०१
विश्वास-प्रस्तुतिः
व्वा᳘चन्धेनुमु᳘पासीत॥
त᳘स्याश्चत्वा᳘र स्त᳘नाः स्वाहाकारो᳘ व्वषट्कारो᳘ हन्तकारः᳘ स्वधा᳘कारस्त᳘स्यै द्वौ स्त᳘नौ देवा᳘ ऽउपजी᳘वन्ति स्वाहाकार᳘ञ्च व्वषट्कार᳘ञ्च हन्तकार᳘म्मनु᳘ष्याः स्वधा᳘कारम्पितरस्त᳘स्याः[[!!]] प्प्राण᳘ ऽऋषभो[[!!]] म᳘नो व्वत्सः[[!!]]॥
मूलम् - श्रीधरादि
व्वा᳘चन्धेनुमु᳘पासीत॥
त᳘स्याश्चत्वा᳘र स्त᳘नाः स्वाहाकारो᳘ व्वषट्कारो᳘ हन्तकारः᳘ स्वधा᳘कारस्त᳘स्यै द्वौ स्त᳘नौ देवा᳘ ऽउपजी᳘वन्ति स्वाहाकार᳘ञ्च व्वषट्कार᳘ञ्च हन्तकार᳘म्मनु᳘ष्याः स्वधा᳘कारम्पितरस्त᳘स्याः[[!!]] प्प्राण᳘ ऽऋषभो[[!!]] म᳘नो व्वत्सः[[!!]]॥
मूलम् - Weber
वा᳘चं धेनुमु᳘पासीत॥
त᳘स्याश्चत्वा᳘र स्त᳘नाः स्वाहाकारो᳘ वषट्कारो᳘ हन्तकारः᳘ स्वधा᳘कारस्त᳘स्यै द्वौ स्त᳘नौ देवा᳘ उपजी᳘वन्ति स्वाहाकारं᳘ च वषट्कारं᳘ च हन्तकार᳘म् मनुॗष्याः स्वधा᳘कारम् पित᳘रस्त᳘स्याः प्राण᳘ ऋषभो᳘ म᳘नो वत्सः᳟ 1 ॥
मूलम् - विस्वरम्
वेदत्रयीवाग्धेनूपासनाब्राह्मणम् ।
वाचं धेनुमुपासीत । तस्याश्चत्वारः स्तनाः- स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारः । तस्यै द्वौ स्तनौ देवा उपजीवन्ति । स्वाहाकारं च वषट्कारं च । हन्तकारं मनुष्याः । स्वधाकारं पितरः । तस्याः प्राण ऋषभः । मनो वत्सः ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथ पुनस्तस्यैव ब्रह्मणो वाङ्मय-धेनु-सम्बन्धेनोपासनं महाफलार्थमाह- वाचं धेनुमुपासीतेति । वाक्-शब्देनात्र वेदत्रयी ग्राह्या । न तु करणं तत्स्थानं वा तद्देवता वा तदन्यतमेषु स्वाहाकारादीनामसम्भवात् । अतः ‘वाचं’ वेदत्रयी-लक्षणां धेनुरिव धेनुः तामुपासीत सदा अनुवर्तेतेत्य् अर्थः । एवमुपासने निमित्तं धेनु-सामान्यमाह- तस्याश्चत्वारः स्तना इति । हन्त-शब्दः अपेक्षितार्थ-वाचकः । शेषः प्रसिद्धार्थः । स्वामिभ्यो धेनुः पय इव वाग्धेनुः एतैश्चतुर्भिः स्तनैर्देवादिभ्यो ऽन्नं क्षरतीत्य् अर्थः । कः कं स्तनमुपजीवतीत्य् अपेक्षायां विनियोग-भेदमाह- तस्यै द्वौ स्तनौ देवा उपजीवन्तीत्यादिना स्वधाकारं पितर इत्यन्तेन । ‘तस्यै’ तस्या धेन्वाः । स्वाहावषड्भ्यां हि देवेभ्यो हविर्दीयते । अतः ‘देवाः स्वाहाकारं च वषट्कारं चोपजीवन्ति’ । हन्तेति मनुष्येभ्यो ऽन्नं प्रयच्छन्ति । अतः ‘हन्तकारं मनुष्याः’ उपजीवन्तीत्य् अनुषङ्गः । स्वधेति हि पितृभ्यः कव्यं ददति । अतः ‘स्वधाकारं पितरः’ उपजीवन्तीति प्रसिद्धमित्य् अर्थः । कः पुनरस्याः प्रसूति-हेतुः सेक्ता को वा पुनः स्तन्य-प्रस्नव-हेतुर्वत्स इत्य् अपेक्षायां तावाह- तस्याः प्राण ऋषभो मनो वत्स इति । प्राणेन हि बललक्षणेन वाक् प्रसूयते । अप्राणस्य वागुच्चारणादर्शनात् । अतस्तस्या धेन्वाः ‘प्राणः’ ऋषभ इव ‘ऋषभः’ तथा मनसा ह्यालोच्य वाक् स्वाहाकाराद्यर्थं क्षरति । “यद्वै मनसा ध्यायति तद्वाचा वदति”- (तै. सं. ६ । १ । ७) इति श्रुतेः । अतः ‘मनो वत्सः’ इत्य् अर्थः । एतदुपासकस्य यथोक्त-वागुपाधिकब्रह्मप्रतिपत्तिरेव फलम् । “तं यथा यथोपासते तदेव भवति”- (श. प. १० । ५ । २ । २०) इति श्रुतेरिति भावः ॥ १ ॥
इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-व्याख्यायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे पञ्चमे ऽध्याये नवमं वेदत्रयी-वाग्-धेनूपासना-ब्राह्मणं परिसमाप्तम् ॥ १४ (८) ५-९ ॥
-
स्वधा᳘कार acc.! - ibid. ऋषभो᳘ मनो व᳘त्सः AM. ↩︎