०१

विश्वास-प्रस्तुतिः

व्विद्युद्ब्रह्मे᳘त्याहुः॥
(र्व्वि) व्विदा᳘नाद्विद्युद्वि᳘द्यत्येनᳫँ᳭ स᳘र्व्वस्मात्पाप्म᳘नो य᳘ ऽएवम्वे᳘द व्विद्युद्ब्रह्मे᳘ति व्विद्यु᳘द्ध्येव ब्ब्र᳘ह्म॥

मूलम् - श्रीधरादि

व्विद्युद्ब्रह्मे᳘त्याहुः॥
(र्व्वि) व्विदा᳘नाद्विद्युद्वि᳘द्यत्येनᳫँ᳭ स᳘र्व्वस्मात्पाप्म᳘नो य᳘ ऽएवम्वे᳘द व्विद्युद्ब्रह्मे᳘ति व्विद्यु᳘द्ध्येव ब्ब्र᳘ह्म॥

मूलम् - Weber

विद्युद्ब्रह्मे᳘त्याहुः॥
विदा᳘नाद्विद्युद्वि᳘द्यत्येनᳫं 1 स᳘र्वस्मात्पाप्म᳘नो य᳘ एवं वे᳘द विद्युद्ब्रह्मे᳘ति विद्युॗद्ध्येव ब्र᳘ह्म॥

मूलम् - विस्वरम्

विद्युद्ब्रह्मोपासनाब्राह्मणम् ।

विद्युत् ब्रह्मेत्याहुः । विदानात् विद्युत् । विद्यत्येनं सर्वस्मात्पाप्मनः । य एवं वेद- विद्युत् ब्रह्मेति । विद्युत् हि एव ब्रह्म ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एतस्यैव सत्य-ब्रह्मणः अशेष-पाप-ध्वंसकमुपासनान्तरमाह- विद्युद्ब्रह्मेत्याहुरिति । ‘आहुः’ ब्राह्मणा इति शेषः । तस्य निर्वचनमाह- विदानाद्विद्युदिति । मेघान्धकारस्य विदानादवखण्डनात् विदारणात् ‘विद्युत्’ । पाप-हेत्वज्ञानान्धकारस्य विदारणात् ब्रह्म विद्युदित्य् अर्थः । एवमुपासितुः फलमाह- विद्यत्येनं सर्वस्मात्पाप्मनो य एवं वेद विद्युद्ब्रह्मेतीति । ‘यो विद्युत् ब्रह्मेति एवं वेद’ एनमुपासकं ‘सर्वस्मात्’ समस्तात् ‘पाप्मनः’ पापात् विद्यत्यवखण्डयति पृथक्करोतीत्य् अर्थः । ब्रह्मेति शेषः । फलस्योपास्यानुगुणत्वमाह- विद्युद्ध्येव ब्रह्मेति । ‘हि’ यस्मात् ‘ब्रह्म विद्युत्’ तमोमूलक-पाप-विदारकमेव । तस्मादुक्तं तदेव फलमित्य् अर्थः ॥ १ ॥

इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-व्याख्यायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे पञ्चमे ऽध्याये सप्तमं विद्युद्-ब्रह्मोपासना-ब्राह्मणं परिसमाप्तम् ॥ १४ (८) ५-७ ॥


  1. दानाद्वि᳘द्युद्विद्य᳘त्ये AM. ↩︎