०१

विश्वास-प्रस्तुतिः

तद्वै त᳘देत᳘देव त᳘दास॥
सत्य᳘मेव स यो᳘ हैव᳘मेत᳘न्मह᳘द्यक्ष᳘म्प्रथमजम्वे᳘द सत्यम्ब्रह्मे᳘ति ज᳘यतीमां᳘ल्लोकाञ्जित ऽइ᳘न्न्वसा᳘वसद्य᳘ ऽएव᳘मेत᳘न्मह᳘द्यक्ष᳘म्प्रथमजम्वे᳘द[[!!]] सत्यम्ब्रह्मे᳘ति सत्य᳘ᳫँ᳘[[!!]] ह्येव ब्र᳘ह्म॥

मूलम् - श्रीधरादि

तद्वै त᳘देत᳘देव त᳘दास॥
सत्य᳘मेव स यो᳘ हैव᳘मेत᳘न्मह᳘द्यक्ष᳘म्प्रथमजम्वे᳘द सत्यम्ब्रह्मे᳘ति ज᳘यतीमां᳘ल्लोकाञ्जित ऽइ᳘न्न्वसा᳘वसद्य᳘ ऽएव᳘मेत᳘न्मह᳘द्यक्ष᳘म्प्रथमजम्वे᳘द[[!!]] सत्यम्ब्रह्मे᳘ति सत्य᳘ᳫँ᳘[[!!]] ह्येव ब्र᳘ह्म॥

मूलम् - Weber

तद्वै त᳘देत᳘देव त᳘दास॥
सत्य᳘मेव स यो᳘ हैव᳘मेत᳘न्मह᳘द्यक्ष᳘म् प्रथमजं वे᳘द सत्यम् ब्रह्मे᳘ति ज᳘यतीमां᳘लोकान्जित 1 इन्न्व᳘सा᳘वसद्य᳘ एव᳘मेत᳘न्मह᳘द्यक्ष᳘म् प्रथमजं वे᳘द सत्यम् ब्रह्मे᳘ति सॗत्यᳫं ह्येव ब्र᳘ह्म॥

मूलम् - विस्वरम्

हृदयब्रह्मणः सत्यमित्य् उपासनाविधिब्राह्मणम् ।

तद्वै तत् एतदेव तदास- सत्यमेव । स यो हैवमेतन्महद्यक्षं प्रथमजं वेद- सत्यं ब्रह्मेति । जयतीमान् लोकान् । जित इन्न्वसावसत् । य एवमेतन्महद्यक्षं प्रथमजं वेद- सत्यं ब्रह्मेति । सत्यं ह्येव ब्रह्म ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एतस्यैव हृदयाख्यस्य ब्रह्मणः सत्यमित्य् उपासनान्तरं विवित्सन्ती श्रुतिराह- तद्वै तदेतदेव तदासेति । अत्र प्रथमस्तच्छब्दो हृदयाख्य-ब्रह्म-परामर्शी । वै-शब्दः स्मरणार्थः । तदुच्यते विधान्तरेणेत्य् एवं हृदयाख्य-ब्रह्मण एव विधान्तर-प्रतिज्ञा ऽर्थो द्वितीयस्-तच्छब्दः । किं तद्विधान्तरमित्य् अपेक्षायां वक्ष्यमाण-विधान्तरमेतदेवेत्यनेन शब्देनोक्त्वा तस्य पूर्वोक्त-हृदय-ब्रह्मणा सामानाधिकरण्य-प्रदर्शनार्थस्तृतीयस्तच्छब्दः । तथा च ‘तद्वै’ हृदयं ब्रह्म ‘एतदेव’ वक्ष्यमाण-प्रकारं ‘तदासेति’ पर्यवसितो ऽर्थः । को ऽसौ वक्ष्यमाणः प्रकार इत्य् अपेक्षायामाह- सत्यमेवेति । यद्ब्रह्म हृदयात्मनोक्तं तत्सत्यमेव । सच्च त्यच्च सत्त्यम् । पञ्चभूतात्मकमाधिदैविकं तत्त्वं हिरण्यगर्भात्मकमित्य् अर्थः । तस्य स्वरूप-कथन-पूर्वकं तद्विज्ञानफलमाह- स यो हैवमेतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमाँल्लोकानिति । ‘यः’ साधको महदपरिच्छेद्यं महत्त्वात् ‘यक्षं’ पूज्यं ‘प्रथमजं’ सर्वस्मात् विराडादेः संसारिणः सकाशात्पूर्वमेवोत्पन्नं एवंविधं ‘सत्यं ब्रह्म वेद’ । ‘सः’ ‘इमान् लोकान् जयति’ । यथा सत्येन ब्रह्मणा इमे लोका आत्मसात्कृताः, तद्वदित्यर्थः । कैमुतिक-न्यायेन फलान्तरमाह- जित इन्न्वसावसदिति । ‘इन्नु’ इत्थं सत्येन ब्रह्मणा अनृतात्मा शत्रुर्जितः । तथा अनेना ऽप्य् उपासकेनासौ शत्रुर्जितः असदस्तु भवतु । तथा च लोका येन जिताः तस्य शत्रुजये किं वक्तव्यमित्य् अर्थः । कथमीदृग्विधज्ञानात् उपासकस्येदं फलमित्य् अपेक्षायां उक्तोपासकस्यानुवादपूर्वकं हेतुमाह- य एवमेतन्महद्यक्षमित्यादि सत्यं ह्येव ब्रह्मेत्यन्तम् । ‘हि’ यस्मात्सत्यमेव ‘ब्रह्म’ उक्तरीत्या लोकजित् शत्रुजिच्च । तस्मात् तदुपासकस्यापि उपासनानुरूपमुक्तं फलं युक्तमेवेत्य् अर्थः ॥ १ ॥

इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-व्याख्यायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे पञ्चमे ऽध्याये पञ्चमं सत्यमित्य् उपासना-विधि-ब्राह्मणं परिसमाप्तम् ॥ १४ (८) ५-५ ॥


  1. लोकान्जि᳘त AM. Read: लोका᳘न्जित. ↩︎