०१
विश्वास-प्रस्तुतिः
श्वेत᳘केतुर्ह वा᳘ ऽआरुणेयः᳘॥
पञ्चाला᳘नाम्परिष᳘दमा᳘जगाम स ऽआ᳘जगाम जै᳘वलम्प्रवा᳘हणम्परिचार᳘यमाणन्त᳘मुदी᳘क्ष्या᳘भ्युवाद कु᳘मारा३ ऽइ᳘ति स᳘ भो३ ऽइ᳘ति प्प्र᳘तिशुश्रावा᳘नुशिष्टो᳘ न्वसि[[!!]] पित्रेत्योमि᳘ति होवाच॥
मूलम् - श्रीधरादि
श्वेत᳘केतुर्ह वा᳘ ऽआरुणेयः᳘॥
पञ्चाला᳘नाम्परिष᳘दमा᳘जगाम स ऽआ᳘जगाम जै᳘वलम्प्रवा᳘हणम्परिचार᳘यमाणन्त᳘मुदी᳘क्ष्या᳘भ्युवाद कु᳘मारा३ ऽइ᳘ति स᳘ भो३ ऽइ᳘ति प्प्र᳘तिशुश्रावा᳘नुशिष्टो᳘ न्वसि[[!!]] पित्रेत्योमि᳘ति होवाच॥
मूलम् - Weber
श्वेत᳘केतुर्ह वा᳘ आरुणेयः᳟॥
पञ्चाला᳘नाम् परिष᳘दमा᳘जगाम स आ᳘जगाम जै᳘वलम् प्रवा᳘हणम् परिचार᳘यमाणं त᳘मुदी᳘क्ष्याॗभ्युवाद कु᳘मारा३ इ᳘ति स᳘ भो३ इ᳘ति प्र᳘तिशुश्रावा᳘नुशिष्टो न्व᳘सि 1 पित्रेत्योमि᳘ति होवाच॥
मूलम् - विस्वरम्
पञ्चाग्नि-विद्या-ब्राह्मणं वा श्वेतकेतु-ब्राह्मणम् ।
श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम । स आजगाम जैवलं 2 प्रवाहणं परिचायमाणम् । तमुदीक्ष्याभ्युवाद कुमारा ३ इति । स भो ३ इति प्रतिशुश्राव । अनुशिष्टो न्वसि पित्रेति । ॐ इति होवाच ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
ॐकारो दमादित्रयं वाच्यादि-देवतार्चन-पूर्वकमग्न्युपासनं ब्रह्माब्रह्मोपासनानि तत्फलं तदर्थावगतिरित्य् एते अर्था अस्मिन् खिलकाण्डे निर्वृत्ताः । सम्प्रति प्राधान्येन ब्रह्मोपासनानि सफलानि श्रीमन्थादिकर्म च वक्तव्यमित्य् एतदर्थं षष्ठो ऽध्यायः प्रवर्तते । तत्र कर्मकाण्डे ज्ञानकाण्डे वा यद्वस्तु प्राधान्येन नोक्तं तदस्मिन् काण्डे वक्तव्यम् अस्य खिलाधिकारत्वात् । तथा च तद्वक्तुं “श्वेतकेतुर्ह वा ऽआरुणेयः” इति ब्राह्मणम् इत्यस्य सम्बन्धः, खिलाधिकारो ऽयं तत्र यदनुक्तं तदभिधीयते इति सामान्य-सङ्गतिः । पूर्वं “द्वया ह प्राजापत्याः”- (श. प. बृ. १ । १ । १) इत्य् उद्गीथ-ब्राह्मणे स्वाभाविक-ज्ञान-कर्म-लक्षणः पाप्मा सूचितः । परं तु तस्येदं कार्यमिति विपाकस्तु नोक्तः । शास्त्रीयस्यैव तु प्रदर्शितस्त्र्यन्नात्मप्रतिपत्त्यन्तेन ग्रन्थेन । ब्रह्मविद्यारम्भे तद्वैराग्यस्य विवक्षितत्वात् तत्रापि केवलेन कर्मणा पितृलोको विद्यया संयुक्तेन च कर्मणा देवलोक (श. प. बृ. १ । ३ । २४) इत्य् अभिहितम् । तत्र केन पितृलोकं प्राप्नोति केन वा देवलोकं इति न गदितम् । तच्चेह खिल-प्रकरणे अशेषतो वक्तव्यमित्यत आरभ्यते । अन्ते च सर्वोपसंहारः शास्त्रस्य इष्टः । तथा पञ्चमाध्याये च ज्ञान-कर्म-समुच्चयकारिणा मुमूर्षुणा “अग्ने नय सुपुथा”- (श. प. बृ. ८ । ३ । १) इति मार्गयाचनं कृतम् । तत्र सुपथेति विशेषणात् अनेकेषां पथां सद्भावो मन्त्रेण सामर्थ्यात्प्रदर्शितः । सुपथेति विशेषणात्पन्थानश्च कृत-विपाक-प्रतिपत्ति-मार्गाः । वक्ष्यति च “यत्कृत्वा” (कं० ३) इत्यादि । ते च कति कर्मणो विपाक-प्रतिपत्ति-मार्गाः इति सकल-भवगत्युपसंहारार्थो ऽयमारम्भः । एतावती हि भवगतिः । एतावान् कर्मणो विपाकः । स्वाभाविकस्य शास्त्रीयस्य च सविज्ञानस्येति एका विशेष-सङ्गतिः । “एतावदरे खल्वमृतत्वं, अमृतत्वस्य तु नाशा ऽस्ति वित्तेन” (श. प. बृ. ५ । ४ । २) इत्यत्र कर्मव्युदासेन ज्ञानमेवामृतत्व-साधनमित्य् उक्तम् । तत्र हेतुर्नोक्तः । तत्कथनायेदं ब्राह्मणम् । इत्य् अपरा विशेष-सङ्गतिः । यस्मात् इयं कर्मणो गतिः । न नित्ये त्वमृतत्वे व्यापारो ऽस्ति । तस्मात् एतावदेवामृतत्व-साधनमिति सामर्थ्याद्धेतुत्वं सम्पद्यते । अपि चोक्तमग्निहोत्रे- “न त्वेवैनयोस्त्वमुत्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थ”- (श. प. ११ । ६ । २ । ४) इति । तत्र प्रतिवचने- “ते वा ऽएते ऽआहुती हुते उत्क्रामतः” (श. प. ११ । ६ । २ । ६) इत्यादिना आहुतेः कार्यमुक्तम् । तच्चैतत्कर्तृराहुतिलक्षणस्य कर्मणः फलम् । न हि कर्तारमनाश्रित्याहुतिलक्षणस्य कर्मणः स्वातन्त्र्येणोत्क्रान्त्यादि-कार्यारम्भ उपपद्यते । कर्त्रर्थत्वात्कर्मणः कार्यारम्भस्य साधनाश्रयत्वाच्च कर्मणः । तत्राग्निहोत्रस्त्युत्यर्थत्वात् अग्निहोत्रस्यैव कार्यमिति गदितं षट्-प्रकारमपि, इह तु तदेव कर्तुः फलमित्य् उपदिश्यते षट्-प्रकारमपि । कर्मणः फल-विज्ञानस्य विवक्षितत्वात् तद्द्वारेण च पञ्चाग्नि-दर्शनं इहोत्तर-मार्ग-प्रतिपत्ति-साधनं विधित्सितम् । एवमशेष-भवगत्युपसंहारः । कर्मकाण्डस्यैषा निष्ठा । इत्य् एतत् द्वयं दिदर्शयिषुराख्यायिकां प्रणयति- श्वेतकेतुर्ह वा ऽआरुणेय इति । श्वेतकेतुर्नाम अरुणस्यापत्यमारुणिः, तस्यापत्यमारुणेयः । ऐतिह्यार्थो ह-शब्दः । वैशब्दो निश्चयार्थः । पित्रा ऽनुशिष्टः सन् आत्मनो यशःप्रथनाय ‘पञ्चालानां परिषदमाजगाम’ । पञ्चालाः प्रसिद्धाः विद्वज्जन-विशिष्टत्वेन । तेषां परिषदमागत्य जित्वा राज्ञो ऽपि परिषदं जेष्यामीति गर्वेण ‘स आजगाम’ । जीवलस्यापत्यं ‘जैवलं’ पञ्चाल-राजं प्रवाहणाभिधानं स्वभृत्यैः ‘परिचारयमाणं’ आत्मनः परिचारणं कारयन्तमित्य् अर्थः । स राजा पूर्वमेव तस्य विद्या ऽभिमान-गर्वं श्रुत्वा विनेतव्यो ऽयमिति मत्वा तमुदीक्ष्योत्प्रेक्ष्य आगतमेव अभ्युवादाभ्युक्तवान् ‘कुमारा ३ इति’ सम्बोध्य । प्लुतिर्भत्सनार्था । ‘सः’ एवमुक्तः ‘प्रतिश्रुश्राव’ भो ३ इत्यप्रतिरूपमपि क्षत्रियं प्रति उक्तवान् । कुद्धः सन् ‘अनुशिष्टो नु’ शासितो नु ‘असि’ भवसि ‘पित्रा’ इत्य् उवाच राजा । प्रत्याह चेतरः । ‘ॐ इति’ बाढमनुशिष्टो ऽस्मि । पृच्छ यदि संशयस्ते ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
व्वे᳘त्थ य᳘थेमाः[[!!]] प्प्रजाः᳘॥
प्प्रय᳘त्यो व्विप्रतिप᳘द्यान्ता३ ऽइ᳘ति ने᳘ति होवाच व्वे᳘त्थ य᳘थेमल्ँ᳘लोकम्पु᳘नराप᳘द्यान्ता३ ऽइ᳘ति ने᳘ति है᳘वोवाच व्वे᳘त्थ य᳘था ऽसौ᳘ लोक᳘ ऽएव᳘म्बहु᳘भिः पु᳘नःपुनः प्प्रय᳘द्भिर्न्न स᳘म्पूर्य्यता३ ऽइ᳘ति[[!!]] ने᳘ति है᳘वोवाच॥
मूलम् - श्रीधरादि
व्वे᳘त्थ य᳘थेमाः[[!!]] प्प्रजाः᳘॥
प्प्रय᳘त्यो व्विप्रतिप᳘द्यान्ता३ ऽइ᳘ति ने᳘ति होवाच व्वे᳘त्थ य᳘थेमल्ँ᳘लोकम्पु᳘नराप᳘द्यान्ता३ ऽइ᳘ति ने᳘ति है᳘वोवाच व्वे᳘त्थ य᳘था ऽसौ᳘ लोक᳘ ऽएव᳘म्बहु᳘भिः पु᳘नःपुनः प्प्रय᳘द्भिर्न्न स᳘म्पूर्य्यता३ ऽइ᳘ति[[!!]] ने᳘ति है᳘वोवाच॥
मूलम् - Weber
वे᳘त्थ य᳘थेमाः᳘ प्रजाः᳟॥
प्रय᳘त्यो 3 विप्रतिप᳘द्यान्ता३ इ᳘ति ने᳘ति होवाच वे᳘त्थ य᳘थेमं᳘ लोकम् पु᳘नराप᳘द्यान्ता३ इ᳘ति ने᳘ति हैॗवोवाच वे᳘त्थ य᳘थासौ᳘ लोक᳘ एव᳘म् बहु᳘भिः पु᳘नः पुनः प्रय᳘द्भिर्न᳘ सम्पूर्य᳘ता३ इ᳘ति ने᳘ति हैॗवोवाच॥
मूलम् - विस्वरम्
वेत्थ, यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यान्ता ३ इति । नेति होवाच । वेत्थ, यथेमं लोकं पुनरापद्यान्ता ३ इति । नेति हैवोवाच । यथा ऽसौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न सम्पूर्यता ३ इति । नेति हैवोवाच ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यद्येवं ‘वेत्थ’ विजानासि किम् ? ‘यथा’ येन प्रकारेण ‘इमाः प्रजाः’ प्रसिद्धाः ‘प्रयत्यः’ म्रियमाणाः ‘विप्रतिपद्यान्ता ३ इति’ विप्रतिपद्यन्ते । विचारणार्था प्लुतिः । विप्रतिपद्यान्त ३ इति दीर्घत्वं छान्दसम् । समानेन मार्गेण गच्छन्तीनां मार्ग-द्वैविध्यं यत्र भवति । तत्र काश्चित्प्रजा अनेन मार्गेण गच्छन्ति काश्चिदन्येनेति विप्रतिपत्तिः । यथा ताः प्रजाः विप्रतिपद्यन्ते, तत्किं वेत्थेत्य् अर्थः । ‘नेति होवाच’ इतरः । तर्हि ‘वेत्थ’? ‘यथेमं लोकं पुनरापद्यान्ता ३ इति’ पुनरापद्यन्ते । यथा पुनरागच्छन्ति इमं लोकम् । ‘नेति होवाच’ श्वेतकेतुः । ‘वेत्थ’? ‘यथा’ ‘असौ’ एवं प्रसिद्धेन न्यायेन पुनः पुनरसकृत् प्रयद्भिर्म्रियमाणैः ‘यथा’ येन प्रकारेण ‘न सम्पूर्यता ३ इति’ न सम्पूर्यते ऽसौ लोकः । तत्किं वेत्थ? ‘नेति हैवोवाच’ ॥ २ ॥
०३
विश्वास-प्रस्तुतिः
व्वे᳘त्थ य᳘तिथ्यामा᳘हुत्याᳫँ᳭ हुता᳘याम्॥
(मा᳘) आ᳘पः पुरुषवा᳘चो भूत्वा᳘ समुत्था᳘य व्व᳘दन्ती३ ऽइ᳘ति ने᳘ति है᳘वोवाच व्वे᳘त्थो देवया᳘नस्य वा पथः᳘ प्प्रतिप᳘दम्पितृयाण᳘स्य[[!!]] वा य᳘त्कृत्वा᳘ देवया᳘नम्वा प᳘न्थानम्प्रतिप᳘द्यते पितृया᳘णम्वा॥
मूलम् - श्रीधरादि
व्वे᳘त्थ य᳘तिथ्यामा᳘हुत्याᳫँ᳭ हुता᳘याम्॥
(मा᳘) आ᳘पः पुरुषवा᳘चो भूत्वा᳘ समुत्था᳘य व्व᳘दन्ती३ ऽइ᳘ति ने᳘ति है᳘वोवाच व्वे᳘त्थो देवया᳘नस्य वा पथः᳘ प्प्रतिप᳘दम्पितृयाण᳘स्य[[!!]] वा य᳘त्कृत्वा᳘ देवया᳘नम्वा प᳘न्थानम्प्रतिप᳘द्यते पितृया᳘णम्वा॥
मूलम् - Weber
वे᳘त्थ य᳘तिथ्यामा᳘हुत्याᳫं हुता᳘याम्॥
आ᳘पः पुरुषवा᳘चो भूत्वा समुत्था᳘य व᳘दन्ती३ इ᳘ति ने᳘ति हैॗवोवाच वे᳘त्थो देवया᳘नस्य वा पथः᳘ प्रतिप᳘दम् पितृया᳘णस्य वा य᳘त्कृत्वा᳘ देवया᳘नं वा प᳘न्थानम् प्रतिप᳘द्यते पितृया᳘णं वा 4 ॥
मूलम् - विस्वरम्
वेत्थ, यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती ३ इति । नेति हैवोवाच । वेत्थ उ, देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा । यत् कृत्वा देवयानं वा पन्थानं प्रतिपद्यते पितृयाणं वा ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘वेत्थ’? ‘यतिथ्यां’ यत्-संख्याकायाम् आहुत्यामाहुतौ ‘हुतायां’ ‘आपः’ ‘पुरुषवाचः’ पुरुषस्य या वाक् सैव यासां वाक् ताः पुरुषवाचः ‘भूत्वा’ पुरुष-शब्दवाच्या वा भूत्वा यदा पुरुषाकार-परिणताः तदा पुरुषवाचो भवन्ति । ‘समुत्थाय’ सम्यगुत्थाय उद्भूताः सत्यः ‘वदन्ती ३ इति’ । ‘नेति हैवोवाच’ । यद्येवं ‘वेत्थ उ’? ‘देवयानस्य पथः’ मार्गस्य ‘प्रतिपदं’ प्रतिपद्यते येन सा प्रतिपत् तां प्रतिपदं ‘पितृयाणस्य वा’ प्रतिपदम् । प्रतिपच्छब्द-वाच्यमर्थमाह- यत्कर्म ‘कृत्वा’ यथा विशिष्टं कर्म कृत्वेति यावत् । ‘देवयानं वा पन्थानं’ मार्गं ‘प्रतिपद्यते’ । ‘पितृयाणं वा’ यत्कर्म कृत्वा प्रतिपद्यते । तत् कर्म प्रतिपदभिधीयते । तां प्रतिपदं किं वेत्थ? देवलोक-पितृलोक-प्रतिपत्ति-साधनं किं वेत्थेति यावत् ॥ ३ ॥
०४
विश्वास-प्रस्तुतिः
(वा᳘ ऽपि) अ᳘पि हि न ऽऋ᳘षेर्व्व᳘चः श्रुतम्[[!!]]॥
(न्द्वे᳘) द्वे᳘ सृती᳘ ऽअशृणवम्पितृणा᳘मह᳘न्देवा᳘नामुत म᳘र्त्यानाम्। ता᳘भ्यामिदम्वि᳘श्वमे᳘जत्स᳘मेति य᳘दन्तरा᳘ पित᳘रम्मात᳘रञ्चे᳘ति᳘ नाहम᳘त ऽए᳘कञ्चन᳘ व्वेदे᳘ति होवाच॥
मूलम् - श्रीधरादि
(वा᳘ ऽपि) अ᳘पि हि न ऽऋ᳘षेर्व्व᳘चः श्रुतम्[[!!]]॥
(न्द्वे᳘) द्वे᳘ सृती᳘ ऽअशृणवम्पितृणा᳘मह᳘न्देवा᳘नामुत म᳘र्त्यानाम्। ता᳘भ्यामिदम्वि᳘श्वमे᳘जत्स᳘मेति य᳘दन्तरा᳘ पित᳘रम्मात᳘रञ्चे᳘ति᳘ नाहम᳘त ऽए᳘कञ्चन᳘ व्वेदे᳘ति होवाच॥
मूलम् - Weber
अ᳘पि हि न ऋ᳘षेर्व᳘चः 5 श्रुत᳘म्॥
द्वे᳘ सृती᳘ अशृणवम् पितॄणा᳘महं᳘ देवा᳘नामुत म᳘र्त्यानां॥
ताभ्यामिदं वि᳘श्वमे᳘जत्स᳘मेति य᳘दन्तरा᳘ पित᳘रम् मात᳘रं चे᳘तिॗ नाहम᳘त ए᳘कं चन᳘ वेदे᳘ति होवाच॥
मूलम् - विस्वरम्
अपि हि नः ऋषेर्वचः श्रुतम्- “द्वे स्रृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च”- (वा. सं. १९ । ४७) इति । ना ऽहमत एकञ्चन वेद इति होवाच ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
ननु- मार्ग-द्वयमेव नास्ति । तत्सद्भावे प्रमाणभावात् । त्वं तूत्प्रेक्षामात्रेण मद्-व्यामोहार्थं पृच्छसि इत्य् आशङ्कायामाह- अपि हीति । ‘अपि’ अत्रापि अस्य प्रकाशकं ‘ऋषेः’ मन्त्रस्य ‘वचः’ वाक्यं ‘नः’ श्रुतमस्ति । मन्त्रो ऽप्य् अस्यार्थस्य प्रकाशको विद्यत इत्य् एतत् । को ऽसौ मन्त्र इत्य् अभिधीयते- द्वे सृती ऽअशृणवमिति । ‘द्वे सृती’ द्वौ मार्गौ ‘अशृणवं’ श्रुतवानस्मि । तयोरेका पितॄणां प्रापिका पितृलोक-सम्बद्धा तया सृत्या पितृलोकं प्राप्नोतीत्य् अर्थः । अहमशृणवमिति व्यवहितेन सम्बन्धः । ‘देवानामुत’ अपि देवानां सम्बन्धिनि अन्या । देवान् प्रापयति सा । के पुनः उभाभ्यां सृतिभ्यां पितॄन्देवांश्च गच्छन्तीति गद्यते- उत मर्त्यानामिति । ‘उत मर्त्यानाम्’ अपि मनुष्याणां सम्बन्धिन्यौ । मनुष्या एव हि सृतिभ्यां गच्छन्तीति यावत् । ‘ताभ्यां’ सृतिभ्यां ‘इदं विश्वं’ समस्तं एजद्गच्छत् ‘समेति’ सम्यगागच्छति । ते च द्वे सृती ‘यदन्तरा’ ययोरन्तरा यदन्तरा ‘पितरं मातरं च’ माता-पित्रोरन्तरा मध्ये इत्य् एतत् । कौ तौ माता-पितरौ द्यावापृथिव्यावण्ड-कपाले इयं वै माता ऽसौ पितेति हि व्याख्यातं द्यावापृथिव्योः पितृ-मातृत्वं मध्यम-काण्डे तृतीय-प्रपाठकान्त्य-ब्राह्मणेन (श. प. १२ । ८ । १ । २१) । अण्डकपाल्योर्मध्ये संसार-विषय एव एते सृती, नात्यन्तिकामृतत्व-गमनाय । इतर आह- नाहमिति । अतो ऽस्मात् प्रश्न-समुदायात् ‘एकञ्चन’ एकमपि प्रश्नं ‘न वेद’ इति होवाच श्वेतकेतुः ॥ ४ ॥
०५
विश्वास-प्रस्तुतिः
(चा᳘) अ᳘थ हैनम्व᳘सत्योपमन्त्रया᳘ञ्चक्रे॥
(क्रे ऽना) अ᳘नादृत्य व्व᳘सतिङ्कुमारः प्प्र᳘दुद्द्राव स ऽआ᳘जगाम पित᳘रन्त᳘ᳫँ᳘ होवाचे᳘ति वाव कि᳘ल नो भ᳘वान्पुरा᳘ ऽनुशिष्टान᳘वोच ऽइ᳘ति कथ᳘ᳫँ᳘ सुमेध ऽइ᳘ति प᳘ञ्च मा प्प्रश्ना᳘न्न्राज᳘न्यबन्धुरप्प्राक्षीत्त᳘तो[[!!]] नै᳘कञ्चन᳘ व्वेदे᳘ति होवाच कतमे त ऽइ᳘तीम ऽइ᳘ति ह प्प्रतीका᳘न्युदा᳘जहार॥
मूलम् - श्रीधरादि
(चा᳘) अ᳘थ हैनम्व᳘सत्योपमन्त्रया᳘ञ्चक्रे॥
(क्रे ऽना) अ᳘नादृत्य व्व᳘सतिङ्कुमारः प्प्र᳘दुद्द्राव स ऽआ᳘जगाम पित᳘रन्त᳘ᳫँ᳘ होवाचे᳘ति वाव कि᳘ल नो भ᳘वान्पुरा᳘ ऽनुशिष्टान᳘वोच ऽइ᳘ति कथ᳘ᳫँ᳘ सुमेध ऽइ᳘ति प᳘ञ्च मा प्प्रश्ना᳘न्न्राज᳘न्यबन्धुरप्प्राक्षीत्त᳘तो[[!!]] नै᳘कञ्चन᳘ व्वेदे᳘ति होवाच कतमे त ऽइ᳘तीम ऽइ᳘ति ह प्प्रतीका᳘न्युदा᳘जहार॥
मूलम् - Weber
अ᳘थ हैनं व᳘सत्योपमन्त्रयां᳘ चक्रे॥
अ᳘नादृत्य व᳘सतिं कुमारः प्र᳘दुद्राव स आ᳘जगाम पित᳘रं त᳘ᳫं᳘ होवाचे᳘ति वाव कि᳘ल नो भ᳘वान्पुरा᳘नुशिष्टान᳘वोच इ᳘ति कथ᳘ᳫं᳘ सुमेध इ᳘ति प᳘ञ्च मा प्रश्ना᳘न्राजन्य᳘बन्धुरप्राक्षीत्त᳘तो नै᳘कं चन᳘ वेदे᳘ति होवाच कतमे त इ᳘तीम इ᳘ति ह प्रतीका᳘न्युदा᳘जहार 6 ॥
मूलम् - विस्वरम्
अथ हैनं वसत्योपमन्त्रयाञ्चक्रे । अनादृत्य वसतिं कुमारः प्रदुद्राव । स आजगाम पितरम् । तं होवाच । इति वाव किल नो भवान्पुरा ऽनुशिष्टानवोच इति । कथं सुमेध इति । पञ्च मा प्रश्नान् राजन्य-बन्धुरप्राक्षीत् । ततो नैकञ्चन वेद । इति होवाच । कतमे त इति । इम इति ह प्रतीकान्युदाजहार ॥ ५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथानन्तरं अपनीय विद्याभिमान-गर्वं ‘एनं’ प्रकृतं श्वेतकेतुं ‘वसत्या’ वसति-प्रयोजनेन ‘उपमन्त्रयाञ्चक्रे’ इह वसन्तु भवन्तः पाद्यमर्घ्यं चानीयतामित्य् उपमन्त्रणं कृतवान् राजा । ‘अनादृत्य वसतिं कुमारः’ श्वेतकेतुः ‘प्रदुद्राव’ प्रतिगतवान् । ‘पितरं’ प्रति ‘सः’ चाजगाम । पितरमागत्य चोवाच ‘तं’ । कथम्? ’इति वाव किल’ एवं किल । नो ऽस्मान् ‘भवान्’ ‘पुरा’ समावर्तन-काले ‘अनुशिष्टान्’ सर्वाभिर्विद्याभिर्वचः ‘अवोचः’ । ‘इति’ सोपालम्भं पुत्रस्य वचः श्रुत्वा आह पिता । ‘कथं’ केन प्रकारेण च दुःखमुपजातम् । हे ‘सुमेधः’! शोभना मेधा यस्येति सुमेधः! शृणु मम यथावृत्तं- ‘पञ्च’ सङ्ख्याकान् ‘प्रश्नान्’ ‘मा’ मां ‘राजन्य-बन्धुः’ राजन्या बन्धवो यस्येति । परिभव-वचनमेतत् राजन्य-बन्धुरिति । अप्राक्षीत्पृष्टवान् । ततस्तस्मात् ‘एकञ्चन’ एकमपि ‘न वेद’ न विज्ञातवानस्मि । ‘कतमे ते’ राज्ञा पृष्टाः प्रश्ना इति । ‘इमे’ ते ‘इति’ ‘ह’ ‘प्रतीकानि’ मुखानि प्रश्नानां उदाजहारोदाहृतवान् ॥ ५ ॥
०६
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
त᳘था नस्त्व᳘न्तात जानीथा य᳘था य᳘दहङ्कि᳘ञ्च व्वे᳘द स᳘र्व्वमहन्तत्तु᳘भ्यम᳘वोचम्प्रे᳘हि तु त᳘त्र प्प्रती᳘त्य ब्ब्रह्मचर्य्य᳘म्वत्स्याव ऽइ᳘ति भ᳘वानेव᳘ गच्छत्वि᳘ति॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
त᳘था नस्त्व᳘न्तात जानीथा य᳘था य᳘दहङ्कि᳘ञ्च व्वे᳘द स᳘र्व्वमहन्तत्तु᳘भ्यम᳘वोचम्प्रे᳘हि तु त᳘त्र प्प्रती᳘त्य ब्ब्रह्मचर्य्य᳘म्वत्स्याव ऽइ᳘ति भ᳘वानेव᳘ गच्छत्वि᳘ति॥
मूलम् - Weber
स᳘ होवाच॥
त᳘था नस्त्वं᳘ तात जानीथा य᳘था य᳘दहं किं᳘ च वे᳘द स᳘र्वमहं तत्तु᳘भ्यम᳘वोचम् प्रे᳘हि तु त᳘त्र प्रती᳘त्य ब्रह्मचर्यं᳘ वत्स्याव इ᳘ति भ᳘वानेव᳘ 7 गछत्वि᳘ति॥
मूलम् - विस्वरम्
स होवाच । तथा नस्त्वं तात जानीथाः । यथा यदहं किञ्च वेद सर्वमहं तत्तुभ्यमवोचम् । प्रेहि तु तत्र । प्रतीत्य ब्रह्मचर्यं वत्स्याव इति । भवानेव गच्छत्विति ॥ ६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘स होवाच’ पिता पुत्रं क्रुद्धमुपशमयन् ‘तथा’ तेन प्रकारेण ‘नः’ अस्मान् ‘त्वं’ हे ‘तात!’ वत्स! ‘जानीथाः’ गृह्णीथाः । ‘यथा’ यदहं किञ्च विज्ञानजातं ‘वेद’ । ‘सर्वमहं’ ’तत् तुभ्यमवोचम्’ इत्य् एव जानीथाः गृह्णीथाः । को ऽन्यो मम प्रियतरो ऽस्ति त्वत्तः । यदर्थं रक्षिष्ये । अहमपि एतन्न जानामि यद्राज्ञा पृष्टम् । तस्मात्प्रेहि आगच्छ । ‘तत्र’ गत्वा राज्ञि ‘ब्रह्मचर्यं वत्स्यावः’ विद्यार्थं इति । स आह- भवानेव गच्छत्विति । नाहं तस्य मुखं निरीक्षितुमुत्सहे ॥ ६ ॥
०७
विश्वास-प्रस्तुतिः
स ऽआ᳘जगाम गौतमः[[!!]]॥
(मो) य᳘त्र प्प्रवा᳘हणस्य जै᳘वलेरा᳘स त᳘स्मा ऽआसन᳘माहा᳘र्य्योदक᳘माहारया᳘ञ्चकारा᳘थ हास्मा ऽअर्घ᳘ञ्चकार॥
मूलम् - श्रीधरादि
स ऽआ᳘जगाम गौतमः[[!!]]॥
(मो) य᳘त्र प्प्रवा᳘हणस्य जै᳘वलेरा᳘स त᳘स्मा ऽआसन᳘माहा᳘र्य्योदक᳘माहारया᳘ञ्चकारा᳘थ हास्मा ऽअर्घ᳘ञ्चकार॥
मूलम् - Weber
स आ᳘जगाम गौतमो᳟ 8 ॥
य᳘त्र प्रवा᳘हणस्य जै᳘वलेरा᳘स त᳘स्मा आसन᳘माहा᳘र्योदक᳘माहारयां᳘ चकारा᳘थ हास्मा अर्घं᳘ चकार॥
मूलम् - विस्वरम्
स आजगाम गौतमः । यत्र प्रवाहणस्य जैवलेरास । तस्मा आसनमाहार्य, उदकमाहारयाञ्चकार । अथ हास्मा अर्घं चकार ॥ ७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘स आजगाम गौतमः’ गोत्रतो गौतमः । कुत्र? ‘यत्र प्रवाहणस्य जैवलेरास’ प्रवाहणस्य जैवलेरिति षष्ठीद्वयं प्रथमार्थे । जीवलस्यापत्यं जैवलिः प्रवाहण-नामा राजा ‘आस’ आसने आस्थापिकां कृतवान् । ततो राजा ‘तस्मै’ गौतमायागताय आसनमनुरूपमाहार्य आहृत्य अर्घ्य-पाद्यादि-सिद्धये ‘उदकं’ भृत्यैराहारयाञ्चकार । ‘अथ ह’ ‘अस्मै’ ‘अर्घं’ पुरोधसा सार्द्धं कृतवान् मन्त्रवन्मधुपर्कं च ॥ ७ ॥
०८
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
व्व᳘रम्भ᳘वते गौतमा᳘य दद्म ऽइ᳘ति स᳘ होवाच प्प्र᳘तिज्ञातो म ऽएष व्व᳘रो यान्तु᳘ कुमारस्या᳘न्ते व्वा᳘चम᳘भाषथास्ता᳘म्मे ब्ब्रूही᳘ति॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
व्व᳘रम्भ᳘वते गौतमा᳘य दद्म ऽइ᳘ति स᳘ होवाच प्प्र᳘तिज्ञातो म ऽएष व्व᳘रो यान्तु᳘ कुमारस्या᳘न्ते व्वा᳘चम᳘भाषथास्ता᳘म्मे ब्ब्रूही᳘ति॥
मूलम् - Weber
स᳘ होवाच॥
व᳘रम् भ᳘वते गौतमा᳘य दद्म इ᳘ति स᳘ होवाच प्र᳘तिज्ञातो म एष व᳘रो यां तु᳘ कुमारस्या᳘न्ते वा᳘चम᳘भाषथास्ता᳘म् 9 मे ब्रूही᳘ति॥
मूलम् - विस्वरम्
स होवाच । वरं भवते गौतमाय दद्म इति । स होवाच । प्रतिज्ञातो म एष वरः । यां तु कुमारस्यान्ते वाचमभाषथाः । तां मे ब्रूहीति ॥ ८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
कृत्वा चैवं पूजां ‘स होवाच’ ‘वरं भवते गौतमाय’ तुभ्यं ‘दद्म इति’ गो ऽश्वादिलक्षणम् । ‘स होवाच’ गौतमः । ‘प्रतिज्ञातो मे’ मम ‘एष वरः’ । त्वया कृतायां प्रतिज्ञायां दृढीकुर्वात्मानम् । ‘यां तु वाचं कुमारस्य’ मम पुत्रस्य ‘अन्ते’ समीपे अभाषथाः प्रश्न-रूपाम् । तामेव ‘मे ब्रूहि’ । स एव नो वर इति ॥ ८ ॥
०९
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
दै᳘वेषु वै᳘ गौतम तद्व᳘रेषु मा᳘नुषाणाम्ब्रूही᳘ति॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
दै᳘वेषु वै᳘ गौतम तद्व᳘रेषु मा᳘नुषाणाम्ब्रूही᳘ति॥
मूलम् - Weber
स᳘ होवाच॥
दै᳘वेषु वै᳘ गौतम तद्व᳘रेषु मा᳘नुषाणाम् ब्रूही᳘ति॥
मूलम् - विस्वरम्
स होवाच । दैवेषु वै गौतम तत् वरेषु । मानुषाणां ब्रूहीति ॥ ९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘स होवाच’ राजा । ‘दैवेषु’ वरेषु ‘तद्वै गौतम’ यत् त्वं प्रार्थयसे । मानुषाणामन्यतमं प्रार्थय वरम् ॥ ९ ॥
१०
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
व्वि᳘ज्ञायते हा᳘स्ति हि᳘रण्यस्या᳘पात्तङ्गो ऽअश्वा᳘नान्दासी᳘नाम्प्रवरा᳘णाम्परिधाना᳘नाम्मा᳘ नो भ᳘वान्बहो᳘रनन्त᳘स्यापर्य्यन्त᳘स्याभ्यवदा᳘न्यो भूदि᳘ति स वै᳘ गौतम तीर्थे᳘नेच्छासा ऽइत्युपैम्यहम्भ᳘वन्तमि᳘ति[[!!]] व्वाचा᳘ ह स्मैव पू᳘र्व्व ऽउ᳘पयन्ति॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
व्वि᳘ज्ञायते हा᳘स्ति हि᳘रण्यस्या᳘पात्तङ्गो ऽअश्वा᳘नान्दासी᳘नाम्प्रवरा᳘णाम्परिधाना᳘नाम्मा᳘ नो भ᳘वान्बहो᳘रनन्त᳘स्यापर्य्यन्त᳘स्याभ्यवदा᳘न्यो भूदि᳘ति स वै᳘ गौतम तीर्थे᳘नेच्छासा ऽइत्युपैम्यहम्भ᳘वन्तमि᳘ति[[!!]] व्वाचा᳘ ह स्मैव पू᳘र्व्व ऽउ᳘पयन्ति॥
मूलम् - Weber
स᳘ होवाच॥
वि᳘ज्ञायते हा᳘स्ति हि᳘रण्यस्या᳘पात्तं गो अश्वा᳘नां दासी᳘नाम् प्रवरा᳘णाम् परिधाना᳘नाम् मा᳘ नो भ᳘वान्बहो᳘रनन्त᳘स्यापर्यन्त᳘स्याभ्यवदा᳘न्यो 10 भूदि᳘ति स वै᳘ गौतम तीर्थे᳘नेछासा इत्यु᳘पैम्यहम् भ᳘वन्तीमि᳘ति वाचा᳘ ह स्मैव पू᳘र्व उ᳘पयन्ति॥
मूलम् - विस्वरम्
स होवाच । विज्ञायते ह । अस्ति हिरण्यस्यापात्तम् । गो ऽअश्वानां दासीनां प्रवाराणां परिधानानाम् । मा नो भवान् बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति । स वै गौतम तीर्थेनेच्छासै इति । उपैम्यहं भवन्तमिति । वाचा ह स्मैव पूर्वं उपयन्ति ॥ १० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘स होवाच’ गौतमः । भवता ‘विज्ञायते ह’ । ममास्ति सः । न तेन प्रार्थितेन कृत्यम् । मह्यं दित्ससि मानुषं वरम् । यस्मान्ममाप्यस्ति हिरण्यस्य प्रभूतस्यापात्तं प्राप्तम् । ‘गोअश्वानां’ अपात्तमस्तीति सर्वत्रानुषङ्गः । ‘दासीनां प्रवाराणां’ परिवाराणां ‘परिधानानां’ च । न च यन्मम विद्यमानं, तत् त्वत्तः प्रार्थनीयं, त्वया वा देयम् । प्रतिज्ञातश्च वरस्त्वया । त्वमेव जानीषे, यदत्र युक्तम् । प्रतिज्ञा रक्षणीया तवेति । मम पुनरयमाशयः मा भूत् । नो ऽस्मानभि अस्मानेव केवलान् प्रति ‘भवान्’ सर्वत्र वदान्यो भूत्वा ‘अवदान्यो मा भूत्’ कदर्यो मा भूदित्य् अर्थः । ‘बहोः’ प्रभूतस्य ‘अनन्तस्य’ अनन्तफलस्य ‘अपर्यन्तस्य’ अपरिसमाप्तिकस्य पुत्र-पौत्रादिकस्य इत्येतदीदृशस्य वित्तस्य मां प्रत्येव तु अदाता मा भूत् भवान् । न चात्यन्तादेयमस्ति भवतः । एवं कथिते आह- ‘सः’ त्वं ‘वै’ हे ‘गौतम!’ ‘तीर्थेन’ न्यायेन शास्त्र-विहितेन ‘इच्छासै’ इच्छस्वाप्तुम् । इत्य् उक्तो गौतम आह- ‘उपैमि’ उपगच्छामि शिष्यत्वेनाहं भवन्तमिति । ‘वाचा ह स्म एव’ किल ‘पूर्वे’ ब्राह्मणाः क्षत्रियाः विद्यार्थिनः सन्तः वैश्यान् वा, क्षत्रिया वा वैश्यान् आपदि ‘उपयन्ति’ शिष्यवृत्त्या हि उपगच्छन्ति नोपनयनेन न शुश्रूषादिभिः ॥ १० ॥
११
विश्वास-प्रस्तुतिः
स᳘ होपायनकीर्ता᳘ ऽउवाच॥
त᳘था नस्त्व᳘ङ्गौतम मा᳘ ऽपराधास्त᳘व च पितामहा य᳘थेय᳘म्वि᳘द्येतः पू᳘र्व्वन्न क᳘स्मिँश्चन᳘ ब्राह्मण᳘ ऽउवा᳘स ता᳘न्त्वहन्तुभ्यम्वक्ष्यामि[[!!]] को᳘ हि᳘ त्वैवम्ब्रु᳘वन्तम᳘र्हति प्प्रत्या᳘ख्यातुमि᳘ति॥
मूलम् - श्रीधरादि
स᳘ होपायनकीर्ता᳘ ऽउवाच 11 ॥
त᳘था नस्त्व᳘ङ्गौतम मा᳘ ऽपराधास्त᳘व च पितामहा य᳘थेय᳘म्वि᳘द्येतः पू᳘र्व्वन्न क᳘स्मिँश्चन᳘ ब्राह्मण᳘ ऽउवा᳘स ता᳘न्त्वहन्तुभ्यम्वक्ष्यामि[[!!]] को᳘ हि᳘ त्वैवम्ब्रु᳘वन्तम᳘र्हति प्प्रत्या᳘ख्यातुमि᳘ति॥
मूलम् - Weber
स᳘ होपायनकीर्ता᳘ उवाच॥
त᳘था नस्त्वं᳘ गौतम मा᳘पराधास्त᳘व च पितामहा य᳘थेयं᳘ विॗद्येतः पू᳘र्वं न क᳘स्मिंश्चन᳘ ब्राह्मण᳘ उवा᳘स तां त्व᳘हं᳘ तु᳘भ्यं वक्ष्यामि को हि᳘ 12 त्वैवम् ब्रु᳘वन्तम᳘र्हति प्रत्या᳘ख्यातुमि᳘ति॥
मूलम् - विस्वरम्
स होपायनकीर्तौ उवाच । तथा नस्त्वं गौतम मा ऽपराधाः । तव च पितामहा यथा । इयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मण उवास । तां त्वहं तुभ्यं वक्ष्यामि । को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ ११ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अतः ‘सः’ गौतमः ‘ह’ ‘उपायनकीर्तौ’ उपायन-कीर्तन-मात्रेणैव ‘उवाच’ उक्तवान् । नोपायनमकारयदित्येतावत् द्रष्टव्यम् । उपायनमुपगमनं पादोपस्पर्शनम् । एवं गौतमेन आपदन्तरे अभिहिते स होवाच राजा पीडितं मत्वा क्षमापयन् । ‘तथा’ नो ऽस्मान्प्रति ‘मा अपराधाः’ अपराधं मा ऽकार्षीः । अस्मदीयो ऽपराधो न ग्रहीतव्य इति यावत् । ‘यथा तव पितामहाः’ । ‘इयं विद्या’ त्वया प्रार्थिता इतस्त्वत्सम्प्रदानात्पूर्वं प्राक् ‘न’ कस्मिंश्चिदपि ‘ब्राह्मणे’ उवासोषितवती । तथा त्वमपि जानीषे । सर्वदा क्षत्रिय-परम्परयेयं विद्या आगता । सा स्थितिर्मया ऽपि रक्षणीया यदि शक्यते इति कथितं “दैवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति” । न पुनस्तवादेयो वर इति । अतः परं न शक्यते रक्षितुम् । तामपि विद्यां ‘अहं तुभ्यं’ कथयिष्यामि । को ऽप्यन्यो ऽपि ‘हि’ यस्मात् ‘एवं ब्रुवन्तं त्वां अर्हति प्रत्याख्यातुं’ न कथयिष्यामीति । अहं पुनः कथं न वक्ष्ये तुभ्यमिति ॥ ११ ॥
१२
विश्वास-प्रस्तुतिः
(त्य) असौ वै᳘ लो᳘को ऽग्नि᳘र्गौतम॥
त᳘स्यादित्य᳘ ऽएव᳘ समि᳘द्द्रश्म᳘यो धूमो᳘ ऽहरर्च्चि᳘श्चन्द्र᳘मा ऽअ᳘ङ्गारा न᳘क्षत्राणि व्विष्फुलि᳘ङ्गास्त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘ देवाः᳘ श्रद्धां᳘ जुह्वति त᳘स्या ऽआहुतेः[[!!]] सो᳘मो रा᳘जा सं᳘भवति॥
मूलम् - श्रीधरादि
(त्य) असौ वै᳘ लो᳘को ऽग्नि᳘र्गौतम॥
त᳘स्यादित्य᳘ ऽएव᳘ समि᳘द्द्रश्म᳘यो धूमो᳘ ऽहरर्च्चि᳘श्चन्द्र᳘मा ऽअ᳘ङ्गारा न᳘क्षत्राणि व्विष्फुलि᳘ङ्गास्त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘ देवाः᳘ श्रद्धां᳘ जुह्वति त᳘स्या ऽआहुतेः[[!!]] सो᳘मो रा᳘जा सं᳘भवति॥
मूलम् - Weber
असौ वै᳘ लोॗकोऽग्नि᳘र्गौतम॥
त᳘स्यादित्य᳘ एव᳘ समि᳘द्रश्म᳘यो धूमो᳘ऽहरर्चि᳘श्चन्द्र᳘मा अ᳘ङ्गारा न᳘क्षत्राणि विष्फुलि᳘ङ्गास्त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘ देवाः᳘ श्रद्धां᳘ जुह्वति 13 त᳘स्या आ᳘हुतेः सो᳘मो रा᳘जा स᳘म्भवति॥
मूलम् - विस्वरम्
असौ वै लोको ऽग्निर्गौतम । तस्यादित्य एव समित् । रश्मयो धूमः । अहरर्चिः । चन्द्रमा अङ्गाराः । नक्षत्राणि विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति । तस्या आहुतेः सोमो राजा सम्भवति ॥ १२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“असौ वै लोको ऽग्निर्गौतम” इत्यादिः चतुर्थः प्रश्नः प्राथम्येन निर्णीयते । क्रमभङ्गस्तु एतन्निर्णयायत्तत्वात् इतर-प्रश्न-निर्णयस्य । ‘असौ’ द्यौलोको ऽग्निः हे ‘गौतम’! द्युलोके अग्नि-दृष्टिः अनग्नौ विधीयते । यथा योषित्पुरूषयोः । तस्य द्युलोकाग्नेः ‘आदित्य एव समित्’ समिन्धनात् । आदित्येन हि समिध्यते ऽसौ लोकः । ‘रश्मयो धूमः’ । समिधः उत्थानसामान्यात् । सूर्याद् हि रश्मयो निर्गताः । समिधश्च धूमो लोके उत्तिष्ठति । ‘अहरर्चिः’ प्रकाशसामान्यात् । ‘चन्द्रमाः अङ्गाराः’ तज्ज्योतिष्ट्वसादृश्यात् । ‘नक्षत्राणि विष्फुलिङ्गाः’ अल्प-प्रकाशकत्व-सामान्यात् । ‘तस्मिन्’ एवंगुणविशिष्टे ‘एतस्मिन्नग्नौ’ द्युलोकाग्नौ ‘देवाः’ इन्द्रादयः ‘श्रद्धां जुह्वति’ आहुति-द्रव्य-स्थानीयां प्रक्षिपन्ति । तस्या आहुतेः ‘सोमो राजा’ पितॄणां ब्राह्मणानां च ‘सम्भवति’ । तत्र के देवाः, कथं जुह्वति, किं वा श्रद्धाख्यं हविरिति । अतः कथितमस्माभिः सम्बन्धेन त्वेवैनयोस्त्वमुत्क्रान्तिमित्यादि-पदार्थ-षट्क-निर्णयार्थमग्निहोत्र उक्तम् । “ते वा ऽएते (अग्निहोत्र-सम्बन्धिन्यौ) आहुती हुते (सत्यौ) उत्क्रामतः । ते अन्तरिक्षमाविशतः । ते अन्तरिक्षमेवाहवनीयं कुर्वाते । वायुं समिधम् । मरीचीरेव शुक्रामाहुतिम् । ते अन्तरिक्षं तर्पयतः । ते तत उत्क्रामतः । ते दिवमाविशतः । ते दिवमाहवनीयं कुर्वाते । आदित्यं समिधम् ।” (श. प. ११ । ६ । २ । ६-७) इत्य् एवमाद्यभिहितम् । तत्राग्निहोत्राहुती ससाधने एवोत्क्रामतः । यथा इह यैः साधनैर्विशिष्टे एते आहवनीयाग्निसमिद्धूमाङ्गारविष्फुलिङ्गाहुतिद्रव्यैः । ते तथैवोत्क्रामतः अस्माल्लोकादमुं लोकम् । तत्राग्निरग्नित्वेन समित् समित्त्वेन धूमो धूमत्वेन अङ्गारा अङ्गारत्वेन विष्फुलिङ्गा विष्फुलिङ्गत्वेन आहुति-द्रव्यमपि पय-आज्याहुति-द्रव्यत्वेनैव सर्गादौ अव्याकृतावस्थायामपि परेण सूक्ष्मात्मना व्यवतिष्ठते । तत् विद्यमानमेव ससाधनं अग्निहोत्र-लक्षणं कर्म्म अपूर्वेणात्मना व्यवस्थितं सत् तत् पुनः व्याकरण-काले तथैव अन्तरिक्ष-आदिना आहवनीयाग्न्यादिभावं कुर्वत् विपरिणमते । तथैव इदानीमपि अग्निहोत्राख्यं कर्म्म । एवमग्निहोत्राहुत्यपूर्व-परिणामात्मकं जगत् समग्रं इति आहुत्योरेव स्तुत्यर्थत्वेन उत्क्रान्त्य् आदि आलोक्रप्रत्युत्थाय्यन्ताः षट् पदार्थाः कर्म-प्रकरणे अधस्तात् (श. प. ११ । ६ । २ इत्य् अत्र) निर्णीताः । इह तु कर्तुः कर्म-विपाक-विवक्षायां द्युलोकाग्न्यादि आरभ्य पञ्चाग्नि-दर्शनम् उत्तर-मार्ग-प्रतिपत्ति-साधनं विशिष्ट-कर्म-फलभोगाय विधित्सितमिति द्युलोकादेर्दर्शनं प्रस्तूयते । तत्र ये आध्यात्मिकाः प्राणा इहाग्निहोत्रस्य होतारः त एवाधिदैविकत्वेन परिणताः सन्तः इन्द्रादयो भवन्ति । त एव तत्र होतारो द्युलोकाग्नौ । ते च इह अग्निहोत्रस्य फलभोगीयाग्निहोत्रं हुतवन्तः । त एव फल-परिणाम-काले ऽपि तत्-फल-भोक्तृत्वात् तत्र तत्र होतृत्वं प्राप्नुवन्ति तथा तया विपरिणममाना देव-शब्द-वाच्याः सन्तः, अत्र च यत्-पयोद्रव्यं अग्निहोत्र-कर्मा-श्रय-भूतं इह आहवनीये प्रक्षिप्तं अग्निना भक्षितम् अदृष्टेन सूक्ष्मेण रूपेण विपरिणतं सह कर्त्रा यजमानेन अमुं लोकं धूमादि-क्रमेणान्तरिक्षम् अन्तरिक्षात् द्युलोकं आविशन्ति । ताः सूक्ष्माः आहुति-कार्य-भूताः अग्निहोत्र-समवायिन्यः कर्तृ-सहिताः श्रद्धा-शब्द-वाच्याः सोमलोके कर्तुः कार्यारम्भाय द्युलोकं प्रविशन्त्यो हूयन्ते इत्य् अभिधीयन्ते । तास्तत्र हुताः द्युलोकं प्रविश्य सोम-मण्डले 14 कर्तुः देहमारभन्ते तदेतत्कथ्यते । ‘देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति’ “श्रद्धा वा आपः” इति श्रुतेः । “वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती ३ इति”- (कं. ३) प्रश्नः । तस्य च निर्णय-विषये “असौ लोको ऽग्निः” इति प्रस्तुतम् । तस्मादापः कर्म-समवायिन्यः कर्तुः शरीरारम्भिकाः श्रद्धा-शब्द-वाच्याः इति अध्यवसीयते । भूयस्त्वात् आपः पुरुषवाच इति व्यपदेशः । न तु इतराणि भूतानि सन्तीति । कर्म-प्रयुक्तश्च कार्यारम्भः । कर्म चासमवायितम् । ततश्चापां प्राधान्यं कार्य-कर्तृत्वे तु न त्वापः पुरुषवाच इति व्यपदेशः । कर्म-कृतो हि जन्मारम्भः सर्वत्र । तत्र यद्यपि अग्निहोत्राहुति-स्तुति-द्वारेण उत्क्रान्त्य्-आदयः प्रस्तुताः षट् पदार्था अग्निहोत्रे । तथा ऽपि वैदिकानि समग्राण्येव कर्माणि अग्निहोत्र-प्रभृतीनि लक्ष्यन्ते । दारा ऽग्नि-सम्बद्धं हि पाङ्क्तं कर्म प्रस्तुत्याभिहितम् “कर्म्मणा पितृलोकः” (श. प. बृ. १४ । १ । ३ । २४) इति । वक्ष्यति च “अथ ये यज्ञेन दानेन तपसा लोकं जयन्ति”- (कं. १९) इति ॥ १२ ॥
१३
विश्वास-प्रस्तुतिः
पर्ज्ज᳘न्यो वा᳘ ऽअग्नि᳘र्ग्गौतम॥
त᳘स्य सम्वत्सर᳘ ऽएव᳘ समि᳘दभ्भ्रा᳘णि धूमो᳘ व्विद्यु᳘दर्च्चि᳘रश᳘निर᳘ङ्गारा ह्रादु᳘नयो व्विष्फुलिं᳘गास्त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘ देवाः सो᳘मञ्जुह्वति त᳘स्या ऽआ᳘हुतेर्व्वृ᳘ष्टिः स᳘म्भवति॥
मूलम् - श्रीधरादि
पर्ज्ज᳘न्यो वा᳘ ऽअग्नि᳘र्ग्गौतम॥
त᳘स्य सम्वत्सर᳘ ऽएव᳘ समि᳘दभ्भ्रा᳘णि धूमो᳘ व्विद्यु᳘दर्च्चि᳘रश᳘निर᳘ङ्गारा ह्रादु᳘नयो व्विष्फुलिं᳘गास्त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘ देवाः सो᳘मञ्जुह्वति त᳘स्या ऽआ᳘हुतेर्व्वृ᳘ष्टिः स᳘म्भवति॥
मूलम् - Weber
पर्ज᳘न्यो वा᳘ अग्नि᳘र्गौतम॥
त᳘स्य संवत्सर᳘ एव᳘ समि᳘दभ्रा᳘णि धूमो᳘ विद्यु᳘दर्चि᳘रश᳘निर᳘ङ्गारा ह्रादु᳘नयो विष्फुलि᳘ङ्गास्त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘ देवाः सो᳘मं जुह्वति 15 त᳘स्या आ᳘हुतेर्वृ᳘ष्टिः स᳘म्भवति॥
मूलम् - विस्वरम्
पर्जन्यो वा अग्निर्गौतम । तस्य संवत्सर एव समित् । अभ्राणि धूमः । विद्युदर्चिः । अशनिरङ्गाराः । ह्रादुनयो विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं जुह्वति । तस्या आहुतेर्वृष्टिः सम्भवति ॥ १३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘पर्जन्यो वा अग्निर्गौतम’ । द्वितीय आहुत्याधारः आहुत्योरावृत्तिक्रमेण । ‘पर्जन्यो’ नाम वृष्ट्युपकरणाभिमानी देवतात्मा । ‘तस्य संवत्सर एव समित्’ । संवत्सरेण हि शरदादिभिर्ग्रीष्मान्तैः स्वावयवैर्विपरिवर्तनेन पर्जन्यो ऽग्निर्द्दीप्यते । ‘अभ्राणि धूमः’ धूम-प्रभवत्वात् धूमवदुपलक्ष्यत्वाद्वा । ‘विद्युदर्चिः’ प्रकाश-सामान्यात् । ‘अशनिरङ्गाराः’ उपशान्तिकाठिन्याभ्याम् । ‘ह्रादुनयः’ स्तनयित्नु-शब्दः ‘विष्फुलिङ्गाः’ विक्षेपानेकत्व-सामान्यात् । “तस्मिन्नेतस्मिन्” इति आहुत्य्-अधिकरण-निर्द्देशः । ‘देवाः’ इति त एव होतारः । ‘सोमं’ राजानं ‘जुह्वति’ यो ऽसौ द्युलोकाग्नौ श्रद्धायां हुतायां अभिनिष्पन्नः । सोमात् द्वितीये पर्जन्याग्नौ हूयते तस्याश्च सोमाहुतेर्वृष्टिः ‘सम्भवति’ ॥ १३ ॥
१४
विश्वास-प्रस्तुतिः
(त्य) अयम्वै᳘ लो᳘को ऽग्नि᳘र्ग्गौतम॥
त᳘स्य पृथि᳘व्येव᳘ समि᳘द्वायु᳘र्द्धूमो रा᳘त्रिरर्च्चिर्द्दिशो᳘ ऽङ्गारा ऽअवान्तरदि᳘शो व्विष्फुलिं᳘गास्त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘ देवा व्वृ᳘ष्टिं जुह्वति त᳘स्या ऽआ᳘हुतेर᳘न्नᳫँ᳭ स᳘म्भवति॥
मूलम् - श्रीधरादि
(त्य) अयम्वै᳘ लो᳘को ऽग्नि᳘र्ग्गौतम॥
त᳘स्य पृथि᳘व्येव᳘ समि᳘द्वायु᳘र्द्धूमो रा᳘त्रिरर्च्चिर्द्दिशो᳘ ऽङ्गारा ऽअवान्तरदि᳘शो व्विष्फुलिं᳘गास्त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘ देवा व्वृ᳘ष्टिं जुह्वति त᳘स्या ऽआ᳘हुतेर᳘न्नᳫँ᳭ स᳘म्भवति॥
मूलम् - Weber
अयं वै᳘ लोॗकोऽग्नि᳘र्गौतम॥
त᳘स्य पृथिॗव्येव᳘ समि᳘द्वायु᳘र्धूमो रा᳘त्रिरर्चिर्दिशो᳘ऽङ्गारा अवान्तरदि᳘शो विष्फुलि᳘ङ्गास्त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘ देवा वृ᳘ष्टिं जुह्वति 16 त᳘स्या आ᳘हुतेर᳘न्नᳫं स᳘म्भवति॥
मूलम् - विस्वरम्
अयं वै लोको ऽग्निर्गौतम । तस्य पृथिव्येव समित् । वायुर्धूमः । रात्रिरर्चिः । दिशो ऽङ्गाराः । अवान्तर-दिशो विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति । तस्या आहुतेरन्नं सम्भवति ॥ १४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अयं वै लोको ऽग्निर्गौतम’ । ‘अयं लोकः’ अनेक-प्राण्य्-उपभोग-सम्पन्नया पृथिव्या समिधा समिध्यते ऽग्निः । अत एवोक्तं- तस्य पृथिव्य् एव समिदिति । ‘वायुर्धूमः’ पृथिव्याश्रयोत्थान-सामान्यात् । पार्थिवं हि इन्धन-द्रव्यम् । व्यञ्जनमाश्रित्य वायुरुत्तिष्ठति । यथा समिद्-आश्रयेण धूमः । ‘रात्रिरर्चिः’ समित्-सम्बन्ध-प्रभवत्व-सामान्यात् । अग्नेः समित्-सम्बन्धेन हि अर्चिः सम्भवति । तथा पृथिवी समित्-सम्बन्धेन शर्वरी पृथिवी-छायां हि शार्वरं तमः कथयन्ति । ‘दिशो ऽङ्गाराः’ । उभयोरुपशान्तत्व-सामान्यात् । ‘अवान्तर-दिशो विष्फुलिङ्गाः’ उभयोर्विक्षेपात्मत्व-सम्भवात् । तस्मिन्नेतस्मिन्नित्यादि पूर्ववत् । ‘वृष्टिं जुह्वति’ । ‘तस्या आहुतेरन्नं सम्भवति’ । वृष्टि-भवत्वस्य प्रसिद्धत्वात् व्रीहि-यवान्नादेः ॥ १४ ॥
१५
विश्वास-प्रस्तुतिः
पु᳘रुषो वा᳘ ऽअग्नि᳘र्ग्गौतम॥
त᳘स्य व्व्या᳘त्तमेव᳘ समि᳘त्प्राणो᳘ धूमो व्वा᳘गर्च्चिश्च᳘क्षुर᳘ङ्गाराः श्रो᳘त्रम्विष्फुलिं᳘गास्त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘ देवा ऽअ᳘न्नं जुह्वति त᳘स्या ऽआ᳘हुते रे᳘तः स᳘म्भवति॥
मूलम् - श्रीधरादि
पु᳘रुषो वा᳘ ऽअग्नि᳘र्ग्गौतम॥
त᳘स्य व्व्या᳘त्तमेव᳘ समि᳘त्प्राणो᳘ धूमो व्वा᳘गर्च्चिश्च᳘क्षुर᳘ङ्गाराः श्रो᳘त्रम्विष्फुलिं᳘गास्त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘ देवा ऽअ᳘न्नं जुह्वति त᳘स्या ऽआ᳘हुते रे᳘तः स᳘म्भवति॥
मूलम् - Weber
पु᳘रुषो वा᳘ अग्नि᳘र्गौतम॥
त᳘स्य व्या᳘त्तमेव᳘ समि᳘त्प्राणो᳘ धूमो वा᳘गर्चिश्च᳘क्षुर᳘ङ्गाराः श्रो᳘त्रं विष्फुलि᳘ङ्गास्त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘ देवा अ᳘न्नं जुह्वति 17 त᳘स्या आ᳘हुते रे᳘तः स᳘म्भवति॥
मूलम् - विस्वरम्
पुरुषो वा अग्निर्गौतम । तस्य व्यात्तमेव समित् । प्राणो धूमः । वागर्चिः । चक्षुरङ्गाराः । श्रोत्रं विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति । तस्या आहुते रेतः सम्भवति ॥ १५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘पुरुषो वा अग्निर्गौतम’ । प्रसिद्धः शिरो-हस्तादिमान् ‘पुरुषः’ चतुर्थो ऽग्निः । ‘तस्य व्यात्तं’ विवृतं मुखमेव ‘समित्’ । विवृतेन हि मुखेन दीप्यते पुरुषो वाचन-स्वाध्यायादौ । यथा समिद्धो ऽग्निः । ‘प्राणो धूमः’ तदुत्थान-सामान्यात् । मुखात् हि प्राण उत्तिष्ठति । ‘वाक्’ शब्दः ‘अर्चिः’ व्यञ्जकत्व-सामान्यात् । अर्चिर्व्यञ्जकम् । तथा वाक् शब्दः अभिधेय-व्यञ्जकः । ‘चक्षुरङ्गाराः’ उपशम-सादृश्यात् प्रकाशाश्रयत्व-सामान्याद्वा । ‘श्रोत्रं विष्फुलिङ्गाः’ विक्षेप-सामान्यात् । ‘तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति’ । अहो नैव देवा अन्नमिह जुह्वतो दृश्यन्ते । नायं दोषः । प्राणानां देवत्वोपपत्तेः । अधिदैवमिन्द्रादयो देवाः । त एवाध्यात्मं प्राणाः । ते चान्नस्य पुरुषे प्रक्षेप्तारः । ‘तस्या आहुते रेतः सम्भवति’ । अन्न-परिणामो हि रेतः ॥ १५ ॥
१६
विश्वास-प्रस्तुतिः
यो᳘षा वा᳘ ऽअग्नि᳘र्ग्गौतम॥
त᳘स्या ऽउप᳘स्थ ऽएव᳘ समि᳘ल्लोमा᳘नि धूमो यो᳘निरर्च्चिर्य्य᳘दन्तः᳘ करो᳘ति ते᳘ ऽङ्गारा ऽअभिन᳘न्दा व्विष्फुलिं᳘गास्त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘ देवा रे᳘तो जुह्वति त᳘स्या ऽआ᳘हुतेः पु᳘रुषः स᳘म्भवति स᳘ जायते स᳘ जीवति या᳘वज्जी᳘वत्य᳘थ यदा᳘ म्म्रियते᳘ ऽथैनमग्न᳘ये हरन्ति॥
मूलम् - श्रीधरादि
यो᳘षा वा᳘ ऽअग्नि᳘र्ग्गौतम॥
त᳘स्या ऽउप᳘स्थ ऽएव᳘ समि᳘ल्लोमा᳘नि धूमो यो᳘निरर्च्चिर्य्य᳘दन्तः᳘ करो᳘ति ते᳘ ऽङ्गारा ऽअभिन᳘न्दा व्विष्फुलिं᳘गास्त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘ देवा रे᳘तो जुह्वति त᳘स्या ऽआ᳘हुतेः पु᳘रुषः स᳘म्भवति स᳘ जायते स᳘ जीवति या᳘वज्जी᳘वत्य᳘थ यदा᳘ म्म्रियते᳘ ऽथैनमग्न᳘ये हरन्ति॥
मूलम् - Weber
यो᳘षा वा᳘ अग्नि᳘र्गौतम॥
त᳘स्या उप᳘स्थ एव᳘ समि᳘ल्लोमा᳘नि धूमो यो᳘निरर्चिर्य᳘दन्तः᳘ करो᳘ति ते᳘ऽङ्गारा अभिन᳘न्दा विस्՚फुलि᳘ङ्गास्त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘ देवा रे᳘तो जुह्वति 18 त᳘स्या आ᳘हुतेः पु᳘रुषः स᳘म्भवति स᳘ जायते स᳘ जीवति या᳘वज्जी᳘वत्य᳘थ यदा᳘ म्रियते᳘ऽथैनमग्न᳘ये हरन्ति॥
मूलम् - विस्वरम्
योषा वा अग्निर्गौतम । तस्या उपस्थ एव समित् । लोमानि धूमः । योनिरर्चिः । यदन्तः करोति ते ऽङ्गाराः । अभिनन्दा विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति । तस्या आहुतेः पुरुषः सम्भवति । स जायते । स जीवति । यावज्जीवति । अथ यदा म्रियते । अथैनमग्नये हरन्ति ॥ १६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘योषा वा अग्निर्गौतम’ । योषेति स्त्री पञ्चमो होमाधिकरणो ऽग्निः । ‘तस्या उपस्थ एव समित्’ । तेन हि सा समिध्यते । ‘लोमानि धूमः’ तदुत्थान-सामान्यात् । योनिरर्चिः’ वर्ण-सामान्यात् । ‘यदन्तः करोति ते ऽङ्गाराः’ अन्तष्करणं मैथुन-व्यापाराः ते ऽङ्गाराः वीर्योपशम-हेतुत्व-सामान्यात् । यथा हि उपशम-कारणं मैथुनं तथा अङ्गार-भावः अग्नेरुपशम-कारणम् । ‘अभिनन्दा विष्फुलिङ्गाः’ । ‘अभिनन्दाः’ सुख-लवाः क्षुद्रत्व-सामान्यात् ‘विष्फुलिङ्गाः’ । ‘तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति’ । ‘तस्या आहुतेः पुरुषः सम्भवति’ । एवं द्युपर्जन्येदंलोकपुरुषयोषा ऽग्निषु क्रमेण हूयमानाः सोम-वृष्ट्य्-अन्न-रेतो-भावेन स्थूल-तारतम्य-क्रममापद्यमानाः श्रद्धा-शब्द-वाच्याः आपः पुरुष-शब्दमारभन्ते । यः प्रश्नश्चतुर्थः “वेत्थ यतिथ्यामाहुत्यां हुतायां आपः पुरुषवाचो भूत्वा समुत्थाय वदन्ती ३ इति” स एष निर्णीतः । पञ्चम्यामाहुतौ योषा ऽग्नौ हुतायां “रेतो भूत्वा आपः पुरुषवाचो भवन्ति” इति ‘सः’ पुरुषः एवं क्रमेण जातो जीवति । कियन्तं कालमिति कथ्यते- यावज्जीवतीति । ‘यावत्’ अस्मिन् देहे स्थिति-निमित्तं कर्म विद्यते तावदिति यावत् । ‘अथ’ तत्-क्षये ‘यदा’ यस्मिन् काले ‘म्रियते’ । तदा ‘एनं’ मृतं ‘अग्नये’ अग्न्यर्थमेव अन्त्याहुत्यै ‘हरन्ति’ ऋत्विजः ॥ १६ ॥
१७
विश्वास-प्रस्तुतिः
त᳘स्याग्नि᳘रे᳘वाग्नि᳘र्भ्भवति॥
समि᳘त्समि᳘द्धूमो᳘ धू᳘मो ऽर्च्चि᳘रर्च्चिर᳘ङ्गारा ऽअङ्गारा व्विष्फुलि᳘ङ्गा व्विष्फुलि᳘ङ्गास्त᳘स्मिन्नेत᳘स्मिन्नग्ग्नौ᳘ देवाः पु᳘रुषं जुह्वति त᳘स्या ऽआ᳘हुतेः पु᳘रुषो भा᳘स्वरवर्ण्णः स᳘म्भवति॥
मूलम् - श्रीधरादि
त᳘स्याग्नि᳘रे᳘वाग्नि᳘र्भ्भवति॥
समि᳘त्समि᳘द्धूमो᳘ धू᳘मो ऽर्च्चि᳘रर्च्चिर᳘ङ्गारा ऽअङ्गारा व्विष्फुलि᳘ङ्गा व्विष्फुलि᳘ङ्गास्त᳘स्मिन्नेत᳘स्मिन्नग्ग्नौ᳘ देवाः पु᳘रुषं जुह्वति त᳘स्या ऽआ᳘हुतेः पु᳘रुषो भा᳘स्वरवर्ण्णः स᳘म्भवति॥
मूलम् - Weber
त᳘स्याग्नि᳘रेॗवाग्नि᳘र्भवति॥
समि᳘त्समि᳘द्धूमो᳘ धूॗमोऽर्चि᳘रर्चिरङ्गारा 19 विष्फुलि᳘ङ्गा विष्फुलि᳘ङ्गास्त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘ देवाः पु᳘रुषं जुह्वति 20 त᳘स्या आ᳘हुतेः पु᳘रुषो भा᳘स्वरवर्णः स᳘म्भवति॥
मूलम् - विस्वरम्
तस्याग्निरेवाग्निर्भवति । समित्समित् । धूमो धूमः । अर्चिरर्चिः । अङ्गारा अङ्गाराः । विष्फुलिङ्गा विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति । तस्या आहुतेः पुरुषो भास्वरवर्णः सम्भवति ॥ १७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तस्याहुति-भूतस्य प्रसिद्धो ऽग्निरेव होमाधिकरणम् । न परिकल्प्यो ऽग्निः । प्रसिद्धैव ‘समित् समित्’ ‘धूमो धूमः’ । ‘अर्च्चिरर्चिः’ । ‘अङ्गारा अङ्गाराः’ । ‘विष्फुलिङ्गा विष्फुलिङ्गाः’ यथाप्रसिद्धमेव समस्तमित्य् अर्थः । ‘तस्मिन्नेतस्मिन्नग्नौ देवाः’ पुरुषमन्त्याहुतिं ‘जुह्वति’ । ‘तस्या आहुतेः पुरुषो भास्वरवर्णः’ अतिशय-दीप्तिमान् निषेकादिभिः अन्त्याहुत्यन्तैः कर्म्मभिः संस्कृतत्वात् ‘सम्भवति’ निष्पद्यते ॥ १७ ॥
१८
विश्वास-प्रस्तुतिः
ते य᳘ ऽएव᳘मेत᳘द्विदुः᳘॥
(र्य्ये᳘) ये᳘ चामी ऽअ᳘रण्ये श्रद्धा᳘ᳫँ᳘ सत्य᳘मुपा᳘सते᳘ ते ऽर्च्चि᳘रभिस᳘म्भवन्त्यर्च्चिषो᳘ ऽहर᳘ह्न ऽआपूर्य्यमाणपक्ष᳘मापूर्य्यमाणपक्षाद्यान्षण्मा᳘सानु᳘दङ्ङादित्य ऽए᳘ति मा᳘सेभ्यो देवलोक᳘न्देवलोका᳘दादित्य᳘मादित्याद्वै᳘द्युतं तान्वै᳘द्युतात्पु᳘रुषो मानस ऽए᳘त्य ब्ब्रह्मलोका᳘न्गमयति ते ते᳘षु ब्ब्रह्मलोके᳘षु प᳘राः पराव᳘तो व्वसन्ति ते᳘षामिह न पु᳘नरा᳘वृत्तिरस्ति॥
मूलम् - श्रीधरादि
ते य᳘ ऽएव᳘मेत᳘द्विदुः᳘॥
(र्य्ये᳘) ये᳘ चामी ऽअ᳘रण्ये श्रद्धा᳘ᳫँ᳘ सत्य᳘मुपा᳘सते᳘ ते ऽर्च्चि᳘रभिस᳘म्भवन्त्यर्च्चिषो᳘ ऽहर᳘ह्न ऽआपूर्य्यमाणपक्ष᳘मापूर्य्यमाणपक्षाद्यान्षण्मा᳘सानु᳘दङ्ङादित्य ऽए᳘ति मा᳘सेभ्यो देवलोक᳘न्देवलोका᳘दादित्य᳘मादित्याद्वै᳘द्युतं तान्वै᳘द्युतात्पु᳘रुषो मानस ऽए᳘त्य ब्ब्रह्मलोका᳘न्गमयति ते ते᳘षु ब्ब्रह्मलोके᳘षु प᳘राः पराव᳘तो व्वसन्ति ते᳘षामिह न पु᳘नरा᳘वृत्तिरस्ति॥
मूलम् - Weber
ते य᳘ एव᳘मेत᳘द्विदुः᳟॥
ये᳘ चामी अ᳘रण्ये श्रद्धा᳘ᳫं᳘ सत्य᳘मुपा᳘सतेॗ तेऽर्चि᳘रभिस᳘म्भवन्त्यर्चिषो᳘ऽहर᳘ह्नु आपूर्यमाणपक्ष᳘मापूर्यमाणपक्षाद्यान्षण्मा᳘सानु᳘दङ्ङादित्य ए᳘ति मा᳘सेभ्यो देवलोकं᳘ 21 देवलोका᳘दादित्य᳘मादित्याद्वै᳘द्युतं तान्वै᳘द्युतात्पु᳘रुषो मानस ए᳘त्य ब्रह्मलोका᳘न्गमयति ते ते᳘षु ब्रह्मलोके᳘षु प᳘राः पराव᳘तो वसन्ति ते᳘षामिह न पु᳘नरा᳘वृत्तिरस्ति॥
मूलम् - विस्वरम्
ते य एवमेतद्विदुः । ये चामी अरण्ये श्रद्धां सत्यमुपासते । ते ऽर्चिरभिसम्भवन्ति । अर्चिषो ऽहः । अह्न आपूर्यमाणपक्षम् । आपूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति । मासेभ्यो देवलोकम् । देवलोकादादित्यम् । आदित्याद्वैद्युतम् । तान् वैद्युतात्पुरुषो मानस एत्य ब्रह्मलोकान् गमयति । तं तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति । तेषामिह न पुनरावृत्तिरस्ति ॥ १८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
साम्प्रतं प्रथम-प्रश्न-निराकरणार्थं ब्रूते- ते इति । ‘ते’ के ‘ये’ ‘एवं’ यथोक्तं पञ्चाग्नि-दर्शनं ‘एतत् विदुः’ एवंशब्दात् अग्निसमिद्धूमार्च्यङ्गार विष्फुलिङ्गाश्रद्धादिविशिष्टाः पञ्चाग्नयो निर्द्दिष्टाः । तानेवैतान् पञ्चाग्नीन् विदुरिति यावत् । न तु अग्निहोत्राहुति-दर्शन-विषयमेवैतद्दर्शनम् । तत्र हि उक्तं उत्क्रान्त्य्-आदि-पदार्थ-षट्कं निर्णीय दिवमेवाहवनीयं कुर्वत इत्यादि । इहापि अमुष्य लोकस्याग्नित्वं आदित्यस्य च समित्त्वं इत्यादि-बहु-साम्यम् । तस्मात् तच्छेषमेवैतद्दर्शनमिति न यतिथ्यामिति प्रश्न-प्रतिवचन-परिग्रहाद्यतिथ्यामित्यस्य प्रश्नस्य प्रतिवचनस्य वा यावदेव परिग्रहः तावदेव एवंशब्देन पराम्रष्टुं युक्तम् । अन्यथा प्रश्नानर्थक्याविज्ञातत्वाच्च सङ्ख्यायाः अग्नय एव वक्तव्याः । अथ विज्ञातमपि अनूद्यते । यथा प्राप्तस्यैवानुवादनं युक्तम् । न तु असौ लोको ऽग्निरित्य् अर्थोपलक्षणार्थः । तथा ऽप्य् अत्र नान्येन चोपलक्षणं युक्तम् । श्रुत्य्-अन्तराच्च समाने हि प्रकरणे छान्दोग्यश्रुतौ- “पञ्चाग्नीन् वेद”- (छां. उ. ५ । १० । १०) इति पञ्चसङ्ख्याया एवोपादानात् अनग्निहोत्रशेषमेतत्पञ्चाग्निदर्शनम् । यत्तु, अग्निसमिदादिसामान्यम् । तदग्निहोत्र-स्तुत्यर्थमवोचाम । तस्मात् न उत्क्रान्त्य्-आदि-पदार्थ-षट्क-परिज्ञानात् अर्चिरादि-प्रतिपत्तिः एवमिति प्रकृतोपादानेन अर्च्चिरादि-प्रतिपत्ति-विधानात् । के पुनस्ते? ‘ये एवं विदुः’ गृहस्था एव ।
ननु- तेषां यज्ञादि-साधनेन धूमादि-प्रतिपत्तिर्विधित्सिता । न, अनेवंविदामपि गृहस्थानां यज्ञादि-साधनोपपत्तेः । भिक्षुवानप्रस्थयोश्च अन्तः अरण्य-सम्बन्धेन ग्रहणात् । गृहस्थ-कर्म-सम्बन्धत्वाच्च पञ्चाग्नि-दर्शनस्यान्तः । न चापि ब्रह्मचारिणः एवं विदुरिति गृह्यन्ते । तेषां तु उत्तरे पथि प्रवेशः स्मृतिप्रामाण्यात्- “अष्टाशीति-सहस्राणामृषीणामूर्ध्वरेतसाम् । उत्तरेणार्यम्णः पन्थास्ते ऽमृतत्वं हि भेजिरे”- ( ) इति । तस्मात् ये गृहस्था एवं अग्निजो ऽहं-अग्नेरपत्यं इत्य् एवं क्रमेणाग्निभ्यो जातः अग्निरूपः इत्य् एवं ये विदुस्ते च । ‘ये चामी अरण्ये’ वानप्रस्थाः परिव्राजकाश्चारण्यनिष्ठाः श्रद्धा ऽश्रद्धायुक्ताः सन्तः ‘सत्यं’ ब्रह्म हिरण्यगर्भात्मानमुपासते । न पुनः ‘श्रद्धां’ चोपासते ‘ते अर्चिरभिसम्भवन्ति’ ।
ये च गृहस्थाः पञ्चाग्नि-विद्यां सत्यं वा ब्रह्म न विदुः । तावत् श्रद्धाद्याहुति-क्रमेण पञ्चम्यामाहुतौ हुतायां ततो योषा ऽग्नेर्जाताः पुनर्लोकं प्रत्युत्थायिनो ऽग्निहोत्रादि कर्मानुष्ठातारो भवन्ति । तेन कर्मणा धूमादि-क्रमेण पुनः पितृलोकं पुनः पर्जन्यादि-क्रमेण इमं आवर्तन्ते । ततः पुनर्योषाग्नेर्जाताः पुनः कर्म कृत्वेत्येवमेव घटीयन्त्रवत् गत्यागतिभ्यां पुनःपुनरावर्तन्ते । यदा त्व् एवं विदुः । ततो घटीयन्त्रवद्भ्रमणात् विनिर्मुक्ताः सन्तः ‘अर्च्चिरभिसम्भवन्ति’ । अर्चिरिति नाग्नि-ज्वाला-मात्रम् । किं तर्हि अर्चिरभिमानिनी अर्चिः-शब्द-वाच्या देवता उत्तर-मार्गलक्षणा व्यवस्थितैव, तामभिसम्भवन्ति । न हि परिव्राजकानां अर्चिषा एवं साक्षात्सम्बन्धो ऽस्ति । तेन देवतैवोपादीयते अर्चिः-शब्द-वाच्या । ततः अहर्देवताम् । मरण-काल-नियमानुपपत्तेरहः-शब्दो ऽपि देवतैव । आयुषः क्षये हि मरणम् । न एवंविदा अहन्येव मर्तव्यं इत्य् अहर्-मरण-कालो नियन्तुं शक्यते । न च रात्रौ प्रेताः सन्तः अहः प्रतीक्षन्ते “स यावत्क्षिप्यते मनस्तावदादित्यं गच्छन्ति” इति श्रुत्य्-अन्तरात् । अह्नः आपूर्यमाणपक्षमहर्देवतया अतिवाहिता आपूर्यमाणपक्षदेवतां प्रतिपद्यन्ते । शुक्ल-पक्ष-देवतामित्य् अर्थः । ‘आपूर्यमाण-पक्षाद्यान् षण्मासान् उदङ्’ उत्तरां दिशं ‘आदित्यः’ सवितैव ‘एति’ प्राप्नोति तन्-मासान् प्रतिपद्यन्ते ।
शुक्ल-पक्ष-देवतया अतिवाहिताः सन्तो मासानिति बहुवचनात् सङ्घ-चारिण्यः षडुत्तरायण-देवताः । तेभ्यः ‘मासेभ्यः’ षण्मास-देवताभिरतिवाहिताः देवलोकाभिमानिनीं देवतां प्राप्नुवन्ति । ‘देवलोकादादित्यं’ । आदित्याद्वैद्युतं’ विद्युदभिमानिनीं देवतां प्राप्नुवन्ति । विद्युद्-देवतां प्राप्तान् ब्रह्मलोक-वासी ‘पुरुषः’ ब्रह्मणा मनसा सृष्टः ‘मानसः’ कश्चिदेत्यागत्य ‘ब्रह्मलोकान् गमयति’ । ब्रह्मलोकानिति अधरोत्तर-भूमि-भेदेन भिन्ना इति गम्यन्ते । बहुवचन-प्रयोगात् उपासन-तारतम्योपपत्तेश्च । ते तेन पुरुषेण गमिताः सन्तः ‘तेषु ब्रह्मलोकेषु’ ‘पराः’ प्रकृष्टाः सन्तः स्वयं ‘परावतः’ प्रकृष्टाः समाः संवत्सराननेकान् ‘वसन्ति’ । ब्रह्मणो ऽनेकान् कल्पान् वसन्तीति यावत् । तावत्तेषां ब्रह्मलोकं गतानां ‘नास्ति’ ‘पुनरावृत्तिः’ । ‘अस्मिन् संसारे न पुनरागमनम् ।
‘इहेति’ अस्मच्छाखायां तेषां इहेत्याकृति-मात्र-ग्रहणमिति चेत्; न, श्वोभूते पौर्णमासीम् इति यद्वत् ‘इहेति’ विशेषणानर्थक्यात् । यदि हि नावर्तन्त एव इह-ग्रहणमनर्थकमेव भवेत् । श्वोभूते पौर्णमास्याः श्वोभूतत्वमनुक्तं न ज्ञायत इति विशेषयितुम् । न हि तत्र श्वआकृतिः शब्दो विद्यत इति श्वश्शब्दो निरर्थक एव प्रयुज्यते । यत्र तु विशेषण-शब्दे प्रयुक्ते अन्विष्यमाणे विशेषण-फलं चेन्न गम्यते । तत्र युक्तो ऽपार्थकत्वेनोत्स्रष्टुं विशेषण-शब्दः । न तु सत्यां विशेषण-फलावगतौ । तस्मादस्मात् कल्पात् ऊर्ध्वमावृत्तिर्गम्यते ॥ १८ ॥
१९
विश्वास-प्रस्तुतिः
(स्त्य᳘) अ᳘थ ये᳘ यज्ञे᳘न दाने᳘न त᳘पसा लोकञ्ज᳘यन्ति ते᳘ धूम᳘मभिस᳘म्भवन्ति धूमाद्रा᳘त्रिᳫँ᳭ रा᳘त्रेरपक्षीयमाणपक्ष᳘मपक्षीयमाणपक्षाद्यान्षण्मा᳘सान्दक्षि᳘णा ऽदित्य ऽए᳘ति मा᳘सेभ्यः पितृलोक᳘म्पितृलोका᳘च्चन्द्द्रन्ते᳘ चन्द्द्रम्प्राप्या᳘न्नम्भवन्ति ताँस्त᳘त्र देवा य᳘था सो᳘मᳫँ᳭ रा᳘जानमा᳘प्यायस्वा᳘पक्षीयस्वे᳘त्येव᳘मेनाँस्त᳘त्र भक्षयन्ति ते᳘षां यदा त᳘त्पर्य्यवैत्य᳘थेम᳘मे᳘वाकाश᳘मभिनि᳘ष्पद्यन्त ऽआकाशा᳘द्वायु᳘म्वायोर्व्वृ᳘ष्टिम्वृ᳘ष्टेः प्पृथिवीन्ते᳘ प्पृथिवीम्प्राप्या᳘न्नं भवन्ति त᳘ ऽएव᳘मे᳘वानुप᳘रिवर्तन्ते᳘ ऽथ य᳘ ऽएतौ प᳘न्थानौ न᳘ व्विदुस्ते᳘ कीटाः᳘ पत᳘ङ्गा य᳘दिद᳘न्दन्दशू᳘कम्॥
मूलम् - श्रीधरादि
(स्त्य᳘) अ᳘थ ये᳘ यज्ञे᳘न दाने᳘न त᳘पसा लोकञ्ज᳘यन्ति ते᳘ धूम᳘मभिस᳘म्भवन्ति धूमाद्रा᳘त्रिᳫँ᳭ रा᳘त्रेरपक्षीयमाणपक्ष᳘मपक्षीयमाणपक्षाद्यान्षण्मा᳘सान्दक्षि᳘णा ऽदित्य ऽए᳘ति मा᳘सेभ्यः पितृलोक᳘म्पितृलोका᳘च्चन्द्द्रन्ते᳘ चन्द्द्रम्प्राप्या᳘न्नम्भवन्ति ताँस्त᳘त्र देवा य᳘था सो᳘मᳫँ᳭ रा᳘जानमा᳘प्यायस्वा᳘पक्षीयस्वे᳘त्येव᳘मेनाँस्त᳘त्र भक्षयन्ति ते᳘षां यदा त᳘त्पर्य्यवैत्य᳘थेम᳘मे᳘वाकाश᳘मभिनि᳘ष्पद्यन्त ऽआकाशा᳘द्वायु᳘म्वायोर्व्वृ᳘ष्टिम्वृ᳘ष्टेः प्पृथिवीन्ते᳘ प्पृथिवीम्प्राप्या᳘न्नं भवन्ति त᳘ ऽएव᳘मे᳘वानुप᳘रिवर्तन्ते᳘ ऽथ य᳘ ऽएतौ प᳘न्थानौ न᳘ व्विदुस्ते᳘ कीटाः᳘ पत᳘ङ्गा य᳘दिद᳘न्दन्दशू᳘कम्॥
मूलम् - Weber
अ᳘थ ये᳘ यज्ञे᳘न दाने᳘न त᳘पसा लोकं ज᳘यन्ति ते᳘ धूम᳘मभिस᳘म्भवन्ति धूमाद्रा᳘त्रिं रा᳘त्रेरपक्षीयमाणपक्ष᳘मपक्षीयमाणपक्षाद्यान्षण्मा᳘सान्दक्षिॗणादित्य ए᳘ति मा᳘सेभ्यः पितृलोक᳘म् पितृलोका᳘च्चन्द्रं ते᳘ चन्द्रम् प्राप्या᳘न्नम् भवन्ति तांस्त᳘त्र देवा य᳘था सो᳘मं रा᳘जानमा᳘प्यायस्वा᳘पक्षीयस्वे᳘त्येव᳘मेनांस्त᳘त्र भक्षयन्ति ते᳘षां यदा त᳘त्पर्यवैत्य᳘थेम᳘मेॗवाकाश᳘मभिनि᳘ष्पद्यन्त आकाशा᳘द्वायुं᳘ वायोर्वृ᳘ष्टिं वृ᳘ष्टेः पृथिवीं ते᳘ पृथिवीम् प्राप्या᳘न्नम् भवन्ति त᳘ एव᳘मेॗवानुप᳘रिवर्तन्ते᳘ऽथ 22 य᳘ एतौ प᳘न्थानौ न᳘ विदुस्ते᳘ कीटाः᳘ पत᳘ङ्गा य᳘दिदं᳘ दन्दशू᳘कम्॥
मूलम् - विस्वरम्
अथ ये यज्ञेन दानेन तपसा लोकं जयन्ति । ते धूममभिसम्भवन्ति । धूमाद्रात्रिम् । रात्रेरपक्षीयमाणपक्षम् । अपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणा ऽऽदित्य एति । मासेभ्यः पितृलोकम् । पितृलोकाच्चन्द्रम् । ते चन्द्रं प्राप्यान्नं भवन्ति । तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेति एवमेनांस्तत्र भक्षयन्ति । तेषां यदा तत्पर्यवैति । अथेममेवाकाशमभिनिष्पद्यन्ते । आकाशाद्वायुम् । वायोर्वृष्टिम् । ते पृथिवीं प्राप्यान्नं भवन्ति । त एवमेवानुपरिवर्तन्ते । अथ य एतौ पन्थानौ न विदुः । ते कीटाः पतङ्गाः । यदिदं दन्दशूकम् ॥ १९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘अथ’ पुनः ‘ये’ नैवं विदुः उत्क्रान्त्य्-आद्य्-अग्निहोत्र-सम्बन्ध-पदार्थ-षट्कस्यैव वेदितारः केवल-कर्मिणो यज्ञेनाग्निहोत्रादिना दानेन बहिर्वेदिभिक्षमाणेषु द्रव्य-सम्बन्धि-भाग-लक्षणेन, तपसा बहिर्वेद्येव दीक्षाव्यतिरिक्तेन कृच्छ्र-चान्द्रायणादिना लोकं जयन्ति । शाखान्तरे “लोकान् जयन्ति”- (का. श. ब्रा.) इति लोकानिति बहुवचनात् । तत्रापि फल-तारतम्यमभिप्रेतम् । ‘ते धूममभिसम्भवन्ति’! उत्तरमार्ग इव इहापि देवता एव । धूमादि-शब्द-वाच्यां धूम-देवतां प्राप्नुन्तीत्य् अर्थः । आतिवाहिकत्वं च देवतानां तद्वदेव । ‘धूमाद्रात्रिं’ रात्रि-देवतां ततः अपक्षीयमाण-पक्ष-देवताम् । ततः ‘यान् षण्मासान्’ दक्षिणां दिशमादित्यः ‘एति’ तान् मास-देवता-विशेषान् प्राप्नुवन्ति । ‘मासेभ्यः पितृलोकम्’ । ‘पितृलोकाच्चन्द्रम्’ । ‘ते चन्द्रं प्राप्यान्नं भवन्ति’ । ‘तांस्तत्र’ अन्न-भूतान् ‘यथा सोमꣳ राजानम्’ इह यज्ञे ऋत्विजः ‘आप्यायस्वापक्षीयस्वेति’ न मन्त्रः किं तर्हि । आप्याय्याप्याय्य चमसस्थं भक्षणेनापक्षयं च विधाय पुनःपुनर्भक्षयन्तीति यावत् । एवं देवा अपि सोमलोके लब्ध-देहान् कर्मण उपकरण-भूतान् पुनःपुनर्विश्रामयन्तः कर्मानुरूपं फलं प्रयच्छन्ति । तद्धि तेषामाप्यायनं सोमस्याप्यायनार्थं वा उपभुञ्जते उपकरण-भूतान् देवाः । ‘तेषां’ कर्मिणां ‘यदा’ यस्मिन् काले ‘तत्’ यज्ञ-दानादि-लक्षणं सोमलोक-प्रापकं कर्म ‘पर्यवैति’ परिगच्छति परिक्षीयत इति यावत् । ‘अथ’ तदा ‘इममेव’ प्रसिद्धं ‘आकाशं’ ‘अभिनिष्पद्यन्ते’ । यास्ताः श्रद्धा-शब्द-वाच्याः द्युलोकाग्नौ हुताश्चापः सोमाकारपरिणताः । याभिः सोमलोके कर्म्मिणामुपभोगाय देहम् आरब्धं अब्मयं ताः कर्म-क्षयात् हिम-पिण्ड इव आतप-संसर्गात् । प्रविलीयन्ते । प्रतिलीनाः सूक्ष्मा आकाश-भूता इव भवन्ति । तदिदमभिधीयते । आकाशाद्वायुमिति । ‘वायोर्वृष्टिं’ प्रति सम्पद्यन्ते, पर्जन्याग्नौ सोमꣳ राजानं जुह्वतीति । ततो वृष्टि-भूता इमां पृथिवीं पतन्ति । ‘ते पृथिवीं प्राप्य’ व्रीहि-यवाद्यन्नं ‘भवन्ति’ । तत् गदितं “तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति । तस्या आहुतेरन्नं सम्भवति” इति । ते पुनः पुरषाग्नौ हूयन्ते अन्नभुजां रेतः-सिचि । ततो रेतो-भूता योषा ऽग्नौ हूयन्ते । ततो जायन्ते । ते लोकं प्रत्युत्थायिनः । प्रत्युपतिष्ठन्ते अग्निहोत्रादिकमनुतिष्ठन्ति । ततो धूमादिना पुनः सोमलोकं पुनरिमं लोकमिति । ‘ते एवमेव’ कर्मिणो ‘अनु’ ‘परिवर्तन्ते’ घटीयन्त्रवत् चक्रीभूता बम्भ्रमतीति यावत् । उत्तर-मार्गाय सद्यो-मुक्तये वा यावत् ब्रह्म न विदुरिति तु कामयमानः संसरति इति अभिहितम् । ‘अथ’ पुनर्ये उत्तरं दक्षिणं च ‘एतौ पन्थानौ न विदुः’ । उत्तरस्य दक्षिणस्य वा पथः प्रतिपत्तये ज्ञानं कर्म वा नानुतिष्ठन्तीत्येतत्ते किं भवन्तीत्य् आख्यायते । ‘ते कीटाः पतङ्गाः’ । ‘यदिदं’ यच्चेदं ‘दन्दशूकं’ दंश-मशकमित्य् एतद्भवन्ति । एवं हि इयं संसार-गतिः कष्टा । अस्यां निमग्नस्य पुनरुद्धार एव दुर्लभः । तथा च श्रुत्य्-अन्तरं- “तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति ते जायस्व म्रियस्व” इति । तस्मात्कृत्स्नोत्साहेन यथाशक्ति स्वाभाविक-कर्म-ज्ञान-परित्यागेन दक्षिणोत्तर-मार्ग-प्रतिबद्धप्राप्ति-साधनं कर्म ज्ञानं चानुतिष्ठेतेति वाच्यार्थः । तथा चावोचत् । “अतो वै खलु दुर्निःप्रतरं तस्माज्जुगुप्सेत” ( ) इति श्रुत्य्-अन्तरात् मोक्षाय प्रयतेतेत्य् अर्थः । एवं प्रश्नाः सर्वे निर्णीताः । “असौ वै लोकः” (कं. १२) इत्यारभ्य “पुरुषः सम्भवति” (कं. १६) इति चतुर्थः प्रश्नः । “यतिथ्यामाहुत्यां” (कं. ३) इत्यादिः प्राथम्येन । पञ्चमस्तु द्वितीयत्वेन “देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा” (कं. ३) इति दक्षिणोत्तर-मार्ग-प्राप्ति-साधन-कथनेन । तेनैव च प्रथमः । अग्नेरारभ्य केचिदर्चिः प्रतिपद्यन्ते केचिद्धूमं (कं. १८ । १९) इति । विप्रतिपत्तिः पुनरावृत्तिश्चेति द्वितीयः प्रश्नः । वियदादिक्रमेण इमं लोकमागच्छन्ति (कं. १४) इति । यथा ऽसौ लोको न सम्पूर्यते (कं. १९) कीट-पतङ्गादि-प्रतिपत्तेश्च केषाञ्चित् (कं. १९) इति तृतीयो ऽपि प्रश्नो निर्णीतः ॥ १९ ॥
इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे षष्ठे ऽध्याये प्रथमं पञ्चाग्निविद्या-ब्राह्मणं वा श्वेतकेतु-ब्राह्मणं परिसमाप्तम् ॥ १४ । (९) ६ । १ ॥
-
स᳘ भो३ इ᳘ति AM. The accented syllable preceding a प्लुत generally retains its accentual sign in the mss. - शिष्टो न्वसि AM. ↩︎
-
“जैवलिम्” इति काण्वः पाठः । ↩︎
-
प्रजाः । प्र᳘यत्यो, प्रय᳘द्भिर्न सं᳘पूर्णता३ AM. संपूर्यते D. ↩︎
-
य᳘तिथ acc.! - ibid. पुरुषवाचो᳘ AM. - ibid. देवयान᳘स्य वा प᳘थः प्रतिप᳘दं पितृयाण᳘स्य वा य᳘त्कृत्वा᳘ देवयानं᳘ वा, पितृयाणं᳟ वा AM. ↩︎
-
अ᳘पि हि न ऋ᳘षेर्व᳘चः AM. न is taken by D. (and शङ्कर) erroneously and against the accent for नः, see सप्तऋषि, एकऋषि. - ibid. त्समे᳘ति, चेति ना᳘हम᳘त AM. ↩︎
-
व᳘सति acc.! - ibid. कु᳘मारः A. - ibid. वाव᳘ किल᳘ नो भवा᳘न्पुरा᳘ AM. - ibid. अ᳘वोचः acc. ! र᳘प्राक्षीत्त᳘तो᳘ नैकं᳘, इ᳘तीम᳘ऽइति ह᳘ AM. - ibid. प्रतीका᳘न्यु acc. ! ↩︎
-
नस्त्वं᳘ तात᳘, तत्तु᳘भ्यमवोचं, भवा᳘नेव᳘ AM. ↩︎
-
गौ᳘तमः । M. गौ᳘तमो । A. ↩︎
-
गौतमा᳘य यां᳘ तु कुमारस्या᳘न्ते वा᳘चमभा᳘षथा AM. ↩︎
-
विज्ञा᳘यते हास्ति, भ᳘वान्व᳘हो AM. - D. divides अभ्यवदान्य into two words अभि and अव. - ibid. स वै᳘ गौतम AM. The reply of the king beginning with स not with गौतम, this latter is left unaccented. - ibid. इ᳘त्युपै᳘म्यहं, वा᳘चा ह AM. ↩︎
-
“कीर्त्योवास” इति काण्वः पाठः । ↩︎
-
गौतम᳘ माप᳘राधास्त᳘व च पिता᳘महा य᳘थेयं विद्ये᳘तः पूर्वं न, तां त्व᳘हं तु᳘भ्यं वक्ष्यामि᳘ को हि᳘ AM. ↩︎
-
देवाः श्र᳘द्धां जु᳘ह्वति AM. ↩︎
-
सोमो नाम चन्द्र-मण्डल-वर्ती प्रकाशात्मा पुरुषः । चन्द्र-सोमयोर्विवेकस्तु- अप्रकाशस्वरूपं मण्डलमुच्यते । चन्द्र-शब्द-वाच्याभ्रकेण तुल्य-रूपत्वात् । प्रकाश-स्वभावो वृद्धि-क्षय-धर्मा श्वेतः तदन्तर्गतो देवः सोमः इत्य् अभिधीयते । सोम-शब्द-वाच्या लता-तद्गत-वृद्धि-क्षयवत्तासामान्यात् । अतो मण्डलात्मत्वेन तद्-अन्तर्गतत्वेन च चन्द्र-सोमयोर्विवेकः इत्य् अनवद्यम् । कृष्ण-पक्षे क्षीयमाणः सोमः अमावास्यायामादित्यान्तर्गतः सन् तद्-गत-तोयेन शुक्ल-पक्षे क्रमेणाप्यायते । तदेतदाप्यायनं सोम-लोके कर्तृ-शरीरात्मकस्य सोमस्य संभवः इति द्रष्टव्यम् । इति द्विवेदगङ्गः ॥ ↩︎
-
धूमो वि᳘द्युदर्चिरश᳘ AM. - ibid. सो᳘मं (म A.) जु᳘ह्वति AM. सोमं राजानं जुह्वति D. ↩︎
-
जु᳘ह्वति AM. ↩︎
-
जु᳘ह्वति AM. ↩︎
-
जु᳘ह्वति AM. ↩︎
-
धूमो᳘ऽर्चिरर्चिर᳘ङ्गारा AM. ↩︎
-
जु᳘ह्वति AM. ↩︎
-
य᳘ चामी᳘ (वामी᳘ A.) अरण्ये᳘ AM. ibid. र्चि᳘रभिस᳘म्भवन्त्य᳘र्चिषो᳘ A. ibid. मासेभ्यो᳘ देवलोकं᳘ AM. ↩︎
-
धूमा᳘द्रात्रि᳘ᳫ रात्रे᳘रप, मासेभ्यः᳘ पितृलोकं᳘, ते᳘षां य᳘दा त᳘त्पर्य᳘वैत्य᳘थे, वायो᳘र्वृष्टिं᳘ वृष्टेः᳘ एव᳘मे᳘वानुपरिव᳘र्तन्ते᳘ऽथ AM. ↩︎