११

०१

विश्वास-प्रस्तुतिः

एतद्वै᳘ परमन्त᳘पः॥
(पो) य᳘द्व्याहित᳘स्तप्य᳘ते परम᳘ᳫँ᳘ हैव᳘ लोक᳘ञ्जयति य᳘ ऽएवम्वे᳘दैतद्वै᳘ परमन्त᳘पो य᳘म्प्रेतम᳘रण्यᳫँ᳭ ह᳘रन्ति परम᳘ᳫँ᳭ हैव᳘ लोक᳘ञ्जयति य᳘ ऽएवम्वे᳘दैतद्वै᳘ परमन्त᳘पो य᳘म्प्रेत᳘मग्ना᳘वभ्याद᳘धति परम᳘ᳫँ᳘ हैव᳘ लोक᳘ञ्जयति य᳘ ऽएवम्वे᳘द॥

मूलम् - श्रीधरादि

एतद्वै᳘ परमन्त᳘पः॥
(पो) य᳘द्व्याहित᳘स्तप्य᳘ते परम᳘ᳫँ᳘ हैव᳘ लोक᳘ञ्जयति य᳘ ऽएवम्वे᳘दैतद्वै᳘ परमन्त᳘पो य᳘म्प्रेतम᳘रण्यᳫँ᳭ ह᳘रन्ति परम᳘ᳫँ᳭ हैव᳘ लोक᳘ञ्जयति य᳘ ऽएवम्वे᳘दैतद्वै᳘ परमन्त᳘पो य᳘म्प्रेत᳘मग्ना᳘वभ्याद᳘धति परम᳘ᳫँ᳘ हैव᳘ लोक᳘ञ्जयति य᳘ ऽएवम्वे᳘द॥

मूलम् - Weber

एतद्वै᳘ परमं त᳘पो॥
य᳘द्व्याहित᳘स्तप्य᳘ते परम᳘ᳫं᳘ हैव᳘ लोकं᳘ जयति य᳘ एवं वे᳘दैतद्वै᳘ परमं त᳘पो य᳘म् प्रेतम᳘रण्यᳫं ह᳘रन्ति परम᳘ᳫं᳘ हैव᳘ लोकं᳘ जयति य᳘ एवं वे᳘दैतद्वै᳘ परमं त᳘पो य᳘म् प्रेत᳘मग्ना᳘वभ्याद᳘धति 1 परम᳘ᳫं᳘ हैव᳘ लोकं᳘ जयति य᳘ एवं वे᳘द॥

मूलम् - विस्वरम्

ज्वरादिव्याध्यादेस्तपस्त्वोपासनाब्राह्मणम् ।

एतद्वै परमं तपः । यद्व्याहितस्तप्यते । परमं हैव लोकं जयति । य एवं वेद । एतद्वै परमं तपः । यं प्रेतमरण्यं हरन्ति । परमं हैव लोकं जयति । य एवं वेद । एतद्वै परमं तपः । यं प्रेतमग्नावभ्यादधति । परमं हैव लोकं जयति । य एवं वेद ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

एवं ब्रह्मोपासनानि कानिचित्सफलान्युक्तानि । इदानीमब्रह्मोपासनानि कानिचित् फलवन्ति दर्शयति- एतद्वै परमं तपो यद्व्याहितस्तप्यत इति । ‘व्याहितः’ व्याधि-युक्तो ज्वरादि-परिगृहीतः सन् ‘यत्तप्यते’ ‘तदेतत्’ ‘वै’ निश्चितं ‘परमं तपः’ दुःख-सामान्यात् । व्याधिना अभिभूयमानः तमनिन्दन् अविषीदंश्च सन् तपस्तप्यते मयेति बुद्धिं कुर्यादित्य् अर्थः । एवं चिन्तयतः किं फलं भवतीत्य् अपेक्षायामाह- परमं हैव लोकं जयति य एवं वेदेति । ‘य एवं’ ज्वरादि-पीडनं तप इति ‘वेद’ सः ‘परमं’ तपसो ऽनुकूलं ‘लोकं जयति’ प्राप्नोतीत्य् अर्थः । तथोपासनान्तरमाह- एतद्वै परमं तपो यं प्रेतमरण्यं हरन्तीति । ‘यं प्रेतं’ मां ऋत्विजो ज्ञातयो वा ‘अरण्यं’ प्रति अभि ‘हरन्ति’ । ‘एतद्वै परमं तपः’ इति मुमूर्षावस्थायां चिन्तयेत् । वानप्रस्थवत् ग्रामादरण्य-गमन-सामान्यात् । स तपो ऽनुरूपं लोकं जयतीत्य् अर्थः । तथा पुनरुपासनान्तरमाह- एतद्वै परमं तपो यं प्रेतमग्नावभ्यादधतीति । ‘यं प्रेतं’ मां ज्ञातयो ऽग्नावभ्यादधति प्रक्षिपन्ति । ‘एतद्वै परमं तपः’ इति मरणात्प्रागेव चिन्तयेत् । अग्नि-प्रवेश-सामान्यात् । सः अग्नि-प्रवेशानुरूपं लोकं जयतीत्य् अर्थः । अत्र परम-लोक-शब्देन तत्तदुपासन-योग्य-फल-भेदस्य विवक्षितत्वात् नोपासनैक्य-शङ्केति भावः ॥ १ ॥

इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-व्याख्यायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे पञ्चमे ऽध्याये एकादशं ज्वरादि-व्याध्यादेस्तपो-रूपोपासना-ब्राह्मणं परिसमाप्तम् ॥ १४ (८) ५ । ११ ॥


  1. प्रेत᳘ acc.! ↩︎