०१
विश्वास-प्रस्तुतिः
अ᳘थ ह या᳘ज्ञवल्क्यस्य द्वे भा᳘र्य्ये बभूवतुः॥
(र्म्मै᳘) मै᳘त्रेयी च कात्यायनी᳘ च तयोर्ह[[!!]] मै᳘त्रेयी ब्ब्रह्मवादि᳘नी बभूव स्त्रीप्र᳘ज्ञेव * कात्यायनी᳘ सो ऽन्य᳘द्वृत्त᳘मुपाकरिष्य᳘माणः॥
मूलम् - श्रीधरादि
अ᳘थ ह या᳘ज्ञवल्क्यस्य द्वे भा᳘र्य्ये बभूवतुः॥
(र्म्मै᳘) मै᳘त्रेयी च कात्यायनी᳘ च तयोर्ह[[!!]] मै᳘त्रेयी ब्ब्रह्मवादि᳘नी बभूव स्त्रीप्र᳘ज्ञेव * 1 कात्यायनी᳘ सो ऽन्य᳘द्वृत्त᳘मुपाकरिष्य᳘माणः॥
मूलम् - Weber
अ᳘थ ह या᳘ज्ञवल्क्यस्य द्वे भा᳘र्ये 2 बभूवतुः॥
मै᳘त्रेयी च कात्यायनी᳘ च त᳘योर्ह मै᳘त्रेयी ब्रह्मवादि᳘नी बभूव स्त्रीप्रॗज्ञेव कात्यायनीॗ सोऽन्य᳘द्वृत्त᳘मुपाकरिष्य᳘माणः॥
मूलम् - विस्वरम्
याज्ञवल्क्य-मैत्रेयी-संवाद-ब्राह्मणम् ।
अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः । मैत्रेयी च, कात्यायनी च । तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव । स्त्रीप्रज्ञेव कात्यायनी । सो ऽन्यत् वृत्तमुपाकरिष्यमाणः ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
पूर्वमागम-प्रधानेन मधुकाण्डेन ब्रह्मात्म-तत्त्वं निर्द्धारितम् । पुनस्तस्यैव तत्त्वस्यास्तित्वमुपपत्तिप्रधानेन याज्ञवल्कीयेन काण्डेन पक्ष-प्रतिपक्ष-परिग्रहं कृत्वा जयपराजयप्रधानजल्पन्यायतो विचारितम् । तदेव चास्मिन्नध्याये शिष्याचार्य-सम्बन्धेन तत्त्व-निर्णय-प्रधानेन वाद-न्यायेन सविस्तरं विचार्य उपसंहृतम् । अथेदानीमस्य निगम-स्थानीयं मैत्रेयी-ब्राह्मणमारभ्यते । यद्वा मधुकाण्डे मैत्रेयी-ब्राह्मणेन आगम-बलान्मुक्ति-साधन-भूता सन्न्यास-सहिता आत्म-विद्या उक्ता । सैवाधुना न्याय-प्रधाने मुनिकाण्डे ऽपि मुक्ति-हेतुत्वेन न्यायतो मन्तव्येत्येतदभिप्रायेणेदं ब्राह्मणं प्रवर्तते- अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुरित्यादि । तत्र वाक्याक्षराणां व्याख्यानं पूर्वंवदेवात्रापि प्रतिपत्तव्यम् । यानि तु अक्षराण्यत्राधिकानि तानि व्याख्यास्यामः । हेतु-प्रधानवाक्यानन्तरं आगम-प्रधानेन मैत्रेयी-ब्राह्मणेन प्रतिज्ञातो ऽर्थो निगम्यते, इत्य् एवं हेत्वन्तरोपदेशानन्तर्यार्थः अथ-शब्दः । हशब्दः पूर्ववृत्तावद्योतकः । ‘याज्ञवल्क्यस्य‘ मुनेः ‘ह’ किल ‘मैत्रेयी कात्यायनी चेति द्वे भार्ये बभूवतुः’ । तयोः पत्न्योर्मध्ये ‘ह’ किल ‘मैत्रेयी’ ’ब्रह्म-वादिनी’ ब्रह्म-वदन-शीला ‘बभूव’ । ‘कात्यायनी तु’ ‘स्त्री-प्रज्ञेव’ स्त्रिया उचिता या प्रज्ञा गृह-प्रयोजनान्वेषण-लक्षणा । सैव विद्यते यस्यां सा स्त्री-प्रज्ञेव । बभूवेत्य्-अनुषङ्गः । एवं सति ‘सः’ याज्ञवल्क्यः पूर्वस्मात् गार्हस्थ्य-लक्षणात् वृत्तात् ’अन्यत्’ पारिव्राज्य-लक्षणं ‘वृत्तं’ वर्तनमुपाकरिष्यमाण उपाचिकीर्षुः सन् ‘मैत्रेयीति’ ज्येष्ठां भार्यामामन्त्र्य ‘ह’ किल ताम् उवाच इत्युत्तरवाक्येन सम्बन्धः ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
(णो) या᳘ज्ञवल्क्यो मै᳘त्रेयी᳘ति होवाच॥
प्प्रव्व्रजिष्यन्वा᳘ ऽअरे ऽह᳘मस्मात्स्था᳘नादस्मि ह᳘न्त ते ऽन᳘या कात्यायन्या᳘ ऽन्तङ्कर᳘वाणी᳘ति॥
मूलम् - श्रीधरादि
(णो) या᳘ज्ञवल्क्यो मै᳘त्रेयी᳘ति होवाच॥
प्प्रव्व्रजिष्यन्वा᳘ ऽअरे ऽह᳘मस्मात्स्था᳘नादस्मि ह᳘न्त ते ऽन᳘या कात्यायन्या᳘ ऽन्तङ्कर᳘वाणी᳘ति॥
मूलम् - Weber
या᳘ज्ञवल्क्यो मै᳘त्रेयी᳘ति होवाच॥
प्रव्रजिष्यन्वा᳘ 3 अरेऽह᳘मस्मात्स्था᳘नादस्मि ह᳘न्त तेऽन᳘या कात्यायन्या᳘न्तं कर᳘वाणी᳘ति॥
मूलम् - विस्वरम्
याज्ञवल्क्यो मैत्रेयीति होवाच । प्रव्रजिष्यन्वा अरे अहमस्मात्स्थानादस्मि । हन्त ! ते अनया कात्यायन्या अन्तं करवाणीति ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘प्रव्रजिष्यन्’ प्रकर्षेण व्रजिष्यन् सन्न्यसिष्यन्नित्यर्थः ॥ २ ॥
०३
विश्वास-प्रस्तुतिः
सा᳘ होवाच मै᳘त्रेयी॥
यन्नु᳘ म ऽइय᳘म्भगोः स᳘र्व्वा प्पृथिवी᳘ व्वित्ते᳘न पूर्ण्णा स्यात्स्या᳘न्न्वहन्ते᳘नामृता᳘ ऽऽहो३ने᳘ति ने᳘ति होवाच या᳘ज्ञवल्क्यो य᳘थै᳘वोपकरण᳘वताञ्जीवितन्त᳘थैव᳘ ते जीवित᳘ᳫँ᳘ स्यादमृतत्व᳘स्य तु᳘ ना᳘शा ऽस्ति व्वित्तेने᳘ति॥
मूलम् - श्रीधरादि
सा᳘ होवाच मै᳘त्रेयी॥
यन्नु᳘ म ऽइय᳘म्भगोः स᳘र्व्वा प्पृथिवी᳘ व्वित्ते᳘न पूर्ण्णा स्यात्स्या᳘न्न्वहन्ते᳘नामृता᳘ ऽऽहो३ने᳘ति ने᳘ति होवाच या᳘ज्ञवल्क्यो य᳘थै᳘वोपकरण᳘वताञ्जीवितन्त᳘थैव᳘ ते जीवित᳘ᳫँ᳘ स्यादमृतत्व᳘स्य तु᳘ ना᳘शा ऽस्ति व्वित्तेने᳘ति॥
मूलम् - Weber
सा᳘ होवाच मै᳘त्रेयी॥
यन्नु᳘ म इय᳘म् भगोः स᳘र्वा पृथिवी᳘ वित्ते᳘न पूर्णा स्यात्स्यां न्व᳘हं ते᳘नामृता᳘हो३ ने᳘ति ने᳘ति होवाच या᳘ज्ञवल्क्यो य᳘थैॗवोपकरण᳘वतां जीवितं त᳘थैव᳘ ते जीवित᳘ᳫं᳘ स्यादमृतत्व᳘स्य तुॗ नाॗशास्ति वित्तेने᳘ति॥
मूलम् - विस्वरम्
सा होवाच मैत्रेयी । यन्नु मे इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्, स्यां नु अहं तेनामृता, आहो ३ नेति । नेति होवाच याज्ञवल्क्यः । यथैवोपकरणवतां जीवितं, तथैव ते जीवितं स्यात् । अमृतत्वस्य तु नाशा ऽस्ति वित्तेनेति ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“यन्नु मे” इति पाठान्तरम् 1 “स्यान्न्वहं तेना ऽमृता ऽऽहो ३ नेति” इति च पाठान्तरम् । स्यां भवेयम् । आहो ३ इति पक्षान्तरद्योतको निपातः ॥ ३ ॥
०४
विश्वास-प्रस्तुतिः
सा᳘ होवाच मै᳘त्रेयी॥
ये᳘नाह᳘न्नामृ᳘ता स्याङ्कि᳘महन्ते᳘न कुर्य्यां य᳘देव भ᳘गवान्वे᳘द त᳘देव᳘ मे ब्ब्रूही᳘ति॥
मूलम् - श्रीधरादि
सा᳘ होवाच मै᳘त्रेयी॥
ये᳘नाह᳘न्नामृ᳘ता स्याङ्कि᳘महन्ते᳘न कुर्य्यां य᳘देव भ᳘गवान्वे᳘द त᳘देव᳘ मे ब्ब्रूही᳘ति॥
मूलम् - Weber
सा᳘ होवाच मै᳘त्रेयी॥
ये᳘नाॗहं नामृ᳘ता स्यां कि᳘महं ते᳘न कुर्यां य᳘देव भ᳘गवान्वे᳘द त᳘देव᳘ मे ब्रूही᳘ति॥
मूलम् - विस्वरम्
सा होवाच मैत्रेयी । येनाहं नामृता स्याम्, किमहं तेन कुर्याम् । यदेव भगवान्वेद । तदेव मे ब्रूहि इति ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
‘सा होवाच मैत्रेयीति’ पूर्ववत् ॥ ४ ॥
०५
विश्वास-प्रस्तुतिः
स᳘ होवाच या᳘ज्ञवल्क्यः॥
प्प्रिया᳘ ख᳘लु नो भ᳘वती सती᳘ प्प्रियम᳘वृतद्ध᳘न्त ख᳘लु भवति ते ऽहन्त᳘द्वक्ष्यामि व्व्या᳘ख्यास्यामि ते व्वा᳘चन्तु᳘ मे व्व्याच᳘क्षाण᳘स्य नि᳘दिध्यासस्वे᳘ति ब्ब्र᳘वीतु भ᳘गवानि᳘ति॥
मूलम् - श्रीधरादि
स᳘ होवाच या᳘ज्ञवल्क्यः॥
प्प्रिया᳘ ख᳘लु नो भ᳘वती सती᳘ प्प्रियम᳘वृतद्ध᳘न्त ख᳘लु भवति ते ऽहन्त᳘द्वक्ष्यामि व्व्या᳘ख्यास्यामि ते व्वा᳘चन्तु᳘ मे व्व्याच᳘क्षाण᳘स्य नि᳘दिध्यासस्वे᳘ति ब्ब्र᳘वीतु भ᳘गवानि᳘ति॥
मूलम् - Weber
स᳘ होवाच या᳘ज्ञवल्क्यः॥
प्रिया ख᳘लु नो भ᳘वती सती᳘ प्रियम᳘वृतद्ध᳘न्त ख᳘लु भवति तेऽहं त᳘द्वक्ष्यामि व्या᳘ख्यास्यामि ते वा᳘चं तु᳘ मे व्याच᳘क्षाणस्य 4 नि᳘दिध्यासस्वे᳘ति ब्र᳘वीतु भ᳘गवानि᳘ति॥
मूलम् - विस्वरम्
स होवाच याज्ञवल्क्यः । प्रिया खलु नो भवती सती । प्रियमवृतत् । हन्त खलु भवति ! ते अहं तत् वक्ष्यामि व्याख्यास्यामि ते । वाचं तु मे व्याचक्षाणस्य निदिध्यासस्वेति । ब्रवीतु भगवानिति ॥ ५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“प्रिया खलु नो भवती सती प्रियमवृतद्धन्त खलु भवति ते ऽहं तद्वक्ष्यामि” इति पाठान्तरम् । “वाचम्” इत्य् अधिकम् । भवती त्वमित्य् अर्थे । ‘अवृतत्’ अवर्तयत् । वर्तितवत्यसि । णिचो लोपश्छान्दसो बोध्यः । हे भवति ‘ते’ तुभ्यं तुष्टो ऽहं ‘हन्त खलु’ ‘तत्’ अमृतत्व-साधनं ‘वक्ष्यामि’ व्याख्यास्यामि । इत्यादि समानम् ॥ ५ ॥
०६
विश्वास-प्रस्तुतिः
स᳘ होवाच या᳘ज्ञवल्क्यः॥
न वा᳘ ऽअरे प᳘त्युः का᳘माय प᳘तिः प्प्रियो᳘ भवत्यात्म᳘नस्तु का᳘माय प᳘तिः प्प्रियो᳘ भवति न वा᳘ ऽअरे जाया᳘यै का᳘माय जाया᳘ प्प्रिया᳘ भवन्त्यात्म᳘नस्तु का᳘माय जाया᳘ प्प्रिया᳘ भवति न वा᳘ ऽअरे पुत्रा᳘णाङ्का᳘माय पुत्राः᳘ प्प्रिया᳘ भवन्त्यात्म᳘नस्तु का᳘माय पुत्राः᳘ प्प्रिया᳘ भवन्ति न वा᳘ ऽअरे व्वित्त᳘स्य का᳘माय व्वित्त᳘म्प्रिय᳘म्भवत्यात्म᳘नस्तु का᳘माय वित्त᳘म्प्रिय᳘म्भवति न वा᳘ ऽअरे ब्ब्र᳘ह्मणः का᳘माय ब्ब्र᳘ह्म प्प्रिय᳘म्भवत्यात्म᳘नस्तु का᳘माय ब्ब्र᳘ह्म प्प्रिय᳘म्भवति न वा᳘ ऽअरे क्षत्त्र᳘स्य का᳘माय क्षत्त्र᳘म्प्रिय᳘म्भवत्यात्म᳘नस्तु का᳘माय क्षत्त्र᳘म्प्रिय᳘म्भवति न वा᳘ ऽअरे लोका᳘नाङ्का᳘माय लोकाः᳘ प्प्रिया᳘ भवन्त्यात्म᳘नस्तु का᳘माय लोकाः᳘ प्प्रिया᳘ भवन्ति न वा᳘ ऽअरे देवा᳘नाङ्का᳘माय देवाः᳘ प्प्रिया᳘ भवन्त्यात्म᳘नस्तु का᳘माय देवाः᳘ प्प्रिया᳘ भवन्ति न वा᳘ ऽअरे व्वेदा᳘नाङ्का᳘माय व्वेदाः᳘ प्प्रिया᳘ भवन्त्यात्म᳘नस्तु का᳘माय व्वेदाः᳘ प्प्रिया᳘ भवन्ति न वा᳘ ऽअरे यज्ञा᳘नाङ्का᳘माय यज्ञाः᳘ प्प्रिया᳘ भवन्त्यात्म᳘नस्तु का᳘माय यज्ञाः᳘ प्प्रिया᳘ भवन्ति न वा᳘ ऽअरे भूता᳘नाङ्का᳘माय भूता᳘नि प्प्रि᳘याणि भवन्त्यात्म᳘नस्तु का᳘माय भूता᳘नि प्प्रि᳘याणि भवन्ति न वा᳘ ऽअरे स᳘र्व्वस्य का᳘माय स᳘र्व्वम्प्रिय᳘म्भवत्यात्म᳘नस्तु का᳘माय स᳘र्व्वम्प्रिय᳘म्भवत्यात्मा᳘ न्वरे[[!!]] द्द्रष्ट᳘व्यः श्रोत᳘व्यो मन्त᳘व्यो निदिध्यासित᳘व्यो मै᳘त्रेय्यात्म᳘नि वा᳘ ऽअरे दृष्टे᳘ श्रुते᳘ मते᳘ व्विज्ञात᳘ ऽइदᳫँ᳭ स᳘र्व्वम्विदित᳘म्॥

स᳘ होवाच या᳘ज्ञवल्क्यो॥
न वा᳘ अरे प᳘त्युः का᳘माय प᳘तिः प्रियो᳘ भवत्यात्म᳘नस्तु का᳘माय प᳘तिः प्रियो᳘ भवति 5 ॥
देवाः᳘ प्रिया᳘ भवन्ति न वा᳘ अरे वेदा᳘नां᳘ 6 का᳘माय वेदाः᳘ प्रिया᳘ भवन्त्यात्म᳘नस्तु का᳘माय वेदाः᳘ प्रिया᳘ भवन्ति न वा᳘ अरे यज्ञा᳘नां का᳘माय यज्ञाः प्रिया भवन्त्यात्म᳘नस्तु का᳘माय यज्ञाः᳘ प्रिया भवन्ति न वा᳘ अरे भूता᳘नां का᳘माय भूता᳘नि प्रिया᳘णि भवन्त्यात्म᳘नस्तु का᳘माय भूता᳘नि प्रिया᳘णि भवन्ति न वा᳘ अरे स᳘र्वस्य का᳘माय स᳘र्वम् प्रिय᳘म् भवत्यात्म᳘नस्तु कामाय स᳘र्वम् प्रिय᳘म् भवत्यात्मा न्व᳘रे द्रष्ट᳘व्यः श्रोत᳘व्यो मन्त᳘व्यो निदिध्यासित᳘व्यो मै᳘त्रेय्यात्म᳘नि वा᳘ अरे दृष्टे᳘ श्रुते᳘ मते वि᳘ज्ञात 7 इदᳫं स᳘र्वं विदित᳘म्॥
मूलम् - विस्वरम्
स होवाच याज्ञवल्क्यः । न वा अरे पत्युः कामाय पतिः प्रियो भवति । आत्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवति । आत्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्ति । आत्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवति । आत्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति । आत्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्त्रस्य कामाय क्षत्त्रं प्रियं भवति । आत्मनस्तु कामाय क्षत्त्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्ति । आत्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्ति । आत्मनस्तु कामाय देवा भवन्ति । न वा अरे वेदानां कामाय वेदाः प्रिया भवन्ति । आत्मनस्तु कामाय वेदाः प्रिया भवन्ति । न वा अरे यज्ञानां कामाय यज्ञाः प्रिया भवन्ति । आत्मनस्तु कामाय यज्ञाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति । आत्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति । आत्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा तु अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि । आत्मनि वा अरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम् ॥ ६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“न वा अरे वेदानां कामाय, यज्ञानां कामाय” च इति पर्यायद्वयमधिकं सुगमार्थम् । “आत्मा न्वरे”- इति “मैत्रेय्यात्मनि वा अरे दृष्टे श्रुते मते विज्ञाते” इति च पाठान्तरं समानार्थम् ॥ ६ ॥
०७
विश्वास-प्रस्तुतिः
(म्ब्र᳘) ब्ब्र᳘ह्म तम्प᳘रादा᳘त्[[!!]]॥
(द्यो) यो ऽन्य᳘त्रात्म᳘नो ब्ब्र᳘ह्म व्वे᳘द क्षत्रन्तम्प᳘रादा᳘द्यो ऽन्य᳘त्रात्म᳘नः क्षत्रम्वे᳘द लोकास्तम्प᳘रादु᳘र्य्यो ऽन्य᳘त्रात्म᳘नो लोका न्वे᳘द देवास्तम्प᳘रादु᳘र्य्यो ऽन्य᳘त्रात्म᳘नो देवान्वे᳘द व्वेदास्तम्प᳘रादु᳘र्य्यो ऽन्य᳘त्रात्म᳘नो व्वेदान्वे᳘द यज्ञास्तम्प᳘रादु᳘र्य्यो ऽन्य᳘त्रात्म᳘नो यज्ञान्वे᳘द भूता᳘नि तम्प᳘रादु᳘र्य्यो ऽन्य᳘त्रात्म᳘नो भूता᳘नि व्वे᳘द स᳘र्व्वन्तम्प᳘रादा᳘द्यो ऽन्य᳘त्रात्म᳘नः स᳘र्व्वम्वे᳘देदम्ब्र᳘ह्मेद᳘ङ्क्षत्र᳘मिमे᳘ लोका᳘ ऽइमे᳘ देवा᳘ ऽइमे᳘ व्वेदा᳘ ऽइमे᳘ यज्ञा᳘ ऽइमा᳘नि भूता᳘नीदᳫँ᳭ स᳘र्व्वं य᳘दय᳘मात्मा᳘॥

ब्र᳘ह्म तम् प᳘रादात्᳟᳟॥
योऽन्य᳘त्रात्म᳘नो देवान्वे᳘द 8 वेदास्तम् प᳘रादुॗर्योऽन्य᳘त्रात्म᳘नो वेदान्वे᳘द यज्ञास्तम् प᳘रादुॗर्योन्य᳘त्रात्म᳘नो यज्ञान्वे᳘द भूता᳘नि तम् प᳘रादुॗर्योऽन्य᳘त्रात्म᳘नो भूतानि वे᳘द स᳘र्वम् तम् प᳘रादाॗद्योऽन्य᳘त्रात्म᳘नः स᳘र्वं वे᳘देदम् ब्र᳘ह्मेदं᳘ क्षत्र᳘मिमे᳘ लोका᳘ इमे᳘ देवा᳘ इमे᳘ वेदा᳘ इमे᳘ यज्ञा᳘ इमा᳘नि भूता᳘नीदᳫं स᳘र्वं य᳘दय᳘मात्मा᳟॥
मूलम् - विस्वरम्
ब्रह्म तं परादात् । यः अन्यत्रात्मनो ब्रह्म वेद । क्षत्त्रं तं परादात् । यः अन्यत्रात्मनः क्षत्त्रं वेद । लोकास्तं परादुः । यः अन्यत्रात्मनो लोकान्वेद । देवास्तं परादुः । यः अन्यत्रात्मनो देवान् वेद । वेदास्तं परादुः । यः अन्यत्रात्मनो वेदान् वेद । यज्ञास्तं परादुः । यः अन्यत्रात्मनो यज्ञान् वेद । भूतानि तं परादुः । यः अन्यत्रात्मनो भूतानि वेद । सर्वं तं परादात् । यः अन्यत्रात्मनः सर्वं वेद । इदं ब्रह्म । इदं क्षत्त्रम् । इमे लोकाः । इमे देवाः । इमे वेदाः । इमे यज्ञाः । इमानि भूतानि । इदं सर्वम् । यत् अयमात्मा ॥ ७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“वेदास्तं परादुः” “यज्ञास्तं परादुः” इत्य् अधिकं सुगमम् ॥ ७ ॥
०८
विश्वास-प्रस्तुतिः
स य᳘था दुन्दुभे᳘र्हन्य᳘मानस्य॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय दुन्दुभेस्तु ग्ग्र᳘हणेन दुन्दुभ्याघात᳘स्य वा श᳘ब्दो ग्गृहीतः[[!!]]॥
मूलम् - श्रीधरादि
स य᳘था दुन्दुभे᳘र्हन्य᳘मानस्य॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय दुन्दुभेस्तु ग्ग्र᳘हणेन दुन्दुभ्याघात᳘स्य वा श᳘ब्दो ग्गृहीतः[[!!]]॥
मूलम् - Weber
स य᳘था दुन्दुभे᳘र्हन्य᳘मानस्य॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय दुन्दुभेस्तु ग्र᳘हणेन दुन्दुभ्याघात᳘स्य वा श᳘ब्दो भवति गृहीतः᳟॥
मूलम् - विस्वरम्
स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान् शब्दान् शक्नुयात् ग्रहणाय । दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“स यथा दुन्दुभेर्हन्यमानस्य” ॥ ८ ॥
०९
विश्वास-प्रस्तुतिः
स य᳘था व्वी᳘णायै व्वाद्य᳘मानायै॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय व्वी᳘णायै तु ग्ग्र᳘हणेन व्वीणावाद᳘स्य वा श᳘ब्दो ग्गृहीतः[[!!]]॥
मूलम् - श्रीधरादि
स य᳘था व्वी᳘णायै व्वाद्य᳘मानायै॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय व्वी᳘णायै तु ग्ग्र᳘हणेन व्वीणावाद᳘स्य वा श᳘ब्दो ग्गृहीतः[[!!]]॥
मूलम् - Weber
स य᳘था वी᳘णायै वाद्य᳘मानायै॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय वी᳘णायै तु ग्र᳘हणेन वीणावाद᳘स्य वा श᳘ब्दो गृहीतः᳟॥
मूलम् - विस्वरम्
स यथा वीणायै वाद्यमानायै न बाह्यान् शब्दान् शक्नुयाद् ग्रहणाय । वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“स यथा वीणायै वाद्यमानायै” ॥ ९ ॥
१०
विश्वास-प्रस्तुतिः
स य᳘था शङ्ख᳘स्य ध्माय᳘मानस्य॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय शङ्ख᳘स्य तु ग्ग्र᳘हणेन शङ्खध्म᳘स्य वा श᳘ब्दो ग्गृहीतः[[!!]]॥
मूलम् - श्रीधरादि
स य᳘था शङ्ख᳘स्य ध्माय᳘मानस्य॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय शङ्ख᳘स्य तु ग्ग्र᳘हणेन शङ्खध्म᳘स्य वा श᳘ब्दो ग्गृहीतः[[!!]]॥
मूलम् - Weber
स य᳘था शङ्ख᳘स्य ध्माय᳘मानस्य॥
न बा᳘ह्याञ्छ᳘ब्दाञ्छक्नुयाद्ग्र᳘हणाय शङ्ख᳘स्य तु ग्र᳘हणेन शङ्खध्म᳘स्य वा श᳘ब्दो गृहीतः᳟॥
मूलम् - विस्वरम्
स यथा शङ्खस्य ध्मायमानस्य न बाह्यान् शब्दान् शक्नुयाद् ग्रहणाय । शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ १० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“स यथा शङ्खस्य ध्मायमानस्य” ॥ १० ॥
११
विश्वास-प्रस्तुतिः
स य᳘था ऽऽर्द्द्रधाग्ने᳘रभ्या᳘हितस्य ॥
प्प्᳘थग्धूमा᳘ व्विनिश्च᳘रन्त्येवम्वा᳘ ऽअरे ऽस्य᳘ महतो᳘ भूत᳘स्य नि᳘श्वसितमेतद्य᳘दृग्वेदो᳘ यजुर्व्वेदः᳘ सामवे᳘दो ऽथर्व्वाङ्गिर᳘स ऽइतिहासः पुराण᳘म्विद्या᳘ ऽउपनिष᳘दः श्लो᳘काः सू᳘त्राण्यनुव्याख्या᳘नानि व्व्याख्या᳘नानि दत्त᳘ᳫँ᳭ हुत᳘माशित᳘म्पायित᳘मय᳘ञ्च लोकः प᳘रश्च लोकः स᳘र्व्वाणि च भूतान्य᳘स्यै᳘वैता᳘नि[[!!]] स᳘र्व्वाणि नि᳘श्वसितानि॥

स य᳘थार्द्रैधाग्ने᳘रभ्या᳘हितस्य ॥
सू᳘त्राण्यनुव्याख्या᳘नानि व्याख्या᳘नानि दत्त᳘ᳫं᳘ हुत᳘माशित᳘म् पायित᳘मयं᳘ च लोकः प᳘रश्च लोकः स᳘र्वाणि च भूता᳘न्यस्यैॗवैता᳘नि स᳘र्वाणि नि᳘श्वसितानि॥
मूलम् - विस्वरम्
स यथा आर्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्ति । एवं वा अरे अस्य महतो भूतस्य निश्वसितमेतत् । यत्, ऋग्वेदो यजुर्वेदः सामवेदः अथर्वांगिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि । दत्तं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि । अस्यैवैतानि सर्वाणि निश्वसितानि ॥ ११ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
दत्तं दान-निमित्तं धर्म-जातम् । हुतं होम-निमित्तम् । अशितमन्नदाननिमित्तम् । पायितं पेय-दान-निमित्तं धर्म-जातम् । अयं च लोकः इदं च जन्म । परश्च लोकः प्रतिपत्तव्यं च जन्म । सर्वाणि भूतानि ब्रह्मादि-स्थावरान्तानि ॥ ११ ॥
१२
विश्वास-प्रस्तुतिः
स य᳘था स᳘र्व्वासामपा᳘ᳫँ᳘ समुद्र᳘ ऽएकायन᳘म्॥
(मे) एवᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ स्पर्शा᳘नान्त्व᳘गेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाङ्गन्धा᳘नान्ना᳘सिके ऽएकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ र᳘सानाञ्जि᳘ह्वैकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ रूपा᳘णाञ्च᳘क्षुरेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ शब्दा᳘नाᳫँ᳭[[!!]] श्रो᳘त्रमेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाᳫँ᳭ सङ्कल्पा᳘नाम्म᳘न ऽएकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाम्वे᳘दानाᳫँ᳭ हृ᳘दयमेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाङ्क᳘र्म्मणाᳫँ᳭ ह᳘स्तावेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाम᳘ध्वनाम्पा᳘दावेकायन᳘मेवᳫँ᳭ स᳘र्व्वेषामानन्दा᳘नामुप᳘स्थ ऽएकायन᳘मेवᳫँ᳭ स᳘र्व्वेषाम्विसर्ग्गा᳘णाम्पा᳘युरेकायन᳘मेवᳫँ᳭ स᳘र्व्वासाम्विद्या᳘नाम्वा᳘गेकायन᳘म् ॥

स य᳘था स᳘र्वासामपा᳘ᳫं᳘ समुद्र᳘ एकायन᳘म्॥
एवᳫं स᳘र्वेषाᳫं स्पर्शा᳘नां त्व᳘गेकायन᳘मेवᳫं स᳘र्वेषां गन्धा᳘नां ना᳘सिके एकायन᳘मेवᳫं स᳘र्वेषां र᳘सानां जिॗह्वैकायन᳘मेवᳫं स᳘र्वेषां रूपा᳘णां च᳘क्षुरेकायन᳘मेवᳫं स᳘र्वेषां श᳘ब्दानां श्रो᳘त्रमेकायन᳘मेवᳫं स᳘र्वेषाᳫं संकल्पा᳘नाम् म᳘न एकायन᳘मेवᳫं स᳘र्वेषां वे᳘दानाᳫं हृ᳘दयमेकायन᳘मेवᳫं स᳘र्वेषां क᳘र्मणाᳫं ह᳘स्तावेकायन᳘मेवᳫं स᳘र्वेषाम᳘ध्वनां पा᳘दावेकायन᳘मेवᳫं स᳘र्वेषामानन्दा᳘नन्दा᳘नामुप᳘स्थ एकायन᳘मेवᳫं स᳘र्वेषां विसर्गा᳘णाम् पा᳘युरेकायन᳘मेवᳫं स᳘र्वासां विद्या᳘नां वा᳘गेकायन᳘म् ॥
मूलम् - विस्वरम्
स यथा सर्वासामपां समुद्र एकायनम् । एवं सर्वेषां स्पर्शानां त्वगेकायनम् । एवं सर्वेषां गन्धानां नासिके एकायनम् । एवं सर्वेषां रसानां जिह्वैकायनम् । एवं सर्वेषां रूपाणां चक्षुरेकायनम् । एवं सर्वेषां शब्दानां श्रोत्रमेकायनम् । एवं सर्वेषां सङ्कल्पानां मन एकायनम् । एवं सर्वेषां वेदानां हृदयमेकायनम् । एवं सर्वेषां कर्मणां हस्तावेकायनम् । एवं सर्वेषामध्वनां पादावेकायनम् । एवं सर्वेषामानन्दानामुपस्थ एकायनम् । एवं सर्वेषां विसर्गाणां पायुरेकायनम् । एवं सर्वासां विद्यानां वागेकायनम् ॥ १२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“स यथा सर्वासामपां समुद्रः एकायनमिति” समानम् ॥ १२ ॥
१३
विश्वास-प्रस्तुतिः
(ᳫँ᳭) स य᳘था सैन्धवघ᳘नः॥
(नो ऽ) अनन्त᳘रो ऽबाह्यः᳘ कृत्स्नो᳘ रसघन ऽएव᳘ स्यादेवम्वा᳘ ऽअर ऽइद᳘म्महद्भूत᳘मनन्त᳘मपार᳘ङ्कृत्स्नः᳘[[!!]] प्प्रज्ञानघन᳘ ऽए᳘वैते᳘भ्यो भूते᳘भ्यः समुत्था᳘य ता᳘न्ये᳘वानुवि᳘नश्यति न प्प्रे᳘त्य[[!!]] स᳘ञ्ज्ञा ऽस्ती᳘त्यरे ब्ब्रवीमी᳘ति होवाच या᳘ज्ञवल्क्यः॥

स य᳘था सैन्धवघॗनो॥
अनन्तॗरोऽबाह्यः᳘ 9 कृत्स्नो᳘ रसघन᳘ एव᳘ स्यादेवं वा᳘ अर इद᳘म् मह᳘द्भूत᳘मनन्त᳘मपारं᳘ कृत्स्नः᳘ प्रज्ञानघन᳘ एॗवैते᳘भ्यो भूते᳘भ्यः समुत्था᳘य ता᳘न्येॗवानुवि᳘नश्यति न प्रे᳘त्यॗ संज्ञास्ती᳘त्यरे ब्रवीमी᳘ति होवाच या᳘ज्ञवल्क्यः॥
मूलम् - विस्वरम्
स यथा सैन्धव-घनो ऽनन्तरो बाह्यः कृत्स्नो रस-घन एव स्यात् । एवं वा अरे इदं महद्-भूत-मनन्तमपारं कृत्स्नः प्रज्ञान-घन एव । एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति । न प्रेत्य संज्ञा ऽस्ति इत्यरे ब्रवीमि । इति होवाच याज्ञवल्क्यः ॥ १३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“स यथा सैन्धव-घनो ऽनन्तरो बाह्यः कृत्स्नो रस-घन एव स्यात्” इति पाठान्तरम् प्रलयावस्थात्मरूपबोधकम् । सुगमार्थम् ॥ १३ ॥
१४
विश्वास-प्रस्तुतिः
सा᳘ होवाच मै᳘त्रेयी॥
(य्य᳘) अ᳘त्रैव᳘ मा भ᳘गवान्मोहान्तमा᳘पीपद᳘न्न वा᳘ ऽअह᳘मिदम्वि᳘जानामि न प्प्रे᳘त्य[[!!]] स᳘ञ्ज्ञा ऽस्ती᳘ति᳘॥
मूलम् - श्रीधरादि
सा᳘ होवाच मै᳘त्रेयी॥
(य्य᳘) अ᳘त्रैव᳘ मा भ᳘गवान्मोहान्तमा᳘पीपद᳘न्न वा᳘ ऽअह᳘मिदम्वि᳘जानामि न प्प्रे᳘त्य[[!!]] स᳘ञ्ज्ञा ऽस्ती᳘ति᳘॥
मूलम् - Weber
सा᳘ होवाच मै᳘त्रेयी॥
अ᳘त्रैव᳘ मा भ᳘गवान्मोहान्तमा᳘पीपदन्न वा᳘ अह᳘मिदं वि᳘जानामि न प्रे᳘त्यॗ संज्ञास्ती᳘ति॥
मूलम् - विस्वरम्
सा होवाच मैत्रेयी । अत्रैव मा भगवान्मोहान्तमापीपदत् । न वा अहमिदं विजानामि । न प्रेत्य संज्ञा ऽस्तीति ॥ १४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“मोहान्तमापीपदन्न वा अहमिदं विजानामीति” पाठान्तरम् । ‘अत्रैव’ प्रज्ञान-घने “न प्रेत्य संज्ञा ऽस्ति” इति वदन् ‘भगवान्’ ‘मा’ ‘मां’ ‘मोहान्तं’ मोह-मध्ये ‘आपीपदत्’ आपादितवान् सम्मोहितवानित्य् अर्थः । अतः अहं इदमात्म-तत्त्वं उक्त-लक्षणं ‘न वै’ नैव जानामीत्य् अर्थः ॥ १४ ॥
१५
विश्वास-प्रस्तुतिः
स᳘ होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो) न वा᳘ ऽअरे ऽहम्मो᳘हम्ब्रवीम्यविनाशी वा᳘ ऽअरे ऽय᳘मा᳘त्मा ऽनुच्च्छित्तिधर्म्मा मात्रा᳘सᳫँ᳭सर्ग्ग᳘स्त्वस्य[[!!]] भ᳘वति॥
मूलम् - श्रीधरादि
स᳘ होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो) न वा᳘ ऽअरे ऽहम्मो᳘हम्ब्रवीम्यविनाशी वा᳘ ऽअरे ऽय᳘मा᳘त्मा ऽनुच्च्छित्तिधर्म्मा मात्रा᳘सᳫँ᳭सर्ग्ग᳘स्त्वस्य[[!!]] भ᳘वति॥
मूलम् - Weber
स᳘ होवाच या᳘ज्ञवल्क्यो॥
न वा᳘ अरेऽहम् मो᳘हम् ब्रवीम्यविनाशी वा᳘ अरे य᳘मात्मा᳘नुच्छित्तिधर्मा मात्रासंसर्गस्त्व᳘स्य भ᳘वति॥
मूलम् - विस्वरम्
स होवाच याज्ञवल्क्यः । न वा अरे अहं मोहं ब्रवीमि । अविनाशी वा अरे अयमात्मा अनुच्छित्ति-धर्मा । मात्रा-संसर्गस्त्वस्य भवति ॥ १५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“अविनाशी वा अरे ऽयमात्मा ऽनुच्छित्ति-धर्मा मात्रा-संसर्गस्त्वस्य भवतीति” पाठान्तरम् । ‘अरे मैत्रेयि!’ ‘अहं मोहं न ब्रवीमि’ । यतः ‘अयं’ प्रकृतः ‘आत्मा’ ‘अविनाशी’ विनष्टुं शीलं यस्य स विनाशी, न विनाशी अविनाशी । तत्र हेतुः- यतः ‘अनुच्छित्ति-धर्मा’ उच्छित्तिरुच्छेदो विकारो धर्मो यस्य सः उच्छित्ति-धर्मा । न उच्छित्ति-धर्मा अनुच्छित्ति-धर्मा । अविक्रिय इत्य् अर्थः । तर्हि आत्मनः कथं संसारादि-विक्रिया-सम्बन्ध इत्य् अत आह- ‘तु’ पुनः ‘अस्य’ प्रकृतस्यात्मनः ‘मात्रा-संसर्गः’ चक्षुरादि-करण-सम्बन्धो भवति । मीयन्ते विषया याभिस्ता मात्रा इति विषय-प्रकाश-हेतु-भूतानि चक्षुरादि-करणानि मात्राः । ताभिः संसर्गः सम्बन्धः ॥ १५ ॥
१६
विश्वास-प्रस्तुतिः
यद्वै तन्न प᳘श्यति॥
प᳘श्यन्वै त᳘द्द्रष्ट᳘व्यन्न᳘ पश्यति न हि᳘ द्द्रष्टुर्दृ᳘ष्टेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं यत्प᳘श्येत्॥
मूलम् - श्रीधरादि
यद्वै तन्न प᳘श्यति॥
प᳘श्यन्वै त᳘द्द्रष्ट᳘व्यन्न᳘ पश्यति न हि᳘ द्द्रष्टुर्दृ᳘ष्टेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं यत्प᳘श्येत्॥
मूलम् - Weber
यद्वै तन्न प᳘श्यति॥
प᳘श्यन्वै त᳘द्द्रष्ट᳘व्यं न᳘ पश्यति न हि᳘ द्रष्टुर्दृ᳘ष्टेर्विपरिलोपो᳘ विद्यते᳘ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तोऽन्यद्वि᳘भक्तं यत्प᳘श्येत् ॥
मूलम् - विस्वरम्
यत् वै तत् न पश्यति । पश्यन् वै तद्द्रष्टव्यं न पश्यति । न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते, अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततो ऽन्यत् विभक्तं यत्पश्येत् ॥ १६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“यद्वै तत् न पश्यति” इदं कण्डिकाष्टकं ज्योतिर्ब्राह्मणे (श. प. बृ. १४ । ४ । १) व्याख्यातम् ॥ १६ ॥
१७
विश्वास-प्रस्तुतिः
(द्य) यद्वै तन्न जि᳘घ्घ्रति॥
जि᳘घ्घ्रन्वै त᳘द्घ्रात᳘व्यन्न᳘ जिघ्घ्रति न हि᳘ घ्घ्रातुर्घ्घ्रा᳘णाद्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘ज्जि᳘घ्घ्रेत् ॥
मूलम् - श्रीधरादि
(द्य) यद्वै तन्न जि᳘घ्घ्रति॥
जि᳘घ्घ्रन्वै त᳘द्घ्रात᳘व्यन्न᳘ जिघ्घ्रति न हि᳘ घ्घ्रातुर्घ्घ्रा᳘णाद्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘ज्जि᳘घ्घ्रेत् ॥
मूलम् - Weber
यद्वै तन्न जि᳘घ्रति॥
जि᳘घ्रन्वै त᳘द्घ्रात᳘व्यं न᳘ जिघ्रति न हि᳘ घ्रातुर्घ्रा᳘णाद्विपरिलोपो᳘ विद्यते᳘ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तोऽन्यद्वि᳘भक्तं यज्जि᳘घ्रेत् ॥
मूलम् - विस्वरम्
यत् वै तत् न जिघ्रति । जिघ्रन् वै तत् घ्रातव्यं न जिघ्रति । न हि घ्रातुर्घ्राणाद्विपरिलोपो विद्यते, अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततो ऽन्यत् विभक्तं यज् जिघ्रेत् ॥ १७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“यद्वै तन्न जिघ्रति” ॥ १७ ॥
१८
विश्वास-प्रस्तुतिः
(द्य) यद्वै तन्न᳘ रसयति[[!!]]॥
व्वि᳘जानन्वै तद्र᳘सन्न᳘ रसयति न हि᳘ रसयितू र᳘साद्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘द्द्रसयेत्[[!!]]॥
मूलम् - श्रीधरादि
(द्य) यद्वै तन्न᳘ रसयति[[!!]]॥
व्वि᳘जानन्वै तद्र᳘सन्न᳘ रसयति न हि᳘ रसयितू र᳘साद्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘द्द्रसयेत्[[!!]]॥
मूलम् - Weber
यद्वै तन्न᳘ रस᳘यति 10 ॥
विजानन्वै तद्र᳘सं न᳘ रसयति न हि᳘ रसयितू र᳘साद्विपरिलोपो᳘ विद्यते᳘ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तोऽन्यद्वि᳘भक्तं य᳘द्रस᳘येत् ॥
मूलम् - विस्वरम्
यद्वै तत् न रसयति । विजानन् वै तत् रसं न रसयति । न हि रसयितू रसाद्विपरिलोपो विद्यते, अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततो ऽन्यत् विभक्तं यत् रसयेत् ॥ १८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“यद्वै तन्न रसयति” ॥ १८ ॥
१९
विश्वास-प्रस्तुतिः
(द्य) यद्वै तन्न᳘ व्वदति[[!!]]॥
व्व᳘दन्वै त᳘द्वक्त᳘व्यन्न᳘ व्वदति न हि᳘ व्वक्तुर्व्व᳘क्तेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं यद्व᳘देत् ॥
मूलम् - श्रीधरादि
(द्य) यद्वै तन्न᳘ व्वदति[[!!]]॥
व्व᳘दन्वै त᳘द्वक्त᳘व्यन्न᳘ व्वदति न हि᳘ व्वक्तुर्व्व᳘क्तेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं यद्व᳘देत् ॥
मूलम् - Weber
यद्वै तन्न व᳘दति 11 ॥
व᳘दन्वै त᳘द्वक्त᳘व्यं न᳘ वदति न हि᳘ वक्तुर्व᳘चो विपरिलोपो᳘ विद्यते᳘ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तोऽन्यद्वि᳘भक्तं यद्व᳘देत् ॥
मूलम् - विस्वरम्
यत् वै तत् न वदति । वदन्वै तत् वक्तव्यं न वदति । न हि वक्तुर्वक्तेर्विपरिलोपो विद्यते, अविनाशित्वात् न तु तत् द्वितीयमस्ति ततो ऽन्यत् विभक्तं यत् वदेत् ॥ १९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“यद्वै तन्न वदति” ॥ १९ ॥
२०
विश्वास-प्रस्तुतिः
(द्य) यद्वै तन्न᳘ शृणोति[[!!]]॥
शृण्वन्वै त᳘च्छ्रोत᳘व्यन्न᳘ शृणोति न हि᳘ श्रोतुः श्रु᳘तेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘च्छृणुयात्[[!!]]॥
मूलम् - श्रीधरादि
(द्य) यद्वै तन्न᳘ शृणोति[[!!]]॥
शृण्वन्वै त᳘च्छ्रोत᳘व्यन्न᳘ शृणोति न हि᳘ श्रोतुः श्रु᳘तेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘च्छृणुयात्[[!!]]॥
मूलम् - Weber
यद्वै तन्न᳘ शृणो᳘ति 12 ॥
शृण्वन्वै त᳘छ्रोत᳘व्यं न᳘ शृणोति न हि᳘ श्रोतुः श्रु᳘तेर्विपरिलोपो᳘ विद्यते᳘ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तोऽन्यद्वि᳘भक्तं य᳘छृणुया᳘त् ॥
मूलम् - विस्वरम्
यत् वै तत् न शृणोति । शृण्वन् वै तत् श्रोतव्यं न शृणोति । न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यते, अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततो ऽन्यत् विभक्तं यत् शृणुयात् ॥ २० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“यद्वै तन्न शृणोति” ॥ २० ॥
२१
विश्वास-प्रस्तुतिः
(द्य) यद्वै तन्न᳘ मनुते[[!!]]॥
मन्वानो वै त᳘न्मन्त᳘व्यन्न᳘ मनुते न हि᳘ मन्तुर्म्म᳘तेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘न्मन्वीत[[!!]]॥
मूलम् - श्रीधरादि
(द्य) यद्वै तन्न᳘ मनुते[[!!]]॥
मन्वानो वै त᳘न्मन्त᳘व्यन्न᳘ मनुते न हि᳘ मन्तुर्म्म᳘तेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘न्मन्वीत[[!!]]॥
मूलम् - Weber
यद्वै तन्न᳘ मनुते᳟ 13 ॥
मन्वानो वै त᳘न्मन्त᳘व्यं न᳘ मनुते न हि᳘ मन्तुर्म᳘तेर्विपरिलोपो᳘ विद्यते᳘ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्तित᳘तोऽन्यद्वि᳘भक्तं य᳘न्मन्वीत᳟॥
मूलम् - विस्वरम्
यत् वै तत् न मनुते । मन्वानो वै तत् मन्तव्यं न मनुते । न हि मन्तुर्मतेर्विपरिलोपो विद्यते, अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततो ऽन्यत् विभक्तं यन्मन्वीत ॥ २१ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“यद्वै तन्न मनुते” ॥ २१ ॥
२२
विश्वास-प्रस्तुतिः
यद्वै तन्न᳘ स्पृश᳘ति॥ स्पृ᳘शन्वै त᳘त्स्प्रष्ट᳘व्यन्न᳘ स्पृशति न हि᳘ स्प्रष्टु स्पृ᳘ष्टेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘त्स्पृशेत्॥
मूलम् - श्रीधरादि
यद्वै तन्न᳘ स्पृश᳘ति॥ स्पृ᳘शन्वै त᳘त्स्प्रष्ट᳘व्यन्न᳘ स्पृशति न हि᳘ स्प्रष्टु स्पृ᳘ष्टेर्व्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘त्स्पृशेत्॥
मूलम् - Weber
यद्वै तन्न᳘ स्पृश᳘ति 14 ॥
मूलम् - विस्वरम्
यत् वै तत् न स्पृशति । स्पृशन् वै तत् स्प्रष्टव्यं न स्पृशति । न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यते, अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततो ऽन्यत् विभक्तं यत् स्पृशेत् ॥ २२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“यद्वै तन्न स्पृशति” ॥ २२ ॥
२३
विश्वास-प्रस्तुतिः
(द्य) यद्वै तन्न᳘ व्विजानाति[[!!]]॥
व्विजानन्वै त᳘द्विज्ञे᳘यन्न᳘ व्वि᳘जानाति न हि᳘ व्विज्ञातुर्व्विज्ञा᳘नाद्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘द्विजानीयात्[[!!]]॥
मूलम् - श्रीधरादि
(द्य) यद्वै तन्न᳘ व्विजानाति[[!!]]॥
व्विजानन्वै त᳘द्विज्ञे᳘यन्न᳘ व्वि᳘जानाति न हि᳘ व्विज्ञातुर्व्विज्ञा᳘नाद्विपरिलोपो᳘ व्विद्यते᳘ ऽविनाशित्वान्न᳘ तु त᳘द्द्विती᳘यमस्ति त᳘तो ऽन्यद्वि᳘भक्तं य᳘द्विजानीयात्[[!!]]॥
मूलम् - Weber
यद्वै तन्न᳘ विजाना᳘ति 15 ॥
विजानन्वै त᳘द्विज्ञे᳘यं न वि᳘जानाति न हि᳘ विज्ञातु᳘र्विज्ञा᳘नाद्विपरिलोपो᳘ विद्यते᳘ऽविनाशित्वान्न तु त᳘द्द्विती᳘यमस्ति त᳘तोऽन्यद्वि᳘भक्तं य᳘द्विजानीया᳘त् ॥
मूलम् - विस्वरम्
यत् वै तत् न विजानाति । विजानन्वै तत् विज्ञेयं न विजानाति । न हि विज्ञातुर्विज्ञानात् विपरिलोपो विद्यते, अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततो ऽन्यत् विभक्तं यत् विजानीयात् ॥ २३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“यद्वै तन्न विजानाति” ॥ २३ ॥
२४
विश्वास-प्रस्तुतिः
(द्य᳘) य᳘त्र वा᳘ ऽअन्य᳘दिव स्यात्[[!!]]॥
(त्त᳘) त᳘त्रा᳘न्यो ऽन्य᳘त्पश्ये᳘दन्यो ऽन्य᳘ज्जिघ्घ्रे᳘द᳘न्यो ऽन्य᳘द्द्रसये᳘द᳘न्यो ऽन्य᳘दभि᳘वदे᳘द᳘न्यो ऽन्य᳘च्छृणुया᳘द᳘न्यो ऽन्य᳘न्मन्वीता᳘न्यो ऽन्य᳘त्स्पृशेद᳘न्यो ऽन्यद्वि᳘जानीयात्[[!!]]॥
मूलम् - श्रीधरादि
(द्य᳘) य᳘त्र वा᳘ ऽअन्य᳘दिव स्यात्[[!!]]॥
(त्त᳘) त᳘त्रा᳘न्यो ऽन्य᳘त्पश्ये᳘दन्यो ऽन्य᳘ज्जिघ्घ्रे᳘द᳘न्यो ऽन्य᳘द्द्रसये᳘द᳘न्यो ऽन्य᳘दभि᳘वदे᳘द᳘न्यो ऽन्य᳘च्छृणुया᳘द᳘न्यो ऽन्य᳘न्मन्वीता᳘न्यो ऽन्य᳘त्स्पृशेद᳘न्यो ऽन्यद्वि᳘जानीयात्[[!!]]॥
मूलम् - Weber
य᳘त्र वा᳘ अन्य᳘दिव स्या᳘त्॥
त᳘त्राॗन्योऽन्य᳘त्पश्येदॗन्योऽन्य᳘ज्जिघ्रेदॗन्योऽन्य᳘द्रसयेदॗन्योऽन्य᳘दभि᳘वदेदॗन्योऽन्य᳘छृणुयादॗन्योऽन्य᳘न्मन्वीताॗन्योऽन्य᳘त्स्पृशेदॗन्योऽन्यद्वि᳘जानीयात् 16 ॥
मूलम् - विस्वरम्
यत्र वा अन्यदिव स्यात् । तत्रान्यः अन्यत्पश्येत् । अन्यः अन्यज्जिघ्रेत् । अन्यः अन्यद्रसयेत् । अन्यः अन्यदभिवदेत् । अन्यः अन्यत् शृणुयात् । अन्यः अन्यत् मन्वीत । अन्यः अन्यत् स्पृशेत् । अन्यः अन्यद्विजानीयात् ॥ २४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं अविद्योत्थ-द्वैते सत्य् एव विशेष-विज्ञानमात्मनः तदभावे तु तदभावः, इत्य् अन्वय-व्यतिरेकाभ्यां औपाधिकमात्मनो विशेष-विज्ञानमिति दर्शयितुं “न तु तद्द्वितीयमस्ति ततो ऽन्यद्विभक्तं” इति (कं. १६-२३) व्यतिरेको दर्शितः । इदानीमन्वयमाह- यत्र वा अन्यदिव स्यात्तत्रान्यो ऽन्यं पश्येदित्यादिना । ‘यत्र वै’ यस्मिन्नेव जागरिते स्वप्ने वा ‘अन्यदिव’ आत्मनो वस्त्वन्तरमिव अविद्याप्रत्युपस्थापितं स्याद्भवेत् । ‘तत्र’ तस्मिन्नवस्थाविशेषे ‘अन्यः’ अविद्या-कल्पितात् वस्त्वन्तरात् भिन्नमिव आत्मानं मन्यमानः ‘अन्यत्’ स्वस्मात् विभक्तं स्वाविद्योत्थं वस्त्वन्तरं ‘पश्येत्’ उपलभेत । जिघ्रेदित्यादि समानम् ॥ २४ ॥
२५
विश्वास-प्रस्तुतिः
(द्य᳘) य᳘त्र᳘ त्वस्य[[!!]] स᳘र्व्वमा᳘त्मैवा᳘भूत्॥
(त्त) तत्के᳘न क᳘म्पश्येत्तत्के᳘न क᳘ञ्जिघ्घ्रेत्तत्के᳘न क᳘ᳫँ᳘ रसयेत्तत्के᳘न क᳘मभि᳘वदेत्तत्के᳘न क᳘ᳫँ᳘ शृणुयात्तत्के᳘न क᳘म्मन्वीत तत्के᳘न क᳘ᳫँ᳘ स्पृशेत्तत्के᳘न कम्वि᳘जानीयाद्ये᳘नेदᳫँ᳭ स᳘र्व्वम्विजाना᳘ति तङ्के᳘न व्वि᳘जानीयाद्विज्ञाता᳘रमरे के᳘न व्वि᳘जानीयादि᳘त्युक्तानुशासना ऽसि[[!!]] मै᳘त्रय्येता᳘वदरे ख᳘ल्वमृतत्वमि᳘ति होक्त्वा या᳘ज्ञवल्क्यः प्प्र᳘वव्व्राज᳘॥

य᳘त्र त्व᳘स्य स᳘र्वमाॗत्मैवा᳘भूत्॥
तत्के᳘न क᳘म् पश्येत्तत्के᳘न कं᳘ जिघ्रेत्तत्के᳘न कं᳘ रसयेत्तत्के᳘न क᳘मभि᳘वदेत्तत्के᳘न कं᳘ शृणुयात्तत्के᳘न क᳘म् मन्वीत तत्के᳘न क᳘ᳫं᳘ स्पृशेत्तत्के᳘न कं वि᳘जानीयाद्ये᳘नेदᳫं स᳘र्वं विजाना᳘ति तं के᳘न वि᳘जानीयाद्विज्ञाता᳘रमरे के᳘न वि᳘जानीयादि᳘त्युक्ता᳘नुशासनासि मै᳘त्रय्येता᳘वदरे 17 ख᳘ल्वमृतत्वमि᳘ति होक्त्वा या᳘ज्ञवल्क्यः प्र᳘वव्राज॥
मूलम् - विस्वरम्
यत्र तु अस्य सर्वमात्मैवाभूत् । तत् केन कं पश्येत् । तत् केन कं जिघ्रेत् । तत् केन कं रसयेत् । तत्केन कमभिवदेत् । तत्केन कं शृणुयात् । तत् केन कं मन्वीत । तत् केन कं स्पृशेत् । तत् केन कं विजानीयात् । येनेदं सर्वं विजानाति । तं केन विजानीयात् । विज्ञातारमरे केन विजानीयात् । इति उक्तानुशासना ऽसि मैत्रेयि । एतावदरे खलु अमृतत्वम्, इति होक्त्वा याज्ञवल्क्यः प्रवव्राज ॥ २५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एतावता “एतेभ्यो भूतेभ्यः” (कं. १३) इत्यत्र सूचितो भूताविद्योपाधिकः संसार इति व्याख्यातम् । इदानीं “महद्भूतमनन्तमपारं” (कं. १३) इत्यादि सूचितं ब्रह्म-दर्शने व्याख्यास्यन् भूतोपाध्यभावेन विशेष-विज्ञान-लक्षण-संसाराभाव इति पुनर्व्यतिरेकमाह- यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यादिना । ‘उक्तानुशासना ऽसि मैत्रेय्येतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवव्राज” इत्य् अधिकम् । हे ‘मैत्रेयि!’ इत्य् एवं त्वं ‘उक्तानुशासना’ उक्तमनुशासनं ससन्न्यासमात्म-ज्ञान-लक्षणं यस्याः सा त्वं उक्तानुशासना ‘असि’ भवसि । ननु- तथा ऽपि किं वक्तव्यान्तरं किञ्चिन्न भविष्यति न हि इत्य् आशयेनाह ‘अरे मैत्रेयि!’ यत् त्वं मां पृष्टवत्यसि- “यदेव भगवान् वेद तदेव मे ब्रूहीति” तदमृतत्वं अमृतत्व-साधनम् ‘एतावदेव’ ‘खलु’ निश्चितम् । यदेतत् ससन्न्यासमात्मपरिज्ञानम् । न त्वधिकं किञ्चिदस्ति । तस्मादेतावदेव त्वया अमृतत्व-साधनं विज्ञेयम् इत्य् एवं ‘ह’ किल प्रियायै भार्यायै यथोक्तमात्मज्ञानमुक्त्वा यथेच्छया ‘याज्ञवल्क्यः’ ‘प्रवव्राज’ प्रव्रजितवान् । यत्पूर्वं प्रतिज्ञातं “प्रव्रजिष्यन्नस्मीति” तच्चकारेत्य् अर्थः । एतावता परिसमाप्तो ब्रह्म-विद्याख्यः सकलो ऽपि शास्त्रार्थः ॥ २५ ॥
२६
विश्वास-प्रस्तुतिः
(जा᳘) अ᳘थ व्वᳫँ᳭शः᳘॥
(स्त᳘) त᳘दिद᳘म्वयᳫँ᳭ शौ᳘र्प्पणाय्याच्छौ᳘र्प्पणाय्यो य्यो गौ᳘तमाद्गौ᳘तमो व्वा᳘त्स्याद्वा᳘त्स्यो व्वा᳘त्स्याच्च पाराशर्य्या᳘च्च पा᳘राशर्य्यः सा᳘ङ्कृत्याच्च भा᳘रद्वाजाच्च भा᳘रद्वाज ऽऔदवाहे᳘श्च शा᳘ण्डिल्याच्च शा᳘ण्डिल्यो बैजवापाच्च गौतमाच्च[[!!]] गौ᳘तमो बै᳘जवापायनाच्च व्वैष्टपुरेया᳘च्च व्वै᳘ष्टपुरेयः शा᳘ण्डिल्याच्च रौहिणायना᳘च्च रौ᳘हिणायनः शौ᳘नाकाच्च जैवन्तायना᳘च्च रैभ्या᳘च्च रै᳘भ्यः पौ᳘तिमाष्यायणाच्च कौण्डिन्यायना᳘च्च कौ᳘ण्डिन्यायनः कौ᳘ण्डिन्या᳘भ्याङ्कौ᳘ण्डिन्या ऽऔर्ण्णवाभे᳘भ्य ऽऔ᳘र्ण्णवाभाः कौ᳘ण्डिन्यात्कौ᳘ण्डिन्यः कौ᳘ण्डिन्यात्कौ᳘ण्डिन्यः कौण्डिन्या᳘च्चाग्निवेश्या᳘च्च॥

अ᳘थ वंशः᳟॥
त᳘दिदं᳘ वयं शौ᳘र्पणाय्याछौ᳘र्पणाय्यो गौ᳘तमाद्गौ᳘तमो वा᳘त्स्याद्वा᳘त्स्यो वा᳘त्स्याच्च पाराशर्या᳘च्च पा᳘राशर्यः सां᳘कृत्याच्च भा᳘रद्वाजाच्च भा᳘रद्वाज औदवाहे᳘श्च शा᳘ण्डिल्याच्च शा᳘ण्डिल्यो वै᳘जवापाच्च गौतमा᳘च्च गौ᳘तमो वै᳘जवापायनाच्च वैष्टपुरेया᳘च्च वै᳘ष्टपुरेयः 18 शा᳘ण्डिल्याच्च रौहिणायना᳘च्च रौहिणायना᳘च्च रौ᳘हिणायनः शौ᳘नाकाच्च जैवन्तायना᳘च्च रैभ्या᳘च्च रै᳘भ्यः पौ᳘तिमाष्यायणाच्च कौण्डिन्यायना᳘च्च कौ᳘ण्डिन्यायनः कौण्डिन्या᳘भ्यां कौ᳘ण्डिन्या और्णवाभे᳘भ्य औ᳘र्णवाभाः कौ᳘ण्डिन्यात्कौ᳘ण्डिन्यः कौ᳘ण्डिन्यात्कौ᳘ण्डिन्यः कौण्डिन्या᳘च्चाग्निवेश्या᳘च्च॥
मूलम् - विस्वरम्
अथ वंशः । १ तदिदं वयं शौर्पणाय्यात् । २ शौर्पाणाय्यौ गौतमात् । ३ गौतमो वात्स्यात् । ४ वात्स्यो वात्स्याच्च पाराशर्य्याच्च । ५ पाराशर्य्यः साङ्कृत्याच्च भारद्वाजाच्च । ६ भारद्वाज औदवाहेश्च शाण्डिल्याच्च । ७ शाण्डिल्यो बैजवापाच्च गौतमाच्च । ८ गौतमो बैजवापायनाच्च वैष्टपुरेयाच्च । ९ वैष्टपुरेयः शाण्डिल्याच्च रौहिणायनाच्च । १० रौहिणायनः शौनकाच् जैवन्तायनाच्च रैभ्याच्च । ११ रैभ्यः पौतिमाष्यायणाच्च कौण्डिन्यायनाच्च । १२ कौण्डिन्यायनः कौण्डिन्याभ्याम् । १३ कौण्डिन्यो और्णवाभेभ्यः । १४ और्णवाभाः कौण्डिन्यात् । १५ कौण्डिन्यः कौण्डिन्यात् । १६ कौण्डिन्यः कौण्डिन्याच्चाग्निवेश्याच्च ॥ २६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं याज्ञवल्कीय-काण्ड-प्रवर्तक-गुरु-शिष्य-परम्पराकथनाय वंश-प्रतिपादकं कण्डिकात्रितयमारभ्यते- अथ वंश इत्य् आरभ्य- ब्रह्मणे नमः इत्य् अन्तम् । अथ साङ्गोपाङ्गस्य फलस्यात्म-विज्ञानस्य प्रवचनानन्तरं याज्ञवल्कीय-काण्डस्य वंशः कथ्यते इति शेषः । प्रथमान्तः शिष्यः । पञ्चम्यन्तो गुरुः । इति मधुकाण्डवत् व्याख्येयम् ॥ २६ ॥
२७
विश्वास-प्रस्तुतिः
(च्चा) आग्निवेश्यः सै᳘तवात्॥
(त्सै᳘) सै᳘तवः पा᳘राशर्य्यात्पा᳘राशर्य्यो जा᳘तूकर्ण्ण्याज्जा᳘तूकर्ण्ण्यो भा᳘रद्वाजाद्भा᳘रद्वाजो भारद्वाजा᳘च्चासुरायणा᳘च्च गौतमा᳘च्च गौ᳘तमो भा᳘रद्वाजाद्भा᳘रद्वाजो बलाकाकौशिका᳘द्बलाकाकौशिकः᳘ काषायणा᳘त्काषायणः᳘ सौकरायणा᳘त्सौकरायणस्त्रै᳘वणेस्त्रै᳘वणिरौ᳘पजन्घनेरौ᳘पजन्घनिः सायकायना᳘त्सायकायनः᳘ कौशिकायनेः᳘ कौशिकायनि᳘र्घ्घृतकौशिका᳘द्घृतकौशिकः पाराशर्य्यायणात्पा᳘राशर्य्यायणः[[!!]] पा᳘राशर्य्यात्पा᳘राशर्य्यो जा᳘तूकर्ण्ण्याज्जा᳘तूकर्ण्ण्यो भा᳘रद्वाजाद्भा᳘रद्वाजो भारद्वाजा᳘च्चासुरायणा᳘च्च यास्का᳘च्चासुरायणस्त्रै᳘वणेस्त्रै᳘वणिरौ᳘पजन्घनेरौ᳘पजन्घनिरा᳘सुरेरा᳘सुरिर्भ्भा᳘रद्वाजाद्भा᳘रद्वाज ऽआत्रेया᳘त्॥

आग्निवेश्यः सै᳘तवात्॥
सै᳘तवः पा᳘राशर्यात्पा᳘राशर्यो जा᳘तूकर्ण्याज्जा᳘तूकर्ण्यो भा᳘रद्वाजाद्भा᳘रद्वाजो भारद्वाजा᳘च्चासुरायणा᳘च्च गौतमा᳘च्च गौ᳘तमो भा᳘रद्वाजाद्भा᳘रद्वाजो वलाकाकौशिका᳘द्वलाकाकौशिकः᳘ काषायणा᳘त्काषायणः᳟॥
सौकरायणा᳘त्सौकरायणस्त्रै᳘वणेस्त्रै᳘वणिरौ᳘पजन्घनेरौ᳘पजन्घनिः सायकायना᳘त्सायकायनः᳘ कौशिकायनेः᳘ कौशिकायनि᳘र्घृतकौशिका᳘द्घृतकौशिकः पा᳘राशर्यायणात्पा᳘राशर्यायणः पा᳘राशर्यात्पा᳘राशर्यो जा᳘तूकर्ण्याज्जा᳘तूकर्ण्यो भा᳘रद्वाजाद्भा᳘रद्वाजो भारद्वाजा᳘च्चासुरायणा᳘च्च यास्काच्चासुरायणस्त्रै᳘वणेस्त्रै᳘वणिरौ᳘पजन्घनेरौ᳘पजन्घनिरा᳘सुरेरा᳘सुरिर्भा᳘रद्वाजाद्भा᳘र्द्वाज 19 आत्रेया᳘त्॥
मूलम् - विस्वरम्
१७ आग्निवेश्यः सैतवात् । १८ सैतवः पाराशर्य्यात् । १९ पाराशर्य्यो जातुकर्ण्यात् । २० जातूकर्ण्यो भारद्वाजात् । २१ भारद्वाजो भारद्वाजाच्चासुरायणाच्च गौतमाच्च । २२ गौतमो भारद्वाजात् । २३ भारद्वाजो बलाकाकौशिकात् । २४ बलाकाकौशिकः काषायणात् । २५ काषायणः सौकरायणात् । २६ सौकरायणस्त्रैवणेः । २७ त्रैवणिरौपज्ङ्घनेः । २८ औपजङ्घनिः सायकायनात् । २९ सायकायनः कौशिकायनेः । ३० कौशिकायनिर्घृतकौशिकात् । ३१ घृतकौशिकः पाराशर्य्यायणात् । ३२ पाराशर्य्यायणः पाराशर्य्यात् । ३३ पाराशर्य्यो जातूकर्ण्यात् । ३४ जातूकर्ण्यो भारद्वाजात् । ३५ भारद्वाजो भारद्वाजाच्चासुरायणाच्च यास्काच्च । ३६ आसुरायणस्त्रैवणेः । ३७ त्रैवणिरौपजन्धनेरासुरेः । ३८ आसुरिर्भारद्वाजात् । ३९ भारद्वाज आत्रेयात् ॥ २७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“आग्निवेश्यः सैतवात्” ॥ २७ ॥
२८
विश्वास-प्रस्तुतिः
(दा) आत्रेयो मा᳘ण्टेः॥
मा᳘ण्टिर्ग्गौ᳘तमाद्गौ᳘तमो गौ᳘तमाद्गौ᳘तमो व्वा᳘त्स्याद्वा᳘त्स्यः शा᳘ण्डिल्याच्छा᳘ण्डिल्यः कै᳘शोर्य्यात्का᳘प्यात्कै᳘शोर्य्यः का᳘प्यः कुमारहारिता᳘त्कुमारहारितो᳘ गालवा᳘द्गालवो᳘ व्विदर्भ्भीकौण्डिन्या᳘द्विदर्भ्भीकौण्डिन्यो᳘ व्वत्स᳘नपातो बा᳘भ्भ्रवाद्वत्स᳘नपाद्बा᳘भ्भ्रवः पथः सौ᳘भरात्पन्थाः सौ᳘भरो ऽया᳘स्यादाङ्गिरसा᳘दया᳘स्य ऽआङ्गिरस ऽआ᳘भूतेस्त्वा᳘ष्ट्रादा᳘भूतिस्त्वा᳘ष्ट्रो व्विश्व᳘रूपात्त्वा᳘ष्ट्राद्वि᳘श्वरूपस्त्वा᳘ष्ट्रो ऽश्वि᳘भ्यामश्वि᳘नौ दधी᳘च ऽआथर्व्वणा᳘द्दध्य᳘ङ्ङाथर्व्वणो᳘ ऽथर्व्वणो दै᳘वाद᳘थर्व्वा दै᳘वो मृत्योः᳘ प्प्राध्व᳘ᳫँ᳘सनान्मृत्युः᳘ प्प्राध्व᳘ᳫँ᳘सनः प्प्रध्व᳘ᳫँ᳘सनात्प्प्रध्व᳘ᳫँ᳘सन ऽएकर्ष्षे᳘रेकर्ष्षि᳘र्व्विप्प्र᳘जित्तेर्विप्प्र᳘जित्तिर्व्व्यष्टे᳘र्व्व्यष्टिः[[!!]] सना᳘रोः सना᳘रुः सनात᳘नात्सनात᳘नः स᳘नगात्स᳘नगः परमेष्ठि᳘नः परमेष्ठी ब्ब्र᳘ह्मणो ब्ब्र᳘ह्म स्वय᳘म्भु ब्ब्र᳘ह्मणे न᳘मः॥

आत्रेयो मा᳘ण्टेः॥
मा᳘ण्टिर्गौ᳘तमाद्गौ᳘तमो गौ᳘तमाद्गौ᳘तमो वा᳘त्स्याद्वा᳘त्स्यः शा᳘ण्डिल्याछा᳘ण्डिल्यः कै᳘शोर्यात्का᳘प्यात्कै᳘शोर्यः का᳘प्यः कुमारहारिता᳘त्कुमारहारितो᳘ गालवा᳘द्गालवो᳘ विदर्भीकौण्डिन्या᳘द्विदर्भीकौण्डिन्यो 20 वत्स᳘नपातो बा᳘भ्रवाद्वत्स᳘नपाद्बा᳘भ्रवः पथः सौ᳘भरात्पन्थाः सौ᳘भरोऽया᳘स्यादाङ्गिरसा᳘दया᳘स्य आङ्गिरस आ᳘भूतेस्त्वा᳘ष्ट्रादा᳘भूतिस्त्वा᳘ष्ट्रो विश्व᳘रूपात्त्वा᳘ष्ट्राद्वि᳘श्वरूपस्त्वा᳘ष्ट्रोऽश्वि᳘भ्यामश्वि᳘नौ दधी᳘च आथर्वणा᳘द्दध्य᳘ङ्ङाथर्वणो᳘ऽथर्वणो दै᳘वाद᳘थर्वा दै᳘वो मृत्योः᳘ प्राध्व᳘ᳫं᳘सनान्मृत्युः᳘ प्राध्व᳘ᳫं᳘सनः प्रध्व᳘ᳫं᳘सनात्प्रध्व᳘ᳫं᳘सन एकर्षे᳘रेकर्षि᳘र्विप्र᳘जित्तेर्विप्र᳘जित्तिर्व्य᳘ष्टेर्व्य᳘ष्टिः सना᳘रुः सना᳘रुः सनात᳘नात्सनात᳘नः स᳘नगात्स᳘नगः परमेष्ठि᳘नः परमेष्ठी ब्र᳘ह्मणो ब्र᳘ह्म स्वय᳘म्भु ब्र᳘ह्मणे न᳘मः॥
मूलम् - विस्वरम्
४० आत्रेयो माण्टेः । ४१ मण्टिर्गौतमात् । ४२ । गौतमो गौतमात् । ४३ । गौतमो वात्स्यात् । ४४ वात्स्यः शाण्डिल्यात् । ४५ शण्डिल्यः कैशोर्यात्काप्यात् । ४६ कैशोर्यः काप्यः कुमारहारितात् । ४७ कुमारहारितो गालवात् । ४८ गालवो विदर्भीकण्डिन्यात् । ४९ विदर्भीकण्डिन्यो वत्सनपातो बाभ्रवात् । ५० वत्सनपाद्बाभ्रवः पथः सौभरात् । ५१ पन्थाः सौभरो ऽयास्यादाङ्गिरसात् । ५२ अयास्य आङ्गिरस आभूतेस्त्वाष्ट्रात् । ५३ आभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्रात् । ५४ विश्वरूपस्त्वाष्ट्रः अश्विभ्याम् । ५५ अश्विनौ दधीच आथर्वणात् । ५६ दध्यङ् आथर्वणः अथर्वणो दैवात् । ५७ अथर्वा दैवो मृत्योः प्राध्वंसनात् । ५८ मृत्युः प्राध्वंसनः प्रध्वंसनात् । ५९ प्रध्वंसन एकर्षेः । ६० एकर्षिर्विप्रजित्तेः । ६१ विप्रजित्तिर्व्यष्टेः । ६२ व्यष्टिः सनारोः । ६३ सनारुः सनातनात् । ६४ सनातनः सनगात् । ६५ सनगः परमेष्ठिनः । ६६ परमेष्ठी ब्रह्मणः । ६७ ब्रह्म स्वयम्भु । ब्रह्मणे नमः ॥ २८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“आत्रेयो माण्टेः” ॥ २८ ॥
इति श्री-हृषीकेश-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां चतुर्थे ऽध्याये तृतीयं याज्ञवल्क्य-मैत्रेयी-संवाद-ब्राह्मणं परिसमाप्तम् ॥ १४ । (७) ४ । ३ ॥
चतुर्थो ऽध्यायश्च समाप्तः ॥ (बृ. उप.) १४-४ ॥
इति बृहदारण्यकोपनिषदि मध्यमे याज्ञवल्क्यकाण्डं मुनिकाण्डं वा परिसमाप्तम् ॥
-
भा᳘र्ये acc.! ↩︎
-
Are we to read जिष्यन्न्वा᳘ ? ↩︎
-
प्रिया᳘ खलु नो भवती, वाचं तु᳘ मे व्याच᳘क्षाण᳘स्य A. ↩︎
-
ऽय᳘मा᳘त्मानु AM. - ibid. भ᳘वति acc. ! ↩︎
-
the accent of वेद᳘ (in १२ वे᳘द as usually) seems to imply the later addition of the respective passage, which is moreover wanting at ५, ४, ५.६. ↩︎
-
मै᳘त्रेय्या’ acc. ! - ibid. मते᳘ विज्ञात᳘ AM. ↩︎
-
the accent of वेद᳘ (in १२ वे᳘द as usually) seems to imply the later addition of the respective passage, which is moreover wanting at ५, ४, ५.६. ↩︎
-
सैन्धवघ᳘नो । अनन्त᳘रो AM. ↩︎
-
यद्वै तन्न᳘ रसयति । विजानन्वै AM. ↩︎
-
यद्वै तन्न᳘ वदति AM. - ibid. न हि᳘ च कुर्व᳘तो विपरिलोपो᳘ A. first hand, न हि᳘ वक्तुर्व᳘चो विपरि A. sec. h. M. (and at ३. १९. AM.). I am at a loss to explain the व᳘चो otherwise than by the assumption of its standing instead of व᳘चसो. Perhaps also we are to read वक्तु᳘र्वाचो ? ↩︎
-
यद्वै तन्न᳘ शृणोति AM. ↩︎
-
यद्वै तन्न᳘ मनुते AM. ↩︎
-
यद्वै तन्न᳘ स्पृशति । स्पृ᳘शन्वै त᳘त्स्प्रष्ट᳘व्यं AM ↩︎
-
यद्वै तन्न᳘ विजानाति । वि᳘जानन्वै त᳘द्विज्ञे᳘यं न᳘ विजानाति AM ↩︎
-
त᳘त्रा᳘न्योऽन्य᳘त्पश्ये᳘द᳘न्योऽन्य᳘ज्जिघ्रे᳘द᳘न्योऽन्य᳘द्रसये᳘द᳘न्योऽन्य᳘दभिवदे᳘दन्योऽन्य᳘छृणुया᳘द᳘न्योऽन्य᳘न्मन्वीता᳘न्योऽन्य᳘त्स्पृशे᳘द᳘न्योऽन्य᳘द्वि᳘जानीयात् AM. ↩︎
-
मै᳘त्रेय्ये acc. ! ↩︎
-
बैजवा R. - ibid. वैष्टयुरे A. वैष्टपुरे MR. ↩︎
-
बलाका R. - ibid. पजंघनेरौपजंघनिः साकायनात्साकायनः R., but जंघनेरौपजंघनिरासुरे R. ↩︎
-
विदर्भाकौण्डि A. – ibid. स्वयंभू R. - ibid. ब्र᳘ह्मणे᳘ नमः AM. ↩︎