०१
विश्वास-प्रस्तुतिः
भू᳘मिरन्त᳘रिक्षन्द्यौरि᳘त्यष्टा᳘वक्ष᳘राणि॥ (ण्य) अष्टा᳘क्षरᳫँ᳭ ह वा ऽए᳘कङ्गायत्र्यै᳘ पद᳘मेत᳘दु हास्या ऽएतत्स या᳘वदेषु᳘ लोके᳘षु ता᳘वद्ध जयति᳘ यो ऽस्या ऽएत᳘देव᳘म्पदम्वे᳘द॥
मूलम् - श्रीधरादि
भू᳘मिरन्त᳘रिक्षन्द्यौरि᳘त्यष्टा᳘वक्ष᳘राणि॥ (ण्य) अष्टा᳘क्षरᳫँ᳭ ह वा ऽए᳘कङ्गायत्र्यै᳘ पद᳘मेत᳘दु हास्या ऽएतत्स या᳘वदेषु᳘ लोके᳘षु ता᳘वद्ध जयति᳘ यो ऽस्या ऽएत᳘देव᳘म्पदम्वे᳘द॥
मूलम् - Weber
भू᳘मिरन्त᳘रिक्षं द्यौरि᳘ति॥
अष्टा᳘वक्ष᳘राण्यष्टा\क्षरᳫं ह वा ए᳘कं गायत्र्यै᳘ पद᳘मेत᳘दु हास्या एतत्स या᳘वदेषु᳘ लोके᳘षु ता᳘वद्ध जयतिॗ योऽस्या एत᳘देव᳘म् पदं वे᳘द॥
मूलम् - विस्वरम्
गायत्रीब्रह्मोपासनाब्राह्मणम् ।
भूमिरन्तरिक्षं द्यौरिति अष्टावक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतदु हास्याः एतत् । सः यावदेषु लोकेषु, तावद्ध जयति । यो ऽस्या एतदेवं पदं वेद ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
ब्रह्मणो हृदयाद्यनेकोपाधि-विशिष्टोपासनमभिहितम् । अथ साम्प्रतं गायत्र्युपाधि-विशिष्टस्योपासनं कथनीयमित्य् आरभ्यते । सकल-च्छन्दसां हि गायत्रीछन्दः प्रधान-भूतम् । तत्प्रयोक्तृगयत्राणात् गायत्रीति कथयिष्यति । न चान्येषां छन्दसां प्रायः प्राण-त्राण-सामर्थ्यम् । प्राणात्म-भूता च सा, सर्व-च्छन्दसां चात्मा प्राणः । प्राणश्च क्षतत्राणात् क्षत्त्रमिति कथितम् । प्राणश्च गायत्री । तस्मात्तदुपासनमेव विधायते द्विजोत्तमजन्मगायत्रीनिमित्तम् । तस्मात्प्रधाना गायत्री । “ब्राह्मणा व्युत्थायाभिवदन्ति स ब्राह्मणो विरजो विचिकित्सो ब्राह्मणो भवति” इत्य् उत्तम-पुरुषार्थ-सम्बन्धं ब्राह्मणस्य दर्शयति तच्च ब्राह्मणत्वं गायत्री-जन्म-मूलम् । अतो वक्तव्यं गायत्र्याः सत्तत्त्वम् । गायत्र्या हि सृष्टो द्विजोत्तमो निरङ्कुश एव उत्तम-पुरुषार्थ-साधने धिक्रियते । अतस्तन्मूलः परम-पुरुषार्थ-सम्बन्धः । तस्मात्तदुपासन-विधानाय ब्रूते- भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरमित्यादि । भूमिरन्तरिक्षं द्यौरित्य् एतानि अष्टावक्षराणि यस्य तदिदमष्टाक्षरम् । ‘ह वै’ प्रसिद्ध्यवद्योतकौ । ‘एकं’ प्रथमं ‘गायत्र्यै’ गायत्र्याः ‘पदं’ यकारेणैवाष्टत्वपूरणम् ‘एतदुह’ एव । एतदेवास्याः ‘पदं’ पादः प्रथमो भूम्यादि-लक्षणः त्रैलोक्यात्मा अष्टाक्षरत्व-सामान्यात् । एवमेतत् त्रैलोक्यात्मकं गायत्र्याः प्रथमं पादं ‘यो वेद’ तस्यैतत्फलम् । ‘सः’ विद्वान् ‘यावत्’ यत्किञ्चित् ‘एषु लोकेषु’ जेतव्यं तावत्सर्वं ‘जयति’ । ‘यो ऽस्या एतदेवं पदं वेद’ ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
(ऽ) ऋ᳘चो य᳘जूᳫँ᳭षि सा᳘मानी᳘त्यष्टा᳘वक्ष᳘राणि॥ (ण्य) अष्टा᳘क्षरᳫँ᳭ ह वा ऽए᳘कङ्गायत्र्यै᳘ पद᳘मेत᳘दु है᳘वास्या ऽएतत्स या᳘वतीय᳘न्त्रयी᳘ व्विद्या ता᳘वद्ध जयति᳘ यो ऽस्या ऽएत᳘देव᳘म्पदम्वे᳘द॥
मूलम् - श्रीधरादि
(ऽ) ऋ᳘चो य᳘जूᳫँ᳭षि सा᳘मानी᳘त्यष्टा᳘वक्ष᳘राणि॥ (ण्य) अष्टा᳘क्षरᳫँ᳭ ह वा ऽए᳘कङ्गायत्र्यै᳘ पद᳘मेत᳘दु है᳘वास्या ऽएतत्स या᳘वतीय᳘न्त्रयी᳘ व्विद्या ता᳘वद्ध जयति᳘ यो ऽस्या ऽएत᳘देव᳘म्पदम्वे᳘द॥
मूलम् - Weber
ऋ᳘चो य᳘जूंषि सा᳘मानी᳘ति॥
अष्टा᳘वक्षराण्यष्टा᳘क्षरᳫं ह वा एकं᳘ गायत्र्यै᳘ पद᳘मेत᳘दु हैॗवास्या एतत्स या᳘वतीयं᳘ त्रयी᳘ विद्या ता᳘वद्ध जयतिॗ योऽस्या एत᳘देव᳘म् पदं वे᳘द॥
मूलम् - विस्वरम्
ऋचो यजूंषि सामानीति अष्टावक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतदु हैवास्याः एतत् सः । यावतीयं त्रयी विद्या, तावद्ध जयति । यो ऽस्या एतदेवं पदं वेद ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ‘ऋचो यजूंषि सामानीति’ त्रयी-विद्या-नामाक्षराणि । एतान्याष्टौ । एवं तथैवाष्टाक्षरं ‘ह वा एकं गायत्र्यै पदं’ द्वितीयम् । ‘एतदु हैवास्याः एतत्’ ऋग्-यजुः-साम-लक्षणम् । अष्टाक्षरत्व-सामान्यादेव । ‘स यावती इयं त्रयी विद्या’ त्रय्या विद्यया यावत् फलमाप्यते ‘तावद्ध जयति’ । ‘यो ऽस्या एतत्’ गायत्र्यास्त्रयीलक्षणं ‘पदं वेद’ ॥ २ ॥
०३
विश्वास-प्रस्तुतिः
प्प्रा᳘णो ऽपानो᳘ व्व्यान ऽइ᳘त्यष्टा᳘वक्ष᳘राणि॥ (ण्य) अष्टा᳘क्षरᳫँ᳭ ह वा ऽए᳘कङ्गायत्र्यै᳘ पद᳘मेत᳘दु है᳘वास्या ऽएतत्स या᳘वदिदम्प्राणि ता᳘वद्ध जयति᳘ यो ऽस्या ऽएत᳘देव᳘म्पदम्वे᳘द॥
मूलम् - श्रीधरादि
प्प्रा᳘णो ऽपानो᳘ व्व्यान ऽइ᳘त्यष्टा᳘वक्ष᳘राणि॥ (ण्य) अष्टा᳘क्षरᳫँ᳭ ह वा ऽए᳘कङ्गायत्र्यै᳘ पद᳘मेत᳘दु है᳘वास्या ऽएतत्स या᳘वदिदम्प्राणि ता᳘वद्ध जयति᳘ यो ऽस्या ऽएत᳘देव᳘म्पदम्वे᳘द॥
मूलम् - Weber
प्राॗणोऽपानो᳘ व्यान इ᳘ति॥
अष्टा᳘वक्ष᳘राण्यष्टा᳘क्षरᳫं ह वा ए᳘कं गायत्रै᳘ पद᳘मेत᳘दु हैॗवास्या एतत्स या᳘वदिद᳘म् प्राणि ता᳘वद्ध जयतिॗ योऽस्या एत᳘देव᳘म् पदं वे᳘द॥
मूलम् - विस्वरम्
प्राणो ऽपानो व्यान इति अष्टावक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतदु हैवास्याः एतत् । सः यावदिदं प्राणि, तावद्ध जयति । यो ऽस्या एतदेवं पदं वेद ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तथा ‘प्राणः अपानः व्यानः’ 1 एतान्यपि प्राणाद्यभिधानाक्षराण्यष्टौ । तच्च गायत्र्यास्तृतीयं पदम् । ‘यावदिदं प्राणि’ जातं ‘तावद्ध जयति’ । ‘यो ऽस्या एतदेवं’ गायत्र्यास्तृतीयं ‘पदं वेद’ ॥ ३ ॥
०४
विश्वास-प्रस्तुतिः
(दा᳘) अ᳘थास्या ऽएत᳘देव᳘॥
तुरी᳘यन्दर्शत᳘म्पद᳘म्परो᳘रजा य᳘ ऽएष त᳘पति यद्वै च᳘तुर्थन्तत्तु᳘रीयन्दर्शत᳘म्पदमि᳘ति ददृश᳘ ऽइव᳘ ह्येष᳘ परो᳘रजा ऽइ᳘ति स᳘र्व्वमु᳘ ह्येष᳘ रज᳘ ऽउप᳘र्य्युपरि त᳘पत्येव᳘ᳫँ᳘ हैव᳘ श्रिया य᳘शसा तपति᳘ यो ऽस्या ऽएत᳘देव᳘म्पदम्वे᳘द॥
मूलम् - श्रीधरादि
(दा᳘) अ᳘थास्या ऽएत᳘देव᳘॥
तुरी᳘यन्दर्शत᳘म्पद᳘म्परो᳘रजा य᳘ ऽएष त᳘पति यद्वै च᳘तुर्थन्तत्तु᳘रीयन्दर्शत᳘म्पदमि᳘ति ददृश᳘ ऽइव᳘ ह्येष᳘ परो᳘रजा ऽइ᳘ति स᳘र्व्वमु᳘ ह्येष᳘ रज᳘ ऽउप᳘र्य्युपरि त᳘पत्येव᳘ᳫँ᳘ हैव᳘ श्रिया य᳘शसा तपति᳘ यो ऽस्या ऽएत᳘देव᳘म्पदम्वे᳘द॥
मूलम् - Weber
अ᳘थास्या एत᳘देव᳟॥
तु᳘रीयं 2 दर्शत᳘म् पद᳘म् परो᳘रजा य᳘ एष त᳘पति यद्वै च᳘तुर्थं तत्तु᳘रीयं दर्शत᳘म् पदमि᳘ति ददृश᳘ इवॗ ह्येष᳘ परो᳘रजा इ᳘ति स᳘र्वमुॗ ह्येष᳘ रज᳘ उप᳘र्युपरि त᳘पत्येव᳘ᳫं᳘ हैव᳘ श्रिया य᳘शसा तपतिॗ योऽस्या एत᳘देव᳘म् पदं वे᳘द॥
मूलम् - विस्वरम्
अथास्या एतदेव तुरीयं दर्शतं पदम् । परोरजाः य एष तपति । यद्वै चतुर्थं, तत्तुरीयम् । दर्शतं पदमिति । ददृश इव ह्येषः । परोरजा इति । सर्वमु ह्येष रज उपर्युपरि तपति । एवं हैव श्रिया यशसा तपति । यो ऽस्या एतदेवं पदं वेद ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अथानन्तरं गायत्र्यास्त्रिपदायाः शब्द-लक्षणायास्तुरीयं पदं कथ्यते । अभिधेय-भूतं ‘अस्याः’ प्रकृताया गायत्र्या ‘एतदेव’ वक्ष्यमाणं ‘तुरीयं पदम्’ तुरीयं दर्शतं पदम् । परोरजा य एष तपति इति । तुरीयमित्यादि-वाक्य-पदार्थं व्याचष्टे स्वयमेव श्रुतिः । ‘यद्वै चतुर्थं’ प्रसिद्धं लोके तदिह तुरीय-शब्देनोच्यते । ‘दर्शतं पदं’ इत्यस्य को ऽर्थः इत्यभिधीयते । ‘ददृश इव हि एषः’ हि मण्डलान्तर्गतः पुरुषः । अतो दर्शतं पदं गद्यते । ‘परोरजाः’ इत्यस्य पदस्य को ऽर्थ इति कथ्यते । ‘सर्वं’ कृत्स्नं ‘उ हि एषः’ मण्डलस्थः पुरुषः ‘रजः’ जातं समस्तं लोकमिति यावत् । उपर्युपर्याधिपत्य-भावेन सर्वं लोकं रजो-जातं ‘तपति’ । उपर्युपरीति वीप्सा समस्त-लोकाधिपत्य-ख्यापनार्था हि । सर्व-शब्देनैव सिद्धत्वात् वीप्सा अपार्थिका । नायं दोषः । येषामुपरिष्टात् सूर्यो दृश्यते तद्विषय एव सर्व-शब्दो भवेत् इत्य् आशङ्का-निरासार्था वीप्सा । “ये चामुष्मात् पराञ्चो लोकाः तेषां चेष्टे देव-कामानां च” इति श्रुत्य्-अन्तरात् । तस्मात् सकल-निरोधार्था वीप्सा । यथा असावादित्यः सर्वाधिपत्य-लक्षणया ‘श्रिया’ ‘यशसा’ च ख्यात्या ‘तपति’ । ‘यो ऽस्या एतदेवं’ तुरीयं दर्शतं ‘पदं वेद’ ॥ ४ ॥
०५
विश्वास-प्रस्तुतिः
सैषा᳘ गाय᳘त्त्री॥ (त्त्र्ये) एत᳘स्मिँस्तु᳘रीये दर्शते᳘ पदे᳘ परो᳘रजसि प्प्र᳘तिष्ठिता तद्वै त᳘त्सत्ये प्प्र᳘तिष्ठिता च᳘क्षुर्व्वै᳘ सत्य᳘ञ्चक्षुर्हि[[!!]] वै᳘ सत्यन्त᳘स्माद्य᳘दिदा᳘नीन्द्वौ᳘ व्विव᳘दमानावेया᳘तामह᳘मद्द्राक्षमह᳘मश्रौषमि᳘ति य᳘ ऽएव᳘ ब्ब्रूया᳘दह᳘मद्द्राक्षमि᳘ति त᳘स्मा ऽएव श्र᳘द्दध्याम॥
मूलम् - श्रीधरादि
सैषा᳘ गाय᳘त्त्री॥ (त्त्र्ये) एत᳘स्मिँस्तु᳘रीये दर्शते᳘ पदे᳘ परो᳘रजसि प्प्र᳘तिष्ठिता तद्वै त᳘त्सत्ये प्प्र᳘तिष्ठिता च᳘क्षुर्व्वै᳘ सत्य᳘ञ्चक्षुर्हि[[!!]] वै᳘ सत्यन्त᳘स्माद्य᳘दिदा᳘नीन्द्वौ᳘ व्विव᳘दमानावेया᳘तामह᳘मद्द्राक्षमह᳘मश्रौषमि᳘ति य᳘ ऽएव᳘ ब्ब्रूया᳘दह᳘मद्द्राक्षमि᳘ति त᳘स्मा ऽएव श्र᳘द्दध्याम॥
मूलम् - Weber
सैषा᳘ गायत्र्येत᳘स्मिंस्तु᳘रीये 3 ॥
दर्शते᳘ पदे᳘ परो᳘रजसि प्र᳘तिष्ठिता तद्वै त᳘त्सत्ये प्र᳘तिष्ठिता च᳘क्षुर्वै᳘ सत्यं च᳘क्षुर्हि वै᳘ सत्यं त᳘स्माद्य᳘दिदा᳘नीं द्वौ᳘ विव᳘दमानावेया᳘तामह᳘मद्राक्षमह᳘मश्रौषमि᳘ति य᳘ एव᳘ ब्रूया᳘दह᳘मद्राक्षमि᳘ति त᳘स्मा एव श्र᳘द्दध्यात्॥
मूलम् - विस्वरम्
सैषा गायत्री एतस्मिन् तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता । तद्वै तत्सत्ये प्रतिष्ठिता । चक्षुर्वै सत्यम् । चक्षुर्हि वै सत्यम् । तस्माद्यदिदानीं द्वौ विवदमानावेयातामहमद्राक्षमहमश्रौषमिति । य एव ब्रूयादहमद्राक्षमिति । तस्मा एव श्रद्दध्याम ॥ ५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘सैषा’ त्रिपदोक्ता या त्रैलोक्य-त्रैविद्य-प्राणादि-त्रय-लक्षणा ‘गायत्री’ एतस्मिंश्चतुर्थे ‘तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता’ मूर्तामूर्तरसत्वात्सूर्यस्य रसापाये हि वस्तु नीरसमप्रतिष्ठितं भवति, यथा काष्ठादिदग्धसारम् । तद्वत्तथा मूर्तामूर्तात्मकं जगत् गायत्री सूर्ये प्रतिष्ठिता तद्रसत्वात् स ह त्रिभिः पादैः । ‘तद्वै’ तुरीयं पदं ‘सत्ये प्रतिष्ठितम्’ । किं पुनस्तत्सत्यमित्याख्यायते । ‘चक्षुर्वै सत्यं’ । कथं? चक्षुः सत्यमित्याह- ’चक्षुर्हि वै सत्यं’ कथं? प्रसिध्यते । तस्माद्यदिदानीमेव ‘द्वौ विवदमानौ’ विरुद्धं वदमानौ एयातामागच्छेताम् । ‘अहमद्राक्षं’ दृष्टवानस्मि इति । अन्य आह, ‘अहमश्रौषं’ इति । यत् त्वया दृष्टं न तथा तद्वत् अस्तीति । तयोः ‘य एव ब्रूयात् अहमद्राक्षमिति’- ‘तस्मै एव श्रद्दध्याम’ न पुनर्यो ब्रूयादहमश्रौषमिति । श्रोतुर्मृषा श्रवणमपि सम्भवति । न चक्षुषो मृषा दर्शनम् । तस्मान्नाश्रौषमिति कथितवते श्रद्दध्याम । तस्मात्सत्य-प्रतिपत्ति-हेतुत्वात् सत्यं चक्षुः । तस्मिन् सत्ये चक्षुषि सह त्रिभिरितरैः पादैः तुरीयं पदं प्रतिष्ठितमिति यावदुक्तं च स आदित्यः कस्मिन् प्रतिष्ठित इति । चक्षुषीति ॥ ५ ॥
०६
विश्वास-प्रस्तुतिः
तद्वै त᳘त्सत्यम्ब᳘ले प्र᳘तिष्ठितम्॥
(म्प्रा) प्प्राणो वै ब᳘लन्त᳘त्प्राणे प्प्र᳘तिष्ठितन्त᳘स्मादाहुर्ब्ब᳘लᳫँ᳭ सत्यादो᳘जीय ऽइ᳘त्येव᳘म्वेषा᳘ गाय᳘त्र्यध्यात्मं[[!!]] प्प्र᳘तिष्ठिता॥
मूलम् - श्रीधरादि
तद्वै त᳘त्सत्यम्ब᳘ले प्र᳘तिष्ठितम्॥
(म्प्रा) प्प्राणो वै ब᳘लन्त᳘त्प्राणे प्प्र᳘तिष्ठितन्त᳘स्मादाहुर्ब्ब᳘लᳫँ᳭ सत्यादो᳘जीय ऽइ᳘त्येव᳘म्वेषा᳘ गाय᳘त्र्यध्यात्मं[[!!]] प्प्र᳘तिष्ठिता॥
मूलम् - Weber
तद्वै त᳘त्सत्यम् ब᳘ले प्र᳘तिष्ठितम्॥
प्राणो वै ब᳘लं त᳘त्प्राणे प्र᳘तिष्ठितं त᳘स्मादाहुर्ब᳘लᳫं सत्यादो᳘जीय इ᳘त्येव᳘म्वेषा᳘ गायत्र्य᳘ध्यात्मम् प्र᳘तिष्ठिता॥
मूलम् - विस्वरम्
तद्वै तत्सत्यं बले प्रतिष्ठितम् । प्राणो वै बलम् । तत्प्राणे प्रतिष्ठितम् । तस्मादाहुः- बलं सत्यादोजीय इति । एवं उ एषा गायत्री अध्यात्मं प्रतिष्ठिता ॥ ६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘तद्वै’ तुरीय-पदाश्रयं ‘तत्सत्यं बले प्रतिष्ठितम्’ । किं पुनस्तद्बलमिति ब्रूते । ‘प्राणो वै बलं’ । तस्मिन् ‘प्राणे’ बले ‘प्रतिष्ठितं’ तत्सत्यम् । तथा चोक्तं सूत्रे- “तदोतञ्च प्रोतञ्च” ( ) इति । यस्माद्बले सत्यं प्रतिष्ठितम्, ‘तस्मादाहुर्बलं सत्यादोजीयः’ ओजस्तरमित्याहुः । यस्मिन् हि यदाश्रितं भवति । तस्मादाश्रितात् आश्रयस्य बलवत्तरत्वं प्रसिद्धम् । न हि दुर्बलं बलवतस्तदाश्रयभूतम् । ‘एवम्वेषा’ एवमुक्तन्यायेन उ एषा ‘गायत्री’ अध्यात्ममध्यस्ते प्राणे ‘प्रतिष्ठिता’ । ‘सा एषा गायत्री प्राणे’ । अतो गायत्र्यां जगत् प्रतिष्ठितम् ॥ ६ ॥
०७
विश्वास-प्रस्तुतिः
सा᳘ हैषा᳘ गयाँस्त᳘त्रे[[!!]]॥
प्प्राणा वै ग᳘यास्त᳘त्प्राणाँ᳘स्तत्रे तद्यद्ग᳘याँस्तत्रे त᳘स्माद्गायत्री ना᳘म स या᳘मे᳘वामू᳘मन्वाहै᳘षैव[[!!]] सा स य᳘स्मा ऽअन्वा᳘ह त᳘स्य प्प्राणाँ᳘स्त्रायते॥
मूलम् - श्रीधरादि
सा᳘ हैषा᳘ गयाँस्त᳘त्रे[[!!]]॥
प्प्राणा वै ग᳘यास्त᳘त्प्राणाँ᳘स्तत्रे तद्यद्ग᳘याँस्तत्रे त᳘स्माद्गायत्री ना᳘म स या᳘मे᳘वामू᳘मन्वाहै᳘षैव[[!!]] सा स य᳘स्मा ऽअन्वा᳘ह त᳘स्य प्प्राणाँ᳘स्त्रायते॥
मूलम् - Weber
सा᳘ हैषा ग᳘यांस्तत्रे 4 ॥
प्राणा वै ग᳘यास्त᳘त्प्राणा᳘ᳫं᳘स्तत्रेतद्यद्ग᳘यांस्तत्रे त᳘स्माद्गायत्री ना᳘म स या᳘मेॗवामू᳘मन्वा᳘हैॗषैव सा स य᳘स्मा अन्वा᳘ह त᳘स्य प्राणा᳘ᳫं᳘स्त्रायते॥
मूलम् - विस्वरम्
सा हैषा गयांस्तत्रे । प्राणा वै गयाः । तत्प्राणान् तत्रे । तद्यत् गयान् तत्रे । तस्मात् गायत्री नाम । स यामेवामूमन्वाह । एषैव सा । स यस्मा अन्वाह । तस्य प्राणान् त्रायते ॥ ७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यस्मिन् प्राणे सर्वे देवाः एकं भवन्ति सर्वे वेदाः कर्माणि फलं च, ‘सा’ वै गायत्री प्राण-रूपा सती जगत आत्मा सा चैषा ‘गयांस्तत्रे’ त्रातवती । के पुनर्गयाः । ‘प्राणाः’ वागादयः ‘वै’ । गय-शब्द-करणात् तांस्तत्रे । सैषा ‘गायत्री नाम’ । यद्यस्मात् ‘गयांस्तत्रे’ । ‘तस्माद्गायत्रीनाम’ गयत्राणाद्गायत्रीति प्रथिता । ‘सः’ आचार्य उपनीय ब्राह्मणमष्टवर्षं ‘यामेवामूं’ सावित्रीं सवितृ-देवताकामन्वाह पच्छो ऽर्द्धर्चशः समस्ताञ्च ‘एषैव’ साक्षाज्जगत्प्राणात्मिका जगत आत्मा गायत्र्येव प्राणो माणवकाय समर्पितो नान्य इत्याह । इदानीं व्याख्याता नान्या ‘सः’ आचार्यः ‘यस्मै’ माणवकायान्वाहानुवक्ति । ‘तस्य’ ‘गयान्’ प्राणान् ‘त्रायते’ नरकादि-पतनात् ॥ ७ ॥
०८
विश्वास-प्रस्तुतिः
ताᳫँ᳭ है᳘के सावित्री᳘मनुष्टु᳘भम᳘न्वाहुः॥ (र्व्वा᳘) व्वा᳘गनुष्टु᳘बेतद्वा᳘चम᳘नुब्ब्रूम ऽइ᳘ति न त᳘था कुर्य्याद्गायत्री᳘मेवा᳘नुब्ब्रूयाद्य᳘दि ह वा ऽअ᳘पि ब᳘ह्विव प्प्रतिगृह्णा᳘ति न᳘ हैव त᳘द्गायत्र्या ऽए᳘क᳘ञ्चन᳘ पद᳘म्प्रति[[!!]]॥
मूलम् - श्रीधरादि
ताᳫँ᳭ है᳘के सावित्री᳘मनुष्टु᳘भम᳘न्वाहुः॥ (र्व्वा᳘) व्वा᳘गनुष्टु᳘बेतद्वा᳘चम᳘नुब्ब्रूम ऽइ᳘ति न त᳘था कुर्य्याद्गायत्री᳘मेवा᳘नुब्ब्रूयाद्य᳘दि ह वा ऽअ᳘पि ब᳘ह्विव प्प्रतिगृह्णा᳘ति न᳘ हैव त᳘द्गायत्र्या ऽए᳘क᳘ञ्चन᳘ पद᳘म्प्रति[[!!]]॥
मूलम् - Weber
ताᳫं है᳘के॥
सावित्री᳘मनुष्टु᳘भम᳘न्वाहुर्वा᳘गनुष्टु᳘बेतद्वा᳘चम᳘नुब्रूम इ᳘ति न त᳘था कुर्याद्गायत्री᳘मेवा᳘नुब्रूयाद्य᳘दि ह वा अ᳘पि बॗह्विव प्रतिगृह्णा᳘ति न᳘ हैव त᳘द्गायत्र्या ए᳘कं चन᳘ पदम् प्र᳘ति 5 ॥
मूलम् - विस्वरम्
तां हैके सावित्रीमनुष्टुभमन्वाहुः । वागनुष्टुप् । एतद्वाचमनुब्रूम इति । न तथा कुर्यात् । गायत्रीमेवानुब्रूयात् । यदि ह वा अपि बह्विव प्रतिगृह्णाति । न हैव तद्गायत्र्या एकञ्चन पदं प्रति ॥ ८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
मतान्तरं दृष्ट्वा वटवे उपदेश्या गायत्री इयमेव भविष्यति इति विभ्रमो मा ऽभूदित्यभिप्रेत्य मतान्तरं दूषयितुमुपन्यस्यति- तां हैके सावित्रीमनुष्टुभमन्वाहुरिति । ‘एके’ शाखिनः “तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् ॥ श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि”- इत्यनुष्टुब्छन्दस्कां ‘तां’ प्रसिद्धां ‘सावित्रीं’ (तै. आ. १ । ११ ।) सवितृ-देवताकाम् उपनीताय अन्वाहुरनुवदन्ति ‘ह’ । तदभिप्रायमाह- वागनुष्टुप् इति । “वागनुष्टुबिति तद्य ऽएव वाचो महिमा” (श. प. १० । ३ । १ । ४) इत्य् अग्निरहस्ये प्रतिपादितत्वात् ‘अनुष्टुप्’ ‘वाक्’ च शरीरे सरस्वती-रूपा । तस्याश्च वाचः साक्षात्सरस्वतीरूपत्वात् वागात्मिका ऽनुष्टुबेव बटवे वक्तव्या । तत्समर्पणे हि सरस्वती समर्पिता स्यात् । अतो वयमेतामनुष्टुब्-लक्षणां ‘वाचं’ सरस्वतीमेवापेक्ष्यमाणां माणवकायानुब्रूमः इति वदन्तस्तामेवोपदिशन्ति । ‘न तथा कुर्यात्’ । यत्ते आहुः मृषैव तत् । ‘गायत्रीमेवानुब्रूयात्’ । तदुपदेशे हि सर्वमपि पुमर्थ-साधन-जातं बटव उपदिष्टं स्यात् । तस्याः त्रैलोक्य-त्रैविद्य-सर्व-प्राणात्मकत्व-कथनेन सर्वात्मकत्वस्योक्तत्वात् । अनुष्टुबुपदेशे तु सरस्वती-मात्रमेवोपदिष्टं स्यात् । किं चेदं प्रासङ्गिकमुक्त्वा इदानीं गायत्री-ज्ञान-फल-कथनाभिप्रायेण गायत्री-विदं स्तौति- यदि ह वा अपि बह्विवेत्यादिना । ‘यदि ह वै अपि’ एकञ्चित् ‘बह्विव’ न हि तस्य सर्वात्मनो नामास्ति किञ्चिद्विश्वात्मकादिकः । ‘प्रतिगृह्णाति’ ‘न हैव’ प्रतिग्रह-जातं ‘गायत्र्या एकञ्चन’ एकमपि ‘पदं प्रति’ पर्याप्तम् । दूरतस्तु दोषाधायकत्वं तस्येत्यर्थः ॥ ८ ॥
०९
विश्वास-प्रस्तुतिः
स य᳘ ऽइमास्त्रील्लोँका᳘न्पूर्ण्णा᳘न्प्रतिगृह्णीया᳘त्[[!!]]॥ (त्सो) सो ऽस्या ऽएत᳘त्प्रथम᳘म्पद᳘माप्नुयाद᳘थ या᳘वतीय᳘न्त्रयी᳘ व्विद्या यस्ता᳘वत्प्रतिगृह्णीया᳘त्सो ऽस्या ऽएत᳘द्द्विती᳘यम्पद᳘माप्नुयाद᳘थ या᳘वदिद᳘म्प्राणि यस्ता᳘वत्प्रतिगृह्णीया᳘त्सो ऽस्या ऽएत᳘त्तृती᳘यम्पद᳘माप्नुयाद᳘थास्या ऽएत᳘देव᳘ तुरी᳘यन्दर्शत᳘म्पद᳘म्परो᳘रजा य᳘ ऽएष त᳘पति᳘ नैव के᳘नचना᳘प्यङ्कुत ऽउ ऽएता᳘वत्प्र᳘तिगृह्णीयात्[[!!]]॥
मूलम् - श्रीधरादि
स य᳘ ऽइमास्त्रील्लोँका᳘न्पूर्ण्णा᳘न्प्रतिगृह्णीया᳘त्[[!!]]॥ (त्सो) सो ऽस्या ऽएत᳘त्प्रथम᳘म्पद᳘माप्नुयाद᳘थ या᳘वतीय᳘न्त्रयी᳘ व्विद्या यस्ता᳘वत्प्रतिगृह्णीया᳘त्सो ऽस्या ऽएत᳘द्द्विती᳘यम्पद᳘माप्नुयाद᳘थ या᳘वदिद᳘म्प्राणि यस्ता᳘वत्प्रतिगृह्णीया᳘त्सो ऽस्या ऽएत᳘त्तृती᳘यम्पद᳘माप्नुयाद᳘थास्या ऽएत᳘देव᳘ तुरी᳘यन्दर्शत᳘म्पद᳘म्परो᳘रजा य᳘ ऽएष त᳘पति᳘ नैव के᳘नचना᳘प्यङ्कुत ऽउ ऽएता᳘वत्प्र᳘तिगृह्णीयात्[[!!]]॥
मूलम् - Weber
स य᳘ इमांस्त्रीं᳘लोका᳘न्॥
पूर्णा᳘न्प्रतिगृह्णीयाॗत्सोऽस्या एत᳘त्प्रथम᳘म् पद᳘माप्नुयाद᳘थ या᳘वतीयं᳘ त्रयी᳘ विद्या यस्ता᳘वत्प्रतिगृह्णीयाॗत्सोऽस्या एत᳘द्द्विती᳘यम् पद᳘माप्नुयाद᳘थ या᳘वदिद᳘म् प्राणि 6 यस्ता᳘वत्प्रतिगृह्णीयाॗत्सोऽस्या एत᳘त्तृती᳘यम् पद᳘माप्नुयाद᳘थास्या एत᳘देव᳘ तुरी᳘यं दर्शत᳘म् पद᳘म् परो᳘रजा य᳘ एष त᳘पतिॗ नैव के᳘न चना᳘प्यं कु᳘त उ एता᳘वत्प्र᳘तिगृह्णीयात्॥
मूलम् - विस्वरम्
स य इमान् त्रीन् लोकान् पूर्णान् प्रतिगृह्णीयात् । सो ऽस्या एतत्प्रथमं पदमाप्नुयात् । अथ यावतीयं त्रयी विद्या । यस्तावत्प्रतिगृह्णीयात् । सो ऽस्या एतत् द्वितीयं पदमाप्नुयात् । अथ यावदिदं प्राणि । यस्तावत्प्रतिगृह्णीयात् । सो ऽस्या एतत् तृतीयं पदमाप्नुयात् । अथास्या एतदेव तुरीयं दर्शतं पदम् । परोरजा य एष तपति । नैव केनचनाप्यम् । कुत उ एतावत् प्रतिगृह्णीयात् ॥ ९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
स य इति । ‘स यः’ गायत्रीवित् ‘इमान्’ भूरादीन् ‘त्रीन्’ गो ऽश्वादि-धन-पूर्णान् ‘लोकान्’ ‘प्रतिगृह्णीयात्’ । ‘सः’ प्रतिग्रहः ‘अस्याः’ गायत्र्याः ‘एतत्प्रथमं पदं’ यत् व्याख्यातं ‘आप्नुयात्’ । प्रथम-पद-विज्ञान-फलं तेन भुक्तं भवेत्, न तु अधिक-दोषोत्पादकः स प्रतिग्रहः । ‘अथ’ पुनः ‘यावती इयं त्रयी विद्या’ ‘यस्तावत्प्रतिगृह्णीयात्’ । ‘सः’ ‘अस्याः’ ‘एतत् द्वितीयं पदमाप्नुयात्’ द्वितीय-पद-विज्ञान-फलं तेन भुक्तं भवेत् । तथा ‘अथ’ पुनः ‘यावदिदं प्राणि’ ‘यस्तावत् प्रतिगृह्णीयात्’ । ‘सः’ ‘अस्याः’ ‘एतत् तृतीयं पदमाप्नुयात्’ । तेन तृतीय-पद-विज्ञान-फलं भुक्तं स्यात् । तथा च- त्रैलोक्यावच्छिन्नस्य त्रैविद्यावच्छिन्नस्य सर्व-प्राण्य्-अवच्छिन्नस्य च प्रतिग्रहे पाद-त्रय-विज्ञान-फलमेवानेन भुक्तं भवेत् नाधिक-दोषभाक्त्वं तस्य इति गायत्री-विज्ञान-स्तुत्य्-अर्थमेव श्रुत्या एवं कल्पयित्वा इदमुच्यते । पाद-त्रय-सममपि यः कश्चित्प्रतिगृह्णीयात् तत् पाद-त्रय-विज्ञान-फलस्यैव क्षय-कारणम् । न त्वस्य दोष-कर्तृत्वे क्षमम् । न चैवं वस्तुतो दाता प्रतिग्रहीता वा गायत्री-विद्-विज्ञान-स्तुतये कल्प्यते । दाता प्रतिग्रहीता च यद्यप्य् एवं सम्भाव्यते । तथा ऽपि नासावस्य प्रतिग्रहो ऽपराध-क्षमः । कस्मात्? यतो ऽभ्यधिकमपि पुरुषार्थ-विज्ञानं अवशिष्टमेव चतुर्थ-पाद-विषयं गायत्र्याः, तद्दर्शयति- अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपतीति । तच्चैतत् ‘नैव’ केनचिदपि प्रतिग्रहेणाप्यं नैव प्राप्यमिति यावत् । यथा पूर्वोक्तानि त्रीणि पदानि कुतश्चन नैवाप्यानि । कथञ्चित् कल्पयित्वा एवमभिहितम् । तत्त्वतः ‘कुत उ एतावत्प्रतिगृह्णीयात्’ त्रैलोक्यादि-समम् । इत्य् एवं श्रुति-सिद्धे च सति न शूद्राद्यपादानकप्रतिग्रहनिषेधकशास्त्रविरोधः । तस्मात् गायत्री एवंप्रकारा उपास्येति यावत् ॥ ९ ॥
१०
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘स्या ऽउपस्था᳘नम्॥
(ङ्गा) गाय᳘त्र्यस्ये᳘कपदी द्विप᳘दी त्रिप᳘दी च᳘तुष्पद्य᳘पदसि न हि प᳘द्यसे। न᳘मस्ते तुरीया᳘य दर्शता᳘य पदा᳘य परो᳘रजसे ऽसा᳘वदो मा प्प्रा᳘पदि᳘ति य᳘न्द्विष्या᳘दसा᳘वस्मै का᳘मो मा स᳘मर्द्धी᳘ति वा न᳘ है᳘वास्मै स का᳘मः स᳘मृद्ध्यते य᳘स्मा ऽएव᳘मुपति᳘ष्ठते ऽह᳘मदः प्प्रा᳘पमि᳘ति वा॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘स्या ऽउपस्था᳘नम्॥
(ङ्गा) गाय᳘त्र्यस्ये᳘कपदी द्विप᳘दी त्रिप᳘दी च᳘तुष्पद्य᳘पदसि न हि प᳘द्यसे। न᳘मस्ते तुरीया᳘य दर्शता᳘य पदा᳘य परो᳘रजसे ऽसा᳘वदो मा प्प्रा᳘पदि᳘ति य᳘न्द्विष्या᳘दसा᳘वस्मै का᳘मो मा स᳘मर्द्धी᳘ति वा न᳘ है᳘वास्मै स का᳘मः स᳘मृद्ध्यते य᳘स्मा ऽएव᳘मुपति᳘ष्ठते ऽह᳘मदः प्प्रा᳘पमि᳘ति वा॥
मूलम् - Weber
त᳘स्या उपस्था᳘नम्॥
गाय᳘त्र्यस्ये᳘कपदी 7 द्विप᳘दी त्रिप᳘दी च᳘तुष्पद्य᳘पदसि न हि प᳘द्यसे न᳘मस्ते तुरीया᳘य दर्शता᳘य पदा᳘य परो᳘रजसेऽसा᳘वदो मा प्रा᳘पदि᳘ति यं᳘ द्विष्या᳘दसा᳘वस्मै का᳘मो मा स᳘मर्धी᳘ति वा न᳘ हैॗवास्मै स का᳘मः स᳘मृध्यते य᳘स्मा एव᳘मुपति᳘ष्ठतेऽह᳘मदः प्रा᳘पमि᳘ति वा॥
मूलम् - विस्वरम्
तस्या उपस्थानम्- “गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोरजसे ऽसावदो मा प्रापत्”- इति । यं द्विष्यात्- “असावस्मै कामो मा समर्द्धि”- इति वा । न हैवास्मै स कामः समृध्यते- यस्मा एवमुपतिष्ठते । “अहमदः प्रापम्”- इति वा ॥ १० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवमुक्त-गायत्र्युपासना-सङ्ग्रह-विषयमेव मन्त्रं ऐहिक-फल-विशेषोपायकथनार्थमवतारयति- तस्या उपस्थानमिति । अस्यार्थः- ‘तस्याः’ गायत्र्याः ‘उपस्थानं’ एत्य नमस्करणं अनेन मन्त्रेण । को ऽसौ मन्त्र इति कथयति- गायत्र्यस्येकपदी द्विपदीत्य् आदि- प्रापदित्य् अन्तम् । हे ‘गायत्रि’! त्वं त्रैलोक्यात्मक-पादेन ‘एकपदी’ भवसि । त्रयी-विद्या-रूपेण द्वितीयेन ‘द्विपदी’ असि । प्राणादिना तृतीयेन ‘त्रिपद्यसि’ मण्डलान्तर्गत-पुरुष-लक्षणेन चतुर्थेन तुरीयेण ‘चतुष्पद्यसि’ एवं चतुर्भिः पादैरुपासकैः ‘पद्यसे’ ज्ञायसे । अतःपरं परेण निरुपाधिकेन स्वेनात्मना ‘अपदसि’ । अविद्यमानं पदं यस्याः तव येन पद्यसे सा त्वमपदसि । यस्मान्न हि पद्यसे । नेति नेत्यात्मत्वात् । अतो ऽव्यवहार्य-विषया । अतस्त्वमपदसीति । अथ पाद-त्रयापेक्षया चतुर्थ-पादस्य प्राधान्यमभिप्रेत्य तस्य नमस्करणमुच्यते- नमस्ते तुरीयाय दर्शताय पदाय परोरजसे इति । एवं नमस्करणमुक्त्वा शेषेण यथोक्त-नमस्कार-प्रयोजनमुच्यते । ‘असौ’ शत्रुः पाप्मा त्वत्-प्राप्ति-विघ्नकरः । ‘अदः’ पाप्म-रूप-शत्रोः यत् त्वत्-प्राप्ति-विघ्न-कर्तृत्वं मम तच्च ‘मा प्रापत्’ नैव प्राप्नोतु । इति-शब्दः पाप-क्षय-फलोपस्थान-मन्त्र-परिसमाप्त्य् अर्थः ।
इदानीं प्रवृद्ध-द्वेषवन्तं प्रति उक्तोपस्थान-मन्त्रे ऊह-प्रदर्शनेनाभिचारिकं 8 उपस्थानान्तरमाह- यं द्विष्यादिति 9 । ‘यं द्विष्यात्’ यं प्रति द्वेषं कुर्यात् स्वयं विद्वान् । तं प्रति अनेनोपस्थानम् । ‘असौ’ शत्रुरमुकनामा इति तन्नाम गृह्णीयात् । ‘अस्मै’ देवदत्ताय शत्रवे अभिप्रेतः ‘कामः’ अभिलषितो ऽर्थः ‘मा समर्द्धि’ समृद्धिं मा प्राप्नोतु । तथा च- “असावदो मा प्रापत्” इत्यस्य स्थाने “असावस्मै कामो मा समर्द्धि” इत्य् ऊहं कृत्वा गायत्र्यस्य् एकपदीत्यादिना पूर्वोक्तेन मन्त्रेणाभिचरन्नुपतिष्ठेतेति वाक्यार्थः । ‘न हैवास्मै’ देवदत्ताय शत्रवे ‘स कामः समृध्यते’ । कस्मै! ‘यस्मा एवमुपतिष्ठते’ । कामिनं प्रति आभिचारिकमुपस्थानान्तरमाह- अहमदः प्रापमिति वेति । अहं ‘अदः’ देवदत्ताभिप्रेतं मदभिलषितं ‘वा’ ‘प्रापं’ प्राप्नुयां इति वा उपतिष्ठते । “असावदो मा प्रापत्” इत्यादि-त्रयाणां मन्त्र-पदानां यथाकामं विकल्पः ॥ १० ॥
११
विश्वास-प्रस्तुतिः
(वै) एत᳘द्ध वै त᳘ज्जनको व्वै᳘देहः॥
(हो) बु᳘डिलमा᳘श्वतराश्विमु᳘वाच यन्नु᳘ हो त᳘द्गायत्रीविद᳘ब्ब्रूथा ऽअ᳘थ कथ᳘ᳫँ᳘ हस्ती᳘भूतो᳘ व्वहसी᳘ति मु᳘ख᳘ᳫँ᳘ ह्यस्याः[[!!]] सम्म्राण्न᳘ व्विदा᳘ञ्चकरे᳘ति होवाच॥
मूलम् - श्रीधरादि
(वै) एत᳘द्ध वै त᳘ज्जनको व्वै᳘देहः॥
(हो) बु᳘डिलमा᳘श्वतराश्विमु᳘वाच यन्नु᳘ हो त᳘द्गायत्रीविद᳘ब्ब्रूथा ऽअ᳘थ कथ᳘ᳫँ᳘ हस्ती᳘भूतो᳘ व्वहसी᳘ति मु᳘ख᳘ᳫँ᳘ ह्यस्याः[[!!]] सम्म्राण्न᳘ व्विदा᳘ञ्चकरे᳘ति होवाच॥
मूलम् - Weber
एत᳘द्ध वै त᳘ज्जनको वै᳘देहो॥
बुडिलमा᳘श्वतराश्विमुवाच 10 यन्नु᳘ हो त᳘द्गायत्रीविद᳘ब्रूथा अ᳘थ कथ᳘ᳫं᳘ हस्ती᳘ भूतो᳘ वहसी᳘ति मु᳘खᳫं ह्य᳘स्याः सम्राण्न᳘ विदां᳘ चकरे᳘ति होवाच॥
मूलम् - विस्वरम्
एतद्ध वै तत् जनको वैदेहो बुडिलमाश्वतराश्विमुवाच । यन्नु हो तत् गायत्रीविदब्रूथाः । अथ कथं हस्तीभूतो वहसीति । मुखं ह्यस्याः सम्राट् न विदाञ्चकर इति होवाच ॥ ११ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
गायत्री-मुख-विज्ञानमन्तरेण तद्-विज्ञानं पूर्णं न भवति । अतस्तद्-विज्ञानार्थं अर्थवादो ऽभिधीयते- एतद्ध वा इत्यादिना । ‘एतत्’ ‘ह’ किल ‘वै’ स्मर्यते । तत् तत्र गायत्री-विज्ञान-विषये ‘जनको वैदेहः’ ‘बुडिलम्’ नामतः अश्वतराश्वस्यापत्यमाश्वतराश्विः तं किल उक्तवान् । यन्नु इति वितर्के । ‘हो’ अहो आश्चर्यमेतत् । तदिति यदर्थे । यत् त्वं ‘गायत्रीवित्’ ‘अब्रूथाः’ गायत्रीविदहमस्मीति यदब्रूथाः । किमिदं तत् तस्य वचसः अननुरूपं अकथः । ‘कथं’ यदि गायत्रीवित् गायत्र्याः प्रतिग्रह-दोषेण ‘हस्तीभूतः’ हस्ती भूत्वा वृथा ऽभिमानं ‘वहसीति’ । स प्रत्याह राज्ञा स्मारितः- मुखं ह्यस्या इति ‘हि’ यस्मात् ‘अस्याः’ गायत्र्याः ‘मुखं’ हे ‘सम्राट्’ ‘न विदाञ्चकर’ “णलुत्तमो वा” इति (पा० सू० ७ । १ । ९१) इति स्मरणात् । णित्त्वाभावात् न वृद्धिः न विज्ञातवानस्मीति ‘ह’ ‘उवाच’ । एवमङ्ग-विकलत्वात् गायत्री-विज्ञानं मम अफलं जातम् ॥ ११ ॥
१२
विश्वास-प्रस्तुतिः
त᳘स्या ऽअग्नि᳘रेव मु᳘खम्॥
य᳘दि ह वा ऽअ᳘पि ब᳘ह्विवाग्ना᳘वभ्याद᳘धति स᳘र्व्वमेव तत्स᳘न्दहत्येव᳘ᳫँ᳘ है᳘वैवंविद्यद्य᳘पि ब᳘ह्विव पाप᳘ङ्करो᳘ति स᳘र्व्वमेव त᳘त्संप्सा᳘य शुद्धः᳘ पू᳘तो ऽज᳘रो ऽमृ᳘तः स᳘म्भवति॥
मूलम् - श्रीधरादि
त᳘स्या ऽअग्नि᳘रेव मु᳘खम्॥
य᳘दि ह वा ऽअ᳘पि ब᳘ह्विवाग्ना᳘वभ्याद᳘धति स᳘र्व्वमेव तत्स᳘न्दहत्येव᳘ᳫँ᳘ है᳘वैवंविद्यद्य᳘पि ब᳘ह्विव पाप᳘ङ्करो᳘ति स᳘र्व्वमेव त᳘त्संप्सा᳘य शुद्धः᳘ पू᳘तो ऽज᳘रो ऽमृ᳘तः स᳘म्भवति॥
मूलम् - Weber
त᳘स्या अग्नि᳘रेव मु᳘खम्॥
य᳘दि ह वा अ᳘पि बॗह्विवाग्ना᳘वभ्याद᳘धति स᳘र्वमेव तत्सं᳘दहत्येव᳘ᳫं᳘ हैॗवैवंविद्यद्य᳘पि ब᳘ह्विव पापं᳘ करो᳘ति स᳘र्वमेव त᳘त्सम्प्सा᳘य शुद्धः᳘ पूॗतोऽज᳘रोऽमृ᳘तः स᳘म्भवति॥
मूलम् - विस्वरम्
तस्या अग्निरेव मुखम् । यदि ह वा अपि बह्विव अग्नावभ्यादधति । सर्वमेव तत्सन्दहति । एवं हैव एवंविद्यद्यपि बह्विव पापं करोति । सर्वमेव तत्सम्प्साय शुद्धः पूतो ऽजरो ऽमृतः सम्भवति ॥ १२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं वदन्तं प्रति राजा मुखमुपदिशति- तस्या ऽअग्निरेव मुखमिति । शृणु तर्हि ‘तस्याः’ गायत्र्याः ‘अग्निरेव मुखम्’ । ‘यदि ह वै अपि बह्विव’ इन्धनं ‘अग्नावभ्यादधति’ लौकिकाः । ‘सर्वमेव’ तत्सन्दहत्येवेन्धनमग्निः । ‘एवं ह’ एव ‘एवंवित्’ गायत्र्या अग्निर्मुखं इत्य् एवं वेत्तीत्य् एवंवित् स्यात् स्वयं गायत्र्यात्मा स्वयमग्निमुखगायत्र्यात्मा सन् ‘यद्यपि बह्विव’ बह्वेव ‘पापं’ प्रतिग्रहादि-दोषं ‘करोति’ । तत्सर्वं पापजातं ‘सम्प्साय’ सम्यक् भक्षयित्वा ‘शुद्धः’ अग्निवत्पाप-स्पर्श-रहितः ‘पूतश्च’ प्रतिग्रह-जनित-पाप-फल-सम्बन्ध-रहितः अग्निमुखगायत्र्यात्मा ‘अजरः अमृतश्च सम्भवति’ ॥ १२ ॥
इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे ञ्चमे ऽध्याये पञ्चदशं गायत्र-ब्रह्मोपासना-ब्राह्मणं परिसमाप्तम् ॥ १४ । (८) ५ । १५ ॥
(बृ. उप.)- पञ्चमो ऽध्यायश्च परिसमाप्तः ॥ १४ । (८) ५ ॥
-
अत्राक्षर-विश्लेषेणाष्टत्वपूरणम् । ↩︎
-
ए᳘तदे᳘व तुरी᳘यं A. Read: A. एतदेव᳟ । तु᳘रीयं. - ibid. तत्तु᳘रीयं A. ↩︎
-
स्मिंस्तुरी᳘ये A. ↩︎
-
सा᳘ हैषा᳘ गयांस्त᳘त्रे AM. ↩︎
-
न᳘ हैव त᳘द्गायत्र्या᳘ एकं᳘ चन᳘ पदं᳘ प्रति AM. ↩︎
-
या᳘वदिदं प्रा᳘णि AM. - ibid. एत᳘देव᳘ तुरी᳘यं A. Read: एत᳘देव तु᳘रीयं. - ibid. नैव᳘ केन चना᳘प्यं कु᳘त उ एता᳘वत्प्रतिगृह्णीया᳘त् AM. ↩︎
-
गायत्र्यस्ये᳘कपदी AM. - ibid. तुरीया᳘य A. Read: तु᳘रीयाय. ↩︎
-
अदृष्टोपायेन परपीडनमभिचारः । ↩︎
-
अत एवाह कात्यायनः- “रिपु-निग्रह-कामश्चेत्कुर्यात्काम्यमशङ्कितः” ॥ ३९ ॥ इति मन्त्र-भ्रान्ति-हरापर-पर्याय-सूत्र-मन्त्र-प्रकाशिकायाम् ॥ ↩︎
-
मा᳘श्वतराश्वि᳘मु AM. - ibid. त᳘द्गायत्री᳘विद᳘ब्रूथा, मुख᳘ᳫ ह्यस्याः सम्राण्न विदां᳘ AM. ↩︎