०१
विश्वास-प्रस्तुतिः
अय᳘मग्ग्नि᳘र्व्वैश्वा᳘नरः᳘॥
(रो᳘) यो ऽय᳘मन्तः पु᳘रुषे ये᳘नेदम᳘न्नम्पच्य᳘ते य᳘दिद᳘मद्य᳘ते त᳘स्यैष घो᳘षो भवति य᳘मेतत्क᳘र्ण्णावपिधा᳘य शृणो᳘ति स᳘ य᳘दोत्क्रमिष्यन्भ᳘वति᳘ नैतङ्घो᳘षᳫँ᳭ शृणोति॥
मूलम् - श्रीधरादि
अय᳘मग्ग्नि᳘र्व्वैश्वा᳘नरः᳘॥
(रो᳘) यो ऽय᳘मन्तः पु᳘रुषे ये᳘नेदम᳘न्नम्पच्य᳘ते य᳘दिद᳘मद्य᳘ते त᳘स्यैष घो᳘षो भवति य᳘मेतत्क᳘र्ण्णावपिधा᳘य शृणो᳘ति स᳘ य᳘दोत्क्रमिष्यन्भ᳘वति᳘ नैतङ्घो᳘षᳫँ᳭ शृणोति॥
मूलम् - Weber
अय᳘मग्नि᳘र्वैश्वा᳘नरो᳟᳟॥
योऽय᳘मन्तः पु᳘रुषे ये᳘नेदम᳘न्नम् पच्य᳘ते य᳘दिद᳘मद्य᳘ते 1 त᳘स्यैष घो᳘षो भवति य᳘मेतत्क᳘र्णावपिधा᳘य शृणो᳘ति स᳘ यॗदोत्क्रमिष्यन्भ᳘वतिॗ नैतं घो᳘षं शृणोति॥
मूलम् - विस्वरम्
जठरस्थवैश्वानरोपासनाब्राह्मणम् ।
अयमग्निर्वैश्वानरः । यो ऽयमन्तः पुरुषे । येनेदमन्नं पच्यते । यदिदमद्यते । तस्यैष घोषो भवति । यमेतत्कर्णावपिधाय शृणोति । स यदोत्क्रमिष्यन् भवति । नैतं घोषं शृणोति ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
प्रकृतस्यैव ब्रह्मणः कौक्षेयाग्नित्वमापन्नस्यापरो ऽक्षत्वं दर्शयितुं पुनरुपासनान्तरमाह- अयमग्निर्वैश्वानर इति । को ऽसावग्निरित्य् अत आह- यो ऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यत इति । ‘यत्’ यस्मात् ‘येनेदमद्यते ऽन्नं’ तद्येन ‘पच्यते’ स विराडात्मा प्रजापतिर्जाठरो ऽग्निरित्य् अर्थः । तत्सद्भावे किं मानमित्य् अपेक्षायामाह- तस्यैष घोषो भवतीति । तस्याग्नेरन्नं पचमानस्यैषः ‘घोषः’ शब्दो भवतीत्य् अर्थः । को ऽसौ घोष इत्य् अपेक्षायां प्रत्यक्ष एवेत्य् आह- यमेतत्कर्णावपिधाय शृणोतीति । एतदिति क्रिया-विशेषणम् । अङ्गुलिभ्यां ‘कर्णावपिधाय’ अपिधानं कृत्वा यं घोषं एतच्छ्रवणं यथा स्यात् तथा ‘शृणोति’ । स घोषो यथोक्त-वैश्वानर-सद्भावे प्रमाणमित्य् अर्थः । एवं वैश्वानरमग्निं प्रजापति-रूपमुपासितुः फलं तु तद्भावापत्तिरेवेति द्रष्टव्यम् । प्रासङ्गिकमरिष्ट-दर्शनमाह- स यदोत्क्रमिष्यन् भवति नैतं घोषं शृणोतीति । सो ऽत्र शरीरे भोक्ता ‘यदोत्क्रमिष्यन्’ इत्यादि स्पष्टार्थम् ॥ १ ॥
इति श्री-हृषीकेश-ब्रह्म-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-व्याख्यायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे पञ्चमे ऽध्याये दशमं वैश्वानरोपासना-ब्राह्मणं परिसमाप्तम् ॥ १४ । (८) ५ । १० ॥
-
य᳘देद᳘मद्य᳘ते A. ↩︎