्तत्प्र᳘जातिरसी᳘ति त᳘स्यो मे किम᳘न्नं किम्वा᳘स ऽइ᳘ति य᳘दिदं किञ्चा᳘श्वभ्य ऽआक्रि᳘मिभ्य ऽआ᳘कीटपतङ्गे᳘भ्यस्तत्ते᳘ ऽन्नमा᳘पो व्वा᳘स ऽइ᳘ति न᳘ ह वा᳘ ऽअस्या᳘नन्नञ्जग्ध᳘म्भवति ना᳘नन्नम्प्र᳘तिगृहीतं य᳘ ऽएव᳘मेत᳘दनस्या᳘न्नम्वे᳘द॥
मूलम् - Weber
सा᳘ ह वा᳘गुवाच॥
यद्वा᳘ अहं व᳘सिष्ठा᳘स्मि त्वं तद्व᳘सिष्ठोऽसी᳘ति च᳘क्षुर्यद्वा᳘ अह᳘म् प्रतिष्ठा᳘स्मि त्वं त᳘त्प्रतिॗष्ठोऽसी᳘ति श्रो᳘त्रं यद्वा᳘ अह᳘ᳫं᳘ सम्पद᳘स्मि त्वं त᳘त्सम्प᳘दसी᳘ति म᳘नो यद्वा᳘ अह᳘माय᳘तनम᳘स्मि त्वं त᳘दाय᳘तनमसी᳘ति रे᳘तो यद्वा᳘ अहम् प्र᳘जातिर᳘स्मि त्वं तत्प्र᳘जातिरसी᳘ति त᳘स्यो मे किम᳘न्नं किं वा᳘स इ᳘ति य᳘दिदं किं चा᳘ श्वभ्य आ क्रि᳘मिभ्य आ᳘ कीटपतङ्गे᳘भ्यस्तत्ते᳘ऽन्नमा᳘पो 17 वा᳘स इ᳘ति न᳘ ह वा अस्या᳘नन्नं जग्ध᳘म् भवति ना᳘नन्नम् प्र᳘तिगृहीतं य᳘ एव᳘मेत᳘दनस्या᳘न्नं वे᳘द॥
मूलम् - विस्वरम्
सा ह वागुवाच । यद्वा अहं वसिष्ठा ऽस्मि त्वं तद्वसिष्ठो ऽसीति । चक्षुः- यद्वा अहं प्रतिष्ठा ऽस्मि त्वं तत्प्रतिष्ठा ऽसीति । श्रोत्रम् यद्वा अहं सम्पदस्मि त्वं तत्सम्पदसीति । मनः- यद्वा अहमायतनमस्मि त्वं तदायतनमसीति । रेतः यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति । तस्य उ मे किमन्नं किं वास इति । यदिदं किञ्च । आश्वभ्यः । आक्रिमिभ्यः । आकीटपतङ्गेभ्यः । तत्ते ऽन्नम् । आपो वासः इति । न ह वा अस्यानन्नं जग्धं भवति । नानन्नं प्रतिगृहीतम् । य एवमेतदनस्यान्नं वेद ॥ १४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
प्रथमं बलि-दानाय प्रवृत्ता ‘वाक् सा ह’ किल ‘उवाच’ उक्तवती । ‘यद्वै अहं वसिष्ठा अस्मि’ यन्मम वसिष्ठत्वं ‘तत् त्वं वै’ तत्तेन वसिष्ठ-गुणेन ‘त्वं तद्वसिष्ठो ऽसीति’ । यद्वा ‘अहं प्रतिष्ठा अस्मि’ ‘त्वं तत्प्रतिष्ठो ऽसि’ । या मम प्रतिष्ठा सा त्वमसीति ‘चक्षुः’ । समानमन्यत् । सम्पदायतन-प्रजातित्व-गुणान् क्रमेण समर्पितवन्तः । यद्य् एवं साधु बलिं दत्तवन्तः, ब्रूत ‘तस्य मे’ एवंगुण-विशिष्टस्य ‘किमन्नं किं वास इति’ आहुरितरे । यदिदं’ लोके ‘किञ्च’ किञ्चिदल्पमपि ‘आश्वभ्यः आक्रिमिभ्यः’ श्वात्रेण सह क्रिम्यन्तं कीटपतङ्गान्तं च तेन सह सर्वमेव यत् प्राणिभिरद्यमानं अन्नं तत्सर्वं तवान्नम् । सर्वं प्राणस्यान्नमिति दृष्टिरत्र विधीयते । केचित्तु सर्वभक्षणे दोषाभावं वदन्ति प्राणान्नविदः । तदसङ्गतम् । शास्त्रान्तरेण प्रतिषिद्धत्वात् । तेनास्य विकल्प इति चेत्, अविधायकत्वात् । ‘न ह वा अस्यानन्नं जग्धं भवति’ इति “सर्वं प्राणस्यैतत्” इत्येतस्य विज्ञानस्य विहितस्य स्तुत्यर्थमेतत् । तेनैकवाक्यतापत्तेः । न तु शास्त्रान्तर-विहितस्य बाधने सामर्थ्यं अन्य-परत्वादस्य । प्राण-मात्रस्य सर्वमित्येतद्दर्शनार्थं दर्शनमिह विधित्सितम् । न तु सर्वं भक्षयेदिति । यत्तु सर्वभक्षणे दोषाभाव-ज्ञानं तन्मिथ्यैव प्रमाणाभावात् । विदुषः प्राणत्वात्सर्वानोपपत्तेः सामर्थ्याददोष इति चेन्न शेषान्नत्वानुपपत्तेः । सत्यं, यद्यपि विद्वान् प्राणो येन कार्य-कारण-सङ्घातेन सहितस्य विद्वत्ता तेन कार्य-कारण-सङ्घातेन क्रिमिकीट-देवाद्य-शेषान्नभक्षणं नोपपद्यते । तेन तत्र अशेषान्नभक्षणे दोषाभाव-ज्ञापनमपार्थकम्, अप्राप्तत्वात् अशेषान्न-भक्षण-दोषस्य ।
ननु- प्राणः सन् भक्षयत्य् एव क्रिमिकीटाद्यन्नमपि । बाढम् । किं तु, न तद्विषयः प्रतिषेधो ऽस्ति । तस्मादेव रक्तं किंशुकं तत्र दोषाभावः (?) । अतः तद्रूपेण दोषाभाव-ज्ञानमनर्थकम्, अप्राप्तत्वात् अशेषान्न-भक्षण-दोषस्य । किं तु- येन कार्य-कारण-सङ्घात-संसर्गेण निषेधः क्रियते तत्-सम्बन्धेन तु इह नैव प्रतिप्रसवो ऽस्ति । तस्मात्प्रतिषेधातिक्रमे दोष एव भवेत् । अन्य-विषयत्वात् ‘न ह वा’ इत्यादेः । न च- ब्राह्मणादि-देहस्य सर्वान्नत्व-दर्शनमिह विधीयते । किं तु, प्राण-मात्रस्यैव । यथा च सामान्येन समग्रान्नस्य प्राणस्य किञ्चिदन्न-जातं कस्यचित् जीवन-हेतुः । यथा विषं विषजस्य क्रिमेः तदेवान्यस्य प्राणान्नपि सद्दृष्टमेव दोषमुत्पादयति मरणादि-लक्षणम् । तथा सर्वान्नस्यापि प्राणस्य प्रतिषिद्धान्न-भक्षणे ब्राह्मणत्वादि-शरीर-सम्बन्धात् दोष एव भवेत् । तस्मान्मृषा ज्ञानमेव अभक्ष्य-भक्षणे दोषाभाव-ज्ञानम् । ‘आपो वास इति’ आपो भक्ष्यमाणा वासःस्थानीयास्तव । अत्र च प्राणस्यापो वासः इत्येतद्दर्शनं तु वासः-कार्ये आपो विनियोक्तुं शक्याः । तस्माद्यथा प्राप्ते भक्षणे दर्शन-मात्रं कर्तव्यम् । ‘न ह वै’ अस्य सर्वं प्राणस्यान्नं इत्येवंविदः अनन्नमनदनीयं ‘जग्धं’ भुक्तं ‘भवति’ । यद्यप्यनेन अनदनीयं भुक्तं अनदनीयमेव भुक्तं भवेत् । न तु तत्-कृत-दोषेण लिप्यते इत्य् एतद्विद्यास्तुतिः इत्यवादि । तथा ‘नानन्नं प्रतिगृहीतम्’ यद्यपि अप्रतिग्राह्यं हस्त्यादि प्रतिगृहीतं भवेत् । तदप्यन्नमेव प्रतिग्राह्यं प्रतिगृहीतं भवेत् । तत्रापि अप्रतिग्राह्य-प्रतिग्रह-दोषेण न लिप्यते इति स्तुत्य् अर्थमेव । ‘य एवमेतदनस्य’ प्राणस्यान्नं ‘वेद’ । फलं तु प्राणात्म-भाव एव । न तु एतत्-फलाभिप्रायेण । किं तर्हि स्तुत्य् अभिप्रायेणेति । ननु- एतदेव फलं कस्मान्न भवति । न प्राणात्म-दर्शिनः प्राणात्म-भाव एव फलम् । तत्र च प्राणात्म-भूतस्य सर्वात्मना ऽनदनीयमपि अद्यमेव । तथा ऽप्रतिग्राह्यमपि प्रतिग्राह्यमेवेति यथा-प्राप्तमेवोपादाय विद्या स्तूयते । अतो नैव फल-विधि-सरूपता वाक्यस्य ॥ १४ ॥
१५
विश्वास-प्रस्तुतिः
त᳘द्विद्वा᳘ᳫँ᳘सः श्रो᳘त्रियाः॥
(ऽ) अशिष्य᳘न्त ऽआ᳘चामन्त्यशित्वा᳘ ऽऽचामन्त्येतमे᳘व त᳘दनम᳘नग्नं कुर्व्व᳘न्तो मन्यन्ते त᳘स्मादेवम्वि᳘दशिष्यन्ना᳘चामे दशित्वा᳘ ऽऽचामेदेत᳘मेव त᳘दनम᳘नग्नङ्कुरुते॥
मूलम् - श्रीधरादि
त᳘द्विद्वा᳘ᳫँ᳘सः श्रो᳘त्रियाः॥
(ऽ) अशिष्य᳘न्त ऽआ᳘चामन्त्यशित्वा᳘ ऽऽचामन्त्येतमे᳘व त᳘दनम᳘नग्नं कुर्व्व᳘न्तो मन्यन्ते त᳘स्मादेवम्वि᳘दशिष्यन्ना᳘चामे दशित्वा᳘ ऽऽचामेदेत᳘मेव त᳘दनम᳘नग्नङ्कुरुते॥
मूलम् - Weber
त᳘द्विद्वा᳘ᳫं᳘सः श्रो᳘त्रियाः॥
अशिष्य᳘न्त आ᳘चामन्त्यशित्वा᳘चामन्त्येतमे᳘व त᳘दनम᳘नग्नं कुर्व᳘न्तो मन्यन्ते त᳘स्मादेवंवि᳘दशिष्यन्ना᳘चामेदशित्वा᳘चामेदेत᳘मेव त᳘दनम᳘नग्नं कुरुते 18 ॥
मूलम् - विस्वरम्
तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्ति । अशित्वा आचामन्ति । एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते । तस्मादेवम्विदशिष्यन्नाचामेत् । अशित्वा आचामेत् । एतमेव तदनमनग्नं कुरुते ॥ १५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यस्मादापो वासः प्राणस्य तस्मात् ‘विद्वांसः’ ब्राह्मणाः ‘श्रोत्रियाः’ अधीत-वेदाः ‘अशिष्यन्तः’ भोक्ष्यमाणाः आचामन्त्यपः । ‘अशित्वा ऽऽचामन्ति’ भुक्त्वा चोत्तर-कालमपो भक्षयन्ति । तत्र तेषामाचामतां को ऽभिप्राय इति ब्रूते । ‘एतमेव’ ‘अनं’ प्राणं ‘अनग्नं कुर्वन्तो मन्यन्ते’ । अस्ति चैतत् । यो यस्मै वासो ददाति तमनग्नं करोमीति हि मन्यते । प्राणस्य च आपो वास इत्य् अभिहितम् । यदपः पिबामि तत्प्राणस्य वासो ददामीति विज्ञानं कर्तव्यं इत्य् एवमर्थमेतत् । ननु- भोक्ष्यमाणो भुक्तवांश्च प्रयतो भविष्यामि इत्य् आचामति । तत्र च प्राणस्यानग्नता-करणार्थत्वे न द्विःकार्यता ऽऽचमनस्य भवेत् । तत्र च कार्यद्वयं आचमनस्यैकस्य युक्तम् । यदि प्रायत्यार्थं नानग्नता ऽर्थम् । अथानग्नता ऽर्थं न प्रायत्यर्थम् । यस्मादेवं तस्मात् द्वितीयं आचमनान्तरं प्राणस्यानग्नता-करणाय भवतु । न, क्रिया-द्वित्वोपपत्तेः । द्वे ह्य् एते क्रिये भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं स्मृति-विहितं तत्प्रायत्यार्थं भवति क्रिया-मात्रमेव । न तु तत्र प्रायत्य-दर्शनादि अपेक्षते । तत्राचमनाङ्ग-भूतासु अप्सु वासो-ज्ञानं प्राणस्य इतिकर्तव्यतया चोद्यते । ननु- तस्मिन् क्रियमाणे आचमनस्य प्रायत्यार्थता बाध्येत क्रियान्तरत्वात् आचमनस्य । तस्मात् भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं तच्चापो वासः प्राणस्येति दर्शन-मात्रं विधीयते, अप्राप्तत्वादन्यतः ॥ १५ ॥
इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे षष्ठे ऽध्याये द्वितीयं ज्येष्ठ-श्रेष्ठ-ब्राह्मणं वा प्राण-विद्या-ब्राह्मणं परिसमाप्तम् ॥ १४ (९) ६ । २ ॥
-
त्य᳘पि च᳘ येषां वुभू᳘षति AM. - यो᳘ ह वै प्र᳘तिष्ठां वे᳘द, च᳘क्षुषा हि स᳘मे AM. ↩︎
-
यो᳘ ह वै प्र᳘जापतिं वे᳘द A. ↩︎
-
अत्र “तद्धोचुः” इत्यधिकं काण्वाः पठन्ति । ↩︎
-
आहᳫश्रे᳘यसे A. - ibid. पा᳘पीयो मन्य᳘ते AM. ↩︎
-
र्य᳘था कडा अवद᳘न्तो वा᳘चा, पश्य᳘न्तश्च᳘क्षुषा AM. ibid. ↩︎
-
र्य᳘थान्धा अपश्य᳘न्त, व᳘दन्तो वा᳘चा AM. ↩︎
-
वम᳘जीविष्मे᳘ति AM. ↩︎
-
र्य᳘था वधिरा अशृण्व᳘न्तः AM. - ibid. ↩︎
-
वम᳘जीविष्मे᳘ति AM. ↩︎
-
र्य᳘था मुग्धा अविद्वा᳘ᳫसो AM. ↩︎
-
वा᳘चा पश्य᳘न्तश्च᳘क्षुषा AM. ↩︎
-
वम᳘जीविष्मे᳘ति AM. ↩︎
-
र्य᳘था क्लीबा अप्रजा᳘यमाना AM. ↩︎
-
वा᳘चा पश्य᳘न्तश्च᳘क्षुषा AM. ↩︎
-
वम᳘जीविष्मे᳘ति AM. ↩︎
-
पड्बी᳘शशङ्कून्त्सं᳘वृहेदेव᳘ᳫ, न वै शक्ष्या᳘मस्त्व᳘ AM. ↩︎
-
अहं᳘ वसि᳘ष्ठामि त्वं त᳘द्वसि᳘ष्ठो, सम्प᳘दस्मि, य᳘तनमस्मि AM. - ibid. अहं᳘ प्रजा᳘पतिरस्मि त्वन्त᳘त्प्रजा᳘पति A. – ibid. आ᳘ क्रिमिभ्य आ᳘ कीट᳘पतङ्गे᳘भ्यस्तत्ते᳘ AM ↩︎
-
त᳘दनम᳘नग्नं कु᳘र्वन्तो म᳘न्यन्ते, त᳘दनर्म᳘नग्नं᳘ कुरुते AM. ↩︎