०१

विश्वास-प्रस्तुतिः

मनोमयो ऽयम्पु᳘रुषः[[!!]]॥
(षो) भाः᳘सत्यस्त᳘स्मिन्नन्तर्दृ᳘दये य᳘था व्व्रीहि᳘र्व्वा[[!!]] य᳘वो वैव᳘मय᳘मन्त᳘रात्मन्पु᳘रुषः स᳘ ऽएष स᳘र्व्वस्य व्व᳘शी स᳘र्व्वस्ये᳘शानः स᳘र्व्वस्या᳘धिपतिः स᳘र्व्वमिदम्प्र᳘शास्ति य᳘दिदङ्कि᳘ञ्च य᳘ ऽएवम्वे᳘द॥

मूलम् - श्रीधरादि

मनोमयो ऽयम्पु᳘रुषः[[!!]]॥
(षो) भाः᳘सत्यस्त᳘स्मिन्नन्तर्दृ᳘दये य᳘था व्व्रीहि᳘र्व्वा[[!!]] य᳘वो वैव᳘मय᳘मन्त᳘रात्मन्पु᳘रुषः स᳘ ऽएष स᳘र्व्वस्य व्व᳘शी स᳘र्व्वस्ये᳘शानः स᳘र्व्वस्या᳘धिपतिः स᳘र्व्वमिदम्प्र᳘शास्ति य᳘दिदङ्कि᳘ञ्च य᳘ ऽएवम्वे᳘द॥

मूलम् - Weber

मनोम᳘योऽयम् पु᳘रुषो॥
भाः᳘सत्यस्त᳘स्मिन्नन्तर्हृ᳘दये य᳘था व्री᳘हि᳘र्वा य᳘वो वैव᳘मय᳘मन्त᳘रात्मन्पु᳘रुषः स᳘ एष स᳘र्वस्य व᳘शी 1 स᳘र्वस्ये᳘शानः स᳘र्वस्या᳘धिपतिः स᳘र्वमिदम् प्र᳘शास्ति य᳘दिदं किं᳘ च य᳘ एवं वे᳘द॥

मूलम् - विस्वरम्

अथ शाण्डिल्यविद्याग्रन्थः ।

मनोमयपुरुषोपासनाब्राह्मणम् ।

मनोमयो ऽयं पुरुषः भाःसत्यः । तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा, एवमयमन्तरात्मन्पुरुषः । स एष सर्वस्य वशी । सर्वस्येशानः । सर्वस्याधिपतिः । सर्वमिदं प्रशास्ति । यदिदं किञ्च । य एवं वेद ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

उपाधीनामनेकत्वात् प्रत्येकमनेक-विशेषणत्वाच्च तथैव प्रकृतस्य ब्रह्मणः मनउपाधिकस्योपासनं विधित्सन्ती श्रुतिराह- मनोमयो ऽयं पुरुषो भाःसत्य इति । ‘अयं पुरुषो मनोमयः’ मनःप्रायः मनसि उपलभ्यमानत्वात् मनसा चोपलभ्यमानत्वात् मनसि अहमित्यभिमान-ज्ञानवत्त्वाद्वा ‘भाःसत्यः’ भा एव सत्यं स्वरूपं यस्य सो ऽयं भाःसत्यो भास्वरः सर्वार्थावभासक-मनोमयत्वादित्य् अर्थः । तस्य ध्यानार्थमौपाधिकं स्वरूपं कथयन्ती श्रुतिः स्थान-विशेषमाह- तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वेति । ‘यथा व्रीहिर्वा यवो वा’ परिमाणतः । एवंपरिमाणो विज्ञानमयः ‘तस्मिन्’ प्रसिद्धे ‘अन्तर्हृदये’ हृदय-मध्ये । योगिभिर्दृश्यत इति शेषः । इदं त्वौपाधिकं परिमाणम् । स्वाभाविकं तु आनन्त्यमेवेत्य् अभिप्रायं दार्ष्टान्तिकमाह- एवमयमान्तरात्मन् पुरुषः स एष सर्वस्य वशीत्यादि । यथा दृष्टान्तः । ‘एवमन्तरात्मन्’ अन्तरात्मनि हृदयाकाशे ‘अयं पुरुषः’ योगिभिर्दृश्यत इति शेषः । सर्वस्य वशीत्यादि यदिदं किञ्चेत्यन्तं शारीरक-ब्राह्मणे (बृ. उ. ४ । २ । २४) व्याख्यातार्थम् । उपासितुः फलमाह- य एवं वेदेति । एवंविध-मनोमय-ब्रह्मोपासनात् तादृग्रूपापत्तिरेव फलम् । “तं यथा यथोपासते”- (श. प. १० । ५ । २ । २०) इति श्रुतेः । न त्वफलमित्यनादरणीयमित्य् अर्थो बोध्यः ॥ १ ॥

इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-व्याख्यायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे पञ्चमे ऽध्याये ऽष्टमं मनोमय-पुरुषोपासना-ब्राह्मणं परिसमाप्तम् ॥ १४ (८) ५-८ ॥


  1. वशी acc.! ↩︎