०१

विश्वास-प्रस्तुतिः

ॐ३ पूर्ण्ण᳘मदः᳘ पूर्ण्ण᳘मिद᳘म्पूर्ण्णा᳘त्पूर्ण्णमु᳘दच्यते॥
पूर्ण्ण᳘स्य पूर्ण्ण᳘मादा᳘य पूर्ण्ण᳘मेवा᳘वशिष्यत ॐ खम्ब्र᳘ह्म ख᳘म्पुराणम्वायु᳘रं खमि᳘ति ह स्माह कौ᳘रव्यायणीपु᳘त्रो व्वे᳘दो ऽय᳘म्ब्राह्मणा᳘ व्विदुर्व्वे᳘दैनेन य᳘द्वेदित᳘व्यम्॥

मूलम् - श्रीधरादि

ॐ३ पूर्ण्ण᳘मदः᳘ पूर्ण्ण᳘मिद᳘म्पूर्ण्णा᳘त्पूर्ण्णमु᳘दच्यते॥
पूर्ण्ण᳘स्य पूर्ण्ण᳘मादा᳘य पूर्ण्ण᳘मेवा᳘वशिष्यत ॐ खम्ब्र᳘ह्म ख᳘म्पुराणम्वायु᳘रं खमि᳘ति ह स्माह कौ᳘रव्यायणीपु᳘त्रो व्वे᳘दो ऽय᳘म्ब्राह्मणा᳘ व्विदुर्व्वे᳘दैनेन य᳘द्वेदित᳘व्यम्॥

मूलम् - Weber

पूर्ण᳘मदः᳘ पूर्ण᳘मिद᳘म् पूर्णा᳘त्पूर्णमु᳘दच्यते॥
पूर्ण᳘स्य पूर्ण᳘मादा᳘य पूर्ण᳘मेवा᳘वशिष्यत ॐ 1 खम् ब्र᳘ह्म ख᳘म् पुराणं वायु᳘रं खमि᳘ति ह स्माह कौ᳘रव्यायणीपु᳘त्रो वे᳘दोऽय᳘म् ब्राह्मणा᳘ विदुर्वे᳘दैनेन य᳘द्वेदित᳘व्यम्॥

मूलम् - विस्वरम्

शान्तिब्राह्मणम् ।

अस्य काण्डस्य खिलम् इति नामधेयं, खिल-शब्दस्य परिशेष-वाचकत्वाद् अस्य काण्डस्य मधु-याज्ञवल्क्य-काण्डयोर् एकाकारेण शिष्य-प्रज्ञ्याऽभिधायकत्वाच् चेति मन्तव्यम् ॥

“ॐ ३ पूर्णमदः, पूर्णमिदं, पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय, पूर्णमेवावशिष्यते” ॥

“ॐ ३ खं ब्रह्म”- (वा. सं. ई. उ. ४० । १७) खं पुराणम् । वायुरं खमिति ह स्माह कौरव्यायणीपुत्रः । वेदो ऽयं ब्राह्मणा विदुः । वेदैनेन यद्वेदितव्यम् ॥ १ ॥

श्रीमद्वासुदेवब्रह्मभगवान्

तदेव यत् विज्ञानं केवलममृतत्व-साधनं स आत्मा निरुपाधिकः अशनायाद्यतीतो यदेव साक्षादपरो ऽक्षाद्ब्रह्म य आत्मा सर्वान्तरो नेति नेत्यादि-लक्षणः काण्डद्वयेन निर्द्धारितः । अधुना तस्यैवोपाधि-वैशिष्ट्यमापन्नस्य प्रमाण-प्रमेयादि-व्यवहार-विषयतामुपगतस्याभ्युदय-फलानि क्रम-मुक्ति-फलानि कर्म्म-समृद्ध्यर्थानि चेति त्रिविधोपासनानि पूर्वत्रा ऽनुक्तानि वक्तव्यानि- इत्य् एतदर्थं खिलकाण्डं प्रवर्तते । पूर्वत्राऽनुक्तं वक्तव्यत्वेन परिशिष्टं खिलमिति हि खिल-लक्षणम् । तत्र सर्वोपास्त्यङ्गभूतान् ॐकारो, दमो, दानं, दया, इति पदार्थान् विधित्सन्ती श्रुतिः पूर्वमात्म-याथात्म्य-विज्ञान-सिद्धये मिथ्याभूत-कार्य-कारण-सम्बन्धमाश्रित्य तात्पर्येण व्याख्यातस्य ब्रह्मणः शुद्धं स्वरूपं पूर्वोपात्त-कार्य-कारण-सम्बन्धस्य हेयत्वं द्योतयितुमनुवदति- पूर्णमद इति मन्त्रेण । ‘अदः’ इति परोक्षाभिधायि सर्वनाम । पूर्णमिति- “वा दान्त-शान्त-पूर्ण-दस्त-स्पष्टच्छन्नज्ञप्ताः”- (पा. सू. ७ । २ । २७) इति कर्तरि निष्ठान्तं निपातितम् । तथा च- ‘अदः’ परो ऽक्षं ब्रह्म पूर्णमाकाशवत् व्यापि निरन्तरं निरुपाधिकं चेत्य् अर्थः। अनेन लक्ष्यं तत्-पदार्थं दर्शयित्वा लक्ष्यं त्वं-पदार्थं दर्शयति- पूर्णमिदमिति । यदिदं नाम-रूपोपाधि-विशिष्ट-व्यवहारापन्नं तदपि केवलेन स्वेन निरुपाध्यात्मनां परमात्म-स्वरूपेण ‘पूर्णं’ व्यापि । न तु उपहितेन विशिष्टेन रूपेण पूर्णमित्य् अर्थः । एवं लक्ष्यौ तत्-त्वं-पदार्थावुक्त्वा तावेव वाच्यभूतौ कथयन् त्वं-पदार्थस्य पूर्णत्वे हेतुं दर्शयति- पूर्णात्पूर्णमुदच्यत इति । ‘पूर्णात्’ कारणात्मनो ऽविद्यासहायात् ‘पूर्णमेवोदच्यते’ उद्रिच्यते उद्गच्छतीत्यर्थः । सम्प्रत्यैक्य-ज्ञान-फलमाह- पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यत इति । पूर्णस्य कार्यात्मनो ब्रह्मणः ‘पूर्णं’ पूर्णत्वमादाय गृहीत्वा आत्म-स्वरूपैक-रसत्वमापाद्य अविद्याकृतं भूत-मात्रोपाधिसंसर्गजं जन्यत्वावभासं विद्यया तिरस्कृत्य ‘पूर्णमेव’ अनन्तरमबाह्यं प्रज्ञान-घनैकरस-स्वभावं केवलं ब्रह्मावशिष्यत इत्य् अर्थः । “ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्सर्वमभवत्”- (श. प. बृ. उ. १ । २ । २१) इत्य् उपक्रमस्थ-श्रुत्य् अर्थ एवानेन मन्त्रेणोपसंहृतः । तत्र “पूर्णमदः पूर्णमिदम्” इत्य् अनेन ब्रह्म वा इति पदस्यार्थम् उक्तः । “पूर्णात्पूर्णम्”- इत्यादि-मन्त्र-शेषेण “इदमग्र आसीत्” इत्यादेरर्थ उक्तः । अतः एकवाक्यत्वेनोपक्रमोपसंहारयोरैकरूप्य-श्रुति-तात्पर्य-लिङ्गात् शास्त्र-प्रतिपाद्यं ब्रह्मात्मैक्यमेवेति तात्पर्यार्थः । अधुना ध्यान-विधानार्थं तस्मिन् विनियुक्तं मन्त्रं तावदाह- ॐ ३ खम्ब्रह्मेति । इह ध्यान-साधनत्वेनैव ॐ कारस्योपदेशः । अत्र ब्रह्म-पदं ॐकारालम्बनस्य विशेष्यस्याभिधानम् । तस्य ब्रह्म-शब्दस्य बृहद्वस्तुसामान्यवाचिनः सर्वत्र प्रसक्तौ खमिति विशेषणम् । नीलमुत्पलमितिवत् खब्रह्मणोः सामानाधिकरण्यात् तयोरेकत्व-सिद्धिः । तथा च- यथा विष्ण्वङ्गाङ्कितायां शिलादि-प्रतिमायां विष्णु-बुद्धिः क्रियते, तथा ॐकारे खं ब्रह्मेत्य् उपासनं कर्तव्यमिति वाक्यार्थः । अस्मिन्मन्त्रे खशब्दात् भौतिकखप्रतीतिर्मा ऽभूदित्यभिप्रायेण मन्त्र-विनियोजकं ब्राह्मणं प्रवर्तते- खम्पुराणमित्यादि । ‘पुराणं’ चिरन्तनं ‘खं’ परमात्मा ऽऽकाशमिति यावत् । तथा च- खमिति विशेषणेन बृहदर्थ-सामान्य-वाचिनो ब्रह्म-शब्दस्य अनादि-कारण-चैतन्य-विषयत्वं निश्चितमित्य् अर्थः । ननु- अस्य कारण-ब्रह्मणः अतीन्द्रियत्वात् कथमोङ्कारे तदुपास्यमित्य् अतः कल्पान्तरमाह- वायुरं खमिति ह स्माह कौरव्यायणीपुत्र इति । वायुर्विद्यते यस्मिन् तत् ‘वायुरं’ ‘खं’ भौतिकाकाशं तदवच्छिन्नं ब्रह्म ॐकारालम्बनं, भौतिकाकाशे ख-शब्द-प्रयोगस्य बहुलमुपलम्भात् ‘इति’ ‘कौरव्यायणीपुत्रः’ ‘ह’ किल आह- स्मोक्तवान् । एवं सति कारण-ब्रह्माकाश-ब्रह्म-पदयोरुभयोरपि श्रौतत्वाविशेषात् ॐकारे दृष्टिद्वयमैच्छिकमिति भावः। एवमोङ्कार-प्रतीकं कार्य-कारणोभय-विधं ब्रह्म ध्येयमित्य् उक्तम् ।

इदानीं प्रणवस्य यथोक्त-ब्रह्म-वाचकत्वं साधयति- वेदो ऽयं ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यमिति । यस्मात् ‘यत् वेदितव्यं’ प्रकाश्यमानमभिधीयमानं ब्रह्म तत् एनेनोङ्कारेण ‘वेद’ साधकः पुमान् विजानाति उपलभते । तस्माद्वेदो ऽयमोङ्कार इति ब्राह्मणा विदुरित्य् अन्वयः । यद्यपि ॐ ब्रह्मात्म-शब्दा ब्रह्मणो वाचकाः सन्ति, तथा ऽपि श्रुति-प्रामाण्यात् ओंकारो 2 ब्रह्मणो नेदिष्ठमभिधानमतिप्रियतमं नामेत्यवगम्यते । इतरस्यापि वेदत्वं तु वेदितव्य-वेदन-हेतुत्वादेव । तस्मात् विशिष्टो ऽयमोङ्कारो ब्रह्मोपास्ति-साधनत्वेन प्रतिपत्तव्य इत्य् अर्थः ॥ १ ॥

इति श्री-हृषीकेश-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-व्याख्यायां वासुदेव-प्रकाशिकायां तृतीये खिलकाण्डे पञ्चमे ऽध्याये प्रथमं शान्ति-ब्राह्मणं परिसमाप्तम् ॥ १४ । (८) ५-१ ॥


  1. मिदं पू᳘र्णात्पूर्णमुद᳘च्यते पू᳘र्णस्य पूर्णमादा᳘य पू᳘र्णमेवावशि᳘ष्यत AM. - ibid. ओं ओम् । M. - ibid. पुराणं वा᳘युरं AM., which reading is to be restituted in the text. ↩︎

  2. अत एव च श्रीमद्-भगवद्-गीतायां- “ॐ तत् सदिति निर्देशो ब्रह्मणस्त्रिविधः पुरा” इति भगवदुक्तिः, तथा योगसूत्रे “तस्य वाचकः प्रणवः” इति पतञ्जल्युक्तिः संराजते । ↩︎