०१
विश्वास-प्रस्तुतिः
अ᳘न्नम्ब्रह्मेत्ये᳘क ऽआहुः॥
(स्त) तन्न त᳘था पू᳘यति वा ऽअ᳘न्नमृते᳘ प्प्राणा᳘त्प्राणो ब्ब्रह्मेत्ये᳘क ऽआहुस्तन्न त᳘था शु᳘ष्यति वै᳘ प्प्राण᳘ ऽऋते᳘ ऽन्नादेते᳘ ह[[!!]] त्वेव[[!!]] देव᳘ते ऽएकधाभू᳘यम्भूत्वा᳘ परम᳘ताङ्गच्छतः॥
मूलम् - श्रीधरादि
अ᳘न्नम्ब्रह्मेत्ये᳘क ऽआहुः॥
(स्त) तन्न त᳘था पू᳘यति वा ऽअ᳘न्नमृते᳘ प्प्राणा᳘त्प्राणो ब्ब्रह्मेत्ये᳘क ऽआहुस्तन्न त᳘था शु᳘ष्यति वै᳘ प्प्राण᳘ ऽऋते᳘ ऽन्नादेते᳘ ह[[!!]] त्वेव[[!!]] देव᳘ते ऽएकधाभू᳘यम्भूत्वा᳘ परम᳘ताङ्गच्छतः॥
मूलम् - Weber
अ᳘न्नम् ब्रह्मेत्ये᳘क आहुः॥
तन्न त᳘था पू᳘यति वा अ᳘न्नमृते᳘ प्राणा᳘त्प्राणो ब्रह्मेत्ये᳘क आहुस्तन्न त᳘था शु᳘ष्यति वै᳘ प्राण᳘ ऋते᳘ऽन्नादेते᳘ हॗ त्वेव᳘ देव᳘ते एकधाभू᳘यम् भूत्वा᳘ परम᳘तां गछतः 1 ॥
मूलम् - विस्वरम्
अन्नप्राणयोरेकब्रह्मोसनाविधायकं ब्राह्मणम् ।
अन्नं ब्रह्मेत्येक आहुः । तन्न तथा । पूयति वा अन्नमृते प्राणात् । प्राणो ब्रह्मेत्येक आहुः । तन्न तथा । शुष्यति वै प्राण ऋते ऽन्नात् । एते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतः ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं पुनः प्रकृत-ब्रह्मोपासनमेवानुवर्तयन्ती श्रुतिः वि-रमिति गुणद्वय-विशिष्टान्नप्राणोपाधिक-ब्रह्मोपासनं विशिष्ट-फलकं विधातुं आदौ एतस्यैवोपास्यत्व-निर्णयार्था युक्तीराह- अन्नं ब्रह्मेत्येक आहुस्तन्न तथेत्यादिना परमतांङ्गच्छत इत्यन्तेन । ‘अन्नं ब्रह्मेत्येके’ आचार्या ‘आहुः’ । ‘तत्तथा न’ ग्रहीतव्यम् । यतः प्राणाद्भक्षकात् ‘ऋते’ विना ‘अन्नं पूयति’ क्लिद्यते पूतिभावमापद्यते इति ‘वै’ प्रसिद्धम् । तथा ‘प्राणो ब्रह्मेत्येक आहुः’ । तदपि ‘न तथा’ तथा न ब्रह्म । यतः ‘अन्नात्’ अदनीयात् ‘ऋते’ ‘प्राणः शुष्यति’ शोषमुपैति ‘वै’ प्रसिद्धम् । ब्रह्म तु न क्लिद्यते न शुष्यति च । “अक्लेद्यो ऽशोष्य एव च” (भ. गी. २ । २४) इति स्मृतेः । यस्मात् एवं एकैकस्य ब्रह्मत्वं नोपपद्यते । तस्मात् ‘ह’ किल ‘एते एव तु देवते’ अन्न-प्राण-लक्षणे ‘एकधाभूयं’ एकधाभावं ‘भूत्वा’ गत्वा ‘परमतां’ ‘गच्छतः’ ब्रह्मत्वं प्राप्नुत इत्य् अर्थः ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘द्ध स्माह प्प्रातृदः᳘ पित᳘रम्॥
(ङ्कि᳘) कि᳘ᳫँ᳘ स्विदे᳘वैव᳘म्विदु᳘षे साधु[[!!]] * कुर्य्यात्कि᳘मे᳘वास्मा ऽअसाधु᳘[[!!]] कुर्य्यादि᳘ति स᳘ ह स्माह पाणि᳘ना मा᳘ प्प्रातृद क᳘स्त्वेनयोरेकधाभू᳘यम्भूत्वा᳘ परम᳘ताङ्गच्छती᳘ति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘द्ध स्माह प्प्रातृदः᳘ पित᳘रम्॥
(ङ्कि᳘) कि᳘ᳫँ᳘ स्विदे᳘वैव᳘म्विदु᳘षे साधु[[!!]] * 2 कुर्य्यात्कि᳘मे᳘वास्मा ऽअसाधु᳘[[!!]] कुर्य्यादि᳘ति स᳘ ह स्माह पाणि᳘ना मा᳘ प्प्रातृद क᳘स्त्वेनयोरेकधाभू᳘यम्भूत्वा᳘ परम᳘ताङ्गच्छती᳘ति॥
मूलम् - Weber
त᳘द्ध स्माह प्रातृदः᳘ पित᳘रम्॥
कि᳘ᳫं᳘ स्विदेॗवैवं᳘ विदु᳘षे साधु᳘ कुर्यात्कि᳘मेॗवास्मा असाधु᳘ कुर्यादि᳘ति स᳘ ह स्माह पाणि᳘ना मा᳘ प्रातृद कॗस्त्वेनयोरेकधाभू᳘यम् भूत्वा᳘ परम᳘तां गछती᳘ति 3 ॥
मूलम् - विस्वरम्
तद्ध स्माह प्रातृदः पितरम् । किं स्विदेव एवं विदुषे साधु कुर्यात् । किमेवास्मा असाधु कुर्यादिति । स ह स्माह पाणिना । मा प्रातृद । कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
अन्न-प्राणयोरेकत्वेन ब्रह्म-दृष्टिः कार्या इत्येतमर्थं इतिहासोक्त्या द्रढयति- तद्ध स्माह प्रातृदः पितरं किं स्विदेवैवं विदुषे साधु कुर्यात्किमेवास्मा ऽअसाधु कुर्यादितीति । तदेतदन्न-प्राणैकत्व-ब्रह्म-दर्शनं विद्वान् ‘ह’ किल प्रातृद-नामा ऋषीश्वरो हृष्टः सन् स्वं ‘पितरं’ प्रति ‘आह स्म’ । किंस्विदिति वितर्के । यथा मया ब्रह्म परिकल्पितम् । ‘एवं’ ब्रह्म ‘विदुषे’ ‘साधु’ शोभनं पूजां ‘किंस्वित्’ कुर्यात् । न किञ्चिदस्य कर्तव्यमिष्यते । अनेन सर्वस्यापि प्राप्तव्यस्य प्राप्तत्वात् । तथा ‘अस्मै’ विदुषे ‘असाधु’ अशोभनं वा ‘किमेव’ कुर्यात् । न किञ्चिदपि कुर्यात् । लोक इति शेषः । अस्य निरस्ताशेषासाधुत्वात् । इति-शब्दः प्रातृद-वचन-समाप्ति-द्योतक इत्य् अर्थः । एवमन्न-प्राणयोरेकत्व-विज्ञानवतो न साधु-करणेन महत्त्वं नाप्य् असाधु-करणेन खण्डितत्वं, किं तु- तस्य कृत-कृत्यत्वमेवेति पुत्रेणोक्ते सति नैतावन्-मात्र-विज्ञानात् कृत-कृत्यता पुरुषस्य, किन्तु- अस्ति ज्ञातव्य-अन्तरमित्य् अभिप्रेत्य पिता पुत्रं वारयतीत्य् आह- स ह स्माह पाणिना मा प्रातृद कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति । ‘सः’ पिता ‘ह’ किल हे ‘प्रातृद!’ इति पुत्रं सम्बोध्य ‘पाणिना’ हस्तेन वारयन् ‘मा’ मैवं वोचः इति ‘आह स्म’ प्रत्यषेधयदित्य् अर्थः । एतयोरन्न-प्राणयोरेकधाभूयं ‘भूत्वा’ ‘कस्तु’ को वा विद्वान् ‘परमतां गच्छति’ न कश्चिदपि । तस्मान्नैवं वक्तुमर्हसि । अकृत-कृत्यो ऽसावितीत्य् अर्थः ॥ २ ॥
०३
विश्वास-प्रस्तुतिः
त᳘स्मा ऽउ हैत᳘दुवाच॥
व्वीत्य᳘न्नम्वै व्य᳘न्ने᳘ हीमा᳘नि स᳘र्व्वाणि भूता᳘नि व्विष्टा᳘नि रमि᳘ति प्प्राणो वै रं᳘ प्प्राणे᳘ हीमा᳘नि स᳘र्व्वाणि भूता᳘नि रता᳘नि स᳘र्व्वाणि ह वा᳘ ऽअस्मिन्भूता᳘नि व्विश᳘न्ते स᳘र्व्वाणि भूता᳘नि र᳘मन्ते य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
त᳘स्मा ऽउ हैत᳘दुवाच॥
व्वीत्य᳘न्नम्वै व्य᳘न्ने᳘ हीमा᳘नि स᳘र्व्वाणि भूता᳘नि व्विष्टा᳘नि रमि᳘ति प्प्राणो वै रं᳘ प्प्राणे᳘ हीमा᳘नि स᳘र्व्वाणि भूता᳘नि रता᳘नि स᳘र्व्वाणि ह वा᳘ ऽअस्मिन्भूता᳘नि व्विश᳘न्ते स᳘र्व्वाणि भूता᳘नि र᳘मन्ते य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
त᳘स्मा उ हैत᳘दुवाच॥
वीत्य᳘न्नं वै व्य᳘न्नेॗ 4 हीमा᳘नि स᳘र्वाणि भूता᳘नि विष्टा᳘नि रमि᳘ति प्राणो वै र᳘म् प्राणेॗ हीमा᳘नि स᳘र्वाणि भूता᳘नि रता᳘नि स᳘र्वाणि ह वा᳘ अस्मिन्भूता᳘नि विश᳘न्ते स᳘र्वाणि भूता᳘नि र᳘मन्ते य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
तस्मा उ हैतदुवाच । वीति । अन्नं वै वि । अन्ने हीमानि सर्वाणि भूतानि विष्टानि । रमिति । प्राणो वै रम् । प्राणे हीमानि सर्वाणि भूतानि रतानि । सर्वाणि ह वा अस्मिन् भूतानि विशन्ते । सर्वाणि भूतानि रमन्ते । य एवं वेद ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
कथं तर्हि ज्ञानात् कृतकृत्यः स्यात् इत्य् अपेक्षायामन्न-प्राणयोः सशक्तिकयोः एकत्व-विज्ञानात् तथा स्यात् । न न केवलयोरेकत्व-विज्ञानात् इत्य् आशयवान् पिता तयोः शक्ति-भूतं गुणद्वयं क्रमेणोपदिष्टवानिति कथयति- तस्मा उ हैतदुवाच वीत्यन्नं वै वीत्यादिना- सर्वाणि भूतानि रतानीत्य् अन्तेन । ‘तस्मै’ प्रातृदाय ‘उ ह’ किल पिता ‘वि’ ‘र’ इत्य् एतदन्न-प्राणयोः क्रमेण गुणद्वयमुवाचोपदिष्टवान् इति योजना । किं तत् वीत्य् अपेक्षायामाह- अन्नं वै वीति । कुतो ऽन्नं वि ‘हि’ यस्मात् ‘इमानि’ प्रसिद्धानि ‘सर्वाणि भूतानि’ ‘अन्ने विष्टानि’ अन्नमाश्रित्य स्थितानि । अतो ऽन्नं वीत्य् उच्यत इति यावत् । किं तत् रमित्य् अत आह- प्राणो वै रमिति । कुतश्च प्राणो रम्? ‘वै’ प्रसिद्धम् । ‘हि’ यस्मात् बलात्मके ‘प्राणे’ ‘सर्वाणि भूतानि रतानि’ सक्तानि यथेष्टं विहृतानि वर्तन्ते इति शेषः । तस्मात् प्राणो रमित्य् उच्यत इत्य् अर्थः । तथा च सर्व-भूताश्रयत्वलक्षणविशब्दवाच्यगुणकमन्नं सर्व-भूतरति-लक्षण-रंशब्द-वाच्य-गुणकश्च प्राणः । तथाविधयोरेव तयोरेकत्वमापन्नयोः परमत्वमिति तथाविधमेव ब्रह्मोपासितव्यमिति समुदायार्थः । इदानीमेवंविदः फलमाह- सर्वाणि ह वा अस्मिन् भूतानि विशन्ते इत्यादि- य एवं वेदेत्यन्तम् । स्पष्टार्थम् ॥ ३ ॥
इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-व्याख्यायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे पञ्चमे ऽध्याये त्रयोदशमन्न-प्राणयोरैक्योपासना-विधायकं ब्राह्मणं परिसमाप्तम् ॥ १४ । (८) ५ । १३ ॥