०१

विश्वास-प्रस्तुतिः

एष᳘ प्प्रजा᳘पतिर्य्यद्धृ᳘दयम्॥
(मे) एतद्ब्र᳘ह्मैतत्स᳘र्व्वन्त᳘देत᳘त्त्र्यक्षरᳫँ᳭[[!!]] हृ᳘दयमि᳘ति हृ ऽइत्ये᳘कमक्ष᳘रमभि᳘हरन्त्यस्मै स्वा᳘श्चान्ये᳘ च य᳘ ऽएवम्वे᳘द द ऽइत्ये᳘कमक्ष᳘रन्द᳘दन्त्यस्मै स्वा᳘श्चान्ये᳘ च य᳘ ऽएवम्वे᳘द यमित्ये᳘कमक्ष᳘रमे᳘ति स्वर्ग्गं᳘ लोकं य᳘ ऽएवम्वे᳘द॥

मूलम् - श्रीधरादि

एष᳘ प्प्रजा᳘पतिर्य्यद्धृ᳘दयम्॥
(मे) एतद्ब्र᳘ह्मैतत्स᳘र्व्वन्त᳘देत᳘त्त्र्यक्षरᳫँ᳭[[!!]] हृ᳘दयमि᳘ति हृ ऽइत्ये᳘कमक्ष᳘रमभि᳘हरन्त्यस्मै स्वा᳘श्चान्ये᳘ च य᳘ ऽएवम्वे᳘द द ऽइत्ये᳘कमक्ष᳘रन्द᳘दन्त्यस्मै स्वा᳘श्चान्ये᳘ च य᳘ ऽएवम्वे᳘द यमित्ये᳘कमक्ष᳘रमे᳘ति स्वर्ग्गं᳘ लोकं य᳘ ऽएवम्वे᳘द॥

मूलम् - Weber

एष᳘ प्रजा᳘पतिर्यद्धृ᳘दयम्॥
एतद्ब्र᳘ह्मैतत्स᳘र्वं त᳘देतत्त्र्य᳘क्षरᳫं 1 हृ᳘दयमि᳘ति हृ इत्ये᳘कमक्ष᳘रमभि᳘हरन्त्यस्मै स्वा᳘श्चान्ये᳘ च य᳘ एवं वे᳘द द इत्ये᳘कमक्ष᳘रं द᳘दन्त्यस्मै स्वा᳘श्चान्ये᳘ च य᳘ एवं वे᳘द यमित्ये᳘कमक्ष᳘रमे᳘ति स्वर्गं᳘ लोकं य᳘ एवं वे᳘द॥

मूलम् - विस्वरम्

हृदयब्रह्मोपासनं ब्राह्मणम् ।

एष प्रजापतिः यत् हृदयम् । एतत् ब्रह्म । एतत्सर्वम् । तदेतत् त्र्यक्षरं हृदयमिति । हृ इत्य् एकमक्षरम् । अभिहरन्त्यस्मै स्वाश्चान्ये च । य एवं वेद । द इत्य् एकमक्षरम् । ददन्त्यस्मै स्वाश्चान्ये च । य एवं वेद । यमित्येकमक्षरम् । एति स्वर्गं लोकम् । य एवं वेद ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

इदानीं सोपाधिकस्य ब्रह्मणो निरुपाधिक-स्वरूपे अनधिकृतानां ध्यान-भेदोक्त्यर्थं उत्तरं ग्रन्थजातं प्रवर्तते । तत्र प्रजापतिर्देवादीनामनुशास्ता इति सामान्यतः श्रवणात् दक्षादिष्वपि प्रजापति-त्व-शङ्का मा ऽभूदिति प्रजापतिं विशिनष्टि- एष प्रजापतिर्यद्धृदयमिति । हृदय-शब्दस्तत्स्थ-बुद्धि-विषयः । यस्मिन् हृदये शाकल्य-ब्राह्मणे “किन्देवतो ऽस्याम्” (बृ. उ. ६ । ९ । १२) इत्यादिनामरूपकर्म्मणां दिग्-विभागेनोपसंहार उक्तः । तत् ‘हृदयं’ ‘एषः’ एव देवाद्यनुशास्ता ‘प्रजापतिः’ न तु दक्षादिरित्य् अर्थः । उक्तहृदयस्योपास्यत्वार्थं ब्रह्मत्वमाह- एतद्ब्रह्मेति । ‘एतत्’ हृदयं ‘ब्रह्म’ ज्ञेय-जातस्य हृदयेन व्याप्तत्वात् । अतो हृदयं ब्रह्मेत्य् एवं दीर्घकालादरनैरन्तर्येण भावेनोपास्यमित्य् अर्थः । ननु- कथं हृदयस्य प्रजापतिना सह ऐक्यमुच्यते हृदयस्य सूक्ष्मत्वात् प्रजापतेश्च सर्वात्मकत्वात् इत्य् अत आह- एतत्सर्वमिति । ‘एतत्’ हृदयं ‘सर्वं’ सर्वात्मकं शाकल्यब्राह्मणोक्तरीत्यैव । प्रजापतिरपि त्र्यन्न-ब्राह्मणोक्त (४ । ३ । १) रीत्या सर्वात्मकः । अतः सर्वात्मकत्वात् युक्तं तयोरैक्य-वचनमित्य् अर्थः । एवमुपास्यत्वेन सिद्धस्य हृदयस्य स्तुत्य् अर्थं तन्नामाक्षरैक-देशोपासनमाह- तदेतत्त्र्यक्षरमित्यादिना । तदेतत्प्रसिद्धं हृदय-नाम ‘त्र्यक्षरं’ त्रीणि अक्षराणि यस्येति व्युत्पत्तेरित्य् अर्थः । कानि पुनस्त्रीण्यक्षराणीत्य् अपेक्षायां सफलं दर्शयन् प्रथमाक्षरं तावदाह- हृ इत्य् एकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेदेति । यस्मादस्मै हृदय-ब्रह्मणे ‘स्वाः’ इन्द्रियाणि ‘अन्ये च’ विषयाः शब्दादयः स्वं स्वं कार्यमभिहरन्ति । हृदयं च भोक्त्रर्थं स्व-विषयं सुखादिकं अभिहरति । तस्मात् हृदय-नामाक्षरत्वेन सम्बद्धं हरतेराहरतिकर्मणो हृ इत्य् एतत् रूपम् । ‘यो वेद’ अस्मै विदुषे स्वा ज्ञातयः अन्ये च सम्बन्धिनः अभिहरन्ति । बलिमिति वाक्य-शेषः । पूर्ववत् द्वितीयाक्षरमाह- द इत्य् एकमक्षरं ददन्त्यस्मै स्वाश्चान्ये च य एवं वेदेति । यस्मात् पूर्वोक्ताः ‘स्वा अन्ये च’ हृदय-ब्रह्मणे स्वं स्वं वीर्यं ‘ददन्ति’ ददते प्रयच्छन्तीत्य् अर्थः । हृदयं च भोक्त्रे तद्ददाति । तस्मात् ददतेर्दानकर्मणो द इत्य् एतद्रूपं हृदयाक्षरत्वेन सम्बद्धं ‘यो वेद’ अस्मै विदुषे स्वाश्चान्ये च स्वं स्वं वीर्यं ददन्ति प्रयच्छन्तीत्य् अर्थः । “दद दाने” (धा. पा. भ्वा. आ. १७) इत्यस्य धातोरात्मनेपदिनो ऽपि भौवादिकस्य व्यत्ययेन परस्मैपदं बोद्धव्यम् । तथा तृतीयमक्षरमाह- यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेदेति । यस्मात् ‘स्वा अन्ये च’ विषयाः हृदय-ब्रह्म प्रति ‘यन्ति’ । हृदयं च भोज्यं प्रत्येति । तस्मादिणो गत्य् अर्थस्य यमित्य् एतत् रूपं हृदय-नामाक्षरत्वेन सम्बद्धं ‘यो वेद’ स विद्वान् ‘स्वर्गं लोकं’ प्रति ‘एति’ गच्छति । एतत्फलमत्र विज्ञानानुरूपमेवेत्य् अर्थः । तथा च हृदय-नामाक्षरैक-देशोपासनादपि विशिष्टं फलं प्राप्नोति, किमु वक्तव्यं हृदयस्वरूपोपासनादिति हृदय-स्तुत्यर्थमेव नामाक्षरोपासनोपन्यासः, न तु नामाक्षरोपासनानि त्रीणि हृदय-स्वरूपोपासनमपरमिति चत्वार्य् अत्रोपासनानि विवक्षितानीति बोद्धव्यम् ॥ १ ॥

इति श्री-हृषीकेश-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे पञ्चमे ऽध्याये चतुर्थं हृदय-ब्रह्मोपासन-ब्राह्मणं परिसमाप्तम् ॥ १४ (८) ५ । ४ ॥


  1. त᳘देत᳘त्र्यक्ष᳘रᳫ AM. ↩︎