०१
विश्वास-प्रस्तुतिः
उक्थ᳘म्प्राणो वा᳘ ऽउक्थ᳘म्॥ प्प्राणो᳘ हीदᳫँ᳭ स᳘र्व्वमुत्थाप᳘यत्यु᳘द्धास्मा ऽउक्थवि᳘द्वीरस्ति᳘ष्ठत्युक्थ᳘स्य सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
उक्थ᳘म्प्राणो वा᳘ ऽउक्थ᳘म्॥ प्प्राणो᳘ हीदᳫँ᳭ स᳘र्व्वमुत्थाप᳘यत्यु᳘द्धास्मा ऽउक्थवि᳘द्वीरस्ति᳘ष्ठत्युक्थ᳘स्य सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
उक्थ᳘म् 1 ॥
प्राणो वा᳘ उक्थ᳘म् प्राणोॗ हीदᳫं स᳘र्वमुत्थाप᳘यत्यु᳘द्धास्मा उक्थवि᳘द्वीरस्ति᳘ष्ठत्युक्थ᳘स्य सा᳘युज्यᳫं सलोक᳘तां जयति य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
प्राणोपासनाब्राह्मणम् ।
उक्थम् । प्राणो वा उक्थम् । प्राणो हीदं सर्वमुत्थापयति । उद्धास्मा उक्थविद्वीरस्तिष्ठति । उक्थस्य सायुज्यं सलोकतां जयति । य एवं वेद ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
पुनस्तस्यैव ब्रह्मणः उक्थादि-गुण-पूगविशिष्टत्वेनोपासनमाह- उक्थमित्यादिना । महाव्रताख्ये क्रतौ प्रधान-भूतं शस्त्रमुक्थ-शब्दार्थः । किमात्मकं तदुक्थमित्य् अत आह- प्राणो वा उक्थमिति । प्राणो ह्याध्यात्मेषु मुख्यः । उक्थं च सर्व-शस्त्राणां प्रधानम् । अतः प्राण उक्थ-गुण उपास्य इत्य् अर्थः । ननु- प्राणे कथमुक्थ-शब्द-प्रवृत्तिरित्य्-अपेक्षायां योग-वशादित्य् आह- प्राणो हीदं सर्वमुत्थापयतीति । ‘हि’ यस्मादिदं सर्वं चराचरात्मकं ‘प्राण उत्थापयति’ । अप्राणस्योत्थानाशक्तेः । अतः प्राण उत्थापनादुक्थमित्य् अर्थः । एवमुपासनस्य क्रमेण दृष्टमदृष्टं च फलमाह- उद्धास्मा ऽउक्थविद्वीर इत्यादिना । ‘उत् ह अस्मै’ इति च्छेदः । पञ्चम्य् अर्थे चतुर्थी छान्दसी । ‘यः’ एवमुक्थ-स्वरूपं प्राणं ‘वेद’ । अस्मादुपासकात् उक्थवित्-प्राणवित् ‘वीरः’ पुत्रः ‘उत्तिष्ठति’ उत्पद्यते । इत्य् एतत् दृष्ट-फलम् । ‘उक्थस्य’ प्राणस्य ‘सायुज्यं सलोकतां’ च उपासना-तारतम्यात् ‘जयति’ प्राप्नोति । एतददृष्टं फलमित्य् अर्थः ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
य᳘जुः प्प्राणो वै य᳘जुः॥ प्प्राणो᳘ हीमा᳘नि स᳘र्व्वाणि भूता᳘नि युज्यन्ते[[!!]] युज्य᳘न्ते हास्मै स᳘र्व्वाणि भूता᳘नि श्रै᳘ष्ठ्याय य᳘जुषः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
य᳘जुः प्प्राणो वै य᳘जुः॥ प्प्राणो᳘ हीमा᳘नि स᳘र्व्वाणि भूता᳘नि युज्यन्ते[[!!]] युज्य᳘न्ते हास्मै स᳘र्व्वाणि भूता᳘नि श्रै᳘ष्ठ्याय य᳘जुषः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
प्राणो वै य᳘जुः प्राणोॗ हीमा᳘नि स᳘र्वाणि भूता᳘नि युज्य᳘न्ते युज्य᳘न्ते हास्मै स᳘र्वाणि भूता᳘नि श्रै᳘ष्ठ्याय य᳘जुषः सा᳘युज्यᳫं सलोक᳘तां जयति य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
यजुः । प्राणो वै यजुः । प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते । युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय । यजुषः सायुज्यं सलोकतां जयति । य एवं वेद ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं प्राणस्य योक्तृता-गुणत्त्वेनोपासनत्वमाह- यजुः प्राणो वै यजुरिति । यतः ‘प्राणो वै यजुः’ । अतः प्राणो यजुरित्युपासीतेत्यर्थः । प्राणे यजुः-शब्द-प्रवृत्तिं दर्शयति- प्राणे हीमानि सर्वाणि भूतानि युज्यन्त इति । ‘हि’ यस्मात्प्राणे सति ‘सर्वाणि भूतानि’ परस्परं ‘युज्यन्ते’ न हि असति प्राणे कस्यचित्केनचित् योग-सामर्थ्यं दृष्टम् । अतो युनक्तीति यजुरिति योगवशात् प्राणो यजुरित्य् अर्थः । एवमुपासितुः पूर्ववत्फलमाह- युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्यायेति । ‘श्रैष्ठ्याय’ श्रेष्ठ-भावाय “अयं नः श्रेष्ठो भवतु” इत्य् अभिप्रायेण ‘युज्यन्ते’ उद्यमं कुर्वन्ति इत्य् अर्थः । शेषं समानम् ॥ २ ॥
०३
विश्वास-प्रस्तुतिः
सा᳘म प्प्राणो वै सा᳘म॥ प्प्राणो᳘ हीमा᳘नि स᳘र्व्वाणि भूता᳘नि सम्य᳘ञ्चि सम्य᳘ञ्चि हास्मिन्त्स᳘र्व्वाणि भूता᳘नि श्रै᳘ष्ठ्याय कल्पन्ते साम्नः[[!!]] सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
सा᳘म प्प्राणो वै सा᳘म॥ प्प्राणो᳘ हीमा᳘नि स᳘र्व्वाणि भूता᳘नि सम्य᳘ञ्चि सम्य᳘ञ्चि हास्मिन्त्स᳘र्व्वाणि भूता᳘नि श्रै᳘ष्ठ्याय कल्पन्ते साम्नः[[!!]] सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
सा᳘म॥
प्राणो वै सा᳘म प्राणोॗ हीमा᳘नि स᳘र्वाणि भूता᳘नि सम्य᳘ञ्चि हास्मिन्त्स᳘र्वाणि भूता᳘नि श्रै᳘ष्ठ्याय कल्पन्ते सा᳘म्नः सा᳘युज्यᳫं सलोक᳘तां जयति य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
साम । प्राणो वै साम । प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि । सम्यञ्चि हास्मिन् सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते । साम्नः सायुज्यं सलोकतां जयति । य एवं वेद ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं प्राणस्य सर्वप्राणि-सम्यग्-गमन-हेतुत्व-गुणेनोपासनमाह- साम प्राणो वै सामेति । यतः ‘प्राणो वै साम’ । अतस्तं सामेत्य् उपासीतेत्यर्थः । पूर्ववत्प्राणस्य सामत्वं साधयति- प्राणे हीमानि सर्वाणि भूतानि ‘सम्यञ्चीति’ । सम्यगञ्चन्ति सङ्गच्छन्ते इति सम्यञ्चीत्य् अर्थः । शेषं पूर्ववत् । पूर्ववदुपासना-फलमाह- सम्यञ्चि हास्मिन्त्सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्त इति । न केवलं ‘सम्यञ्चि’ सङ्गच्छमानान्येव । अपि तु तानि अस्मिन्नुपासके ‘श्रैष्ठ्याय’ श्रेष्ठ-भावाय ‘कल्पन्ते’ क्लृप्तानि भवन्तीत्य् अर्थः । शेषं स्पष्टार्थम् ॥ ३ ॥
०४
विश्वास-प्रस्तुतिः
क्षत्त्रं᳘ प्प्राणो वै᳘ क्षत्त्र᳘म्॥ (म्प्रा) प्प्राणो हि वै᳘ क्षत्त्रं त्रा᳘यते हैनम्प्राणः᳘ क्षणि᳘तोः प्प्र᳘ क्षत्त्रमात्र᳘माप्नोति क्षत्र᳘स्य सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
क्षत्त्रं᳘ प्प्राणो वै᳘ क्षत्त्र᳘म्॥ (म्प्रा) प्प्राणो हि वै᳘ क्षत्त्रं त्रा᳘यते हैनम्प्राणः᳘ क्षणि᳘तोः प्प्र᳘ क्षत्त्रमात्र᳘माप्नोति क्षत्र᳘स्य सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयति य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
क्षत्र᳘म्॥
प्राणो वै᳘ क्षत्र᳘म् प्राणो हि वै᳘ क्षत्रं त्रा᳘यते हैनम् प्राणः᳘ क्षणि᳘तोः 2 प्र᳘ क्षत्रमात्र᳘माप्नोति क्षत्र᳘स्य सा᳘युज्यᳫं सलोक᳘तां जयति य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
क्षत्त्रम् । प्राणो वै क्षत्त्रम् । प्राणो हि वै क्षत्त्रम् । त्रायते हैनं प्राणः क्षणितोः । प्र क्षत्त्रमात्रमाप्नोति । क्षत्त्रस्य सायुज्यं सलोकतां जयति । य एवं वेद ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं प्राणस्य पालक-गुणवत्त्वेनोपासनमाह- क्षत्त्रं प्राणो वै क्षत्त्रमिति । यस्मात्प्राणः ‘क्षत्त्रमिति’ ‘वै’ प्रसिद्धम् । तस्मात् क्षत्त्रमित्य् उपासीतेत्यर्थः । पूर्ववत्प्राणस्य क्षत्त्र-शब्द-वाच्यत्वं साधयति- प्राणो हि वै क्षत्त्रं त्रायते हैनं प्राणः क्षणितोरिति । ‘एनं’ देह-पिण्डं ‘प्राणो ह’ ‘क्षणितोः’ शस्त्रादि-हिंसितात् पुनर्मांस-पूरणं कुर्वन् यस्मात् ‘त्रायते’ पालयति । तस्मात् क्षत-त्राणात् ‘प्राणः’ ‘वै’ प्रसिद्धं क्षत्त्रमित्य् अर्थः । एतद्वेदन-फलमाह- प्र क्षत्त्रमात्रमाप्नोतीति । प्र-शब्दः आप्नोतीत्यनेन सम्बध्यते । क्षत्त्रमात्रं ‘प्राप्नोति’ । प्राण एव भवतीत्य् अर्थः । “मात्रं कार्त्स्न्ये ऽवधारणे” (३ । ३ । १७८) इत्य् अमरः । यद्वा ‘क्षत्त्रं’ प्राण ‘प्राप्नोति’ । किंविशिष्टं ‘आ’ सामस्त्येन ‘त्रायते’ पालयतीत्यात्रस्तम् । शेषं पूर्ववत् ॥ ४ ॥
इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-व्याख्यायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे पञ्चमे ऽध्याये चतुर्दशं प्राणोपासना-ब्राह्मणं परिसमाप्तम् ॥ १४ । (८) ५-१४ ॥