०१
विश्वास-प्रस्तुतिः
यदा वै पु᳘रुषः॥
(षो ऽस्मा᳘) अस्मा᳘ल्लोकात्प्रै᳘ति स᳘ व्वायुमा᳘गच्छति त᳘स्मै स त᳘त्र व्वि᳘जिहीते य᳘था रथचक्र᳘स्य खन्ते᳘न स᳘ ऽऊर्ध्व ऽआ᳘क्रमते स᳘ ऽआदित्यमा᳘गच्छति त᳘स्मै स त᳘त्र व्वि᳘जिहीते य᳘था ड᳘म्बरस्य खन्ते᳘न स᳘ ऽऊर्ध्व ऽआ᳘क्रमते स᳘ चन्द्रमसमा᳘गच्छति[[!!]] त᳘स्मै स त᳘त्र व्वि᳘जिहीते य᳘था दु᳘न्दुभेः खन्ते᳘न स᳘ ऽऊर्ध्व ऽआ᳘क्रमते स᳘ लोकमा᳘गच्छत्य᳘शोकम᳘हिमन्त᳘स्मिन्वसति शा᳘श्वतीः स᳘माः॥
मूलम् - श्रीधरादि
यदा वै पु᳘रुषः॥
(षो ऽस्मा᳘) अस्मा᳘ल्लोकात्प्रै᳘ति स᳘ व्वायुमा᳘गच्छति त᳘स्मै स त᳘त्र व्वि᳘जिहीते य᳘था रथचक्र᳘स्य खन्ते᳘न स᳘ ऽऊर्ध्व ऽआ᳘क्रमते स᳘ ऽआदित्यमा᳘गच्छति त᳘स्मै स त᳘त्र व्वि᳘जिहीते य᳘था ड᳘म्बरस्य खन्ते᳘न स᳘ ऽऊर्ध्व ऽआ᳘क्रमते स᳘ चन्द्रमसमा᳘गच्छति[[!!]] त᳘स्मै स त᳘त्र व्वि᳘जिहीते य᳘था दु᳘न्दुभेः खन्ते᳘न स᳘ ऽऊर्ध्व ऽआ᳘क्रमते स᳘ लोकमा᳘गच्छत्य᳘शोकम᳘हिमन्त᳘स्मिन्वसति शा᳘श्वतीः स᳘माः॥
मूलम् - Weber
यदा वै पु᳘रुषो॥
अस्मा᳘ल्लोकात्प्रै᳘ति स᳘ वायुमा᳘गछति त᳘स्मै स त᳘त्र वि᳘जिहीते य᳘था रथचक्र᳘स्य खं ते᳘न स᳘ ऊर्ध्व आ᳘क्रमते स᳘ आदित्यमा᳘गछति त᳘स्मै स त᳘त्र वि᳘जिहीते य᳘थाड᳘म्बरस्य खं ते᳘न स᳘ ऊर्ध्व आ᳘क्रमते स᳘ चन्द्र᳘मसमा᳘गछति त᳘स्मै स त᳘त्र वि᳘जिहीते य᳘था दु᳘न्दुभेः खं ते᳘न स᳘ ऊर्ध्व आ᳘क्रमते स᳘ लोकमा᳘गछत्य᳘शोकम᳘हिमं त᳘स्मिन्वसति श᳘श्वतीः स᳘माः 1 ॥
मूलम् - विस्वरम्
सर्वासामुपासनानं गतेः फलस्य च विधायकं ब्राह्मणम् ।
यदा वै पुरुषः अस्माल्लोकात्प्रैति । स वायुमागच्छति । तस्मै स तत्र विजिहीते । यथा रथचक्रस्य खम् । तेन स ऊर्ध्व आक्रमते । स आदित्यमागच्छति । तस्मै स तत्र विजिहीते । यथा डम्बरस्य खम् । तेन स ऊर्ध्व आक्रमते । स चन्द्रमसमागच्छति । तस्मै स तत्र विजिहीते । यथा दुम्दुभेः खम् । तेन स ऊर्ध्व आक्रमते । स लोकमागच्छति अशोकमहिमम् । तस्मिन् वसति शाश्वतीः समाः ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीमस्मिन् प्रकरणे उक्तानां सर्वोपासनानां गतिम् अनुक्तं फलं च दर्शयितुमिदं ब्राह्मणमारभ्यत- यदा वै पुरुषो ऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते इति । ‘यदा’ यस्मिन् काले आयुषः क्षयात् ‘पुरुषः’ विद्वान् ‘अस्माल्लोकात्प्रैति’ शरीरं परित्यजति । ‘सः’ उपासकस्तदा ‘वायुमागच्छति’ । ‘सः’ च वायुः स्तिमित-रूपस्तिर्यग्-भूतः अभेद्यो ऽन्तरिक्षे तिष्ठन् ‘तस्मै’ सम्प्राप्ताय विदुषे तदर्थं ‘तत्र’ स्वात्मनि ‘विजिहीते’ स्वात्म-अवयवान् विगमयति छिद्रीकरोत्यात्मानमित्य् अर्थः । कियत्-परिमाणं तच्छिद्रं क्रियते, इत्य् अपेक्षायामाह- यथा रथचक्रस्य खं तेन स ऊर्ध्व ऽआक्रमत इति । ‘यथा’ यावत्-परिमाणं ‘रथचक्रस्य’ ‘खं’ छिद्रं तावत्-परिमाणेन छिद्रेण ‘सः’ विद्वान् ‘ऊर्ध्वः’ ऊर्ध्वं ‘आक्रमते’ उपरि गच्छतीत्य् अर्थः । स ऊर्ध्वं गच्छन् क्व गच्छतीत्य् अपेक्षायामाह- स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथा डम्बरस्य खं तेनेत्यादिना यथा दुम्दुभेः खं तेन स ऽऊर्ध्व ऽआक्रमते इत्यन्तेन । ‘डम्बरः’ वादित्रविशेषः । शेषः स्पष्टार्थः । एवमुपर्युपरि गच्छतः कुत्र विश्राम इत्यपेक्षायां विराडात्मनीत्य् आह- **स लोकमागच्छत्यशोकमहिमं तस्मिन् वसति शाश्वतीः समा इति । ‘सः’ उपासकः ‘लोकं’ प्रजापतिमागच्छति । किंविशिष्टम्? ‘अशोकं’ मानसेन दुःखेन विवर्जितं ‘अहिमं’ हिम-वर्जितं शारीर-दुःख-वर्जितम् । यद्वा आभ्यां पदाभ्यां क्रमेण दुःख-तत्-साधन-राहित्यमुच्यते । तं लोकं आगत्य ‘तस्मिन्’ शाश्वतीर्नित्याः ‘समाः’ सम्वत्सरान् बहूनवान्तर-कल्पान् ‘वसति’ वासं करोति । एतदनुक्त-फलोपासन-फलमुक्तमित्य् अर्थः ॥ १ ॥
इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-व्याख्यायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे पञ्चमे ऽध्याये द्वादशं सर्वासामुपासनानां फलस्य गतेश्च विधायकं ब्राह्मणं परिसमाप्तम् ॥ १४ । (८) ५ । १२ ॥
-
दु᳘न्दुभि acc.! - ibid. श᳘श्वतीः᳘ समाः AM. ↩︎