०१

विश्वास-प्रस्तुतिः

व्वायुर᳘निलममृ᳘तम्॥ भ᳘स्मान्तᳫँ᳭ श᳘रीरम्। ॐ ३ क्र᳘तो स्म᳘र। क्लिबे᳘ स्मरा᳘ग्ने न᳘य सुप᳘था राये᳘ ऽअस्मान्वि᳘श्वानि देव व्वयु᳘नानि व्विद्वा᳘न्। युयो᳘ध्यस्म᳘ज्जुहुराणमे᳘नो[[!!]] भू᳘यिष्ठान्ते न᳘म ऽउक्तिम्विधेमे᳘ति॥

मूलम् - श्रीधरादि

व्वायुर᳘निलममृ᳘तम् 1॥ भ᳘स्मान्तᳫँ᳭ श᳘रीरम्। ॐ ३ क्र᳘तो स्म᳘र। क्लिबे᳘ स्मरा᳘ग्ने 2 न᳘य सुप᳘था राये᳘ ऽअस्मान्वि᳘श्वानि देव व्वयु᳘नानि व्विद्वा᳘न्। युयो᳘ध्यस्म᳘ज्जुहुराणमे᳘नो[[!!]] भू᳘यिष्ठान्ते न᳘म ऽउक्तिम्विधेमे᳘ति॥

मूलम् - Weber

वायुर᳘निलममृ᳘तम् भ᳘स्मान्तं श᳘रीरम्॥
ओ३ं क्र᳘तो स्म᳘र क्लिबे᳘ 3 स्मरा᳘ग्ने न᳘य सुप᳘था राये᳘ अस्मान्वि᳘श्वानि देव वयु᳘नानि विद्वा᳘न् युयोध्य᳘स्म᳘ज्जुहुराणमे᳘नो भू᳘यिष्ठां ते न᳘मौक्तिं विधेमे᳘ति॥

मूलम् - विस्वरम्

सूर्याग्न्योरुपस्थानब्राह्मणम् ।

“वायुरनिलममृतम्, भस्मान्तं शरीरम् । ॐ ३ क्रतो स्मर । क्लिबे स्मर । अग्ने नय सुपथा राये अस्मान्, विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनः, भूयिष्ठां ते नमउक्तिं विधेम” (वा. सं. (ई. उ.) ४० । १५ । १६) इति ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

नन्वेवं दमादियुक्तस्यापि शरीरपाते तु नामृतत्वं आध्यात्मिकवाय्वादि-प्रतिबन्धात् इत्य् अत आह- वायुरनिलममृतमिति । ममामृतस्य सत्यस्य शरीरपाते सति तत्स्थः आध्यात्मिक-प्राण-रूपः ‘वायुः’ ‘अनिलं’ बाह्यं वायुं अमृतमधिदैविकं प्रति गच्छत्विति शेषः । एतद्वायु-ग्रहणमन्येषामपि देवानामुपलक्षणार्थम् । अन्ये ऽपि देवाः स्वां स्वां प्रकृतिं गच्छन्त्वित्यर्थः । नन्वेवं देहस्थ-देवता-नामप्रतिबन्धकत्वे ऽपि देहस्यैव सूक्ष्मतां गतस्य प्रतिबन्धकत्वात् नामृतत्व-सिद्धिरित्यत आह- भस्मान्तं शरीरमिति । शरीरमपि ‘भस्मान्तं’ सत् पृथिवीं प्रति यातु । भस्मान्त-लिङ्गात् कर्म्मिण एवैतदुपस्थानम् । न सन्न्यासिनामिति गम्यते । तेषां दाहासम्भवादित्य् अर्थः । एवमुपस्थानमुक्त्वा अग्नेरुपस्थानमाह- ॐ ३ क्रतो स्मर क्लिबे स्मरे ति । ‘ॐ इति क्रतो इति च’ अग्निदेवता-सम्बोधनार्थावेव शब्दौ । अवतीत्योमीश्वरः सर्वरक्षकः । स च जाठर-प्रतीकत्वेनोपासितत्वादग्निः । अग्निश्च क्रतु-साध्यत्वेन क्रतुरित्युच्यते । तथा च- हे ॐ ३ ! क्रतो! अग्ने! ‘स्मर इति’ इष्टां गतिं जिगमिषता मया स्मरणे त्वं नियुज्यसे । अन्तकाले हि त्वया स्मरणे कृते सति इष्टा गतिः प्राप्यते । अतः प्रार्थ्यसे । ‘क्लिबे’ क्लृप्ताय लोकाय ‘स्मर’ । पुनरपि अग्निविषय-प्रार्थनान्तरमाह- अग्ने नय सुपथेति । हे ‘देव’! द्योतनात्मक ‘अग्ने!’ त्वं ‘विश्वानि वयुनानि’ सर्वाणि प्रज्ञानानि ‘विद्वान्’ । ज्ञानवाचि वयुनपदं कर्म-पूर्व-प्रज्ञयोरुपलक्षणार्थम् । एतानि ‘विद्वान्’ जानन् हि त्वं ‘अस्मान्’ त्वदुपासकान् ‘सुपुथा’ शोभनेनोत्तरेण शुक्लेन मार्गेण पुनरावृत्ति-रहितेन ‘नय’ प्रापय । किमर्थम्? ‘राये’ धनाय कर्म्म-फल-भोगायेति यावत् । किं च- अस्मदस्मत्तः ‘जुहुराणं’ कुटिलं वञ्चनात्मकं देव-यान-प्राप्ति-प्रतिबन्धकं ‘एनः’ पापं ‘युयोधि’ वियोजय विनाशयेत्य् अर्थः । वयं तु देहावसान-काले अन्यत्कर्तुमशक्ताः । इदानीं ‘ते’ तुभ्यं ‘भूयिष्ठां’ बहुतमां ‘नमउक्तिं’ नमस्कार-वचनं ‘विधेम’ समर्पयेम । नमस्कार-मात्र-समर्पणेन परिचरेम । तव त्वया सर्वाधिकत्वेन ग्राह्यमित्य् अर्थः । इति-शब्दः समाप्ति-द्योतकः ॥ १ ॥

इति श्री-हृषीकेश-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-व्याख्यायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे पञ्चमे ऽध्याये तृतीयं सूर्याग्न्योरुपस्थान-ब्राह्मणं परिसमाप्तम् ॥ १४ (८) ५-३ ॥


  1. वा. सं. ईशोपनिषदि “अमृतम्भस्मान्तम्” इत्य् अनयोः पदयोर्मध्ये “अथेदम्” इति पदद्वयमधिकं विद्यते ॥ ↩︎

  2. वा. सं. ईशोपनिषदि “क्लिबे स्मर” इत्यस्माद्वाक्यादग्रे “कृतꣳ स्मर” इतीदं वाक्यमधिकं वर्तते ॥ ↩︎

  3. वा᳘युरनि᳘लम AM. - ibid. ओ३म् क्रतो᳘ स्मर AM. - ibid. क्लृबे᳘ A. क्लिबे᳘ MD. ↩︎