०१
विश्वास-प्रस्तुतिः
आ᳘प ऽए᳘वेदम᳘ग्ग्र ऽआसुः॥
(स्ता) ता ऽआ᳘पः सत्य᳘मसृजन्त सत्यं ब्ब्र᳘ह्म ब्ब्र᳘ह्म प्प्रजा᳘पतिम्प्रजा᳘पतिर्द्देवान्[[!!]]॥
मूलम् - श्रीधरादि
आ᳘प ऽए᳘वेदम᳘ग्ग्र ऽआसुः॥
(स्ता) ता ऽआ᳘पः सत्य᳘मसृजन्त सत्यं ब्ब्र᳘ह्म ब्ब्र᳘ह्म प्प्रजा᳘पतिम्प्रजा᳘पतिर्द्देवान्[[!!]]॥
मूलम् - Weber
आ᳘प एॗवेदम᳘ग्र आसुः॥
ता आ᳘पः सत्य᳘मसृजन्त सत्यम् ब्र᳘ह्म प्रजा᳘पतिम् प्रजा᳘पतिर्देवा᳘न्॥
मूलम् - विस्वरम्
सत्यस्य ब्रह्मणः स्तुतिब्राह्मणम् ।
आप एवेदमग्र आसुः । ता आपः सत्यमसृजन्त । सत्यं ब्रह्म ब्रह्म प्रजापतिम् । प्रजापतिर्देवान् ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं सत्यस्य ब्रह्मणः स्तुत्य् अर्थं तस्य प्रथमजत्वं साधयति- आप एवेदमग्र आसुरिति । अग्निहोत्रादि-कर्म्मसु हूयमाना आहुतयः पयःसोमादिकाः अत्राप्-शब्देनोच्यन्ते । तथा च यथोक्ताः ‘आपः’ जगतो बीज-भूता अव्याकृतात्मना अवस्थिताः ‘एव’ ‘इदं’ सर्वं नाम-रूपात्मकं विकार-जातं जगत् ‘अग्रे’ सृष्टेः पूर्वं ‘आसुः’ । नान्यत् किञ्चित् विकारजातमासीदिति वाक्यार्थः । इदानीमप्शब्दोपलक्षितात् मूल-कारणात् सूत्रोत्पत्तिमाह- ता आपः सत्यमसृजन्तेति । उक्तलक्षणाः पुनरापो भूतान्तर-सहिताः ‘सत्यं’ सूत्रात्मकं हिरण्यगर्भमसृजन्त सृष्टवत्यः । एतेन सत्यस्य ब्रह्मणः प्रथमजत्वं सिद्धमित्य् अर्थः । एतस्य पूर्वोपक्रान्तात् हृदय-सत्य-ब्रह्मणः सकाशात् भिन्नत्व-शङ्कां वारयति- सत्यं ब्रह्मेति । एवं सत्यस्य ब्रह्मणः प्रथमजत्वं निरूप्य तस्यैव महत्त्वं साधयति- ब्रह्म प्रजापतिमिति । तत्सत्यं ‘ब्रह्म’ हिरण्यगर्भाख्यं कर्तृ ‘प्रजापतिं’ प्रजानां पतिं विराजमसृजतेत्यनुषङ्गः । तथा च सर्व-जगदात्मक-विराडात्म-स्रष्टृत्वात् सूत्रात्मकं सत्यं ब्रह्म महदित्य् अर्थः । इदानीं तस्य यक्षत्वं निरूपयितुं उत्पन्नाद्विराडात्मनः सकाशादिन्द्रादि-देवता-सृष्टिमाह- प्रजापतिर्देवानिति । असृजतेत्यत्राप्य्-अनुषङ्गः । देवता-सृष्टिश्रुतिरपि महत्त्व-साधनायेति वा व्याख्या बोध्या ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
(वाँस्ते᳘) ते᳘ देवाः᳘ सत्यमित्यु᳘पासते॥
त᳘देत᳘त्त्र्यक्षरᳫँ᳭[[!!]] सत्यमि᳘ति स ऽइत्ये᳘कमक्ष᳘रन्तीत्ये᳘कमक्ष᳘रममित्ये᳘कमक्ष᳘रम्प्रथमोत्तमे᳘ ऽअक्ष᳘रे सत्य᳘म्मध्यतो᳘ ऽनृतन्त᳘देतद᳘नृतᳫँ᳭ सत्ये᳘न प᳘रिगृहीतᳫँ᳭ सत्य᳘भूयमेव᳘ भवति᳘ नैवम्विद्वा᳘ᳫँ᳘सम᳘नृतᳫँ᳭ हिनस्ति॥
मूलम् - श्रीधरादि
(वाँस्ते᳘) ते᳘ देवाः᳘ सत्यमित्यु᳘पासते॥
त᳘देत᳘त्त्र्यक्षरᳫँ᳭[[!!]] सत्यमि᳘ति स ऽइत्ये᳘कमक्ष᳘रन्तीत्ये᳘कमक्ष᳘रममित्ये᳘कमक्ष᳘रम्प्रथमोत्तमे᳘ ऽअक्ष᳘रे 1 सत्य᳘म्मध्यतो᳘ ऽनृतन्त᳘देतद᳘नृतᳫँ᳭ सत्ये᳘न प᳘रिगृहीतᳫँ᳭ सत्य᳘भूयमेव᳘ भवति᳘ नैवम्विद्वा᳘ᳫँ᳘सम᳘नृतᳫँ᳭ हिनस्ति॥
मूलम् - Weber
ते देवाः᳘ सत्यमित्यु᳘पासते॥
त᳘देतत्त्र्य᳘क्षरᳫं 2 सत्यमि᳘ति स इत्ये᳘कमक्ष᳘रं तीत्ये᳘कमक्ष᳘रममित्ये᳘कमक्ष᳘रम् प्रथमोत्तमे᳘ अक्ष᳘रे सत्य᳘म् मध्यतो᳘ऽनृतं त᳘देतद᳘नृतᳫं सत्ये᳘न प᳘रिगृहीतᳫं सत्य᳘भूयमेव᳘ भवतिॗ नैवंविद्वा᳘ᳫं᳘सम᳘नृतᳫं हिनस्ति॥
मूलम् - विस्वरम्
ते देवाः सत्यमित्य् उपासते । तदेतत् त्र्यक्षरं सत्यमिति । स इत्य् एकमक्षरम् । तीत्य् एकमक्षरम् । अमित्य् एकमक्षरम् । प्रथमोत्तमे अक्षरे सत्यम् । मध्यतो ऽनृतम् । तदेतदनृतं सत्येन परिगृहीतं सत्य-भूयमेव भवति । नैवं विद्वांसमनृतं हिनस्ति ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथ यक्षत्वमाह- ते देवाः सत्यमित्य् उपासत इति । यस्मादेवं सृष्टास्ते ‘देवाः’ पितरमपि विराजमतीत्य ‘सत्यं’ सत्यं ब्रह्मोपासते । इत्यतो यक्षं तदित्य् अर्थः । तथा चैवं सिद्धं प्रथमजं महद्यक्षं सत्यं ब्रह्म सर्वात्मनोपास्यमिति भावः । हृदय-ब्रह्मवदस्यापि सत्यस्य ब्रह्मणः स्तुत्यर्थं वर्णत्रयात्मकतामाह- तदेतत्त्र्यक्षरं सत्यमितीति । तदेतत्सत्यमिति नाम त्र्यक्षरमित्य् अर्थः । कानि तान्यक्षराणीत्यपेक्षायामाह- स इत्य् एकमक्षरं तीत्य् एकमक्षरममित्येकमक्षरमिति । भवत्वेवमक्षर-त्रयम् । ततः किमित्य् अपेक्षायामक्षर-स्वरूप-दर्शनानु-रूपं फलं कथयितुं तेषां स्वरूपं तावदाह- प्रथमोत्तमे अक्षरे सत्यं मध्यतो ऽनृतं तदेतदनृतं सत्येन परिगृहीतं सत्य-भूयमेव भवतीति । तत्र तेषां ‘प्रथमोत्तमे अक्षरे’ सकाराङ्कारौ सत्यममृतं मृत्युरूपाभावात् । ‘मध्यतः’ मध्ये वर्तमानं तीत्य् अक्षरमनृतं मृत्यु-रूपं मृत्य्वनृतयोः तकार-सामान्यात् । तदेतदनृतं तीकाराख्यं मृत्यु-रूपं ‘सत्येन’ सकाराङ्कार-लक्षणेन ‘परिगृहीतं’ व्याप्तं अन्तर्भावितम् । अतस्तस्याकिञ्चित्करत्वात् ‘सत्य-भूयमेव’ भवतीत्य् अर्थः । एवं सत्य-बाहुल्यं अनृतस्य मृत्योरकिञ्चित्करत्वं च विजानतः फलमाह- नैवं विद्वांसमनृतं हिनस्तीति । एवमित्थं सत्य-बाहुल्यं सर्वस्य मृत्योरनृतस्याकिञ्चित्करत्वं च ‘विद्वांसं’ जानन्तं ‘अनृतं’ कदाचित् प्रमादोक्तं ‘न हिनस्ति’ फल-दानेन न व्याप्नोति । बुद्धि-पूर्वकस्यानृतस्य विदुषो ऽपि बाधकत्वादित्य् अर्थः ॥ २ ॥
०३
विश्वास-प्रस्तुतिः
तद्यत्त᳘त्सत्य᳘म्॥
(म) असौ स᳘ ऽआदित्यो य᳘ ऽएष᳘ ऽएत᳘स्मिन्म᳘ण्डले पु᳘रुषो य᳘श्चाय᳘न्दक्षि᳘णे ऽक्षन्पु᳘रुषस्ता᳘वेता᳘व᳘न्यो ऽन्य᳘स्मिन्प्र᳘तिष्ठितौ रश्मि᳘भिर्व्वा᳘ ऽए᳘षो ऽस्मिन्प्र᳘तिष्ठितः प्प्राणै᳘रय᳘ममु᳘ष्मिन्त्स᳘ य᳘दोत्क्रमिष्यन्भ᳘वति शु᳘द्धमे᳘वैतन्म᳘ण्डलम्प᳘श्यति᳘ नैनमेते᳘ रश्म᳘यः प्प्रत्या᳘यन्ति॥
मूलम् - श्रीधरादि
तद्यत्त᳘त्सत्य᳘म्॥
(म) असौ स᳘ ऽआदित्यो य᳘ ऽएष᳘ ऽएत᳘स्मिन्म᳘ण्डले पु᳘रुषो य᳘श्चाय᳘न्दक्षि᳘णे ऽक्षन्पु᳘रुषस्ता᳘वेता᳘व᳘न्यो ऽन्य᳘स्मिन्प्र᳘तिष्ठितौ रश्मि᳘भिर्व्वा᳘ ऽए᳘षो ऽस्मिन्प्र᳘तिष्ठितः प्प्राणै᳘रय᳘ममु᳘ष्मिन्त्स᳘ य᳘दोत्क्रमिष्यन्भ᳘वति शु᳘द्धमे᳘वैतन्म᳘ण्डलम्प᳘श्यति᳘ नैनमेते᳘ रश्म᳘यः प्प्रत्या᳘यन्ति॥
मूलम् - Weber
तद्यत्त᳘त्सत्य᳘म्॥
असौ स᳘ आदित्यो य᳘ एष᳘ एत᳘स्मिन्म᳘ण्डले पु᳘रुषो य᳘श्चायं᳘ दक्षिॗणेऽक्षन्पु᳘रुषस्ता᳘वेता᳘वॗन्योऽन्य᳘स्मिन्प्र᳘तिष्ठितौ रश्मि᳘भिर्वा᳘ एॗषोऽस्मिन्प्र᳘तिष्ठितः प्राणै᳘रय᳘ममु᳘ष्मिन्स᳘ यॗदोत्क्रमिष्यन्भ᳘वति शु᳘द्धमेॗवैतन्म᳘ण्डलम् प᳘श्यतिॗ नैनमेते᳘ रश्म᳘यः प्रत्या᳘यन्ति॥
मूलम् - विस्वरम्
तद्यत् तत्सत्यम् । असौ स आदित्यः । य एष एतस्मिन्मण्डले पुरुषः । यश्चायं दक्षिणे ऽक्षन्पुरुषः । तावेतावन्यो ऽन्यस्मिन्प्रतिष्ठितौ । रश्मिभिर्वा एषो ऽस्मिन्प्रतिष्ठितः । प्राणैरयममुष्मिन् । स यदोत्क्रमिष्यन् भवति । शुद्धमेवैतन्मण्डलं पश्यति । नैनमेते रश्मयः प्रत्यायन्ति ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं विशिष्टसत्योपासितमुक्त्वा इदानीं तस्यैवाध्यामिकाधिदैविक-संस्थान-भेद-वैशिष्ट्यं कल्पयित्वा तदुपास्त्यर्थमाह- तद्यत्तत्सत्यमसौ स आदित्य इति । यत्सत्यं ब्रह्म पूर्वोक्तं ‘तत्’ ‘असौ सः’ प्रसिद्धः । को ऽसौ? ‘आदित्यः’ । कः पुनरादित्यः? ‘य एषः’ ‘एतस्मिन्’ प्रसिद्धे ‘मण्डले’ ‘पुरुषः’ मण्डलाभिमानी । ‘यश्च दक्षिणे ऽक्षन्’ दक्षिणे अक्षणि ‘पुरुषः’ सः असौ सत्यं ब्रह्मेत्य् अर्थः । ननु- प्रदेश-भेद-वर्तिनोः स्थान-भेदेन भेदात् उपासना-भेदः स्यात् इत्य् आशङ्कायामाह- ताव् एतावन्यो ऽन्यस्मिन् प्रतिष्ठिताविति । ताव् एतावादित्याक्षिस्थौ पुरुषौ एकस्यैव सत्य-ब्रह्मणः स्थान-विशेषौ यस्मात् तस्मादन्यो ऽन्यस्मिन् आदित्यश्चक्षुषि चाक्षुषश्चादित्ये ‘प्रतिष्ठितौ’ । अतस्तयोर्भिन्नत्वेनेव प्रतिभासमानत्वे ऽपि वस्तुतो भेदाभावान्नोपासना-भेद इत्य् अर्थः । कथं तावन्यो ऽन्यस्मिन् प्रतिष्ठितावित्यपेक्षायां परस्परोपकार्योपकारक-भावेनेत्य् आह- रश्मिभिर्वा एषो ऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन्निति । आदित्यो ऽस्मिंश्चक्षुषि अध्यात्मैः ‘रश्मिभिः’ प्रकाशेनोपकुर्वन् ‘प्रतिष्ठितः’ ‘अयं’ च चाक्षुषः प्राणैश्चक्षुरादिभिरिन्द्रियैर्मण्डलं प्रकाशयन् अमुष्मिन्नादित्ये अधिदैवते प्रतिष्ठितः । अनयोरुपकार्योपकारक-भावस्य प्रसिद्धत्वादित्य् अर्थः । इदानीं ज्ञातारिष्टः पुमान् कथं नाम हितमाचरेदित्यभिप्रायवती श्रुतिश्चक्षुरादित्य-पुरुष-प्रसङ्गागतमरिष्ट-दर्शनमाह- स यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मण्डलं पश्यतीति । सो ऽस्मिन् शरीरे भोक्ता विज्ञानमयः ‘यदा’ यस्मिन् काले ‘उत्क्रमिष्यन्’ प्राणांस्त्यक्ष्यन् ‘भवति’ तदा स विज्ञानमयश्चाक्षुष एतद्रवि-मण्डलं ‘शुद्धमेव’ विरश्मि एव केवलं चन्द्र-मण्डलमिव पश्यति । उत्क्रमण-काले चाक्षुषादित्ययोरदृष्ट-निबन्धनोपकार्योपकारक-भाव-निवृत्तेः, औदासीन्येनावतिष्ठमानत्वादित्य् अर्थः । संसारिणः परलोक-हिताय यत्न-कर्तव्यत्वे सावधानार्थं प्रासङ्गिकमरिष्ट-दर्शनं प्रदर्शयं, इदानीं प्रकृतयोः परस्परोपकार्योपकारकत्व-मुक्तं निगमयति- नैनमेते रश्मयः प्रत्यायन्तीति । ‘एते रश्मयः’ ‘एनं’ चाक्षुषं पुरुषं ‘न प्रत्यायन्ति’ स्वामि-कर्म्मानुरोधेन पूर्वमागच्छन्तो ऽपि तत्-कर्म्म-क्षये पुनः नावर्तन्त इत्य् अर्थः ॥ ३ ॥
०४
विश्वास-प्रस्तुतिः
य᳘ ऽएष᳘ ऽएत᳘स्मिन्म᳘ण्डले पु᳘रुषः॥
(स्त᳘) त᳘स्य भूरि᳘ति शि᳘र ऽए᳘कᳫँ᳭ शि᳘र ऽए᳘कमेत᳘दक्ष᳘रम्भु᳘व ऽइ᳘ति बाहू द्वौ᳘ बाहू द्वे᳘ ऽएते᳘ ऽअक्ष᳘रे᳘ स्वरि᳘ति[[!!]] प्रतिष्ठा द्वे᳘ प्रतिष्ठे द्वे᳘ ऽएते᳘ ऽअक्षरे[[!!]] त᳘स्योपनिषद᳘हरि᳘ति ह᳘न्ति पाप्मा᳘नञ्जहा᳘ति च य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
य᳘ ऽएष᳘ ऽएत᳘स्मिन्म᳘ण्डले पु᳘रुषः॥
(स्त᳘) त᳘स्य भूरि᳘ति शि᳘र ऽए᳘कᳫँ᳭ शि᳘र ऽए᳘कमेत᳘दक्ष᳘रम्भु᳘व ऽइ᳘ति बाहू द्वौ᳘ बाहू द्वे᳘ ऽएते᳘ ऽअक्ष᳘रे᳘ स्वरि᳘ति[[!!]] प्रतिष्ठा द्वे᳘ प्रतिष्ठे द्वे᳘ ऽएते᳘ ऽअक्षरे[[!!]] त᳘स्योपनिषद᳘हरि᳘ति ह᳘न्ति पाप्मा᳘नञ्जहा᳘ति च य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
य᳘ एष᳘ एत᳘स्मिन्म᳘ण्डले पु᳘रुषः॥
त᳘स्य भूरि᳘ति शि᳘र ए᳘कं शि᳘र ए᳘कमेत᳘दक्ष᳘रम् भु᳘व इ᳘ति बाहू द्वौ᳘ बाहू द्वे᳘ एते᳘ अक्ष᳘रे स्व᳘रि᳘ति 3 प्रतिष्ठा द्वे᳘ प्रतिष्ठे द्वे᳘ एते᳘ अक्ष᳘रे त᳘स्योपनिषद᳘हरि᳘ति ह᳘न्ति पाप्मा᳘नं जहा᳘ति च य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
य एष एतस्मिन्मण्डले पुरुषः । तस्य भूरिति शिरः । एकं शिरः । एकमेतदक्षरम् । भुव इति बाहू । द्वौ बाहू । द्वे एते अक्षरे । स्वरिति प्रतिष्ठा । द्वे प्रतिष्ठे । द्वे एते अक्षरे । तस्योपनिषत् अहरिति । हन्ति पाप्मानं जहाति च । य एवं वेद ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं स्थान-द्वय-सम्बन्धि सत्य-ब्रह्मणो ध्यानमुक्त्वा तस्यैव व्याहृत्यवयवत्वेन ध्यानमाह- कण्डिकाद्वयेन- य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिर इत्यादिना । ‘य एषः’ ‘एतस्मिन् मण्डले पुरुषः’ सत्य-नामा ‘तस्य’ ‘भूरिति’ प्रथमा व्याहृतिः ‘शिरः’ । उभयोः प्राथम्य-साम्यादित्य् अर्थः । एवं प्रथम-व्याहृतौ शिरोदृष्ट्यध्वारोपे सामान्यान्तरमाह- एकं शिर एकमेतदक्षरमिति । यथा ‘शिर एकं’ तथा भूरित्य् अक्षरमपि ‘एकम्’ ततो युक्तं तत्र तदध्यारोपणमित्य् अर्थः । द्वितीय-व्याहृतौ आदित्य-पुरुष-बाहु-दृष्टिमाह- भुव इति बाहू इति । तत्र द्वित्व-सामान्य-नियामकमाह- द्वौ बाहू द्वे एते अक्षरे इति । तृतीयायां व्याहृतौ पाद-दृष्टिमाह- स्वरिति प्रतिष्ठेति । प्रतितिष्ठति अनयेति- ‘प्रतिष्ठा’ पादौ । तत्र सामान्यमाह- द्वे प्रतिष्ठे द्वे एते अक्षरे इति । सुवरिति वर्ण-विश्लेषेण एते अक्षरे द्वे इत्य् अर्थः । एवमुपास्य-ब्रह्मणः अभिमुखीकरणार्थं रहस्यं नामाह- तस्योपनिषदहरितीति । ‘तस्य’ व्याहृत्यवयवस्य सत्य-ब्रह्मणः ‘अहः’ ‘इत्य् उपनिषत्’ रहस्यं नाम । येनाभिधानेनाभिधीयमानं ब्रह्म लोकवदभिमुखीभवति । तदिदं नामेत्य् अर्थः । उपास्ति-फलमाह- हन्ति पाप्मानं जहाति च य एवं वेदेति । आङ्-पूर्वस्य हन्तेर्जहातेर्वा अस्प्रत्यये कृते ह्रस्वत्वे च उपसर्गस्य टिलोपे च सति सिद्धमहरित्येतद्रूपं हन्तेर्जहातेश्चेति ‘यो वेद’ । सः ‘पाप्मानं हन्ति जहाति च’ त्यजति चेत्य् अर्थः ॥ ४ ॥
०५
विश्वास-प्रस्तुतिः
(दा᳘) अ᳘थ᳘ यो ऽय᳘न्दक्षि᳘णे ऽक्षन्पु᳘रुषः॥
(स्त᳘) त᳘स्य भूरि᳘ति शि᳘र ऽए᳘कᳫँ᳭ शि᳘र ऽए᳘कमेत᳘दक्ष᳘रम्भु᳘व ऽइ᳘ति बाहू द्वौ᳘ बाहू द्वे᳘ ऽएते᳘ ऽअक्ष᳘रे स्वरि᳘ति[[!!]] प्प्रतिष्ठा द्वे᳘ प्प्रतिष्ठे द्वे᳘ ऽएते᳘ ऽअक्ष᳘रे त᳘स्योपनिषद᳘हमि᳘ति ह᳘न्ति पाप्मा᳘नञ्जहा᳘ति च य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
(दा᳘) अ᳘थ᳘ यो ऽय᳘न्दक्षि᳘णे ऽक्षन्पु᳘रुषः॥
(स्त᳘) त᳘स्य भूरि᳘ति शि᳘र ऽए᳘कᳫँ᳭ शि᳘र ऽए᳘कमेत᳘दक्ष᳘रम्भु᳘व ऽइ᳘ति बाहू द्वौ᳘ बाहू द्वे᳘ ऽएते᳘ ऽअक्ष᳘रे स्वरि᳘ति[[!!]] प्प्रतिष्ठा द्वे᳘ प्प्रतिष्ठे द्वे᳘ ऽएते᳘ ऽअक्ष᳘रे त᳘स्योपनिषद᳘हमि᳘ति ह᳘न्ति पाप्मा᳘नञ्जहा᳘ति च य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
अ᳘थॗ योऽयं᳘ दक्षिॗणेऽक्षन्पु᳘रुषः॥
त᳘स्य भूरि᳘ति शि᳘र एकं शि᳘र ए᳘कमेत᳘दक्ष᳘रम् भु᳘व इ᳘ति बाहू द्वौ᳘ बाहू द्वे᳘ एते᳘ अक्ष᳘रे स्व᳘रि᳘ति 4 प्रतिष्ठा द्वे᳘ प्रतिष्ठे द्वे᳘ एते᳘ अक्ष᳘रे त᳘स्योपनिषद᳘हमि᳘ति ह᳘न्ति पाप्मा᳘नं जहा᳘ति च य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
अथ यो ऽयं दक्षिणे ऽक्षन्पुरुषः । तस्य भूतिरिति शिरः । एकं शिरः । एकमेतदक्षरम् । भुव इति बाहू । द्वौ बाहू । द्वे एते अक्षरे । स्वरिति प्रतिष्ठा । द्वे प्रतिष्ठे । द्वे एते अक्षरे । तस्योपनिषत् अहमिति । हन्ति पाप्मानं जहाति च । य एवं वेद ॥ ५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवमधिदैविकं व्याहृत्यवयवं ब्रह्मोक्त्वा आध्यात्मिकमाह- अथ यो ऽयं दक्षिणे ऽक्षन् पुरुष इत्यादि पूर्ववत् । अत्रापि रहस्यं नामाह- अहमितीति । पूर्वोक्त-प्रक्रिययैवास्य प्रत्यगात्म-भूतत्वात् हन्तेर्जहातेश्चैतद्रूपमिति यो वेद- **स हन्ति पाप्मानमित्य् एतत्सर्वं पूर्ववत् ॥ ५ ॥
इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-व्याख्यायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे पञ्चमे ऽध्याये षष्ठं सत्यस्य ब्रह्मणः स्तुति-ब्राह्मणं परिसमाप्तम् ॥ १४ (८) ५-६ ॥