०१

विश्वास-प्रस्तुतिः

त्र᳘याः प्प्राजापत्याः᳘॥
प्प्रजा᳘पतौ पित᳘रि ब्ब्रह्मच᳘र्य्यमूषुर्द्देवा᳘ मनु᳘ष्या ऽअ᳘सुराः॥

मूलम् - श्रीधरादि

त्र᳘याः प्प्राजापत्याः᳘॥
प्प्रजा᳘पतौ पित᳘रि ब्ब्रह्मच᳘र्य्यमूषुर्द्देवा᳘ मनु᳘ष्या ऽअ᳘सुराः॥

मूलम् - Weber

त्र᳘याः प्राजापत्याः᳟॥
प्रजा᳘पतौ पित᳘रि ब्रह्मच᳘र्यमूषुर्देवा᳘ मनुॗष्या अ᳘सुराः॥

मूलम् - विस्वरम्

दम-दान-दयेति त्रिकोपदेश-ब्राह्मणम् ।

त्रयाः प्रजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः- देवा मनुष्या असुराः ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवमाभ्यन्तरं सर्वोपास्ति-साधनं ॐकार इत्य् उक्तम् । इदानीं बाह्यं दमादि-साधन-त्रयं विधातव्यम् । तेनापि विशिष्ट एव बाह्याभ्यन्तर-शुचिः सन् सर्वोपास्तिषु अधिक्रियते । अतस्तद्विधानायार्थवादमाह- त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुरिति । त्रयास्त्रि-प्रकाराः ‘प्राजापत्याः’ प्रजापतेरपत्य-भूताः ‘प्रजापतौ’ विराडात्मनि ‘पितरि’ समीपे शिष्याः सन्तः ‘ब्रह्मचर्यं’ ऊषुरुषितवन्तः । के ते प्राजापत्या इत्य् अपेक्षायामाह- देवा मनुष्या असुरा इति । सुबोधम् ॥ १ ॥

०२

विश्वास-प्रस्तुतिः

(ऽ) उषित्वा᳘ ब्ब्रह्मच᳘र्य्यन्देवा᳘ ऽऊचुः॥
(र्ब्ब्र᳘) ब्र᳘वीतु नो भ᳘वानि᳘ति ते᳘भ्यो हैत᳘दक्ष᳘रमुवाच द ऽइ᳘ति᳘ व्व्यज्ञासिष्टा३ ऽइ᳘ति᳘[[!!]] व्व्यज्ञासिष्मे᳘ति[[!!]] होचुर्द्दा᳘म्यते᳘ति न ऽआत्थेत्योमि᳘ति होवाच᳘ व्व्यज्ञासिष्टे᳘ति[[!!]]॥ शतम् ७५००॥

मूलम् - श्रीधरादि

(ऽ) उषित्वा᳘ ब्ब्रह्मच᳘र्य्यन्देवा᳘ ऽऊचुः॥
(र्ब्ब्र᳘) ब्र᳘वीतु नो भ᳘वानि᳘ति ते᳘भ्यो हैत᳘दक्ष᳘रमुवाच द ऽइ᳘ति᳘ व्व्यज्ञासिष्टा३ ऽइ᳘ति᳘[[!!]] व्व्यज्ञासिष्मे᳘ति[[!!]] होचुर्द्दा᳘म्यते᳘ति न ऽआत्थेत्योमि᳘ति होवाच᳘ व्व्यज्ञासिष्टे᳘ति[[!!]]॥ शतम् ७५००॥

मूलम् - Weber

उषित्वा᳘ ब्रह्मच᳘र्यं देवा᳘ ऊचुः॥
ब्र᳘वीतु नो भ᳘वानि᳘ति ते᳘भ्यो हैत᳘दक्ष᳘रमुवाच द इ᳘ति व्य᳘ज्ञासिष्टा३ इ᳘ति व्य᳘ज्ञासिष्मे᳘ति होचुर्दा᳘म्यते᳘ति 1 न आत्थेत्योमि᳘ति होवाच व्य᳘ज्ञासिष्टे᳘ति 2

मूलम् - विस्वरम्

उषित्वा ब्रह्मचर्यं देवा ऊचुः । ब्रवीतु नो भवानिति । तेभ्यो हैतदक्षरमुवाच द इति । व्यज्ञासिष्टा ३ इति । व्यज्ञासिष्मेति होचुः । दाम्यतेति न आत्थेति । ॐ इति होवाच व्यज्ञासिष्टेति ॥ २ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

ततस्ते किं कृतवन्त इत्य् अपेक्षायामाह- उषित्वा ब्रह्मचर्यं देवा ऊचुरिति । ते देवा मनुष्या असुराश्च ‘ब्रह्मचर्यमुषित्वा’ क्रमेण प्रश्नं कुर्वाणाः प्रथमं ‘देवाः’ ऊचुरुक्तवन्त इत्य् अर्थः । किमित्य् अपेक्षायामाह- ब्रवीतु नो भवानिति । भवान्नो ऽस्मभ्यम् अनुशासनं ‘ब्रवीतु’ कथयत्व् इत्य् अर्थः । एवं देवैरनुशासने प्रार्थिते प्रजापतिः किमाहेत्यपेक्षायामाह- तेभ्यो हैतदक्षरमुवाच द इतीति । तेभ्यो ऽर्थिभ्यः ‘ह’ किल ‘द’ ‘इत्य् एतदक्षरं’ वर्ण-मात्रम् उवाचोक्तवान् । देवानेवं शिक्षयित्वा तेषां स्वोपदिष्ट-विद्या-प्रतिपत्ति-परीक्षार्थं पिता पृष्टवान् इति दर्शयति- व्यज्ञासिष्ठा ३ इतीति । प्लुतिर्विचारार्था । मयोपदिष्टस्याक्षरस्यार्थं यूयं विज्ञातवन्तो न वा इति प्रश्नार्थः । एवं पृष्टे देवोक्तं प्रति वचनं कथयति- व्यज्ञासिष्मेति होचुरिति । विज्ञातवन्तो वयमित्यूचुरित्य् अर्थः । यद्य् एवं तर्ह्युच्यतां किं मयोक्तमिति प्रजापतेराकाङ्क्षायां स्वाभिप्रायानुसारेण देवैरवगतमर्थं दर्शयति- दाम्यतेति न आत्येतीति । स्वभावतः अदान्ता यूयं मनः ‘दाम्यत’ दान्ता भवतेति त्वं नो ऽस्मान् ‘आत्थ’ कथयसि इत्य् उक्तवन्त इत्य् अर्थः । देवोक्तं प्रजापतिरङ्गीकृतवान् इत्य् आह- ॐ इति होवाचेति । ॐ-शब्दार्थमेव विशदयति- व्यज्ञासिष्टेतीति । सम्यक् ज्ञातं भवद्भिरिति अङ्गीकृतवानित्य् अर्थः । समानमुत्तर-पर्यायद्वये ऽपि व्याख्यानम् ॥ २ ॥

०३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ हैनम्मनु᳘ष्या ऽऊचुः॥
(र्ब्ब्र᳘) ब्र᳘वीतु नो भवानि᳘ति ते᳘भ्यो हैत᳘दे᳘वाक्ष᳘रमुवाच द ऽइ᳘ति व्व्यज्ञासिष्टा३ ऽइ᳘ति᳘[[!!]] व्व्यज्ञासिष्मे᳘ति[[!!]] होचुर्द्द᳘त्तेति[[!!]] न ऽआत्थेत्योमि᳘ति होवाच᳘ व्व्यज्ञासिष्टे᳘ति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ हैनम्मनु᳘ष्या ऽऊचुः॥
(र्ब्ब्र᳘) ब्र᳘वीतु नो भवानि᳘ति ते᳘भ्यो हैत᳘दे᳘वाक्ष᳘रमुवाच द ऽइ᳘ति व्व्यज्ञासिष्टा३ ऽइ᳘ति᳘[[!!]] व्व्यज्ञासिष्मे᳘ति[[!!]] होचुर्द्द᳘त्तेति[[!!]] न ऽआत्थेत्योमि᳘ति होवाच᳘ व्व्यज्ञासिष्टे᳘ति[[!!]]॥

मूलम् - Weber

अ᳘थ हैनम् मनुॗष्या ऊचुः॥
ब्र᳘वीतु नो भवानि᳘ति ते᳘भ्यो हैत᳘देॗवाक्ष᳘रमुवाच द इ᳘ति 3 व्य᳘ज्ञासिष्टा३ इ᳘ति व्य᳘ज्ञा᳘सिष्मे᳘ति होचुर्दत्ते᳘ति न आत्थेत्योमि᳘ति होवाच व्य᳘ज्ञासिष्टे᳘ति 4

मूलम् - विस्वरम्

अथ हैनं मनुष्या ऊचुः । ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच द इति । व्यज्ञासिष्टा ३ इति । व्यज्ञासिष्मेति होचुः । दत्तेति न आत्थेति । ॐ इति होवाच व्यज्ञासिष्टेति ॥ ३ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

स्वभावतो लुब्धा यूयं अतः ‘दत्त’ यथाशक्त्या अन्नादिकं विभजत इति नो ऽस्मानात्थ । किमन्यत् ब्रूयान्नो हितमिति स्वाभिप्रायानुसारेण मनुष्या दकारार्थं ज्ञातवन्त इति मनुष्य-पर्याय-तात्पर्यार्थः ॥ ३ ॥

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ हैनम᳘सुरा ऽऊचुः॥
(र्ब्ब्र᳘) ब्ब्र᳘वीतु नो भ᳘वानि᳘ति ते᳘भ्यो हैत᳘दे᳘वाक्ष᳘रमुवाच द ऽइ᳘ति᳘ व्व्यज्ञासिष्टा३ ऽइ᳘ति᳘[[!!]] व्व्य᳘ज्ञासिष्मे᳘ति होचुर्द्द᳘यध्वमि᳘ति न ऽआत्थेत्योमि᳘ति होवाच व्व्यज्ञासिष्टे᳘ति[[!!]] त᳘देत᳘दे᳘वैषा दै᳘वी व्वाग᳘नुवदति स्तनयित्नु᳘र्द्ददद ऽइ᳘ति दा᳘म्यत दत्त द᳘यध्वमि᳘ति त᳘देत᳘त्त्रय᳘ᳫँ᳘ शिक्षे᳘द्दमन्दा᳘नन्दयामि᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ हैनम᳘सुरा ऽऊचुः॥
(र्ब्ब्र᳘) ब्ब्र᳘वीतु नो भ᳘वानि᳘ति ते᳘भ्यो हैत᳘दे᳘वाक्ष᳘रमुवाच द ऽइ᳘ति᳘ व्व्यज्ञासिष्टा३ ऽइ᳘ति᳘[[!!]] व्व्य᳘ज्ञासिष्मे᳘ति होचुर्द्द᳘यध्वमि᳘ति न ऽआत्थेत्योमि᳘ति होवाच व्व्यज्ञासिष्टे᳘ति[[!!]] त᳘देत᳘दे᳘वैषा दै᳘वी व्वाग᳘नुवदति स्तनयित्नु᳘र्द्ददद ऽइ᳘ति दा᳘म्यत दत्त द᳘यध्वमि᳘ति त᳘देत᳘त्त्रय᳘ᳫँ᳘ शिक्षे᳘द्दमन्दा᳘नन्दयामि᳘ति॥

मूलम् - Weber

अ᳘थ हैनम᳘सुरा ऊचुः॥
ब्र᳘वीतु नो भ᳘वानि᳘ति ते᳘भ्यो हैत᳘देॗवाक्ष᳘रमुवाच द इ᳘ति 5 व्य᳘ज्ञासिष्टा३ इ᳘ति व्य᳘ज्ञासिष्मे᳘ति होचुर्द᳘यध्वमि᳘ति न आत्थेत्योमि᳘ति होवाच व्य᳘ज्ञासिष्टे᳘ति 6 त᳘देत᳘देॗवैषा दै᳘वी वाग᳘नुवदति स्तनयित्नु᳘र्ददद इ᳘ति दा᳘म्यत दत्त द᳘यध्वमि᳘ति त᳘देत᳘त्त्रयं᳘ शिक्षे᳘द्दमं 7 दा᳘नं दयामि᳘ति॥

मूलम् - विस्वरम्

अथ हैनमसुरा ऊचुः । ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच द इति । व्यज्ञासिष्टा ३ इति । व्यज्ञासिष्मेति होचुः । दयध्वमिति न आत्थेति । ॐ इति होवाच व्यज्ञासिष्टेति । तदेतदेवैषा दैवी वागनुवदति । स्तनयित्नुर्द द द इति । दाम्यत दत्त दयध्वमिति तदेतत्त्रयं शिक्षेत् । दमं दानं दयामिति ॥ ४ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं क्रूरा यूयं हिंसादि-पराः । अतः ‘दयध्वं’ प्राणिषु दयां कुरुत इत्य् उक्तमस्मान्प्रति, इत्य् असुरा दकारार्थं गृहीतवन्तः इत्य् असुर-पर्याय-तात्पर्यार्थः । प्रजापतेरनुशासनं प्रागासीदित्य् अत्र लिङ्गमाह- तदेतदेवैषा दैवी वागनुवदतीति । तदेतत्प्रजापतेरनुशासनं ‘एषा दैवी वागनुवदति’ । तेन रूपेण प्रवर्तत इत्य् अर्थः । का एषा दैवी वाक्, कथं वा सा श्रूयते, इत्य् अपेक्षायामाह- स्तनयित्नुर्द द द इतीति । अत्र विसन्धि-करणं तु सर्वत्र वर्णान्तरभ्रमापोहार्थम् । यः ‘स्तनयित्नुः’ सैषा दैवी वाक् । दकार-त्रयोच्चारणेन तु स्तनयित्नु-शब्द-अनुकरण-मात्रं विवक्षितम् । न तु त्रित्वं, प्रमाणाभावात् इत्य् अर्थः । ननु- तर्हि त्रिर्दकारोच्चारणं किमर्थं, तेषां च को वा अर्थः । इत्य् अत आह- दाम्यत दत्त दयध्वमितीति । दमो दानं दयेत्य् अर्थ-त्रयमुपलक्षयितुं त्रिर्द्दकारोच्चारणमित्य् अर्थः । यमर्थं विधातुमयमाख्यायिकारूपः अर्थवादो विधेय-स्तावकत्वेन प्रवृत्तः । तमर्थमिदानीं विदधाति- तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति । यस्मात्प्रजापतिः दाम्यत दत्त दयध्वं इति स्तनयित्नु-रूपेणानुशास्त्येव । तत्तस्मात्कारणात् ‘दमं दानं दयां’ ‘इत्य् एतत्त्रयं शिक्षेत्’ उपादद्यात् । प्रजापतेरनुशासनमस्माभिः कर्तव्यमिति मतिं कुर्यादधुनातनो मनुष्य इत्य् अर्थः ॥ ४ ॥

इति श्री-हृषीकेश-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे पञ्चमे ऽध्याये द्वितीयं दम-दान-दयेति-त्रिकोपदेशकं ब्राह्मणं परिसमाप्तम् ॥ १४ । (८) ५-२ ॥


  1. होचुर्दाम्यते᳘ति AM. ↩︎

  2. इ᳘ति व्य᳘ज्ञासिष्टा३इ᳘ति व्य᳘ज्ञासिष्मे᳘ति, होवाच व्य᳘ज्ञासिष्टेति AM. ↩︎

  3. रमुवा᳘च द इ᳘ति AM. ↩︎

  4. इ᳘ति व्य᳘ज्ञासिष्टा३इ᳘ति व्य᳘ज्ञासिष्मे᳘ति, होवाच व्य᳘ज्ञासिष्टेति AM. ↩︎

  5. रमुवा᳘च द इ᳘ति AM. ↩︎

  6. इ᳘ति व्य᳘ज्ञासिष्टा३इ᳘ति व्य᳘ज्ञासिष्मे᳘ति, होवाच व्य᳘ज्ञासिष्टेति AM. ↩︎

  7. दा᳘म्यत द᳘त्त द᳘यध्वमि᳘ति AM. - ibid. शिक्षे᳘द्दमं acc.! ↩︎