०१
विश्वास-प्रस्तुतिः
स य᳘त्राय᳘ᳫँ᳘ शारीर᳘ ऽआत्मा᳘॥
(त्मा ऽब) अबल्यन्नी᳘त्य सम्मोह᳘मिव न्येत्य᳘थैनमेते᳘ प्प्राणा᳘ ऽअभिसमा᳘यन्ति स᳘ ऽएता᳘स्तेजोमात्राः᳘ समभ्याद᳘दानो हृ᳘दयमे᳘वान्व᳘वक्रामति॥
मूलम् - श्रीधरादि
स य᳘त्राय᳘ᳫँ᳘ शारीर᳘ ऽआत्मा᳘॥
(त्मा ऽब) अबल्यन्नी᳘त्य सम्मोह᳘मिव न्येत्य᳘थैनमेते᳘ प्प्राणा᳘ ऽअभिसमा᳘यन्ति स᳘ ऽएता᳘स्तेजोमात्राः᳘ समभ्याद᳘दानो हृ᳘दयमे᳘वान्व᳘वक्रामति॥
मूलम् - Weber
स य᳘त्रायं᳘ शारीर᳘ आत्मा᳘बल्यं नी᳘त्य॥
सम्मोह᳘मिव न्येत्य᳘थैनमेते᳘ प्राणा᳘ अभिसमा᳘यन्ति स᳘ एता᳘स्तेजोमात्राः᳘ समभ्याद᳘दानो हृ᳘दयमेॗवान्व᳘वक्रामति॥
मूलम् - विस्वरम्
शारीरकब्राह्मणम् ।
स यत्रायं शारीर आत्मा अबल्यं नीत्य सम्मोहमिव न्येति । अथैनमेते प्राणा अभिसमायन्ति । स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति ॥ १ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
प्रस्तुते संसारोपवर्णने “अयं शारीर आत्मा एभ्यः अङ्गेभ्यः सम्प्रमुच्य” इत्यादिना साकल्येन सम्प्रमोक्षणादि सूचितम् । तदिदानीं कस्मिन् काले कथं वेति जिज्ञासायां संसरणं वर्णयितव्यम् इत्याद्याशयवती उत्तरा श्रुतिस्तदर्थं प्रवर्तते- स यत्रायं शारीर ऽआत्मा ऽबल्यं नीत्य सम्मोहमिव न्येत्यथैनमेते प्राणा अभिसमायन्तीति । “तद्यथा ऽनः सुसमाहित” इत्यादौ प्रकृतः ‘सो ऽयं’ ‘शारीर आत्मा’ ‘यत्र’ यस्मिन् काले जराद्युक्तहेतुभिः अभिभवे सति ‘अबल्यमिव’ अबलभावमिव दौर्बल्यमिव ‘नीत्य’ नितरामित्वा प्राप्य यदा ‘सम्मोहमिव’ सम्मूढतामिव अविवेकतामिव ‘नितरां एति’ याति । ‘अथ’ तदा एनमात्मानं करण-स्वामिनं प्रति ‘एते प्राणाः’ वागादयः ‘अभिसमायन्ति’ अभिमुख्येन सम्यक् निर्लेपतया स्व-स्थानात् आयन्ति आगच्छन्ति । करणानि सामस्त्येनात्मा ऽभिमुख्यान्यायन्तीत्य् अर्थः । ननु-सम्मोहमिवेत्य् अत्रैव श्रुत इव-शब्दः कथमबल्यमिवेत्य् अत्रापि सम्बद्धो व्याख्यायते, इति चेत्; शृणु, सम्मोहो हि करणानां स्व-स्थानादार्ढ्यवशात्स्वगोचरेषु अशक्ततया व्याकुली-भावः । स च मोह-कार्य-भूत-देह-निष्ठः, न त्वात्मनिष्ठः । तस्य तु देहैक्ये अध्यास-वशात् आत्मा सम्मोहं न्येति इत्य् एतदुपचर्यते इत्य् आत्मनि सम्मोहस्योपचरितत्वद्योतनार्थं इव-शब्दः प्रयुक्तः । अबल्यं नीत्येत्य् अत्र च ल्यप्प्रत्ययश्रुतेः । अबल्यस्य सम्मोहेन समान-कर्तृता अवगता । अतस्तत्प्रसक्त्या अपि आत्मनः कर्तृत्वं वक्तव्यम् । तच्च तस्य साक्षान्नोपपद्यते, असङ्गत्वात् अमूर्तत्वात् “अजरः” इत्यादि-श्रुतेः अबल्य-हेतु-जराद्यभिभवा-सम्बद्धत्वाच्च । तस्मात्तत्राप्य् उपचरितत्वं द्योतयितुं इव-शब्दमाकृष्य व्याख्यानमुचितम् । उभयत्रापि आत्मनि कर्तृत्वस्य परोपाधि-निमित्तकत्वस्य तुल्यत्वादिति । कथं करणानि आत्मानमभिमुखतः सामस्त्येनायान्ति इत्यपेक्षायां तदागमनप्रकारमाह- स एतास्-तेजो-मात्राः समभ्याददान इत्यादिना । ‘सः’ प्रकृतः अविद्वानात्मा ‘तेजो-मात्राः’ तेजः-शब्देन भूत-पञ्चकमुच्यते । मीयन्ते विषया याभिस्ता मात्राः इति व्युत्पत्तेः, विषय-प्रकाश-हेतु-भूतानि चक्षुरादि-करणानि मात्रा अंशाः, तेजो-मात्राः । रूपादि-प्रकाशकानि करणानीति यावत् । ताः ‘समभ्याददानः’ सम्यक् निश्शेषं अभिमुख्येन आददान उपसंहरमाणः मृतिकाले ‘हृदयमेव’ हृदयस्थां बुद्धिमेव ‘अन्ववक्रामति’ अन्वगच्छति बुद्धावेवाभिव्यक्तविज्ञानो भवतीत्य् अर्थः । समभ्याददान इति शानच्-प्रत्यय-प्रयोगात् आत्मनः करणादान-स्वात्मोपसंहारयोः यौगपद्यं दर्शितम् । करणोपाधिमन्तरेण आत्मनः स्वतः-सङ्कोच-विकासयोरभावात् । हृदयमेवेत्येवकारः स्वप्न-सुषुप्तिव्यावृत्त्यर्थः । स्वप्ने हि देहस्थानेव नाडी-गतान् वासनात्मकान् विषयान् भुञ्जानः तदनुसरन् आत्मा अवतिष्ठते । सुषुप्तौ च कारण-ब्रह्मात्मना अग्निरिव तप्तलोहं देहं संव्याप्य तिष्ठति । तदुभयमुत्क्रान्ति-काले नास्तीति भावः ॥ १ ॥
०२
विश्वास-प्रस्तुतिः
स य᳘त्रैष चा᳘क्षुषः पुरुषः[[!!]]॥
प᳘राङ्पर्य्याव᳘र्तते ऽथा᳘रूपज्ञो भवत्येकी᳘भवति न᳘ पश्यती᳘त्याहुरेकी᳘भवति न᳘ जिघ्घ्रती᳘त्याहुरेकी᳘भवति न᳘ रसयती᳘त्याहुरेकी᳘भवति न᳘ व्वदती᳘त्याहुरेकी᳘भवति न[[!!]] शृणोती᳘त्याहुरेकी᳘भवति न᳘ मनुत ऽइ᳘त्याहुरेकी᳘भवति न᳘ स्पृशती᳘त्याहुरेकी᳘भवति न व्वि᳘जानाती᳘त्याहुः॥
मूलम् - श्रीधरादि
स य᳘त्रैष चा᳘क्षुषः पुरुषः[[!!]]॥
प᳘राङ्पर्य्याव᳘र्तते ऽथा᳘रूपज्ञो भवत्येकी᳘भवति न᳘ पश्यती᳘त्याहुरेकी᳘भवति न᳘ जिघ्घ्रती᳘त्याहुरेकी᳘भवति न᳘ रसयती᳘त्याहुरेकी᳘भवति न᳘ व्वदती᳘त्याहुरेकी᳘भवति न[[!!]] शृणोती᳘त्याहुरेकी᳘भवति न᳘ मनुत ऽइ᳘त्याहुरेकी᳘भवति न᳘ स्पृशती᳘त्याहुरेकी᳘भवति न व्वि᳘जानाती᳘त्याहुः॥
मूलम् - Weber
स य᳘त्रैष चा᳘क्षुषः॥
पु᳘रुषः प᳘राङ् पर्याव᳘र्ततेऽथा᳘रूपजो भवत्येकी᳘भवति न᳘ पश्यती᳘त्याहुरेकी᳘भवति न᳘ रसयती᳘त्याहुरेकी᳘भवति न᳘ वदती᳘त्याहुरेकी᳘भवति न᳘ शृणोती᳘त्याहुरेकी᳘भवति न᳘ मनुत इ᳘त्याहुरेकी᳘भवति न᳘ स्पृशती᳘त्याहुरेकी᳘भवति न वि᳘जानाती᳘त्याहुः 1 ॥
मूलम् - विस्वरम्
स यत्रैष चाक्षुषः पुरुषः पराङ् पर्यावर्तते । अथारूप-ज्ञो भवति । एकीभवति न पश्यतीत्य् आहुः । एकीभवति न जिघ्रतीत्य् आहुः । एकीभवति न रसयतीत्य् आहुः । एकीभवति न वदतीत्य् आहुः । एकीभवति न शृणोतीत्य् आहुः । एकीभवति न मनुत इत्याहुः । एकीभवति न स्पृशतीत्य् आहुः । एकीभवति न विजानातीत्य् आहुः ॥ २ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं हृदि करणोपसंहरणेन स्वात्मोपसंहरणे सति किं स्यात् इत्य् अपेक्षायां करणानुग्राहक-निवृत्ति-निमित्तकं रूपाद्यदर्शनं स्यादित्य् आह- स यत्रैष चाक्षुषः पुरुषः पराङ् पर्यावर्तते ऽथारूप-ज्ञो भवतीति । यो भोक्तृ-कर्म-प्रयुक्तो यावद्-देह-धारणं चक्षुषः अनुग्रहं कुर्वन् चक्षुषि वर्तते आदित्य-पुरुषः ‘सः’ एव ‘चाक्षुषः पुरुषः’ आदित्यांशः स्वप्रयोजक-भोक्तृ-कर्म-क्षये सति ‘यत्र’ यस्मिन् काले भोक्तृ-भोगेभ्यः ‘पराङ्’ विमुखः सन् स्वांशिभूत-देवता-रूपं प्रति ‘पर्यावर्तते’ आसमन्ताद्भावेन परिवर्तते । ‘अथ’ तदा मुमूर्षुः ‘अरूप-ज्ञो भवति’ । रूपं न जानातीत्य् अर्थः । ननु- तर्हि आदित्यानुग्रहादादित्यांशे गते चक्षुषः अत्यन्ताभाव एव स्यात् । अतश्चक्षुरभाव एव मुमूर्षोररूपज्ञत्वव्यवहारहेतुः स्यात् इतीमामाशङ्कां परिहरति- एकीभवति न पश्यतीत्य् आहुरिति । चक्षुर्देवता ऽऽदित्यांशस्य चक्षुषि अनुग्रहनिवृत्तिद्वारेण अंशि-देवतया ऐक्ये सति यदा चक्षुर्लिङ्गात्मना ‘एकीभवति’ तदा मुमूर्षुः पार्श्वस्थान् न पश्यतीत्य् आहुः । अतश्चक्षुषः स्वानुग्रह-निवृत्तौ स्वस्य हृदये लिङ्गात्मनि एकीभाव एव मुमूर्षोः अरूपज्ञत्वव्यवहारः । न तु चक्षुरभाव इत्य् अर्थः । एवं “एकीभवति न जिघ्रतीत्य् आहुः” इत्यादि- “न विजानातीत्य् आहुः” इत्य् अन्तं व्याख्येयम् । अत्र घ्राणेन्द्रियस्य “अथ प्राणमत्यवहत्” इत्याद्युद्गीथब्राह्मणोक्तो वायुः अनुग्राहक-देवता । रसनस्य वरुणः सोमो वा तस्यावात्मकत्वात् । वाचो वह्निः । श्रोत्रस्य दिशः । मनसश्चन्द्रमाः । स्पर्शस्य वायुः । बुद्धेः प्रजापतिरिति तत्तदिन्द्रियाणां क्रमेण देवता बोद्धव्याः । अत्र पाठ-क्रमः, नोत्क्रान्ति-क्रमाभिधायकः । कस्यचित् श्रोत्राद्य्-उत्क्रमणस्यैव प्रथमं दर्शनात् । अतो ऽत्रानियत एव क्रम इति भावः । एवं मरण-काले रूप-दर्शनराहित्ये देवतानिवृत्तिः, करणानां हृदये लिङ्गात्मना एकीभावश्चेत्य् अर्थद्वयं साधकमित्य् उक्तम् ॥ २ ॥
०३
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘स्य हैत᳘स्य हृ᳘दयस्या᳘ग्ग्रम्प्र᳘द्योतते॥
ते᳘न प्प्रद्योते᳘नैष᳘ ऽआत्मा नि᳘ष्क्रामति चक्षुष्टो᳘ वा मूर्ध्ध्नो᳘ वा ऽन्ये᳘भ्यो वा शरीरदेशे᳘भ्यस्त᳘मुत्क्रा᳘मन्तम्प्रा᳘णो ऽनू᳘त्क्रामति प्प्राण᳘मनूत्क्रा᳘मन्तᳫँ᳭ स᳘र्व्वे प्प्राणा᳘ ऽअनू᳘त्क्रामन्ति सञ्ज्ञा᳘नमे᳘वान्व᳘वक्रामति स᳘ ऽएष ज्ञः स᳘विज्ञानो भवति त᳘म्विद्याकर्म्म᳘णी समन्वा᳘रभेते पूर्व्वप्प्रज्ञा᳘ च॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘स्य हैत᳘स्य हृ᳘दयस्या᳘ग्ग्रम्प्र᳘द्योतते॥
ते᳘न प्प्रद्योते᳘नैष᳘ ऽआत्मा नि᳘ष्क्रामति चक्षुष्टो᳘ वा मूर्ध्ध्नो᳘ वा ऽन्ये᳘भ्यो वा शरीरदेशे᳘भ्यस्त᳘मुत्क्रा᳘मन्तम्प्रा᳘णो ऽनू᳘त्क्रामति प्प्राण᳘मनूत्क्रा᳘मन्तᳫँ᳭ स᳘र्व्वे प्प्राणा᳘ ऽअनू᳘त्क्रामन्ति सञ्ज्ञा᳘नमे᳘वान्व᳘वक्रामति स᳘ ऽएष ज्ञः स᳘विज्ञानो भवति त᳘म्विद्याकर्म्म᳘णी समन्वा᳘रभेते पूर्व्वप्प्रज्ञा᳘ च॥
मूलम् - Weber
त᳘स्य हैत᳘स्य॥
हृ᳘दयस्या᳘ग्रम् प्र᳘द्योतते ते᳘न प्रद्योते᳘नैष᳘ आत्मा नि᳘ष्क्रामति चक्षुष्टो᳘ वा मूर्ध्नो᳘ वान्ये᳘भ्यो वा शरीरदेशे᳘भ्यस्त᳘मुत्क्रा᳘मन्तम् प्राॗणोऽनू᳘त्क्रामति प्राण᳘मनूत्क्रा᳘मन्तᳫं 2 स᳘र्वे प्राणा᳘ अनू᳘त्क्रामन्ति संज्ञा᳘नमेॗवान्व᳘वक्रामति स᳘ एष ज्ञः स᳘विज्ञानो भवति तं᳘ विद्याकर्म᳘णी समन्वा᳘रभेते पूर्वप्रज्ञा᳘ च॥
मूलम् - विस्वरम्
तस्य हैतस्य हृदयस्याग्रं प्रद्योतते । तेन प्रद्योतेनैष आत्मा निष्क्रामति, चक्षुष्टो वा मूर्ध्नो वा अन्येभ्यो वा शरीर-देशेभ्यः । तमुत्क्रामतं प्राणो ऽनूत्क्रामति । प्राणमनूत्क्रामंतं सर्वे प्राणा अनूत्क्रामन्ति । संज्ञानमेवान्ववक्रामति । स एष ज्ञः सविज्ञानो भवति । तं विद्या-कर्मणी समन्वारभेते । पूर्व-प्रज्ञा च ॥ ३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं करणेषूपसंहृतेषु सत्सु निष्क्रमणसाधनीभूतो यः अन्तर्व्यापारो भवति तमाह- तस्य हैतस्य हृदयाग्रं प्रद्योतते इति । ‘तस्य’ लिङ्गोपाधिकस्य ‘ह’ किल ‘एतस्य’ प्रकृतस्य उपसंहृत-करणस्य मुमूर्षोः ‘हृदयस्य’ हृदयच्छिद्रस्य ‘अग्रं’ नाडी-मुखं ‘प्रद्योतते’ प्रकाशते । यथा स्वप्नं प्रतिपित्सोः जाग्रद्वासनादानरूपेण स्वेन भासा चैतन्य-ज्योतिषा च करण-व्यतिरेकेण हृदये वासना-प्रकाशात्मकं ज्ञानं भवतीति ज्योतिर्ब्राह्मणे श्रुतम् । तथा मृतिदशायामपि तेजो-मात्रा ऽऽदानकृतेन वासना-रूपेण आत्म-चैतन्य-ज्योतिषा च प्राप्य-देहादेहादि-विषयबुद्धि-वृत्त्यात्मना हृदयाग्र-प्रद्योतनं भवति । ‘तेन’ हृदयाग्र ‘प्रद्योतेन’ प्रद्योतितः ‘एष आत्मा’ विज्ञानमयः लिङ्गोपाधिकः ‘निष्क्रामति’ । लिङ्गगमनात् स्वयमपि तदवष्टम्भेन निर्गच्छतीत्य् अर्थः । ननु- उक्त-प्रद्योतेन कर्मार्जितं लोकं पश्यन् आत्मा मरण-काले हृदयात्केन मार्गेण निर्गच्छतीत्य् आकाङ्क्षायां तमाह- चक्षुष्टो वा मूर्ध्नो वेति । यदि अस्य आदित्य-लोक-प्राप्ति-निमित्तं ज्ञानं कर्म वा स्यात्, तदा असौ ‘चक्षुष्टः’ चक्षुषः सकाशात् निष्क्रामति । यदि ब्रह्म-लोक-प्राप्ति-निमित्तं ज्ञानं कर्म वा स्यात् तदा ‘मूर्ध्नः’ द्वारा निष्क्रामति । यथा-कर्म यथा-ज्ञानं ‘अन्येभ्यो वा शरीर-देशेभ्यः’ श्रोत्रादिभ्यः सकाशात् निष्क्रामतीत्य् अर्थः । तस्मात् सकर्मैवानुष्ठेयमिति भावः । ननु- निर्गच्छतां प्राणानां मध्ये कस्य प्राधान्यमित्यपेक्षायामाह- तमुत्क्रामन्तं प्राणो ऽनूत्क्रामतीति । यथाकर्म यथाश्रुतं ‘तं’ विज्ञानात्मानं ‘उत्क्रामन्तं’ परलोकाय प्रस्थितं परलोकाय उद्भूताभिप्रायं ‘अनु’ सृत्य ‘प्राणः’ सर्वाधिकारस्थानीयो राज्ञ इवाधिकारी राजानमुत्क्रामति । तं च ‘प्राणमनूत्क्रामन्तं’ अनुगच्छन्तं सन्तं ‘सर्वे प्राणाः’ वागादयः प्रधानस्य परिवार-स्थानीयाः अनूत्क्रामन्तीत्य् अर्थः । न चात्रानु-शब्दः क्रमावद्योतकः । किं तु- विज्ञानमयादेः प्राधान्य-द्योतकः । तथा हि- वागादयो हि प्राणा मुख्य-प्राणाधीनाः इति उद्गीथ-ब्राह्मणे निर्णीतम् । अतो वागाद्यपेक्षया मुख्य-प्राणस्य प्राधान्यम् । तथा मुख्य-प्राणो ऽपि स्थित्युत्क्रमणादौ भोक्तुः कर्माधीनः । अतो मुख्य-प्राण-अपेक्षया विज्ञानात्मनः प्राधान्यम् । इदं च प्राधान्यमभिप्रेत्य इह अनु-शब्दः प्रयुक्तः । लिङ्गावभासकस्यात्मनो लिङ्गस्य च उत्क्रमणे देश-काल-भेदाभावात् न क्रमार्थः अनु-शब्द इति भावः । एवं म्रियमाणस्यार्थसिद्धिमाह- संज्ञानमेवान्ववक्रामतीति । यथोत्क्रमणात्प्राक् स्वकर्मानुसारिभाविदेहविज्ञानसहितो भवति । तथा उत्क्रान्त्यनन्तरं ‘संज्ञानमेव‘ विशेषज्ञानोद्भासितमेव गन्तव्यं ‘अन्ववक्रामति’ अनुगच्छतीत्य् अर्थः । तथा च दुःखहानिमिच्छता मरण-काले स्वातन्त्र्यार्थं तत्साधनोपनिषद्हितशमादौ यत्नवता भवितव्यम् । किं च- सर्व-शुभ-कर्म-विधायित्वेन अशुभ-कर्म-निषेधित्वेन च शास्त्रस्य इह कर्म-भूमौ महानारम्भो दृश्यते । सो ऽपि मृतिकाले स्वातन्त्र्यार्थं पुण्योपचयकर्तव्यतां दर्शयति । अतस्तदपि यथा ऽधिकारं कर्तव्यमिति प्रकरणार्थः । यदुक्तं हृदयाग्रप्रद्योतनं तदेव स्पष्टयति- स एष ज्ञः सविज्ञानो भवतीति । ‘स एषः’ मुमूर्षुः आत्मा ‘ज्ञः’ ज्ञातृस्वभाव एव सन् सविज्ञानः’ पूर्व-प्रज्ञा ऽख्य-भावना-प्रधानेन विज्ञानेन सह वर्तमानो भवति । स्वप्ने इव विशेष-विज्ञानवान् भवतीत्य् अर्थः । एतच्च सविज्ञानत्वं कर्मवशादेवास्य भवति न स्वतन्त्रतः । स्वातन्त्र्येण हि सविज्ञानत्वे सर्वः कृत-कृत्यः स्यात् । नैव तु तल्लभ्यते । तस्मात् कर्मणोद्भाव्यमानेन भाविदेहविषयकान्तःकरण-वृत्त्य्-आश्रित-वासनात्मक-विशेष-ज्ञानेन सर्वो लोकः अन्त-काले स-विज्ञानो भवतीति भावः । पूर्वं शकटवत् सम्भृत-सम्भार उत्सर्ज्जद्यातीत्युक्तम् । तत्रेदानीं किं तस्य परलोकस्य प्रस्थितस्य पाथेयं शाकटिक-सम्भार-स्थानीयं परलोकं गत्वा यद्भुङ्क्ते । तत्र शरीराद्य्-आरम्भकं च किमिति जिज्ञासायामाह- तं विद्या-कर्मणी समन्वारभेते पूर्व-प्रज्ञा चेति । प्रमाणात् अप्रमाणाद्वा जातं सम्यक्-ज्ञान-संशय-ज्ञानमिथ्याज्ञानसाधारणं संसार-हेतु-भूतं ज्ञानमात्रम् इह विद्या-शब्देनोच्यते न परमात्म-ज्ञानम् तस्य संसार-विरोधित्वात् । शास्त्रतो लोकतो वा स्वभावतो वा यत् दृष्ट-अदृष्टार्थ-स्वरूपं वाङ्-मनः-काय-साध्यं तत्सर्वं इह कर्म-शब्देनोच्यते । क्रियमाणस्य कर्मणः तत्फलस्य च भुक्तस्य यः संस्कारो हृदि संस्थितः सा पूर्व-प्रज्ञेत्युच्यते । इह विद्या-कर्मणोः कार्यकोटिरूपत्वात् समस्य वचनं कृतम् । पूर्वप्रज्ञायास्तदुद्भवप्राधान्यार्थं पृथक्-करणम् । प्राधान्यं तस्याः भुज्यमानस्य कर्मणः परिशेषरूपत्वाज्जायमानस्य मूलत्वाच्च । न च- एतस्याः कर्माद्यनुष्ठानादौ प्रयोजकत्वमेव नास्ति कुतः प्राधान्यमिति वाच्यम् । पूर्वप्रज्ञोद्भवानुद्भवनिमित्तकस्य बहुतरस्य कार्यस्य दर्शनात् । तथा हि-केषाञ्चित् कासुचित् क्रियासु चित्रकर्मादिलक्षणासु विनैवेहाभ्यासं जन्मत एवारभ्य कौशलं दृश्यते । केषाञ्चित् पुनरत्यन्तसुगमास्वपि क्रियासु रज्जुनिर्माणादिलक्षणासु अकौशलं दृश्यते । अतः पूर्व-प्रज्ञया विना विद्या-कर्मणी तत्-फल-भोगे वा न कस्यचित् प्रवृत्तिनियुक्तं तस्याः प्राधान्यम् (?) । अथवा विद्या-कर्मभ्यां च पूर्व-प्रज्ञाया उद्भवात् तयोः कारण-कोटित्वात् समस्य वचनम् । इतरस्याः कार्यत्वात् पृथक्-ग्रहणं । सर्वथा ऽपि कार्य-कारण-कोट्योः द्वैराश्यसिद्ध्यर्थमित्थं निर्द्देशः । तस्मादेतत् त्रयं विद्याकर्मपूर्वप्रज्ञाख्यं शाकटिक-सम्भार-स्थानीयं परलोक-पाथेयमिति । तथा च- तं परलोकं गच्छन्तं विद्या च कर्म च ‘विद्या-कर्मणी’ उक्तरूपे ‘समन्वारभेते’ सम्यगन्वारभेते अनुगच्छतः । पूर्व-प्रज्ञा चोक्त-लक्षणा समन्वारभते, इति वाक्य-योजना । तस्मादेव विद्या-कर्म-पूर्व-प्रज्ञाख्यं त्रयं देहान्तर-प्रतिपत्त्य्-उपभोग-साधनम् । तस्मात् विद्या-कर्मादि शुभमेव समाचरेत् शुभ-फलायेति प्रकरणार्थः ॥ ३ ॥
०४
विश्वास-प्रस्तुतिः
तद्य᳘था तृणजलायुका᳘॥
तृ᳘णस्या᳘न्तं ग᳘त्वा ऽऽत्मा᳘नमुपसᳫँ᳭ह᳘रत्येव᳘मे᳘वायम्पु᳘रुष ऽइदᳫँ᳭ श᳘रीरन्निहत्या᳘विद्याङ्गमयि᳘त्वा ऽऽत्मा᳘नमुपस᳘ᳫँ᳘हरति॥
मूलम् - श्रीधरादि
तद्य᳘था तृणजलायुका᳘॥
तृ᳘णस्या᳘न्तं ग᳘त्वा ऽऽत्मा᳘नमुपसᳫँ᳭ह᳘रत्येव᳘मे᳘वायम्पु᳘रुष ऽइदᳫँ᳭ श᳘रीरन्निहत्या᳘विद्याङ्गमयि᳘त्वा ऽऽत्मा᳘नमुपस᳘ᳫँ᳘हरति॥
मूलम् - Weber
तद्य᳘था तृणजलायुका᳟॥
तृ᳘णस्या᳘न्तं गॗत्वात्मा᳘नमुपसंह᳘रत्येव᳘मेॗवायम् पु᳘रुष इदं श᳘रीरं निहत्या᳘विद्यां गमयिॗत्वात्मा᳘नमुपस᳘ᳫं᳘हरति॥
मूलम् - विस्वरम्
तद्यथा तृण-जलायुका तृणस्यान्तं गत्वा आत्मानमुपसंहरति । एवमेव अयं पुरुष इदं शरीरं निहत्याविद्यां गमयित्वा आत्मानमुपसंहरति ॥ ४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं सम्भृत-विद्यादि-सम्भारो देहान्तरं प्रतिपद्यमानः कथं तत्प्रतिपद्यते इत्य् अत्रार्थे दृष्टान्तमाह- तद्यथा तृण-जलायुका तृणस्यान्तं गत्वा ऽऽत्मानमुपसंहरतीति । तत्तत्र उद्भूत-वासनस्य म्रियमाणस्य तया वासनया देहान्तरसञ्चारे अयं दृष्टान्तः । ‘यथा’ येन प्रकारेण ‘तृण-जलायुका’ तृणस्यान्तमवसानं गत्वा अर्थात्तृणान्तरमाश्रित्य आत्मानमात्मनः पूर्वावयवमुपसंहरति अग्रिमावयवस्थाने इत्य् अर्थः । दार्ष्टान्तिकमाह- एवमेवायं पुरुष इदं शरीरं निहत्याविद्यां गमयित्वा ऽऽत्मानमुपसंहरतीति । यथा ऽयं दृष्टान्तः । ‘एवमेवायं पुरुषः’ यः प्रकृतः संसारी ‘इदं शरीरं’ पूर्वोपात्तं ‘निहत्य’ स्वप्न-प्रतिपित्सुरिव पातयित्वा ‘अविद्यां गमयित्वा’ अचेतनं कृत्वा आत्माभिमान-त्यागेन प्रसारितया वासनया अर्थाच्छरीरान्तरं गृहीत्वा ‘आत्मानमुपसंहरति’ । तत्रैवाहमिति आत्म-भावं प्रतिपद्यते न पूर्व-देहे इत्य् अर्थः । एतेन एतदपास्तं यद्वदन्ति पौराणिकाः-तृण-जलायुकादृष्टान्तात् देहान्तरं गृहीत्वा पूर्व-देहं मुञ्चत्यात्मेति स्थूल-देह-विशिष्टस्यैव परलोक-गमनमिति । यस्मात् देहनिर्गमनात्प्रागवस्थायामेव यथोक्ता हृदयस्था वासना विद्या-कर्म-निमित्तं भावि-देहं स्पृशति । जीवो ऽपि तत्राभिमानं करोति । पुनस्तु पूर्व-देहं त्यजतीत्येतस्मिन्नर्थे तृण-जलायुकादृष्टान्तः श्रुत्या दर्शितः । तस्मात् पूर्व-देह-विशिष्टस्यैव परलोक-गमनमिति अयुक्तमिति ॥ ४ ॥
०५
विश्वास-प्रस्तुतिः
तद्य᳘था पेशस्कारी᳘॥
पे᳘शसो मा᳘त्रामपादा᳘यान्यन्न᳘वतरङ्कल्याण᳘तरᳫँ᳭ रूप᳘न्तनुत᳘ ऽएव᳘मे᳘वायम्पु᳘रुष ऽइदᳫँ᳭ श᳘रीरन्निहत्या᳘विद्याङ्गमयि᳘त्वा ऽन्यन्न᳘वतरᳫँ᳭ रूप᳘न्तनुते पि᳘त्र्यम्वा गान्धर्व्व᳘म्वा ब्ब्राह्म᳘म्वा प्प्राजापत्य᳘म्वा दै᳘वम्वा मानुष᳘म्वा ऽन्ये᳘भ्यो वा भूते᳘भ्यः॥
मूलम् - श्रीधरादि
तद्य᳘था पेशस्कारी᳘॥
पे᳘शसो मा᳘त्रामपादा᳘यान्यन्न᳘वतरङ्कल्याण᳘तरᳫँ᳭ रूप᳘न्तनुत᳘ ऽएव᳘मे᳘वायम्पु᳘रुष ऽइदᳫँ᳭ श᳘रीरन्निहत्या᳘विद्याङ्गमयि᳘त्वा ऽन्यन्न᳘वतरᳫँ᳭ रूप᳘न्तनुते पि᳘त्र्यम्वा गान्धर्व्व᳘म्वा ब्ब्राह्म᳘म्वा प्प्राजापत्य᳘म्वा दै᳘वम्वा मानुष᳘म्वा ऽन्ये᳘भ्यो वा भूते᳘भ्यः॥
मूलम् - Weber
तद्य᳘था पेशस्कारी᳟॥
पे᳘शसो॥
मा᳘त्रामपादा᳘यान्यन्न᳘वतरं कल्याण᳘तरं रूपं᳘ तनुत᳘ एव᳘मेॗवायम् पु᳘रुष इदं श᳘रीरं निहत्या᳘विद्यां गमयिॗत्वान्यन्न᳘वतरं रूपं᳘ तनुते पि᳘त्र्यं वा गन्धर्वं᳘ वा ब्राह्मं᳘ वा प्राजापत्यं᳘ वा दै᳘वं वा मानुषं᳘ वान्ये᳘भ्यो वा भूते᳘भ्यः॥
मूलम् - विस्वरम्
तद्यथा पेशस्-कारी पेशसो मात्रामपादाय अन्यन्नवतरं कल्याणतरं रूपं तनुते । एवमेव अयं पुरुष इदं शरीरं निहत्याविद्यां गमयित्वा अन्यन्नवतरं रूपं तनुते । पित्र्यं वा । गान्धर्वं वा । ब्राह्मं वा । प्राजापत्यं वा । दैवं वा । मानुषं वा । अन्येभ्यो वा भूतेभ्यः ॥ ५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं जलायुकावत् वासनयैव शरीरान्तरं गच्छत आत्मनः तदारम्भकाणि पञ्च भूतानीति “तद्यथा राजानं” इत्यादावुक्तम् । तत्र किं नित्योपात्तमेव भूत-पञ्चकं पूर्व-पूर्व-देहद्वयोपमर्द्देन अन्यदन्यद्देहद्वयमारभते । किं वा अन्यदन्यदेव भूत-पञ्चकमन्यमन्यं देहं जनयतीति सन्देहे तत्तद्भूतपञ्चकोत्पत्तावपि कारणान्तरस्य मृग्यत्वात् मायायाः सर्व-कारणत्वे ऽपि तत्तद्देहारम्भ-समये तत्तदुपादान-भूत-पञ्चकोत्पादकत्वे प्रमाणाभावात् प्रति-देहारम्भं भूत-पञ्चक-व्यक्तिभेदे मानाभावाच्च न द्वितीयः पक्षः सम्भवतीत्यभिप्रेत्य प्रथम-पक्षमेवाङ्गीकारयितुं दृष्टान्तमाह- तद्यथा पेशस्-कारीति । तत्तत्र नित्योपात्तमेव मायामयं भूत-पञ्चकं प्रति-देहारम्भम् उपादानम् इत्य् अस्मिन्नर्थे दृष्टान्तः । ‘यथा’ लोके पेशः सुवर्णं तत्करोतीति ‘पेशस्-कारी’ सुवर्ण-कारः ‘पेशसः’ सुवर्णस्य ‘मात्रां’ पूर्व-रचनामपादायापच्छिद्योपमृद्य ‘अन्यत्’ पूर्वस्माद्रचना-विशेषात् भिन्नं नवादपि नवं ‘नवतरं’ अभिनवतरं कल्याणादपि कल्याणं कल्याणतरमतिशोभनं ‘रूपं’ ‘तनुते’ निर्मिनोति इत्य् अर्थः । दार्ष्टान्तिकमाह- एवमेवायं पुरुष ऽइदं शरीरं निहत्येत्य् आदिना । ‘रूपं’ संस्थान-विशेषं देहान्तरम् । अन्यत्तु पूर्ववत् । किं तदारभ्यमाणं शरीरमित्य् अपेक्षायामाह- पित्र्यं वा गान्धर्वं वा ब्राह्मं वा प्राजापत्यं वा दैवं वा मानुषं वेति । पितृभ्यो हितं ‘पित्र्यं’ पितृ-लोकोपभोग्यमिति यावत् । एवं तल्लोकोपभोगयोग्यं तत्तन्नामकं व्याख्यायेयम् । ‘ब्रह्म’ हिरण्य-गर्भः तल्लोकोपभोग-योग्यं ब्राह्मम् । प्रजापतिर्विराट् तल्लोकोपभोग-योग्यं ‘प्राजापत्यं वा’ शरीरम् । ‘तनुते’ इति प्रत्येकमभिसम्बध्यते । देहव्यक्तीनामानन्त्येन प्रत्येकं कथयितुमशक्यत्वात् अनुक्तं सर्वनामान्यशब्देन गृह्णाति- अन्येभ्यो वा भूतेभ्य इति । यथाकर्म यथाश्रुतं ‘अन्येभ्यो भूतेभ्यः’ प्रेततिर्यगादिभ्यः सकाशात् शरीरं तनुते इति सम्बध्यते । तस्माद्वर्तमानदेहारम्भकाण्य् एव भूतानि शरीरान्तरारम्भकाणि । तद्वशाच्चास्य संसरणमिति भावः ॥ ५ ॥
०६
विश्वास-प्रस्तुतिः
स वा᳘ ऽअय᳘मात्मा᳘ ब्ब्र᳘ह्म ॥
व्विज्ञानम᳘यो मनोम᳘यो व्वाङ्म᳘यः प्प्राणम᳘यश्चक्षुर्म्म᳘यः श्रोत्रम᳘य ऽआकाशम᳘यो व्वायुम᳘यस्तेजोम᳘य ऽआपोम᳘यः प्पृथिवीम᳘यः क्रोधम᳘यो ऽक्रोधम᳘यो हर्षम᳘यो ऽहर्षम᳘यो धर्म्मम᳘यो ऽधर्म्मम᳘यः सर्व्वम᳘यस्त᳘द्य᳘देदम्म᳘यो ऽदोम᳘य ऽइ᳘ति यथाकारी᳘ यथाचारी त᳘था भवति साधुकारी᳘ साधु᳘र्भ्भवति पापकारी पा᳘पो भवति पु᳘ण्यः पुण्येन[[!!]] क᳘र्म्मणा भ᳘वति पा᳘पः पा᳘पेने᳘ति॥
मूलम् - श्रीधरादि
स वा᳘ ऽअय᳘मात्मा᳘ ब्ब्र᳘ह्म ॥
व्विज्ञानम᳘यो मनोम᳘यो व्वाङ्म᳘यः प्प्राणम᳘यश्चक्षुर्म्म᳘यः श्रोत्रम᳘य ऽआकाशम᳘यो व्वायुम᳘यस्तेजोम᳘य ऽआपोम᳘यः प्पृथिवीम᳘यः क्रोधम᳘यो ऽक्रोधम᳘यो हर्षम᳘यो ऽहर्षम᳘यो धर्म्मम᳘यो ऽधर्म्मम᳘यः सर्व्वम᳘यस्त᳘द्य᳘देदम्म᳘यो ऽदोम᳘य ऽइ᳘ति यथाकारी᳘ यथाचारी त᳘था भवति साधुकारी᳘ साधु᳘र्भ्भवति पापकारी पा᳘पो भवति पु᳘ण्यः पुण्येन[[!!]] क᳘र्म्मणा भ᳘वति पा᳘पः पा᳘पेने᳘ति॥
मूलम् - Weber
स वा᳘ अय᳘मात्मा᳟॥
ब्र᳘ह्म विज्ञानम᳘यो मनोम᳘यो वाङ्म᳘यः प्राणम᳘यश्चक्षुर्म᳘यः श्रोत्रम᳘य आकाशम᳘यो वायुम᳘यस्तेजोम᳘य आपोम᳘यः पृथिवीम᳘यः 3 क्रोधम᳘योऽक्रोधम᳘यो हर्षम᳘योऽहर्षम᳘यो धर्मम᳘योऽधर्मम᳘यः सर्वम᳘यस्त᳘द्यॗदेदम्म᳘योऽदोम᳘य इ᳘ति यथाकारी᳘ यथाचारी त᳘था भवति साधुकारी᳘ साधु᳘र्भवति पापकारी पा᳘पो भवति पु᳘ण्यः पु᳘ण्येन क᳘र्मणा भ᳘वति पा᳘पः पा᳘पेने᳘ति॥
मूलम् - विस्वरम्
स वा अयमात्मा ब्रह्म । विज्ञानमयः । मनोमयः । वाङ्मयः । प्राणमयः । चक्षुर्मयः । श्रोत्रमयः । आकाशमयः । वायुमयः । तेजोमयः । आपोमयः । पृथिवीमयः । क्रोधमयः । अक्रोधमयः । हर्षमयः । अहर्षमयः । धर्ममयः । अधर्ममयः । सर्वमयः । तद्यदा इदम्मयः अदोमयः, इति । यथाकारी यथाचारी तथा भवति । साधुकारी साधुर्भवति । पापकारी पापो भवति । पुण्यः पुण्येन कर्मणा भवति । पापः पापेनेति ॥ ६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यो ऽयमात्मनः संसार-सम्बन्धः स वास्तवो न भवति किं तु- औपाधिक एवेति तदुपाधिनो दर्शयितुम् आत्मनो वास्तव-स्वरूपमाह- स वा ऽअयमात्मा ब्रह्मेति । ‘सः’ प्रकृतः संसारी । वै-शब्दस्तत्स्मृत्यर्थः । अयमपि विद्यातत्कार्यविनिर्मुक्तः स्वप्रकाशः अपरो ऽक्षात्मा कूटस्थः साक्षी चिद्धातुः एवंभूतः सो ऽहमात्मा ‘वै’ ‘ब्रह्म’ अशनायाद्यतीतपरमात्मैव अस्य संसारिणो वास्तवं रूपमित्य् अर्थः । ब्रह्मैव सन्नयमात्मा अविद्यया ऽब्रह्मवत् प्रतिपन्नः । पुनः सम्यक् ज्ञानोत्तद्ध्वंसे ब्रह्मैवावतिष्ठत इति भावः । इदानीं यत्प्रयुक्तः एवंविधब्रह्मात्मनो बन्धः तानुपाधीन् आह- विज्ञानमयो मनोमयो वाङ्मयः प्राणमय इति । विज्ञानं बुद्धिः तन्मयः तत्प्रायः । बुद्ध्यैक्याध्यासाद्धि धर्मस्य कर्तृत्वादेः आत्मन्यारोपः । अतस्तत्प्रायः । अस्मिन् प्रकरणे सर्वो ऽपि मयट् प्रायार्थः, न तु विकारार्थः । मनसः सन्निकर्षान्मनोमयः । विज्ञानमयत्वं चिन्मयत्वोपलक्षणम् । मनोमयत्वमहङ्कारमयत्वोपलक्षणमिति द्रष्टव्यम् । वदन-व्यापार-काले वाङ्मयः सः । प्राणमयः पञ्चवृत्तिकस्तन्मयस्तत्प्रायः । तथा रूप-दर्शन-काले चक्षुर्मयः । शब्द-श्रवण-काले श्रोत्रमयः । एतच्च रसनादेः कर्मेन्द्रियाणां चोपलक्षणपरमित्य् अर्थः । एवं प्राणबुद्ध्यादिद्वारेण चक्षुरादि-करणमयः सन्नात्मा शरीरारम्भकभूतमयो ऽपि भवतीत्य् आह- आकाशमयो वायुमयस्तेजोमय आपोमयः पृथिवीमय इति । आकाशशरीरारम्भे आकाशमयः । तथा वायव्यशरीरारम्भे वायुमयः । तैजस-शरीरारम्भे तेजोमयः । तथा वरुण-लोकेषु आप्य-शरीरारम्भे आपोमयः । पार्थिव-शरीरारम्भे पृथिवीमयः । एवं कार्य-करण-सङ्घातमयः सन्नात्मा तत्राभिव्यज्यमानान्तरात्मवृत्त्युपाधिकश्च भवतीत्य् आह- क्रोधमयो ऽक्रोधमयो हर्षमयो ऽहर्षमय इति । प्राप्ताप्राप्तवस्त्वन्तरदर्शनेन तद्विषयाभिलाषः स्व-विषय-भोगावसानमन्तरेण केनचित् प्रतिहन्यमानश्चेद्भवति, तदा क्रोध-रूपेण परिणमते । तन्मयः क्रोधमयः । स क्रोधो यदि केनचिदुपायेन निर्वर्तितः स्यात् तदा प्रसन्नं चित्तं अक्रोधः तन्मयो ऽक्रोधमय इत्य् अर्थः । तथा इष्ट-वस्तु-संयोग-निमित्तो हर्षः, ‘तन्मयः’ ‘हर्षमयः’ । इष्ट-वस्तु-वियोग-निमित्तः ‘अहर्षः’ तन्मयः ‘अहर्षमयः’ । एवमक्रोधहर्षमयत्वे क्रोधाहर्षमयत्वे चात्मनः क्रमेण पुण्यापुण्यमयत्वं भवतीत्य् आह- धर्ममयो ऽधर्ममय इति । न हि क्रोधादिभिर्विना धर्माधर्मप्रवृत्तिरुपपद्यत इत्य् अर्थः । एवं धर्माधर्ममयः सन् सर्वप्रायो भवतीत्य् आह- सर्वमय इति । सर्वस्य व्याकृता-व्याकृतस्य जगतो धर्माधर्म-कार्यत्वेन तयोः फलं प्रतिपद्यमानस्तन्मयः सन् ‘सर्वमयः’ भवतीत्य् अर्थः । ननु- व्याकृतमयत्वस्य प्रत्यक्ष-सिद्धत्वे ऽपि अव्याकृतमयत्वस्य तदभावात् कथं सर्वमयत्वं ज्ञातुं शक्यते इत्याकाङ्क्षायाम् अपरो ऽक्षेण कार्यलिङ्गेन तत्कारणीभूतः परो ऽक्षो ऽपि धूमाद्वह्निरिव ज्ञातुं शक्यते इत्यभिप्रेत्य सर्वमयत्वं साधयति- तद्यदेदम्मयो ऽदोमय इतीति । यत्किमपि कर्म शुभाशुभ-चेष्टा-रूपं साक्षादुपलभ्यते । तत् इदमित्येवोच्यते । तेन प्रत्यक्ष्येण लिङ्गेन भावनारुद्धपरो ऽक्षतत्कारणत्वेन अनुमीयमानं अद इत्युच्यते । तथा च यदा यस्मिन् समये अयमात्मा गृह्यमाणविषयादिमयः तदा ‘इदंमयः’ इत्य् अर्थः । तथा कार्येण अनुमिमान-भावनात्मक-विषयादिमयः ‘अदोमयः’ । तदिति पदं सर्वमयत्वसाधनोपसंहारार्थम् । तदिदं सर्वमयत्वं सिद्धमित्य् अर्थः । इदानीं विज्ञान-मयादि-वाक्यार्थं सङ्क्षिप्याह- यथाकारी यथाचारी तथा भवतीति । यथा कर्तुं शीलमस्यास्तीति ‘यथाकारी’ । यथा चरितुं शीलमस्यास्तीति ‘यथाचारी’ । सः ‘तथा’ तादृशो ‘भवति’ । करण-चरणानुरूपो भवति । करणं नाम विधि-प्रतिषेधगम्या नियता क्रिया, चरणं तु अनियतक्रिया, इति विशेषः । एवं यथाकारीत्याद्यनूद्य तथा भवतीत्येतत् व्याचष्टे- साधुकारी साधुर्भवति पापकारी पापो भवतीति । साधुरुत्कृष्टः पितृगन्धर्वादि-लोके भवति । ‘पापः’ निकृष्ट एव स्थावरादौ ‘भवति’ जायत इत्य् अर्थः । ननु-साधुकारीत्यादौ ताच्छील्यप्रत्ययश्रवणात् भूयो ऽभ्यासादेव पुण्य-पाप-सम्बन्धो भवति न सकृदनुष्ठानात्, इत्याशङ्कायां प्राप्तायां सकृदनुष्ठानादपि पुण्य-पाप-सम्बन्धो भवत्येवेति दर्शयितुं शङ्का-बीजं ताच्छील्य-प्रत्ययं विहाय आह- पुण्यः पुण्येन कर्मणा भवति पापः पापेन इतीति । ‘पुण्यः’ पुण्यवान्, ‘पापः’ पापवान् । तथा च पुण्य-पाप-कर्माभ्यासे तत्-फलातिशयो भवतीत्य् एवंपरतैव ताच्छील्य-प्रत्ययोपादानस्य । न तु सकृदनुष्ठानात् तत्-फल-सम्बन्धाभाव-परतेत्य् अर्थः । यत एवं उत्कृष्टापकृष्ट-योनि-प्राप्तौ पुण्यापुण्ययोरेवासाधारण-कारणत्वम्, इतरेषां तु साधारणम्; अतः सर्वदा पुण्यमेवानुष्ठेयम् । नेतरत्, इति भावः ॥ ६ ॥
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थो ख᳘ल्वाहुः॥
कामम᳘य ऽए᳘वायम्पु᳘रुष ऽइ᳘ति स य᳘थाकामो भ᳘वति त᳘थाक्रतुर्भ्भवति य᳘थाक्रतुर्भ्भ᳘वति तत्क᳘र्म्म कुरुते यत्क᳘र्म्म कुरुते त᳘दभिस᳘म्पद्यत ऽइ᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थो ख᳘ल्वाहुः॥
कामम᳘य ऽए᳘वायम्पु᳘रुष ऽइ᳘ति स य᳘थाकामो भ᳘वति त᳘थाक्रतुर्भ्भवति य᳘थाक्रतुर्भ्भ᳘वति तत्क᳘र्म्म कुरुते यत्क᳘र्म्म कुरुते त᳘दभिस᳘म्पद्यत ऽइ᳘ति॥
मूलम् - Weber
अ᳘थो ख᳘ल्वाहुः॥
कामम᳘य एॗवायम् पु᳘रुष इ᳘ति स य᳘थाकामो भ᳘वति त᳘थाक्रतुर्भवति 4 य᳘थाक्रतुर्भ᳘वति तत्क᳘र्म कुरुते यत्क᳘र्म कुरुते त᳘दभिस᳘म्पद्यत इ᳘ति॥
मूलम् - विस्वरम्
अथो खल्व् आहुः । काममय एवायं पुरुष इति । स यथाकामो भवति तथाक्रतुर्भवति । यथाक्रतुर्भवति तत्कर्म कुरुते । यत्कर्म कुरुते तदभिसम्पद्यते इति ॥ ७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
पुण्य-पापयोरेव संसारासाधारण-कारणत्वमिति यदिदमुक्तं तत् पूर्व-पक्षीकृत्य इदानीं कामस्यैवासाधारण-कारणत्वमिति सिद्धान्तमभिप्रेत्य् आह- अथो खल्वाहुः काममय एवायं पुरुष इतीति । पूर्व-पक्षानन्तरं सिद्धान्तप्रान्तेर्योग्यताद्योतकः अथो-शब्दः । ‘खलु’ निश्चये । स्थूल-दृश एके आचार्याः पुण्य-पुण्योमयोऽयं पुरुष इत्याहुः कथयन्ति । अन्ये पुनर्बन्धमोक्षकुशलाः ‘अयं पुरुषः’ खलु ‘काममय एव’ कामो विषयादित्सा तन्मय इत्याहुः । न चैवं सति अविद्यायाः संसार-हेतुत्वानुपपत्तिः, तस्याः स्वतः तद्धेतुत्वानुपपत्तेः इष्टत्वात् । सहकार्यपेक्षायां तु कामस्यैव प्राधान्यात् काम एव असाधारणं कारणं संसारस्य । उक्तयोः पुण्य-पापयोरपि तदभावे ऽनुदयात् “अकामस्य क्रिया काचित् दृश्यते नेह कस्यचित् । यद्यद्धि कुरुते किञ्चित् तत्तत्कामस्य चेष्टितम्”- इति मनु-स्मरणात् । कामान् यः कामयते मन्यमानः स कामस्यैवासाधारण-कारणत्वात् युक्तं काममय एवेत्यवधारणमित्य् अर्थः । कया प्रणाड्या कामस्य संसार-कारणत्वमित्य् अपेक्षायामाह- स यथाकामो भवति तथाक्रतुर्भवति यथाक्रतुर्भवति इत्यादिना । स आत्मा सामान्यतः काममयः सन् ‘यथाकामः’ यादृशेन काम-विषयेन युक्तो भवति, तथाक्रतुर्भवति । क्रतुर्नामाध्यवसायः, यदनन्तरा क्रिया प्रवर्तते । काम एव ईषदभिलाषमात्रे यस्मिन् विषये अभिव्यक्तो भवति । स तस्मिन् विषये अविहन्यमानः स्फुटी-भवन् क्रतुत्वमापद्यते तन्मय आत्मा भवतीति यावत् । सः ‘यथाक्रतुर्भवति’ यादृश-कर्म-विषयेण क्रतुना युक्तो भवति । ‘तत्कर्म कुरुते’ । यद्विषयः क्रतुः स्वयं तत्-फल-सिद्धये तद्योग्यं कर्म निर्वर्तयतीति यावत् । ‘यत्कर्म कुरुते’ ‘तदभिसम्पद्यते’ तदीयं फलमभिसंम्द्यते प्राप्नोति । तस्मात्सर्वमयत्वे काममयत्वं हेतुरित्य् अर्थः ॥ ७ ॥
०८
विश्वास-प्रस्तुतिः
त᳘देष श्लो᳘को भवति॥
त᳘देव सत्त᳘त्सह क᳘र्म्मणैति लिङ्गम्म᳘नो य᳘त्र नि᳘षक्तमस्य। प्प्राप्या᳘न्तङ्क᳘र्म्मणस्त᳘स्य यत्कि᳘ञ्चेह᳘ करो᳘त्यय᳘म्। त᳘स्माल्लोकात्पु᳘नरै᳘त्यस्मै᳘ लोका᳘य क᳘र्म्मण ऽइ᳘ति नु᳘ काम᳘यमानो᳘ ऽथाकाम᳘यमानो᳘ यो ऽकामो नि᳘ष्काम ऽआत्म᳘काम ऽआप्त᳘कामो भ᳘वति न त᳘स्मात्प्राणा ऽउ᳘त्क्रामन्त्य᳘त्रैव᳘ सम᳘वनीयन्ते ब्ब्र᳘ह्मैव सन्ब्रह्मा᳘प्येति॥
मूलम् - श्रीधरादि
त᳘देष श्लो᳘को भवति॥
त᳘देव सत्त᳘त्सह क᳘र्म्मणैति लिङ्गम्म᳘नो य᳘त्र नि᳘षक्तमस्य। प्प्राप्या᳘न्तङ्क᳘र्म्मणस्त᳘स्य यत्कि᳘ञ्चेह᳘ करो᳘त्यय᳘म्। त᳘स्माल्लोकात्पु᳘नरै᳘त्यस्मै᳘ लोका᳘य क᳘र्म्मण ऽइ᳘ति नु᳘ काम᳘यमानो᳘ ऽथाकाम᳘यमानो᳘ यो ऽकामो नि᳘ष्काम ऽआत्म᳘काम ऽआप्त᳘कामो भ᳘वति न त᳘स्मात्प्राणा ऽउ᳘त्क्रामन्त्य᳘त्रैव᳘ सम᳘वनीयन्ते ब्ब्र᳘ह्मैव सन्ब्रह्मा᳘प्येति॥
मूलम् - Weber
त᳘देष श्लो᳘को भवति॥
त᳘देव सत्त᳘त्सह क᳘र्मणैति लिङ्गम् म᳘नो य᳘त्र नि᳘षक्तमस्य॥
प्राप्या᳘न्तं क᳘र्मणस्त᳘स्य यत्किं᳘ चेह᳘ करो᳘त्यय᳘म्॥
त᳘स्माल्लोकात्पु᳘नरै᳘त्यस्मै᳘ लोका᳘य क᳘र्मण इ᳘ति नु᳘ काम᳘यमानो᳘ऽथाकाम᳘यमानोॗ योऽकामो नि᳘ष्काम आत्म᳘काम आप्त᳘कामो भ᳘वति न त᳘स्मात्प्राणा 5 उ᳘त्क्रामन्त्य᳘त्रैव᳘ सम᳘वनीयन्ते ब्र᳘ह्मैव सन्ब्रह्मा᳘प्येति॥
मूलम् - विस्वरम्
तदेष श्लोको भवति- “तदेव सत्तत्सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्य् अयम् । तस्माल्लोकात्पुनरैत्य् अस्मै लोकाय कर्मणे ।” इति नु कामयमानः । अथाकामयमानः । यो ऽकामो निष्काम आत्म-काम आप्तकामो भवति । न तस्मात् प्राणा उत्क्रामन्ति । अत्रैव समवनीयन्ते । ब्रह्मैव सन् ब्रह्माप्येति ॥ ८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
ब्राह्मणोक्ते ऽर्थे मन्त्र-सम्मतिमाह- तदेष श्लोको भवति तदेव सत्तत्सह कर्म्मणैतीति । तत्तत्र ब्राह्मणोक्ते ऽर्थे एष सार्द्धः ‘श्लोकः’ मन्त्रो भवति । ‘अस्य’ उद्भूताभिलाषस्य ‘लिङ्गं’ सप्तदशावयवात्मकं मनः प्रधान-त्वात् मनः-शब्द-वाच्यम् । यद्वा प्रमात्रादि-साक्षी येन साक्ष्येण मनसा लिङ्ग्यते, तन्मनो लिङ्गमिति तल्लिङ्ग ‘मनो यत्र’ यस्मिन् गन्तव्ये फले ‘निषक्तं’ निश्चयेन सक्तं भवति । तन्मनः तद्-गन्तव्य-फल-रूपापन्नं ‘सत्’ ‘कर्मणा’ फलारम्भकी-भूत-कर्मणा ‘सह’ ‘तदेव‘ गन्तव्यं फलमेति गच्छतीत्यर्थः । तथा च- यदभिलाषात् यत्कर्म कृतवान् तत्र मनो ऽभिषङ्गवशात् तेन कर्मणा सहास्य तत्-फल-प्राप्तिरिति वाक्यार्थे स्थिते कामो मूलं संसारस्येत्यवगतम् । तथा च पर्याप्त-कामस्य कृतात्मनश्च “इहैव सर्वे प्रविलीयन्ति कामाः”- ( ) इति श्रुत्य्-अन्तरात् अवाप्तपरमपुरुषार्थस्य शुद्ध-बुद्धेर्जीवन्-मुक्तस्य ब्रह्मविद इहैव जीवदवस्थायामेव काम-विनाश-श्रवणात् अर्थात् विद्यमानान्यपि कर्माणि काम-हीनस्य निष्फल-प्रसवानि इत्य् अवगतेः काम एव संसारे हेतुरिति भावः । ननु- काम-प्रधानः संसरति चेत्; कर्म-फल-भोगानन्तरं कामाभावात् मुक्तिरेव भविष्यतीत्य् आशङ्कायामाह- प्राप्यान्तं कर्मण इत्यादिना । अयं फलासक्तः कामी इहास्मिन् लोके यत्किञ्चित्कर्म करोति ‘तस्य’ ‘कर्मणः’ भोगेन अन्तमवसानं ‘प्राप्य’ कर्म-फल-भोग-समाप्तिं गत्वा ‘तस्मात् लोकात्’ भुक्त-भोगात् ‘पुनरैति’ आगच्छति । ‘अस्मै लोकाय कर्मणे’ । कर्म-प्रधानत्वात् अस्य लोकस्य कर्मण इति विशेषणम् । अस्मिन्मनुष्यलोके कर्म-करणार्थमित्यर्थः । तस्मादेवं फलासक्तः सन् कर्म कृत्वा तत्-फल-भोगार्थं गच्छति । ततश्च पुनः कर्म-करणार्थमागच्छतीत्य् एवंभूतसंसरणप्रवाहस्य विना ब्रह्म-ज्ञानमनुच्छेदात् न कर्म-फल-भोगावसाने मुक्तिः शक्येति भावः । इदानीमज्ञानकारणकः काम एव संसार-असाधारण-कारणमित्य् उक्तमुपसंहरति- इति नु कामयमान इति । इत्य् एवं ‘नु’ खलु ‘कामयमानः’ संसरतीति शेषः । एवं इयता प्रबन्धेन अवस्था-द्वय-दृष्टान्तस्य दार्ष्टान्तिक-भूतः संसारः स-कारणको दर्शितः । इदानीं योषिदालिङ्गनेनेव पुंसः सुषुप्ति-प्राप्तस्यात्मनः कामादि-हीनं रूपं मोक्षदृष्टान्तभूतं यत् अतिच्छन्दोवाक्येनोक्तं तस्य दार्ष्टान्तिक-भूतं सोपायं मोक्ष-स्वरूपमाह- अथाकामयमान इत्यादिना । अथ-शब्दः संसार-प्रकरण-विच्छेदार्थः । यस्मात् कामयमान एव एवं संसरति । तस्मादकामयमानो विद्वान्न क्वचित्संसरति । “न तस्मात्प्राणा उत्क्रामन्ति” इति वचनात् कामाभावे तदुत्थतत्संसरणहेतुकर्माभावाच्च । किं तर्हि “ब्रह्मैव सन् ब्रह्माप्येति“ इत्यग्रिमेणान्वयः । कुतो ऽकामयमानः स्यादित्य् अत आह- यो ऽकाम इति । बाह्येषु शब्दाद्यर्थेषु दृष्टिश्रुतिपूर्वकाः कामा यस्य न सन्ति सः ‘अकामः’ इत्य् अर्थः । अकामो ऽपि कुतो हेतोरित्य् अत आह- निष्काम इति । अतिग्रहशब्दिताः शब्दादिवासनात्मका अन्नस्था ये कामाः ते निर्गता यस्मात् सः ‘निष्कामः’ । अतः अकामपदेन बाह्या निरस्यन्ते । निष्कामपदेन तद्धेतुभूता आन्तरा इति अपौनरुक्त्यमित्यर्थः । कथं च निष्कामत्वं भवतीत्य् अपेक्षायामाह- आत्मकाम इति । आत्मैव सर्वमिति ज्ञानेन सर्वशब्दादिप्रपञ्चस्य आत्म-मात्रत्वे प्रतिपन्ने स्वातिरिक्त-कामयितव्यराहित्यम् आत्मकामत्वम् । अतः शब्दादिसाध्यसुखस्यापि आत्ममात्रत्वात् आत्मैव कामो यस्य सः ‘आत्मकामः’ इत्य् अर्थः । अत एव- आप्तकाम इति । आप्ताः कामा येन सः ’आप्तकामः ’ । आत्मकामत्वादाप्तकामत्वमित्यर्थः । अर्थादात्मैकत्वज्ञानाभावे अकामयमानत्वासम्भवात् संसारो दुर्वार इति आत्मनो ज्ञानाय यतितव्यमिति सूचितं भवति । किमेवंविधस्य भवतीत्यपेक्षायां मोक्ष एव भवतीत्याह- न तस्मात्प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन् ब्रह्माप्येतीति । ‘तस्मात्‘ अकामयमानात्सकाशाद्धि ‘प्राणाः’ वागादयः ‘नोत्क्रामन्ति’ । कामाभावेन कर्माभावे सति गमन-कारणाभावात् । किं तु- तप्तलोहनिक्षिप्तोदकबिन्दुवत् अत्रैव ब्रह्मस्वरूपे एव’ ‘समवनीयते’ सम्प्रलीयन्ते इत्य् अर्थः । स चाकामयमानो जीवन्नेव ‘ब्रह्मैव सन्’ सुषुप्त्यवस्थायामिव अपरिच्छिन्न-निर्विशेषाद्वैतालिप्त-चिज्ज्योतिः-स्वभावः सन् ‘ब्रह्माप्येति’ प्राप्नोति नित्यप्राप्तत्वादेव अप्येतिशब्देन प्राप्तिरुपचर्यते इत्य् अर्थः ॥ ८ ॥
०९
विश्वास-प्रस्तुतिः
त᳘देष श्लो᳘को भवति॥
यदा स᳘र्व्वे प्प्रमुच्य᳘न्ते का᳘मा᳘ ये ऽस्य हृदि᳘ श्रिताः᳘ *। अ᳘थ म᳘र्त्यो ऽमृ᳘तो भवत्य᳘त्र ब्ब्र᳘ह्म स᳘मश्नुत ऽइ᳘ति॥
मूलम् - श्रीधरादि
त᳘देष श्लो᳘को भवति॥
यदा स᳘र्व्वे प्प्रमुच्य᳘न्ते का᳘मा᳘ ये ऽस्य हृदि᳘ श्रिताः᳘ * 6। अ᳘थ म᳘र्त्यो ऽमृ᳘तो भवत्य᳘त्र ब्ब्र᳘ह्म स᳘मश्नुत ऽइ᳘ति॥
मूलम् - Weber
त᳘देष श्लो᳘को भवति॥
यदा स᳘र्वे प्रमुच्य᳘न्ते का᳘माॗ येऽस्य हृदि᳘ स्थिताः᳟॥
अ᳘थ म᳘र्त्योऽमृ᳘तो भवत्य᳘त्र ब्र᳘ह्म स᳘मश्नुत इ᳘ति॥
मूलम् - विस्वरम्
तदेष श्लोको भवति- “यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः । अथ मर्त्यो ऽमृतो भवत्यत्र ब्रह्म समश्नुते”- इति ॥ ९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं काममयः संसरतीति ब्राह्मणोक्ते ऽर्थे यथा पूर्व-प्रकरणे मन्त्रोदाहरणं कृतं तथा अत्राप्य् उक्ते ऽर्थे मन्त्रमुदाहरति- तदेष श्लोको भवति यदा सर्वे प्रमुच्यन्त इति । तत्तस्मिन्नुक्ते मोक्ष-तत्-साधने ऽर्थे ‘एष श्लोकः’ मन्त्रः ‘भवति’ अस्यात्म-कामस्य ब्रह्मविदः ‘यदा’ यस्मिन् काले विद्या-परिपाकावस्थायां ‘हृदि श्रिताः’ ‘ये कामाः’ तृष्णात्वेन व्यवह्रियमाणा द्विविधेन्द्रिय-प्रवृत्ति-हेतु-भूताः सन्तो जगज्जनका वासनात्मकाः । ‘ते’ ‘सर्वे’ समस्ताः ‘प्रमुच्यन्ते’ समूलतो विशीर्यन्ते । न तु सुषुप्ताविव कारणात्मना अवतिष्ठन्ते । ‘अथ’ अतो हेतोः समूलतः काम-वियोग-लक्षणात् तदा ‘मर्त्यः’ मरण-धर्मा ऽपि सन् ‘अमृतः’ अमरण-धर्मा भवतीति यावत् । ततश्च काम-वियोगादमृतो भवतीति निर्द्देश-सामर्थ्यात् अविद्यालक्षणा अनात्मविषयाः कामा मृत्यवो भवन्तीत्य् अवगम्यते । किं तदमृतत्वं क्व वा भवतीत्य् अत उच्यते- अत्र ब्रह्म समश्नुत इति । अत्रास्मिन्नेव शरीरे स्थितः सन् ‘ब्रह्म’ ‘समश्नुते‘ ब्रह्मीभूतो भवति ब्रह्मभावापत्तिलक्षणो मोक्ष एवामृतत्वम् । तच्च विज्ञानि-शरीर एव काम-निवृत्त्या अभिव्यज्यते । स्वतः सिद्धमेवेत्यर्थः ॥ ९ ॥
१०
विश्वास-प्रस्तुतिः
तद्य᳘था ऽहिनिर्ल्वयनी᳘॥
व्वल्मी᳘के मृता प्प्र᳘त्यस्ता श᳘यीतैव᳘मेवेदᳫँ᳭ श᳘रीरᳫँ᳭ शेते᳘ ऽथाय᳘मन᳘स्थिको ऽशरी᳘रः प्प्राज्ञ᳘ ऽआत्मा ब्ब्र᳘ह्मैव᳘ लोक᳘ ऽएव᳘ सम्म्राडि᳘ति होवाच या᳘ज्ञवल्क्यः᳘[[!!]] सो ऽहम्भ᳘गवते सह᳘स्रन्ददामी᳘ति होवाच जनको व्वै᳘देहः॥
मूलम् - श्रीधरादि
तद्य᳘था ऽहिनिर्ल्वयनी᳘॥
व्वल्मी᳘के मृता प्प्र᳘त्यस्ता श᳘यीतैव᳘मेवेदᳫँ᳭ श᳘रीरᳫँ᳭ शेते᳘ ऽथाय᳘मन᳘स्थिको ऽशरी᳘रः प्प्राज्ञ᳘ ऽआत्मा ब्ब्र᳘ह्मैव᳘ लोक᳘ ऽएव᳘ सम्म्राडि᳘ति होवाच या᳘ज्ञवल्क्यः᳘[[!!]] सो ऽहम्भ᳘गवते सह᳘स्रन्ददामी᳘ति होवाच जनको व्वै᳘देहः॥
मूलम् - Weber
तद्य᳘थाहिनिर्ल्वयनी᳟ 7 ॥
वल्मी᳘के मृता प्र᳘त्यस्ता श᳘यीतैव᳘मेवेदं श᳘रीरं शेते᳘ऽथाय᳘मन᳘स्थिकोऽशरी᳘रः प्राज्ञ᳘ आत्मा ब्र᳘ह्मैव᳘ लोक᳘ एव᳘ सम्राडि᳘ति होवाच या᳘ज्ञवॗल्क्यः सोऽहम् भ᳘गवते सह᳘स्रं ददामी᳘ति होवाच जनको वै᳘देहः॥
मूलम् - विस्वरम्
तद्यथा अहि-निर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत, एवमेव इदं शरीरं शेते । अथायमनस्थिको ऽशरीरः प्राज्ञ आत्मा ब्रह्मैव लोक एव सम्राट्, इति होवाच याज्ञवल्क्यः । सो ऽहं भगवते सहस्रं ददामि, इति होवाच जनको वैदेहः ॥ १० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
ननु- विदुषः सर्वात्मविद्यया आत्म-मात्रत्वेन प्राणादिषु बाधितेष्वपि असौ देहे चेद्वर्तते ततो ऽस्य पूर्ववत् देहं द्विधा वैयर्थ्यमेवेत्याशङ्कायां तन्निराकरणार्थं तावत् दृष्टान्तमाह- तद्यथा ऽहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतेति । तत्तत्र दृष्टान्तः । ‘यथा’ लोके अहिः सर्पः यस्यां त्वचि नितरां लीयते सा सर्पस्य त्वक् ‘अहिनिर्ल्वयनी’ । सा ‘मृता’ अहिदेहवियुक्ता ‘वल्मीके’ सर्पाश्रये ‘प्रत्यस्ता’ प्रतिक्षिप्ता सर्पेणानात्म-भावेन परित्यक्ता सती ‘शयीत’ वर्तते । सर्पश्च यथा तत्र निर्गमन-प्रवेशौ कुर्वन्नपि निर्ममाहङ्कृतिको वर्तत इति अपरो दृष्टान्तः अर्थात् विवक्षित इत्य् अर्थः । निर्मोक-दृष्टान्तस्य तावद्दार्ष्टान्तिकमाह- एवमेवेदं शरीरं शेत इति । यथा ऽयं दृष्टान्तः ‘एवमिदं शरीरं’ स्थूलं सूक्ष्मं च सर्पस्थानीयेन मुक्तेन परित्यक्तं मृतमिव सम्बन्ध-वर्जितं ‘शेते’ विद्यया सम्बन्ध-हेतोरविद्यायाः समुच्छेदादिति । ननु- दृष्टान्ते सर्पतन्निर्मोकयोर्भेदेनावस्थितिवत् दार्ष्टान्तिके ऽपि विद्वत्तद्देहयोस्तथा स्यात् । अन्यथा देह-देहि-भावा ऽसिद्धेरिति चेन्मा मंस्थाः । यथा अहिनिर्मोकयोः पूर्ववदिदानीं मिथः सम्बन्धो नास्ति । तद्वद्देहिदेहयोरपि पूर्ववत् मिथ्या ऽभिमानाख्यः सम्बन्ध इदानीं नास्तीत्येतावन्मात्रस्यात्र विवक्षितत्वादित्यभिप्रेत्य सर्वदृष्टान्तस्य दार्ष्टान्तिकमाह- अथा ऽयमनस्थिको ऽशरीरः प्राज्ञ आत्मा ब्रह्मैव लोक एव सम्राडिति होवाच याज्ञवल्क्य इति । अथशब्दो हेत्वर्थः । अथ स-कारणस्य देहस्य त्यागादित्यर्थः । अयमात्मा आत्म-स्वरूप-आपन्नो विद्वान् ‘अनस्थिकः’ । अस्थीति मरण-धर्मक-शरीरगतमज्जा ऽस्थिस्नावमेदो ऽसृक्त्वचामुपलक्षणम् । न विद्यते अस्थि मरण-धर्मकं मज्जादिकं यस्मिन् सः अनस्थिकः अमृत इत्य् अर्थः । तथा चाग्निरहस्ये श्रूयते- “उभयं हैतदग्रे प्रजापतिरास मर्त्यं चैवामृतं च” (श. प. १० । १ । ४ । १) इति प्रकृत्य “अथ पुरीषं निवपति तद्धास्यैतदसृगेव त्वगेव तद्वै तन्मर्त्यं मर्त्यं ह्यसृङ्मर्त्या त्वक्” (श. प. १० । १ । ४ । ७) इति । अमृतः कुतो हेतोरित्य् अत आह- ‘अशरीरः’ । अविद्वद्दृष्ट्या शरीरस्थः स्व-दृष्ट्या ‘अशरीरः’ एव । अत एव ‘प्राज्ञः’ साक्षी । स च एतद्-विशेषण-विशिष्टो विद्वान् ‘ब्रह्मैव’ अशनायादि-वर्जितः परमात्मैव । ब्रह्म-शब्दस्य कमलासनादिविषयत्वं वारयितुं ‘लोक एव’ स्वप्रकाश एवेति विशेषणं बोध्यम् । ‘याज्ञवल्क्यः’ मुनिः ‘सम्राडिति’ राजानं सम्बोध्य इत्य् एवं ‘ह’ किल ‘उवाच’ उक्तवान् । तथा च- अखण्डैकरसब्रह्मभूतस्य विदुषो देहसम्बन्धहेत्वज्ञानध्वस्तौ पूर्ववच्छरीराभिमानाभावान्न विद्यावैयर्थ्यमिति भावः । यः पूर्वं मुनिना विमोक्षार्थः काम-प्रश्नो वरो दत्तः । स यद्यपि सहेतुको बन्ध-मोक्षार्थ-लक्षणो दृष्टान्त-पूर्वको जनक-याज्ञवल्क्याख्यायिका-रूप-धारिण्या श्रुत्या स-विस्तरो निर्णीतः । तथा ऽपि मोक्ष-साधनात्मज्ञान-हेतु-सन्न्यासस्य पूर्वमसकृदुक्तत्वे ऽपि ज्ञानोत्पत्त्यन्तरङ्गभूतशमादीनां तत्रानुक्तत्वात् तैः सह भूयो ऽपि सन्न्यासो विद्या-साधनत्वेन विज्ञातव्य इति वक्तव्य-विशेष-सम्भवात् सहस्र-दानमेव राजा स्व-जिज्ञासा-निवृत्त्यभावं सूचयन् प्रतिजज्ञे, न सर्वस्वं इत्य् अभिप्रेत्याह श्रुतिः- सो ऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेह इति । ‘सो ऽहं’ इयं विमोक्षितवते ‘भगवते’ ‘सहस्रं ददामीति’ पूर्ववत् । नन्व् एवं वक्तव्यशेषो ऽस्ति चेत्, राजा पूर्ववत् “अत ऊर्ध्वं विमोक्षायैव ब्रूहीति” कस्मान्न पृच्छेदिति चेत् सत्यं, शास्त्रे आलोच्यमाने ज्ञानादन्यन्न साक्षान्मोक्ष-साधनमीक्ष्यते । सन्न्यासादेस्तु तद्द्वारैव साधनत्वादिति विवक्षन् विमोक्षायेति नापृच्छत् । विदुषो हि निःशेषक्लेशोपशमात्मकस्वरूपावस्थितस्य स्वतः सिद्धः सन्न्यासादिः, न ज्ञान-साधनम् । किं तु “सन्न्यासेन तनुं त्यजेत्” ( ) इति श्रुतेः प्रतिपत्तिकर्मानुष्ठानमिति न तत्र जिज्ञासा । विविदिषोः पुनः “त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक् परं पदम्” इति वचनात् ज्ञानार्थत्वेन सन्न्यासः स-परिकरो वक्तव्यः इति युक्तं तदर्थं सहस्र-दानमिति भावः ॥ १० ॥
११
विश्वास-प्रस्तुतिः
(स्त) तद᳘प्येते श्लो᳘काः॥
(ऽ) अ᳘णुः प᳘न्था व्वि᳘तरः पुराणो मा᳘ᳫँ᳘स्पृष्टो᳘ ऽनुवित्तो म᳘यैव᳘। ते᳘न धी᳘रा ऽअ᳘पियन्ति ब्ब्रह्मवि᳘द ऽउत्क्र᳘म्य स्वर्ग्गं᳘ लोक᳘मितो व्वि᳘मुक्ताः॥
मूलम् - श्रीधरादि
(स्त) तद᳘प्येते श्लो᳘काः॥
(ऽ) अ᳘णुः प᳘न्था व्वि᳘तरः पुराणो मा᳘ᳫँ᳘स्पृष्टो᳘ ऽनुवित्तो म᳘यैव᳘। ते᳘न धी᳘रा ऽअ᳘पियन्ति ब्ब्रह्मवि᳘द ऽउत्क्र᳘म्य स्वर्ग्गं᳘ लोक᳘मितो व्वि᳘मुक्ताः॥
मूलम् - Weber
तद᳘प्येते श्लो᳘काः॥
अ᳘णुः प᳘न्था वि᳘तरः पुराणो मा᳘ᳫं᳘स्पृष्टो᳘ऽनुवित्तो म᳘यैव᳟ 8 ॥
ते᳘न धी᳘रा अ᳘पियन्ति ब्रह्मवि᳘द उत्क्र᳘म्य स्वर्गं᳘ लोक᳘मितो वि᳘मुक्ताः॥
मूलम् - विस्वरम्
तदप्येते श्लोकाः- **“अणुः पन्था वितरः पुराणो मां स्पृष्टो ऽनुवित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविद उत्क्रम्य स्वर्गं लोकमितो विमुक्ताः ॥ ११ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
“अथाकामयमानः” इत्यादि-ब्राह्मणेन “यदा सर्वं प्रमुच्यते” इति मन्त्रेण च ज्ञानादेव मुक्तिरिति यः सङ्क्षिप्तो ऽर्थः, तस्यैव विवरणार्थाः ‘श्लोकाः’ मन्त्राः सन्तीति शेषः । ‘अणुः’ स्थूलादिनिखिलविशेषातीतत्वात् । ‘वितरः’ वितीर्णो विस्तृत इति यावत् दुर्विज्ञेयत्वात् अनन्तात्मावगाहित्वाद्वा । ‘पुराणः’ चिरन्तः नित्यश्रुतिप्रकाशितत्वात् । एवंभूतः ‘पन्थाः’ ऐकात्म्यज्ञानलक्षणो मार्गः । सः ‘मां स्पृष्टः’ शास्त्राचार्योक्तितो मामनुप्राप्तः । यद्वा तृतीयार्थे द्वितीया । मामिति मया स्पृष्टो लब्ध इति यावत् । न केवलं लब्धः । किन्तु- ‘मयैव चानुवित्तः’ अनुवेदनं नाम विद्यायाः परिपाकापेक्षया फलावसानतालक्षणा निष्ठाप्राप्तिर्भुजेरिव तृप्त्यवसानता । तथाचानुवित्तः उक्तलक्षणां निष्ठां प्रापितः । एवकारः मया अनुवित्त एवेति अयोगव्यवच्छेदार्थः । सर्वथा नान्ययोगव्यवच्छेदार्थः । “तद्यो ऽभिदेवानां प्रत्यबुध्यत“- ( ) इति श्रुत्या ब्रह्मविद्यायाः सर्वसाधारणत्वोक्तेरिति भावः । एवकारः अत्रान्ययोगव्यवच्छेदको न भवति, इत्येतदेवाह- तेन धीरा ऽअपियन्ति ब्रह्मविद उत्क्रम्य स्वर्गं लोकमितो विमुक्ता इति । न केवलं मयैवायं मार्गो ऽनुवित्तः । किं तु- अन्ये ऽपि ये ब्रह्मवादिनः प्रज्ञावन्तः ‘धीराः’ सदा निर्द्वन्द्वा जीवन्त एव ‘विमुक्ताः’ सन्तः इतो ऽस्माच्छारीरात् ‘उत्क्रम्य’ शरीरपातानन्तरमेव ‘तेन’ ब्रह्मविद्यामार्गेण ‘स्वर्गं’ परमानन्दलक्षणं मोक्षप्रकरणात् न तु- त्रिविष्टपलक्षणं ‘लोकं’ स्वप्रकाशमपियन्ति अपिगच्छन्तीत्यर्थः ॥ ११ ॥
१२
विश्वास-प्रस्तुतिः
त᳘स्मिञ्छुक्ल᳘मुत नी᳘लमाहुः॥ पि᳘ङ्गलᳫँ᳭ ह᳘रितं लो᳘हितञ्च। एष प᳘न्था ब्ब्र᳘ह्मणा हा᳘नुवित्तस्ते᳘नैति ब्ब्रह्मवि᳘त्तैजसः᳘ पुण्यकृ᳘च्च॥
मूलम् - श्रीधरादि
त᳘स्मिञ्छुक्ल᳘मुत नी᳘लमाहुः॥ पि᳘ङ्गलᳫँ᳭ ह᳘रितं लो᳘हितञ्च। एष प᳘न्था ब्ब्र᳘ह्मणा हा᳘नुवित्तस्ते᳘नैति ब्ब्रह्मवि᳘त्तैजसः᳘ पुण्यकृ᳘च्च॥
मूलम् - Weber
त᳘स्मिञ्छुक्ल᳘मुत नी᳘लमाहुः पि᳘ङ्गलᳫं 9 ह᳘रितं लो᳘हितं चएष प᳘न्था ब्र᳘ह्मणा हा᳘नुवित्तस्ते᳘नैति ब्रह्मवि᳘त्तैजसः᳘ पुण्यकृ᳘च्च॥
मूलम् - विस्वरम्
तस्मिन् शुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्तैजसः पुण्यकृच्च ॥ १२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यथोक्ते अस्मिन्मोक्षमार्गे अविद्योपप्लुताशयाः यथारुचि विचित्राणि दर्शनानि कल्पयन्तीत्य् आह- “तस्मिञ्छुक्लमुत नीलमाहुरिति” । ‘तस्मिन्’ ब्रह्म-ज्ञान-लक्षणे मोक्ष-मार्गे शुक्लमतिसंशुद्धं ब्रह्मेत्य् आहुः । ‘आहुरिति’ सर्वत्रानुषङ्गः । अपरे शरद्-व्योमवत्तु ब्रह्म नीलमिति । अन्ये तु वह्नि-ज्वालात् पिङ्गलमिति । केचित् पुनर्वैडूर्यमणिवद्धरितं ब्रह्मेति । अपरे तु जपा-कुसुमवल्लोहितमिति । चकारो ब्रह्मणः शब्द-स्पर्शादि-तादात्म्य-कल्पना-समुच्चयार्थः । प्राप्यस्य आदित्यादि-ब्रह्मणः शुक्लादि-रूपत्वमुपेत्य तत्प्राप्तिमार्गे अर्वाग्दृशो विवदन्ते इत्य् अर्थः । वस्तुतस्तु उपासना-मार्ग एव एवंविधः । न मोक्ष-मार्गः । तथा हि- उपासको हि नाडी-द्वारा आदित्यादि-लोकं प्रति निष्क्रामति । नाडीनां च- “शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः” इति नाडी-खण्डे अनेकवर्णात्मकत्वस्योक्तत्वात् उपास्यस्यादित्यादि-ब्रह्मणः शुक्लादि-विशिष्टो मार्ग उपासना-मार्ग एव । न तु ब्रह्म-विद्या-लक्षणे मोक्ष-मार्गे निर्गुण-श्रुति-विरोधात् । तस्मादाप्तकामतया निर्गुण-ब्रह्मात्म-विषय-ज्ञानमेव मोक्ष-मार्ग इत्येतदाह- एष पन्था ब्रह्मणा हानुवित्त इति । यथा तैलादि-विलये प्रदीपस्य ज्वलनानुपपत्तौ तेजो-मात्रे निर्वाणमिष्यते । तथा स्थूल-सूक्ष्मात्मकस्य सर्वस्यैव कामस्य ज्ञानात् प्रक्षये सति प्रवृत्त्यनुपपत्तौ अत्रैव प्रत्यगात्म-मात्रे कार्यकारणानामेकीभावेनावसानमित्येष ‘पन्थाः’ ज्ञान-मार्गो ‘ब्रह्मणा’ परमात्म-स्वरूपेण ब्राह्मणेन त्यक्त-सर्वैषणेनानुवित्तः पूर्वोक्त-निष्ठां प्रापित इत्य् अर्थः । एवं विप्रतिपत्ति-निराकरण-पुरःसरं मोक्ष-मार्गं निश्चित्य ‘तेन धीरा अपियन्ति‘ इत्य् अत्रोक्तं निगमयति- तेनैति ब्रह्मवित्तैजसः पुण्यकृच्चेति । अन्यो ऽपि ब्रह्मवित् ‘तेन’ ब्रह्म-विद्या-मार्गेण मोक्षमेति प्राप्नोति । ब्रह्मवित्त्वे हेतुस्तैजस इति । तेजसि शुद्ध-सत्त्वे भवस्तैजसः क्षपिताशेषकल्मषतया आत्म-प्रवण-बुद्धिरिति यावत् । तैजसत्वे हेतुः पुण्यकृदिति । इष्टापूर्तलक्षणं पुण्यं करोतीति ‘पुण्यकृत्’ । चकारः उक्त-हेतु-हेतुमद्-भाव-क्रम-समुच्चयार्थः । न ज्ञान-कर्मणोः समसमुच्चयार्थः । तदुक्तं- “कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते”- ( ) इति । किं च- “अर्थस्य मूलं निष्कृतिः क्षमा च कामस्य रूपं च वपुर्वयश्च । धर्मस्य यागादि दया दमश्च मोक्षस्य सर्वोपरमः क्रियाभ्यः”- ( ) इति । चतुर्विधे पुरुषार्थे साधन-भेदोपदेशाच्च नात्र समुच्चयो ऽभिमत इत्य् अर्थः ॥ १२ ॥
१३
विश्वास-प्रस्तुतिः
अन्धन्त᳘मः प्प्र᳘विशन्ति॥ ये᳘ ऽसम्भूतिमुपा᳘सते। त᳘तो भू᳘य ऽइव ते त᳘मो य᳘ ऽउ स᳘म्भूत्याᳫँ᳭ रताः᳘॥
मूलम् - श्रीधरादि
अन्धन्त᳘मः प्प्र᳘विशन्ति॥ ये᳘ ऽसम्भूतिमुपा᳘सते। त᳘तो भू᳘य ऽइव ते त᳘मो य᳘ ऽउ स᳘म्भूत्याᳫँ᳭ रताः᳘॥
मूलम् - Weber
अन्धं त᳘मः प्र᳘विशन्ति ये᳘ऽसम्भूतिमुपा᳘सते॥
त᳘तो भू᳘य इव ते त᳘मो य᳘ उ स᳘म्भूत्यां रताः᳟ 10 ॥
मूलम् - विस्वरम्
अन्धं तमः प्रविशन्ति ये ऽसम्भूतिमुपासते । ततो भूय इव ते तमो य उ सम्भूत्यां रताः- (वा. सं. ४० । ९) ॥ १३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
प्रस्तुत-ज्ञान-मार्ग-स्तुत्यर्थं मार्गान्तरं निन्दति- ‘अन्धं’ अदर्शनात्मकं ‘तमः’ मोहादि-पद-वाच्यं संसार-नियामकं ‘प्रविशन्ति’ प्रपद्यन्ते । के ते? ‘ये’ ‘असम्भूतिं’ सम्भवनं सम्भूतिः सा यस्य कार्यस्य सा सम्भूतिः । तस्या अन्या ‘असम्भूतिः’ देवता-प्रकृति-कारणमव्याकृताख्यं, ताम् असम्भूतिमव्याकृताख्यां प्रकृति-कारणम् अविद्या-काम-कर्म-बीज-भूतां अदर्शनात्मिकाम् ‘उपासते’ अनुवर्तन्ते इति यावत् । ततस्तस्मादपि ‘भूय इव’ बहुतरमिव ‘ते’ ‘तमः’ प्रविशन्ति । के? ‘ये’ ‘उ’ तु ‘सम्भूत्यां’ कार्ये ब्रह्मणि हिरण्यगर्भाख्ये ‘रताः’ आसक्ता उपनिषदर्थानपेक्षिण इति यावत् । अतो युक्तम् आत्म-ज्ञान-हीनानां तेषामपि अधःपतनमित्यर्थः ॥ १३ ॥
१४
विश्वास-प्रस्तुतिः
असु᳘र्य्या ना᳘म ते᳘ लोकाः᳘॥
(ऽ) अन्धे᳘न त᳘मसा᳘ ऽऽवृताः। तांस्ते प्प्रेत्या᳘पिगच्छन्त्य᳘विद्वाᳫँ᳭सो ऽबुधा ज᳘नाः॥
मूलम् - श्रीधरादि
असु᳘र्य्या ना᳘म ते᳘ लोकाः᳘॥
(ऽ) अन्धे᳘न त᳘मसा᳘ ऽऽवृताः। तांस्ते प्प्रेत्या᳘पिगच्छन्त्य᳘विद्वाᳫँ᳭सो ऽबुधा ज᳘नाः॥
मूलम् - Weber
असुॗर्या ना᳘म ते᳘ लोकाः᳟॥
अन्धे᳘न त᳘मसा᳘वृताः॥
तांस्ते प्रेत्या᳘पिगछन्त्य᳘विद्वांसोऽबुधा 11 ज᳘नाः॥
मूलम् - विस्वरम्
असुर्या नाम ते लोका अन्धेन तमसा ऽऽवृताः । तांस्ते प्रेत्यापिगच्छन्त्यविद्वांसो ऽबुधा 12 जनाः । (वा. सं. ४० । ३) ॥ १४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
नन्वेवं- यदि ते अदर्शनलक्षणं तमः प्रविशन्ति, तर्हि का क्षतिरिति आशङ्कायामाह- असुर्या नाम ते लोका इति । ये ‘लोकाः’ ‘अन्धेन तमसा ऽऽवृताः’ व्याप्ताः ‘ते लोका असुर्याः’ तीव्र-दुःख-समन्विताः ‘नाम’ प्रसिद्धाः । असुषु रमन्ते इति व्युत्पत्तेः । परमात्म-भावद्वयमपेक्ष्य देवादयो ऽप्यसुराः । तेषां स्वभूता असुर्या निकृष्टा इति यावत् । ‘तान्’ लोकान् ‘प्रेत्य’ मृत्वा ‘अपिगच्छन्ति’ अप्ययमेकीभावं प्राप्नुवन्ति । के ते? ये ‘अविद्वांसः’ न केवलं सामान्यतः अविद्वांसः । किं तु- ‘अबुधाः’ आत्मावगमवर्जिताः ‘जनाः’ प्राकृताः जनधर्मिणो वा । अतो दुःखप्राप्तेः सुखहानिरेव क्षतिरित्य् अर्थः ॥ १४ ॥
१५
विश्वास-प्रस्तुतिः
त᳘देव स᳘न्तः॥ (स्त᳘) त᳘दु त᳘द्भवामो न चेद᳘वेदी महती व्वि᳘नष्टिः। ये त᳘द्विदुरमृ᳘तास्ते᳘ भवन्त्यथे᳘तरे दुःख᳘मेवो᳘पयन्ति॥
मूलम् - श्रीधरादि
त᳘देव स᳘न्तः॥ (स्त᳘) त᳘दु त᳘द्भवामो न चेद᳘वेदी महती व्वि᳘नष्टिः। ये त᳘द्विदुरमृ᳘तास्ते᳘ भवन्त्यथे᳘तरे दुःख᳘मेवो᳘पयन्ति॥
मूलम् - Weber
त᳘देव स᳘न्तस्त᳘दु त᳘द्भवामो न चेद᳘वेदी महती वि᳘नष्टिःये त᳘द्विदु᳘रमृ᳘तास्ते᳘ भवन्त्यथे᳘तरे दुःख᳘मेवो᳘पयन्ति 13 ॥
मूलम् - विस्वरम्
तदेव संतस्तदु तद्भवामो न चेदवेदी महती विनष्टिः । ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवोपयन्ति ॥ १५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
न केवलं ब्रह्मविदो विद्यया कृतकृत्यत्वे श्रुतिसम्प्रतिपत्तिरेव, किं तु स्वानुभवसंवादो ऽप्यस्तीत्यह- तदेव सन्तस्तदु तद्भवाम इति । ‘तदेव’ तत्रैव प्रसिद्धे अनेकानर्थसङ्कुले देहे एव अज्ञान-दीर्घ-निद्रा-रहिताः ‘सन्तः’ वर्तमाना वयं ‘तदु’ तदानीमेव कथञ्चित् कल्मषक्षयात् तद्ब्रह्म ‘भवामः’ वर्तामहे । अहो कृतार्था वयमित्य् अभिप्रायः । ब्रह्म-भाव-ज्ञाने सति कृतार्थत्वं श्रुत्यनुभवाभ्यामुक्त्वा तदभावे दोषमाह- न चेदवेदी महती विनष्टिरिति । यद्ब्रह्म भवामः तद्ब्रह्मतत्त्वं न चेद्विदितवन्तः । तर्हि अहं ‘अवेदी’ अविद्वान् भवेयमिति शेषः । वेदनं वेदः सो ऽस्यास्तीति वेदी न वेदी अवेदी । तदा ‘महती’ अनन्तपरिणामा जन्ममरणादिलक्षणा ‘विनष्टिः’ विनशनं स्यात् इति शेषः । एवं पूर्वार्द्धेन उक्तमेवार्थं उत्तरार्द्धेन प्रपञ्चयति- ये तद्विदुरमृतास्ते भवन्तीति । यथा वयं ब्रह्मविदो भूत्वा अस्माद्विनशनाद्विमुक्ताः । एवं ‘ये’ तद्ब्रह्म विदुः ‘ते ऽप्यमृताः’ मुक्ता भवन्ति । अथ पुनर्ये एवं न विदुः ते ‘इतरे’ अब्रह्मविदः जनन-मरण-लक्षणं दुःखमेवोपयन्ति प्रतिपद्यन्ते । न कदाचिदपि दुःखान्निवर्तन्ते इत्य् अर्थः ॥ १५ ॥
१६
विश्वास-प्रस्तुतिः
आत्मा᳘नञ्चे᳘द्विजानीया᳘त्॥ (द) अय᳘मस्मी᳘ति पु᳘रुषः। कि᳘मिच्छन्क᳘स्य का᳘माय श᳘रीरम᳘नुस᳘ञ्चरेत्॥
मूलम् - श्रीधरादि
आत्मा᳘नञ्चे᳘द्विजानीया᳘त्॥ (द) अय᳘मस्मी᳘ति पु᳘रुषः। कि᳘मिच्छन्क᳘स्य का᳘माय श᳘रीरम᳘नुस᳘ञ्चरेत्॥
मूलम् - Weber
आत्मा᳘नं चे᳘द्विजानीया᳘दय᳘मस्मी᳘ति पु᳘रुषः॥
कि᳘मिछन्क᳘स्य 14 का᳘माय श᳘रीरम᳘नु सं᳘चरेत्॥
मूलम् - विस्वरम्
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनुसञ्चरेत् ॥ १६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
तदेवं मार्गान्तर-निंदा-व्याजेन आत्म-ज्ञान-मार्गः स्तुतः । पुनरपि तत्स्तुत्यर्थमेव तन्निष्ठस्य काय-क्लेश-राहित्यं दर्शयति- आत्मानं चेद्विजानीयादिति । “अयमात्मा ब्रह्म”, “अहं ब्रह्मा ऽस्मि” “तत्त्वमसि”- इत्यादिवाक्यात् ‘पूरुषः’ पुमान् ‘अयं’ परमात्माख्यः अहमेवेत्यात्मानं हृत्स्थं अशनायाद्यतीतं च कथञ्चित् सत्त्व-शुद्धितो यदि ‘विजानीयात्’ । तर्हि सः ‘किमिच्छन्’ सर्वस्य वस्तुजातस्यात्ममात्रत्वात् स्वरूपव्यतिरिक्तं किं वस्तु फलभूतमिच्छेत्, न किञ्चिदपि, इत्यपेक्षायां किंशब्दः । एतदेव प्रकटयति- ‘कस्य कामाय’ कस्मै फलाय ‘शरीरमनुसञ्चरेत्’ अनुसङ्गच्छेत् शारीरोपाधिकृतदुःखमनुदुःखी स्यात् शरीराद्भिन्नत्वेनात्मनः साक्षात्कृतत्वात् न तद्दुःखेन विद्वान् दुःखी स्यात् इत्य् अर्थः ॥ १६ ॥
१७
विश्वास-प्रस्तुतिः
यस्या᳘नुवित्तः प्प्र᳘तिबुद्ध ऽआ᳘त्मा॥ (त्मा ऽ) अस्मि᳘न्त्संदेहे ग᳘हने प्प्र᳘विष्टः। स᳘ व्विश्वकृत्स ह स᳘र्व्वस्य कर्ता त᳘स्य लोकः स᳘ ऽउ लोक᳘ ऽएव᳘॥
मूलम् - श्रीधरादि
यस्या᳘नुवित्तः प्प्र᳘तिबुद्ध ऽआ᳘त्मा॥ (त्मा ऽ) अस्मि᳘न्त्संदेहे ग᳘हने प्प्र᳘विष्टः। स᳘ व्विश्वकृत्स ह स᳘र्व्वस्य कर्ता त᳘स्य लोकः स᳘ ऽउ लोक᳘ ऽएव᳘॥
मूलम् - Weber
यस्या᳘नुवित्तः प्र᳘तिबुद्ध आॗत्मास्मि᳘न्त्संदेहे ग᳘हने प्र᳘विष्टः॥
स᳘ विश्वकृत्स ह स᳘र्वस्य कर्ता त᳘स्य लोकः स᳘ उ लोक᳘ एव᳟ 15 ॥
मूलम् - विस्वरम्
यस्यानुवित्तः प्रतिबुद्ध आत्मा ऽस्मिन् सन्देहे गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
न केवलं आत्म-विद्या-रसिकस्य काय-क्लेश-राहित्यं किं तु कृत-कृत्यता चास्तीत्यह- यस्यानुवित्तः प्रतिबुद्ध आत्मेति । ‘अस्मिन्’ प्रसिद्धे ‘सन्देहे’ तेजो ऽबन्नादिभिर्भूतैः सन्दिह्यते समुपचीयते इति सन्देहो देहः । तस्मिन् देहे । कथम्भूते? आध्यात्मिकादीनामर्थानामतिसङ्कराद्गुणप्रधानभावेन पृथक्करणयोग्यतया ‘गहने’ दुर्विज्ञेये जलसूर्यवत्प्रविष्टः ‘आत्मा’ ‘यस्य’ ब्राह्मणस्य । यद्वा येन ब्राह्मणेन ‘अनुवित्तः’ अनुब्धः ‘प्रतिबुद्धः’ ‘अहमस्मि परं ब्रह्म’ इत्येवं प्रत्यगात्मत्वेन साक्षात्कृतश्च वर्तते इति शेषः । ‘सः’ ब्राह्मणः ‘विश्वकृत्’ विश्वकर्ता कृतकृत्यः पूर्ण इत्य् अर्थः । ननु- विश्वकृत्त्वं परप्रयुक्तमेव स्यादित्यत आह- तस्य लोक इति । ‘तस्य’ ब्राह्मणस्य सर्वो ऽपि प्रपञ्चः ‘लोकः’ आत्मेत्यर्थः । ननु- तर्हि लोकलोकिनोर्भेद एव स्यादित्यत आह- स उ लोक एवेति । सो ऽपि ब्राह्मणः सर्वस्य प्रपञ्चस्य ‘लोकः एव’ आत्मैवेत्यर्थः । तथा च- येन ब्राह्मणेन प्रत्यगात्मा प्रतिबुद्धतया अनुवित्तः स न संसारी । किं तु पर एव । यस्मात् विश्वकर्ता सर्वस्य चात्मा सर्वं चास्यात्मा । तस्मात् यः परमात्मा सर्व-प्रकार-भेद-रहितः पूर्णतया वर्तते स एवाहमस्मीति आत्मा अनुसंधातव्य इति तात्पर्यार्थः ॥ १७ ॥
१८
विश्वास-प्रस्तुतिः
य᳘दैत᳘मनुप᳘श्यति॥
(त्या) आत्मा᳘नन्देवम᳘ञ्जसा। ई᳘शानम्भूतभव्य᳘स्य न त᳘दा व्वि᳘चिकित्सति॥
मूलम् - श्रीधरादि
य᳘दैत᳘मनुप᳘श्यति॥
(त्या) आत्मा᳘नन्देवम᳘ञ्जसा। ई᳘शानम्भूतभव्य᳘स्य न त᳘दा व्वि᳘चिकित्सति॥
मूलम् - Weber
यॗदैत᳘मनुप᳘श्यति॥
आत्मा᳘नं देवम᳘ञ्जसा ई᳘शानम् भूतभव्य᳘स्य न त᳘दा वि᳘चिकित्सति॥
मूलम् - विस्वरम्
यदैतमनुपश्यत्यात्मानं देवमंजसा । ईशानं भूत-भव्यस्य न तदा विचिकित्सति ॥ १८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
किञ्च- विदुषः विहिताकरणादिप्रयुक्तं भयं नास्तीति विद्यां स्तोतुं मन्त्रान्तरमाह- यदैतमनुपश्यतीति । ‘यदा’ पुनः कथञ्चित् परम-कारुणिकं कंचिदाचार्यं प्राप्य ततो लब्धप्रसादः सन् ‘अनु’ पश्चात् ‘एतं’ हृदयस्थं ‘आत्मानं’ ‘देवं’ द्योतनात्मकं, यद्वा यथाकर्मानुरूप-सर्व-प्राणि-कर्म-फलानां दातारं देवं भूतभव्यस्य काल-त्रयस्य ‘ईशानं’ स्वामिनं ‘अञ्जसा’ साक्षात् ‘पश्यति’ अहं ब्रह्मास्मीत्यात्मत्वेन विजानाति । ‘तदा’ तदानीं ‘न विचिकित्सति’ न संशयानो भवति । अहमस्मि सर्वात्मा परं ब्रह्मेति निश्चितमतिर्भवतीत्यर्थः । “विचिकित्सा तु संशयः” इत्यमरः । यद्वा ‘न विचिकित्सति’ न निन्दति सर्वस्यात्ममात्रत्वदर्शने निन्दनीयस्य स्वस्य इतरस्य वा अभावादित्य् अर्थः । यद्वा, तद्दर्शनाननन्तरं स्वात्मानम् अकृतार्थत्वेन न गर्हयतीत्य् अर्थः ॥ १८ ॥
१९
विश्वास-प्रस्तुतिः
य᳘स्मिन्प᳘ञ्च पञ्चजनाः᳘॥ (ऽ) आकाश᳘श्च प्प्र᳘तिष्ठितः। त᳘मेव᳘ मन्य ऽआत्मा᳘नम्विद्वान्ब्र᳘ह्मामृ᳘तो ऽमृ᳘तम्॥
मूलम् - श्रीधरादि
य᳘स्मिन्प᳘ञ्च पञ्चजनाः᳘॥ (ऽ) आकाश᳘श्च प्प्र᳘तिष्ठितः। त᳘मेव᳘ मन्य ऽआत्मा᳘नम्विद्वान्ब्र᳘ह्मामृ᳘तो ऽमृ᳘तम्॥
मूलम् - Weber
य᳘स्मिन्प᳘ञ्च पञ्चजनाः᳘ आकाश᳘श्च प्र᳘तिष्ठितः॥
त᳘मेव᳘ मन्य आत्मा᳘नं विद्वान्ब्र᳘ह्मामृ᳘तोऽमृ᳘तम् 16 ॥
मूलम् - विस्वरम्
यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतो ऽमृतम् ॥ १९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं तस्य तस्यात्मनः अमृतत्वं सर्वाधिष्ठानत्वेन साधयति- यस्मिन् पञ्च पञ्चजना इति । ‘यस्मिन्’ ब्रह्मणि ‘पञ्च’ पञ्चसङ्ख्याताः ‘पञ्चजनाः’ पञ्चजनसंज्ञकाः गन्धर्वाः पितरो देवा असुराः रक्षांसि आकाशान्ताः ‘प्रतिष्ठिताः’ । यद्वा, प्राणादयः “वाक्यशेषात्” (पू. मी. १ । ४ । (१९) २९) इति न्यायेन प्राणश्चक्षुः श्रोत्रमन्नं मनश्चेति ‘पञ्चजनाः प्रतिष्ठिताः’ । आकाशश्च यस्मिन् सूत्रमोतं प्रोतं च सो ऽव्याकृताख्यश्च यस्मिन् प्रतिष्ठितः । “एतद्वै तदक्षरं गार्गि यस्मिन्नाकाश ओतश्च प्रोतश्च” (श. प. १४ बृ. उ. ३ । ६ । ११) इत्युक्तत्वात् । तमेवात्मानं ब्रह्मामृतं विद्वान् अहममृत इति ‘मन्ये’ जाने । मर्त्यत्वस्याज्ञान-मात्र-कृतत्वात् तस्य च नष्टत्वादित्य् अर्थः ॥ १९ ॥
२०
विश्वास-प्रस्तुतिः
य᳘स्माद᳘र्व्वाक्सम्वत्सरः᳘॥ (रो᳘ ऽ) अहोभिः परिव᳘र्त्तते। त᳘द्देवा ज्यो᳘तिषाञ्ज्यो᳘तिरा᳘यु᳘र्ह्योपा᳘सते ऽमृ᳘तम्॥
मूलम् - श्रीधरादि
य᳘स्माद᳘र्व्वाक्सम्वत्सरः᳘॥ (रो᳘ ऽ) अहोभिः परिव᳘र्त्तते। त᳘द्देवा ज्यो᳘तिषाञ्ज्यो᳘तिरा᳘यु᳘र्ह्योपा᳘सते ऽमृ᳘तम्॥
मूलम् - Weber
य᳘स्माद᳘र्वाक्संवत्सरो᳘ऽहोभिः परिव᳘र्तते॥
त᳘द्देवा ज्यो᳘तिषां ज्यो᳘तिरा᳘युॗर्ह्योपा᳘सतेऽमृ᳘तम् 17 ॥
मूलम् - विस्वरम्
यस्मादर्वाक् सम्वत्सरो ऽहोभिः परिवर्तते । तद्देवा ज्योतिषं ज्योतिरायुर्ह्योपासते ऽमृतम् ॥ २० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
ननु- ईश्वरो ऽपि कालावच्छिन्नः अतो न कालत्रयं प्रति अस्य ईश्वरत्व-सम्भव इत्यत आह- यस्मादर्वाक् सम्वत्सर इति । अयं सम्वत्सराख्यः कालः स्वावयवैः अहोभिरहोरात्रैः कार्यजातं परिच्छिन्दन् यस्मादीश्वरादर्वागेव ‘परिवर्तते’ न तमपि परिच्छिनत्ति । एवमीश्वरस्य समस्तविक्रिया-हेतु-कालातिक्रमणोक्त्या जन्मादि-विकाराः प्रतिषिद्धा वेदितव्याः । एवम्भूतं तदीश्वरात्मकं ज्योतिषामादित्यादीनामपि ज्योतिरवभासकम् । यज्ज्योतिषा ज्योतिष्मन्तश्च ते प्रसिद्धाः । ‘अमृतं’ अमरण-धर्मकमायुः इत्येवं ‘हि’ निश्चयेन देवा आ सामस्त्येन ‘उपासते’ अनुसन्दधते । तस्मादायुःकामेनायुर्गुणेन ब्रह्मोपास्यमित्य् अर्थः ॥ २० ॥
२१
विश्वास-प्रस्तुतिः
प्प्राण᳘स्य प्प्राण᳘म्॥
(मु) उत च᳘क्षुषश्च᳘क्षुरुत श्रो᳘त्रस्य श्रो᳘त्रम᳘न्नस्या᳘न्नम्म᳘नसो ये म᳘नो व्विदुः᳘। ते नि᳘चिक्युर्ब्ब्र᳘ह्म पुराणम᳘ग्र्यम्म᳘नसै᳘वाप्त᳘व्य᳘न्नेह[[!!]] ना᳘ना ऽस्ति कि᳘ञ्चन᳘॥
मूलम् - श्रीधरादि
प्प्राण᳘स्य प्प्राण᳘म्॥
(मु) उत च᳘क्षुषश्च᳘क्षुरुत श्रो᳘त्रस्य श्रो᳘त्रम᳘न्नस्या᳘न्नम्म᳘नसो ये म᳘नो व्विदुः᳘। ते नि᳘चिक्युर्ब्ब्र᳘ह्म पुराणम᳘ग्र्यम्म᳘नसै᳘वाप्त᳘व्य᳘न्नेह[[!!]] ना᳘ना ऽस्ति कि᳘ञ्चन᳘॥
मूलम् - Weber
प्राण᳘स्य प्राण᳘म् 18 ॥
उत च᳘क्षुषश्च᳘क्षुरुत श्रो᳘त्रस्य श्रो᳘त्रम᳘न्नस्या᳘न्नम् म᳘नसो ये म᳘नो विदुः᳟॥
ते नि᳘चिक्युर्ब्र᳘ह्म पुराणम᳘ग्र्यम् म᳘नसैॗवाॗप्त᳘व्यं नेह ना᳘नास्ति किं᳘ चन᳟॥
मूलम् - विस्वरम्
प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुः । ते निचिक्युर्ब्रह्म पुराणमग्र्यं मनसैवाप्तव्यं नेह नाना ऽस्ति किञ्चन ॥ २१ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
पूर्वतरस्मिन्मन्त्रे पञ्चजन-प्रतिष्ठा-भूत-ब्रह्मवित् अमृतो भवतीत्युक्तम् । कथं पुनरेवंविध-ब्रह्म-विद्योदयः स्यादित्यपेक्षायां तदुदय-प्रकारमाह- प्राणस्य प्राणमिति । प्राणनादि-क्रियां कुर्वन् हि प्राणः स्वस्थानात्मजडत्वाभ्यां सत्तास्फूर्त्योः स्वतः असम्भवात् नित्य-सिद्ध-स्व-प्रकाशात्म-ज्योतिषा अवभास्यमान एव स्फूर्तिं कुरुते । अतस्तस्य ब्रह्म ‘प्राणस्यापि प्राणं’ तथा चक्षुरादीनामपि ब्रह्माकाशक्लेशे ऽनधिष्ठितानां का लोष्टादिसमत्वेन दर्शनादि-क्रियायां अस्वातन्त्र्यात् तदवभासकमात्मज्योतिश्चक्षुषो ऽपि ‘चक्षुः’ इत्यादि तुल्यं व्याख्यानम् । उतशब्दो ऽप्यर्थे । तथा च- तानि केनचिदधिष्ठितानि वर्तन्ते, करणत्वाद्वास्यादिवत् इति । एवं प्राणादिव्यापारानुमितास्तित्वं तद्विलक्षणत्वेन शुद्धं प्रत्यगात्मानं ‘ये’ ‘विदुः’ । ‘ते’ ब्राह्मणाः ‘अग्र्यं’ अग्रे भवम् अत एव ‘पुराणं’ चिरन्तनं ‘ब्रह्म निचिक्युः’ निश्चयेन ज्ञानवन्तः । अत एव त्वं-पदार्थ-परिशोधन-प्रकारेण यथोक्त-ब्रह्म-विद्योदयः स्यादिति भावः । एवविध-ब्रह्मावाप्तौ किं साधनमित्यपेक्षायां श्रवणादि-संस्कृतं मन एव यथोक्त-प्रकार-ब्रह्मधी-साधनमित्य् आह- मनसैवाप्तव्यमिति । उक्तलक्षणं ब्रह्म “मनसैवाप्तव्यं” प्राप्यम् । न साधनान्तरेणेत्यर्थः । यद्यपि “यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह” (तै. उ. ब्र. व.) इत्यादिना मनसा ऽप्यनवाप्तव्यमित्य् उच्यते । तथाप्य् अत एव वृत्ति-व्याप्यं ब्रह्मेत्यभ्युपगच्छन्ति शाश्वतः । ननु- एवमादि-प्राप्त-व्यादि-भावेन भेदः स्यादित्य् आशङ्कायामाह- नेह नाना ऽस्ति किञ्चनेति । ‘इह’ अवाप्ति-विषये ब्रह्मणि किञ्चिदपि ‘नाना’ भेदः अविद्याध्यारोपण-व्यतिरेकेण परमार्थतो नास्तीत्य् अर्थः ॥ २१ ॥
२२
विश्वास-प्रस्तुतिः
मृत्योः स᳘ मृत्यु᳘माप्नोति॥ य᳘ ऽइह ना᳘नेव प᳘श्यति। म᳘नसै᳘वानुद्द्रष्ट᳘व्यमेत᳘दप्रम᳘यन्ध्रुवम्[[!!]]॥
मूलम् - श्रीधरादि
मृत्योः स᳘ मृत्यु᳘माप्नोति॥ य᳘ ऽइह ना᳘नेव प᳘श्यति। म᳘नसै᳘वानुद्द्रष्ट᳘व्यमेत᳘दप्रम᳘यन्ध्रुवम्[[!!]]॥
मूलम् - Weber
मृत्योः स᳘ मृत्यु᳘माप्नोति य᳘ इह ना᳘नेव प᳘श्यति॥
म᳘नसैॗवानुद्रष्ट᳘व्यमेत᳘दप्र᳘मयं ध्रुव᳘म् 19 ॥
मूलम् - विस्वरम्
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । मनसैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् ॥ २२ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं भेद-दर्शन-निन्दया नाना-त्वाभावं द्रढयति- मृत्योः स मृत्युमाप्नोतीति । इव-शब्दो ऽभिनयार्थः । “य इह” ब्रह्मणि ‘नानेव पश्यति’ । स मृत्योर्मरणात् पुनः मृत्युमाप्नोति जन्म-मरण-संसार-चक्रे परिभ्रमतीत्यर्थः । द्वैताभावे कथं अनुद्रष्टव्यं इत्य् अपेक्षायामाह- मनसैवानुद्रष्टव्यमिति । यस्मात् एतादृशं ब्रह्म, तस्मात् ‘मनसैव’ श्रवणादिकमनुद्रष्टव्यं साक्षात्कर्तव्यं यस्माद्वैकरसं तस्मादेतद्ब्रह्म ‘अप्रमयम्’ अप्रमेयं, तथा ‘ध्रुवं’ नित्यं अविचालीत्य् अर्थः ॥ २२ ॥
२३
विश्वास-प्रस्तुतिः
व्वि᳘रजः प᳘र ऽआकाशा᳘त्॥
(द) अज᳘ ऽआत्मा᳘ महा᳘न्ध्रुवः᳘। त᳘मेव धीरो᳘[[!!]] व्विज्ञा᳘य प्प्रज्ञा᳘ङ्कुर्व्वीत ब्ब्राह्मणः᳘। ना᳘नुध्यायाद्बहूञ्छ᳘ब्दान्वाचो᳘ व्विग्ला᳘पनᳫँ᳭ हि तदि᳘ति॥
मूलम् - श्रीधरादि
व्वि᳘रजः प᳘र ऽआकाशा᳘त्॥
(द) अज᳘ ऽआत्मा᳘ महा᳘न्ध्रुवः᳘। त᳘मेव धीरो᳘[[!!]] व्विज्ञा᳘य प्प्रज्ञा᳘ङ्कुर्व्वीत ब्ब्राह्मणः᳘। ना᳘नुध्यायाद्बहूञ्छ᳘ब्दान्वाचो᳘ व्विग्ला᳘पनᳫँ᳭ हि तदि᳘ति॥
मूलम् - Weber
वि᳘रजः प᳘र आकाशा᳘त्॥
अज᳘ आत्मा᳘ महा᳘ ध्रुवः᳟॥
त᳘मेव धी᳘रो विज्ञा᳘य प्रज्ञां᳘ कुर्वीत ब्राह्मणः᳟॥
ना᳘नुध्यायाद्बहूञ्छ᳘ब्दान्वाचो᳘ 20 विग्ला᳘पनᳫं हि तदि᳘ति॥
मूलम् - विस्वरम्
विरजः पर आकाशादज आत्मा महान् ध्रुवः । तमेवं धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहून् शब्दान् वाचो विग्लापनं हि तत् ॥ २३ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
उक्तं ध्रुवत्वं सोपस्करमुपपादयति- विरजः पर आकाशादिति । धर्माधर्मादिलक्षणं रजो विगतं यस्मात् स विरजः । अत आकाशात् अव्याकृताख्यात् ‘परः’ व्यतिरिक्तः । अत एव ‘अजः’ न जायत इत्यजः । जनननिषेधाच्च “जायते अस्ति विपरिणमते वर्द्धते अपक्षीयते विनश्यति” (नि. १ । २ । ८) इत्युक्ताः सर्वे भाव-विकाराः निषिद्धा वेदितव्याः, तेषां जन्मादित्वात् । एवम्भूत आत्मा किंपरिमाणः इत्युच्यते । ‘महान्’ परिमाणतो महत्तमः । “यस्मात्परं नापरमस्ति किञ्चित् । यस्मान्नाणीयो न ज्यायो ऽस्ति किञ्चित्” (तै. उ. प्र. ४) इति श्रुत्यन्तरात् । तस्माद्ध्रुवः अविनाशीत्य् अर्थः । यथोक्त-वस्तु-दर्शनं निगमयति- तमेव धीरो विज्ञायेति । ‘धीरः’ धीमान् ब्राह्मणः ‘तमेव’ नित्य-शुद्धत्वादि-लक्षणमात्मानं ‘विज्ञाय’ पदार्थ-शुद्धिं सम्पाद्य शास्त्रत उपदेशतश्च ‘प्रज्ञां’ वाक्यार्थ-ज्ञान-लक्षणां अशेष-शोकाकाङ्क्षाशान्ति-रूपां परम-पुरुषार्थ-हेतु-भूतां तत्त्वमस्यादिवाक्यवशात् ‘कुर्वीत’ सम्पादयेदित्य् अर्थः । बहु-शास्त्र-अध्ययने दोषमाह- नानुध्यायाद् बहूञ्छब्दान् इति । ‘बहून्’ प्रभूतान् शब्दान्नानुध्यायात् नानुचिन्तयेत् । बहु-शब्द-अध्ययन-निषेधहेतुः “वाचो विग्लापनं हि तदिति” । ‘हि’ यस्माद्बहु-शब्द-अध्ययनं ‘वाचः’ वागिन्द्रियस्य ‘विग्लापनं’ विशेषेण ग्लानि-करं श्रम-जनकम् । तस्माद्बहु-शब्दाभ्यास-प्रतिषेध-सामर्थ्यात् आत्म-याथात्म्यावबोधहेत्वल्पशब्दाभ्यासो ऽनुज्ञायते । “अन्या वाचो विमुंचथ ॐ ३ इत्य् एवं ध्यायतात्मानम्”- ( ) इत्य्-अथर्वण-श्रुतेरिति भावः ॥ २३ ॥
२४
विश्वास-प्रस्तुतिः
स वा᳘ ऽअय᳘मात्मा᳘॥
स᳘र्व्वस्य व्व᳘शी स᳘र्व्वस्येशा᳘नः[[!!]] स᳘र्व्वस्या᳘धिपतिः स᳘र्व्वमिदम्प्र᳘शास्ति य᳘दिदङ्कि᳘ञ्च स न᳘ साधु᳘ना क᳘र्म्मणा भू᳘या᳘न्नो ऽए᳘वासाधु᳘ना क᳘नीयानेष᳘ भूताधिपति᳘रेष᳘ लोकेश्वर ऽएष᳘[[!!]] लोकपालः स से᳘तुर्व्वि᳘धरण ऽएषां᳘ लोका᳘नाम᳘सम्भेदाय॥
मूलम् - श्रीधरादि
स वा᳘ ऽअय᳘मात्मा᳘॥
स᳘र्व्वस्य व्व᳘शी स᳘र्व्वस्येशा᳘नः[[!!]] स᳘र्व्वस्या᳘धिपतिः स᳘र्व्वमिदम्प्र᳘शास्ति य᳘दिदङ्कि᳘ञ्च स न᳘ साधु᳘ना क᳘र्म्मणा भू᳘या᳘न्नो ऽए᳘वासाधु᳘ना क᳘नीयानेष᳘ भूताधिपति᳘रेष᳘ लोकेश्वर ऽएष᳘[[!!]] लोकपालः स से᳘तुर्व्वि᳘धरण ऽएषां᳘ लोका᳘नाम᳘सम्भेदाय॥
मूलम् - Weber
स वा᳘ अय᳘मात्मा᳟॥
स᳘र्वस्य व᳘शी 21 स᳘र्वस्ये᳘शानः स᳘र्वस्या᳘धिपतिः स᳘र्वमिदम् प्र᳘शास्ति य᳘दिदं किं᳘ च स न᳘ साधु᳘ना क᳘र्मणा भू᳘याॗन्नोऽएॗवासाधु᳘ना क᳘नीयानेष᳘ भूताधिपति᳘रेष᳘ लोकेश्वर᳘ एष᳘ लोकपालः स से᳘तुर्वि᳘धरण एषां᳘ लोका᳘नाम᳘सम्भेदाय॥
मूलम् - विस्वरम्
स वा अयमात्मा । सर्वस्य वशी । सर्वस्येशानः । सर्वस्याधिपतिः । सर्वमिदं प्रशास्ति । यदिदं किं च । स न साधुना कर्मणा भूयान् नो एवासाधुना कनीयान् । एष भूताधिपतिः । एष लोकेश्वरः । एष लोकपालः । स सेतुर्विधारण एषां लोकानामसम्भेदाय ॥ २४ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
पूर्वं “तदेव सत्तत्सह कर्मणैति” (कं ८) इत्यादि-मन्त्रेण “स यत्रायं शारीर आत्मा ऽबल्यम्” (कं. १) इत्यादि-ब्राह्मणेन च कामादि-हेतु-सहितो मुमुक्षूणां हेयत्वेनोक्तः “यदा सर्वे प्रमुच्यन्ते” (कं. १) इत्यादि-मन्त्रेण “अथाकामयमानः” (कं. ८) इत्यादि-ब्राह्मणेन च तेषामेवाभिलषितः सम्यग्धीहेतुको मोक्ष उक्तः । पुनश्च तत्स्वरूपं “अणुः पन्था वितरः” (कं. ११) इत्यादि-श्लोकैः प्रपञ्चितम् । इदानीं विविदिषा-वाक्येन ब्रह्मात्मनि कृत्स्नस्य वेदस्य काम्याराशिवर्जितस्य विनियोगकथनार्थमस्मिन्नध्याये उक्तं सकलमात्मज्ञानं- स वा अयमात्मा (कं २४) इत्यारभ्य “एषां लोकानामसम्भेदाय” (कं. २४) इत्येवमन्तेनानूद्यते । सशब्देन ज्योतिर्ब्राह्मणोक्तं विज्ञानलक्षणमयं जीवं परामृश्य तमेव वैशब्देन स्मारयित्वा तस्य “विरजः पर आकाशादज आत्मेति” अव्यवहितोक्तेन परमात्मनैक्यं इतिशब्देन श्रुतिर्निर्दिशतीति- स वा अयमिति पदत्रयसमुदायार्थः । इत्थमुक्तमात्मज्ञानमनूद्य तत्फलमाह- सर्वस्य वशीत्य् आदिना । ‘सर्वस्य‘ ब्रह्मेन्द्रादेः ‘वशी’ सर्वो हि ब्रह्मेन्द्रादि-गणः अस्य वशे वर्तत इति यावत् । “एतस्य वा अक्षरस्य प्रशासनं” (श. प. बृ. १४ । ३ । ६ । ११) इत्यादिनोक्तत्वात् सर्वस्यैतद्वशित्वे हेतुः । यतः ‘सर्वस्य’ ब्रह्मेन्द्रादेरीशानः स्वामी । ननु- यथा बलवत्तरामात्यादीन् प्रति राजपुत्रस्य वशित्वं तद्वदेवास्यापि स्यादित्यतः “सर्वस्याधिपतिः” इति विशेषणम् । ‘अधिपतिः’ अधिष्ठाय पालयिता महाराजवत् स्वतन्त्र इति यावत् अधिपतित्वादीशानः । ईशित्वाच्च वशीत्यर्थः । किं च- ‘सर्वमिदं प्रशास्ति यदिदं किञ्चेति’ यत्किञ्चित् ‘इदं सर्वं’ जगत्प्रशास्ति । ननु- एवं शासनाल्लोकवत् धर्माधर्मसंयोग ईश्वरात्मनः स्यात् इत्यत आह- स न साधुना कर्मणा भूयानिति । सो ऽधिपतिर्विद्वान् ‘साधुना’ शास्त्रविहितेन ‘कर्मणा’ पूर्वावस्थातो भूयान्न भवति न वर्द्धते । ‘असाधुना’ शास्त्र-प्रतिषिद्धेन ‘कर्मणा’ प्रागवस्थातः ‘नो एव कनीयान्’ अल्पीयन् अल्पीतरो न भवत्येवेत्यर्थः । पालनादि-कर्तृत्वज्जन्य-धर्मादि-फलसम्बन्धः कथं नास्तीत्यभिप्रेत्य विद्वांसं विशिनष्टि- एष भूताधिपतिरेष लोकेश्वर इति । यस्मादेष विद्वान् ‘भूताधिपतिः’ भूत-मात्रस्य स्थावर-जङ्गमात्मकस्याधिपतिः तत्सत्तानियामकः, कार्याणां कारणाधीनसत्ताकत्वात् । तथा ‘एषः’ ईश्वरः ‘लोकेश्वरः’ लोकस्य धर्मादेरपि ईशितुं शीलमस्येति स लोकेश्वरः । धर्मादेरपि नियमनशील इत्यर्थः । तस्मान्न कामकर्माविद्यापरतन्त्राविद्वज्जीववत् अस्य धर्मादि-सम्बन्धः अस्ति । तथा ‘एष लोकपालः’ लोकान् जनिमत्कार्याणि भूतानि तत्-स्फूर्ति-रूपेण तत्र तत्र चेतना-रूपेण च पालयतीति ‘लोकपालः’ । किं च- यथा उदक-प्रवाहविष्टम्भकः ‘सेतुः’ तद्वदेव स परमात्मा सेतुः । किंविशिष्टः- ‘विधरणः’ विधारकः । यथा सेतुः सीमादि-व्यवस्थां विधारयति । तथा वर्णाश्रमादि-व्यवस्थाया विधारक इत्य् अर्थः । किमर्थम्? एषां भूरादि-ब्रह्म-लोकान्तानां ‘लोकानां’ ‘असम्भेदाय’ सम्भेदः साङ्कर्यं तदभावाय । एवं राजवैलक्षण्यान्नास्य तद्धर्मादिसम्बन्ध इत्य् अर्थः ॥ २४ ॥
२५
विश्वास-प्रस्तुतिः
त᳘मेत᳘म्वेदानुवचने᳘न व्विविदिष᳘न्ति॥
ब्ब्रह्मच᳘र्य्येण त᳘पसा श्रद्ध᳘या यज्ञेना᳘नाशकेन चैत᳘मेव᳘ व्विदित्वा᳘ मुनि᳘र्भ्भवत्येत᳘मेव᳘ प्प्रव्व्रा᳘जिनो लोक᳘मीप्स᳘न्तः प्र᳘व्व्रजन्ति॥
मूलम् - श्रीधरादि
त᳘मेत᳘म्वेदानुवचने᳘न व्विविदिष᳘न्ति॥
ब्ब्रह्मच᳘र्य्येण त᳘पसा श्रद्ध᳘या यज्ञेना᳘नाशकेन चैत᳘मेव᳘ व्विदित्वा᳘ मुनि᳘र्भ्भवत्येत᳘मेव᳘ प्प्रव्व्रा᳘जिनो लोक᳘मीप्स᳘न्तः प्र᳘व्व्रजन्ति॥
मूलम् - Weber
त᳘मेतं᳘ वेदानुवचने᳘न विविदिष᳘न्ति॥
ब्रह्मच᳘र्येण त᳘पसा श्रद्ध᳘या यज्ञेना᳘नाशकेन चैत᳘मेव᳘ विदित्वा᳘ मुनि᳘र्भवत्येत᳘मेव᳘ प्रव्रा᳘जिनो लोक᳘मीप्स᳘न्तः 22 प्र᳘व्रजन्ति॥
मूलम् - विस्वरम्
तमेतं वेदानुवचनेन विविदिषन्ति । ब्रह्मचर्येण । तपसा । श्रद्धया । यज्ञेन । अनाशकेन । एतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनो लोकमीप्सन्तः प्रव्रजन्ति ॥ २५ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
यदर्थम् ‘एषा’ अस्मिन्नध्याये ‘वाचो विग्लापनं हि तत्’ (कं. २३) इति श्लोकान्तेन विहिता सफला ब्रह्मविद्या अनूदिता । तत्काम्यैकदेशवर्जितस्य कृत्स्नस्य कर्मकाण्डस्य अविद्यायां परम्परया विनियोगं दर्शयति- तमेतं वेदानुवचनेन विविदिषन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन च इति । त्रयाणामपि वर्णानाम् अध्ययनादौ अधिकृतत्वात् अत्र द्विजमात्रो ऽधिकारी बोद्धव्यः । वेदो मन्त्र-ब्राह्मणात्मकः अनूच्यते गुरूच्चारणानन्तरं पठ्यते । इति वेदानुवचनं वेदाध्ययनम् । तथा च द्विजा अधिकारिणः । ‘तमेतं’ मन्त्रोक्त-विशेषणं औपनिषदं पुरुषं ‘वेदानुवचनेन’ नित्यस्वाध्यायलक्षणेन अन्तःकरण-शुद्धि-द्वारा ‘विविदिषन्ति’ वेदितुमिच्छन्ति । न तु विदन्त्येव । स्वातन्त्र्येण ईश्वरात्मविषयाया बुभुत्साया अपि दुर्लभत्वात् । “तं त्वौपनिषदं पुरुषमिति” तद्धितश्रुतेः पुरुषस्येश्वरस्य उपनिषदेकगम्यत्वावगमाच्च न साक्षाद्वेदनार्थं वेदानुवचनानि । किं तु विविदिषार्थमेवेति । तथा ‘ब्रह्मचर्येण’ स्त्री-परिग्रह-निवृत्ति-लक्षणेन नैष्ठिकेन ब्रह्मचारिकर्मणा । तथा ‘तपसा’ नियमेन शास्त्रीय-पारलौकिक-जपाद्यङ्गविधिवशात् शीतादि-द्वन्द्व-सहनं तपः, तेन तपसा । तथा ‘श्रद्धया’ अदृष्टार्थेषु कर्मसु देवताज्ञानादिषु च वेदबोधितेषु आस्तिक्य-बुद्धिः श्रद्धा तया । तथा ‘यज्ञेन’ द्रव्य-यज्ञेन ज्ञान-यज्ञेन च । तथा ‘अनाशकेन’ कामानशन-लक्षणेन ‘विविदिषन्तीति’ प्रत्येकं सम्बध्यते । अत्र कामानशनमेवानाशकम् । न तु भोजन-अभावः । तथा सति मरण-सम्भवेन आत्म-विविदिषोत्पत्तेरनवकाशात् । यद्वा सङ्कल्प-पूर्वकं मरणान्तमशनवर्जनमनाशकम् । वेदानुवचनादेरनाशकस्य च ऐहिक-विविदिषा-साधनत्वे नियमाभावात् । ऐहिकस्यापि साधनस्य जन्मान्तर-विविदिषा-द्वारा मुक्ति-हेतुत्वाच्च । तथा चास्मिन् जन्मनि साधनचतुष्टयसम्पत्तिश्चेन्न जाता । तर्हि आमरणान्तिकमनशनं कुर्यात् । यदा पुनरिहैव साधन-चतुष्टय-सम्पन्नो भवति । तदा आमरण-मनशनं दूरादेव त्यजेत् । तस्य “श्रोतव्यो मन्तव्यः” इत्यादि-श्रुत्या श्रवणादावेव विवियुक्तत्वादिति भावः । तस्माद्वेदे यानि काम्यानि कर्माण्युक्तानि गर्भवासाद्यनर्थहेतव इति यदा ज्ञायन्ते तदा तेषु जिज्ञासा उपावर्तते । ततश्च नित्याद्यनुष्ठानात् परिशुद्धबुद्धेः विविदिषा-द्वारा कर्मणो मुक्ति-हेतुत्वे सिद्धे काण्डद्वययस्यैकवाक्यता सिद्धेति तात्पर्यं बोध्यम् । एवं कर्मकाण्डोक्तेरध्ययनादिकर्मभिः उत्पन्नवेदनेच्छातः किं स्यात्, इत्य् अत आह- एतमेव विदित्वा मुनिर्भवतीति । उक्तैरुपायैः बुद्धिद्वारा विविदिषोपत्तौ गुरुपादोपसर्पणं श्रवणानुष्ठानं चेत्यनेन क्रमेण ‘एतमेव’ मोक्ष-प्रकरणे मन्त्रब्राह्मणाभ्यां उक्त-लक्षणमात्मानमेव ‘विदित्वा’ साक्षात्कृत्य ‘मुनिर्भवति’ मननशीलो योगी भवतीत्य् अर्थः । एतमेवेत्यवधारणात् प्रत्यगात्म-वेदनमेव मुनित्वहेतुः । न कर्मभेदस्तद्भेदज्ञानादिकम् । अतः अविद्या-विरोधि अविद्योत्थ-कर्म-त्यागिनां सन्न्यासिनामेव मुनित्वं भवति न कर्मणा इति अर्थादुक्तं भवति । इदानीम् अर्थोक्तं सन्न्यासं मुनि-प्राप्यात्म-लोकमिच्छतां तत्साधनत्वेन विदधाति- एतमेव प्रव्राजिनो लोकमीप्सन्तः प्रव्रजन्तीति । ‘एतमेव’ प्रकृतमात्मानं स्वं ‘लोकं’ अन्तःकरण-शुद्धि-द्वारा ‘ईप्सन्तः’ आप्तुमिच्छन्तः विविदिषन्तः ‘प्रव्राजिनः’ प्रव्रजनशीलाः वैराग्यातिशय-शालिनो मुमुक्षवः ‘प्रव्रजन्ति’ प्रकर्षेण सर्वाणि कर्माणि सन्न्यस्यन्तीति सन्न्यासो विधीयते । “आग्नेयो ऽष्टाकपालो भवति” इतिवदित्यर्थः । ‘एतमेव लोकमीप्सन्तः’ इत्य्-अवधारणात् बाह्य-लोक-त्रयेप्सूनं पारिव्रज्ये नाधिकार इति गम्यते । न हि गङ्गाद्वारं प्रति जिगमिषोः काशीनिवासिनः पूर्वाभिमुख-गमनं साधनम् । “सो ऽयं मनुष्यलोकः पुत्रेणैव जय्यः, नान्येन कर्मणा, कर्मणा पितृलोको विद्यया देवलोकः” (श. प. बृ. १४ । १ । ३ । १६) इति श्रुत्या बाह्य-लोक-त्रयार्थिनां पुत्रादि-साधनान्तरस्य नियमितत्वात् ॥ २५ ॥
२६
विश्वास-प्रस्तुतिः
(न्त्ये) एत᳘द्धस्म वै तत्पू᳘र्व्वे ब्राह्मणाः᳘॥
(ऽ) अनूचाना᳘ व्विद्वा᳘ᳫँ᳘सः प्प्रजान्न᳘ कामयन्ते कि᳘म्प्रज᳘या करिष्यामो ये᳘षान्नो ऽय᳘मा᳘त्मा ऽयं᳘ लोक ऽइ᳘ति ते᳘ ह स्म पुत्रैषणा᳘याश्च व्वित्तैषणा᳘याश्च लोकैषणा᳘याश्च व्व्युत्थाया᳘थ भिक्षाच᳘र्य्यञ्चरन्ति या᳘ ह्येव᳘ पुत्रैषणा सा᳘ व्वित्तैषणा या᳘ व्वित्तैषणा सा᳘ लोकैष᳘णोभे᳘ ह्येते ऽए᳘षणे एव ऽभ᳘वतः॥
मूलम् - श्रीधरादि
(न्त्ये) एत᳘द्धस्म वै तत्पू᳘र्व्वे ब्राह्मणाः᳘॥
(ऽ) अनूचाना᳘ व्विद्वा᳘ᳫँ᳘सः प्प्रजान्न᳘ कामयन्ते कि᳘म्प्रज᳘या करिष्यामो ये᳘षान्नो ऽय᳘मा᳘त्मा ऽयं᳘ लोक ऽइ᳘ति ते᳘ ह स्म पुत्रैषणा᳘याश्च व्वित्तैषणा᳘याश्च लोकैषणा᳘याश्च व्व्युत्थाया᳘थ भिक्षाच᳘र्य्यञ्चरन्ति या᳘ ह्येव᳘ पुत्रैषणा सा᳘ व्वित्तैषणा या᳘ व्वित्तैषणा सा᳘ लोकैष᳘णोभे᳘ ह्येते ऽए᳘षणे एव ऽभ᳘वतः॥
मूलम् - Weber
एत᳘द्ध स्म वै तत्पू᳘र्वे ब्राह्मणाः᳟॥
अनूचाना᳘ विद्वा᳘ᳫं᳘सः प्रजां न᳘ कामयन्ते कि᳘म् प्रज᳘या करिष्यामो ये᳘षां नोऽय᳘माॗत्मायं᳘ 23 लोक इ᳘ति ते᳘ ह स्म पुत्रैषणा᳘याश्च वित्तैषणा᳘याश्च लोकैषणा᳘याश्च व्युत्थाया᳘थ भिक्षाच᳘र्यं चरन्ति याॗ ह्येव᳘ पुत्रैषणा सा᳘ वित्तैषणा या᳘ वित्तैषणा सा᳘ लोकैषॗणोभेॗ ह्येते ए᳘षणे एव भ᳘वतः॥
मूलम् - विस्वरम्
एतत् ह स्म वै तत्पूर्वे ब्राह्मणः अनूचाना विद्वांसः प्रजां न कामयन्ते । किं प्रजया करिष्यामः । येषां नः अयमात्मा अयं लोक इति । ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थाय, अथ भिक्षाचर्यं चरन्ति । या ह्य् एव पुत्रैषणा सा वित्तैषणा । या वित्तैषणा सा लोकैषणा । उभे ह्य् एते एषणे एव भवतः ॥ २६ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
ननु- अत्र कथं सन्न्यासे विधिरिति निश्चेतुं शक्यते “प्रव्रजन्तीति” वर्तमानोपदेशात् इति संशये अनन्यथासिद्धार्थवादवशाद्विधिरेव निश्चेयः इत्य् अभिप्रेत्य तस्य विधित्वनिर्णय-हेतुमर्थवादं दर्शयति- एतद्ध स्म वै तत्पूर्वे ब्राह्मणा ऽअनूचाना विद्वांसः प्रजां न कामयन्त इत्यादिना । ‘ह स्म’ इत्य् एतौ ऐतिह्यार्थौ निपातौ वैशब्दः स्मरणार्थः । तदेतदिति पदाभ्यां तदेतदात्म-लोकार्थिनां पारिव्राज्ये कारणमुच्यत इति श्रुतेः प्रतिज्ञाप्यते । अत्र प्रजाशब्दः कर्मोपासनयोरप्युपलक्षणार्थः । तथा च- तदेतत्पारिव्राज्ये स्पष्टकारणं ‘ह’ किल ‘वै’ स्मर्यते । ‘पूर्वे’ अतिक्रान्त-कालिकाः ‘ब्राह्मणाः’ जातिमन्तो वा ‘अनूचानाः’ अनुवचन-समर्थाः ‘विद्वांसः’ आत्मज्ञाः ‘प्रजां’ तदुपलक्षिते कर्मविद्ये च ‘न कामयन्ते स्म’ पुत्रादि-साधनानि नानुतिष्ठन्ति स्मेत्य् अर्थः । ननु- पुत्रादि-साधनं परित्यजतां तेषां को ऽभिप्रायः इत्य् अत आह- किं प्रजया करिष्यामो येषां नो ऽयमात्मा ऽयं लोक इतीति । ‘येषां’ नो ऽस्माकं परमार्थ-दर्शिनां ‘अयं’ नित्य-सन्निहितो अशनायादि-वर्जित आत्मैव ‘लोकः’ पुरुषार्थः । ते वयं ‘प्रजया’ पुत्र-कर्मापरविद्याभिर्लोकस्य साधन-भूताभिः ‘किं करिष्यामः’ । लोक-त्रय-हेतु-पुत्रादि-साध्यं नैव पश्यामः इति पुत्रादिकमाक्षिपन्तीत्यर्थः । इति-शब्दः अभिप्राय-समाप्तिद्योतकः । ननु- ते पूर्वे ब्राह्मणाः एवं साध्य-साधन-व्यवहारं निन्दन्तः तस्याविद्वद्विषयत्वमापाद्य किं कृतवन्त इत्य् अपेक्षायामाह- ते ह पुत्रैषणायाश्चेत्यादि- एषणे एव भवतः इत्य् अन्तं व्याख्यातम् । यस्मादेवं पूर्वे विद्वांसः प्रजादिभ्यो निवृत्ताः प्रव्रजिता एव । तस्मात् अधुनातना अपि प्रव्रजेयुरित्येवमर्थवाद-वाक्यं विधि-वाक्यमन्तरेणासम्बध्यमानं स्व-सम्बन्ध-सिद्धये लोकमीप्सन्तः प्रव्रजन्तीत्यस्य सन्न्यास-विधि-वाक्यत्वं निश्चाययतीति सिद्धम् ॥ २६ ॥
२७
विश्वास-प्रस्तुतिः
स᳘ ऽएष ने᳘ति ने᳘त्यात्मा᳘॥
(त्मा᳘ ऽ) अ᳘गृह्यो न हि᳘ ग्गृह्यते᳘ ऽशीर्य्यो न हि शी᳘र्य्यते᳘ ऽसङ्गो᳘ ऽसितो न᳘ सज्यते[[!!]] न व्व्य᳘थत ऽइत्य᳘तः पा᳘पम᳘करवमित्य᳘तः कल्या᳘णम᳘करवमि᳘त्युभे᳘ ऽउभे᳘ ह्येष᳘ ऽएते त᳘रत्यमृ᳘तः साध्वसाधुनी᳘[[!!]] नैनङ्कृताकृते᳘ तपतो᳘ नास्य के᳘न चन क᳘र्म्मणा लोको᳘ मीयते॥
मूलम् - श्रीधरादि
स᳘ ऽएष ने᳘ति ने᳘त्यात्मा᳘॥
(त्मा᳘ ऽ) अ᳘गृह्यो न हि᳘ ग्गृह्यते᳘ ऽशीर्य्यो न हि शी᳘र्य्यते᳘ ऽसङ्गो᳘ ऽसितो न᳘ सज्यते[[!!]] न व्व्य᳘थत ऽइत्य᳘तः पा᳘पम᳘करवमित्य᳘तः कल्या᳘णम᳘करवमि᳘त्युभे᳘ ऽउभे᳘ ह्येष᳘ ऽएते त᳘रत्यमृ᳘तः साध्वसाधुनी᳘[[!!]] नैनङ्कृताकृते᳘ तपतो᳘ नास्य के᳘न चन क᳘र्म्मणा लोको᳘ मीयते॥
मूलम् - Weber
स᳘ एष ने᳘ति ने᳘त्यात्मा᳟॥
अ᳘गृह्यो न हि᳘ गृह्यते᳘ऽशीर्यो न हि शी᳘र्यते᳘ऽसङ्गो᳘ऽसितो न᳘ सज्य᳘ते न व्य᳘थत इत्य᳘तः पा᳘पम᳘करवमित्य᳘तः कल्या᳘णम᳘करवमि᳘त्युभे᳘ उभेॗ ह्येष᳘ एते त᳘रत्यमृ᳘तः साध्वसाधु᳘नीॗ 24 नैनं कृताकृते᳘ तपतोॗ नास्य के᳘न चन क᳘र्मणा लोको᳘ मीयते॥
मूलम् - विस्वरम्
स एष नेति नेत्यात्मा । अगृह्यो न हि गृह्यते । अशीर्यो न हि शीर्यते । असङ्गो ऽसितो न सज्यते न व्यथते इति । अत पापमकरवमिति । अतः कल्याणमकरवमिति उभे । उभे ह्येष एते तरत्यमृतः साध्वसाधुनी । नैनं कृताकृते तपतः । नास्य केन चन कर्मणा लोको मीयते ॥ २७ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
नन्वेवमपि, आत्म-लोकार्थिनां किमिति नियमेन पारिव्राज्यमेव विधीयते । कर्मणामपि तत्-साधनत्वेनानुष्ठेयत्वादित्याशङ्कायां तस्यात्म-लोकस्य उत्पाद्यादि-विलक्षणत्वेन कर्म-सम्बन्धान्न कर्म-तदर्थिनां अनुष्ठेयमित्यभिप्रेत्याह- स एष नेति नेत्यात्मेत्य् आदि- न व्यथत इत्यन्तम् । व्याख्यातार्थमेतच्छाकल्यब्राह्मणे । ननु- य एवं सर्वैषणा-विनिवृत्तः स एष नेति नेत्यादि-लक्षणमात्मानमात्मत्वेनावगम्य तद्रूपेणैव वर्तते । तस्य कर्मानारभमाणस्य ब्रह्मविदः किं स्यादित्य् अपेक्षायामाह- अतः पापमकरवमित्यादि । ‘अतः’ अस्मात्निमित्तात् शरीर-धारणादिहेतोः अविवेककृतात् रागादेः पापमपुण्यं कर्म ‘अकरवं’ कृतवानस्मि । कष्टं खलु मम् वृत्तम् । अनेन कर्मणा अहं नरकं प्रतिपत्स्ये इति कर्मकृतः परितापः पूर्वोक्त-लक्षणं ब्रह्मविदं न तरति न व्याप्नोति । तथा ‘अतः’ फल-विषय-कामनिमित्तात् ‘कल्याणं’ यज्ञादि-लक्षणं पुण्यं शोभनं कर्म ‘अकरवं’ कृतवानस्मि । अतः अहं देहान्तरे अस्य फलं सुखं उपभोक्ष्ये इत्येषो ऽपि हर्षः तं न तरति न व्याप्नोतीत्य् अर्थः । इत्येवमुभे द्वे पाप-पुण्य-फले कष्ट-हर्ष-रूपे तं न तरत इति शेषः । एवं यथोक्तात्मविदः ताप-हर्षा-संस्पर्शे को हेतुरित्य् अपेक्षायां तमाह- उभे ह्येष एते तरत्यमृतः साध्वसाधुनी इति । ‘अमृतः’ अमरण-धर्मा ‘एषः’ ब्रह्मवित् ‘उभे एते’ ‘साध्वसाधुनी’ पुण्य-पाप-लक्षणे कर्मणी ‘हि’ निश्चितं ‘तरति’ अतिक्रामति । आरब्धानारब्धयोर्भोगज्ञानाभ्यां क्षीणत्वात् अपूर्वस्य चिकीर्षितत्वेनासंश्लेषादित्य् अर्थः । इतश्चात्मविदो धर्मादि-सम्बन्धो नास्तीत्य् आह- नैवं कृताकृते तपत इति । नित्याद्यनुष्ठानं ‘कृतं’ तस्यैवाकरणमं ‘अकृतम्’ एते अपि ‘कृताकृते’ क्रमेण फल-दान-प्रत्यवायोत्पादाभ्यां अब्रह्मविदमिव ‘एनं’ ब्रह्मविदं ‘न तपतः’ नोद्वेजयत इत्य् अर्थः । किं च- नास्य केन चन कर्मणा लोको मीयत इति । ‘अस्य’ ब्रह्मविदः ‘केन चन’ केनापि ‘कर्मणा’ शास्त्रप्रतिषिद्धेनापि ‘लोकः’ पुरुषार्थः ‘न मीयते’ न हिंस्यते । “मीञ् हिंसायाम्” (धा. पा. क्र्या. उ. ४) इति धातुः । ततश्च तत्त्वज्ञानात्प्राक्कालिकयोर्ज्ञानाग्निना भस्मीकरणादुत्तर-कालिकयोस्तु अकर्तृत्वेनासंश्लेषात् शरीरारम्भकयोस्तु उपभोगेनैव क्षयात् ब्रह्मविदः कर्म-कार्य-सम्बन्ध-अभावात् न कर्म-सम्बन्ध इति तात्पर्य्-अर्थः ॥ २७ ॥
२८
विश्वास-प्रस्तुतिः
त᳘देत᳘दृ᳘चा᳘ भ्युक्तम्॥
(मे) एष नि᳘त्यो महिमा᳘ ब्ब्राह्मण᳘स्य न क᳘र्म्मणा व्वर्द्धते᳘ नो क᳘नीयान्। त᳘स्यैव᳘ स्यात्पदवित्त᳘म्विद्वित्वा न क᳘र्म्मणा लिप्यते पा᳘पकेने᳘ति त᳘स्मादेवम्वि᳘च्छ्रान्तो᳘ दान्त᳘ ऽउपरत᳘स्तितिक्षुः᳘ श्रद्धा᳘वित्तो भू᳘त्वा ऽऽत्म᳘न्ये᳘वात्मा᳘नम्पश्येत्स᳘र्व्वमेनम्पश्यति स᳘र्व्वो ऽस्यात्मा᳘ भवति स᳘र्व्वस्यात्मा᳘ भवति स᳘र्व्वम्पाप्मा᳘नन्तरति᳘ नैनम्पाप्मा᳘ तरति स᳘र्व्वम्पाप्मा᳘नन्तपति᳘ नैनम्पाप्मा᳘ तपति व्विपापो᳘ व्विजरो᳘ व्विजिघ᳘त्सो ऽपिपासो᳘ ब्ब्राह्मणो᳘ भवति य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
त᳘देत᳘दृ᳘चा᳘ भ्युक्तम्॥
(मे) एष नि᳘त्यो महिमा᳘ ब्ब्राह्मण᳘स्य न क᳘र्म्मणा व्वर्द्धते᳘ नो क᳘नीयान्। त᳘स्यैव᳘ स्यात्पदवित्त᳘म्विद्वित्वा न क᳘र्म्मणा लिप्यते पा᳘पकेने᳘ति त᳘स्मादेवम्वि᳘च्छ्रान्तो᳘ दान्त᳘ ऽउपरत᳘स्तितिक्षुः᳘ श्रद्धा᳘वित्तो भू᳘त्वा ऽऽत्म᳘न्ये᳘वात्मा᳘नम्पश्येत्स᳘र्व्वमेनम्पश्यति स᳘र्व्वो ऽस्यात्मा᳘ भवति स᳘र्व्वस्यात्मा᳘ भवति स᳘र्व्वम्पाप्मा᳘नन्तरति᳘ नैनम्पाप्मा᳘ तरति स᳘र्व्वम्पाप्मा᳘नन्तपति᳘ नैनम्पाप्मा᳘ तपति व्विपापो᳘ व्विजरो᳘ व्विजिघ᳘त्सो ऽपिपासो᳘ ब्ब्राह्मणो᳘ भवति य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
त᳘देत᳘दृॗचाॗभ्युक्तम्॥
एष नि᳘त्यो महिमा᳘ ब्राह्मण᳘स्य न क᳘र्मणा वर्धतेॗ नो क᳘नीयान्॥
त᳘स्यैव᳘ स्यात्पदवित्तं᳘ विद्वित्वा न क᳘र्मणा लिप्यते पा᳘पकेने᳘ति त᳘स्मादेवंवि᳘छ्रान्तो᳘ दान्त᳘ उपरत᳘स्तितिक्षुः᳘ श्रद्धा᳘वित्तो भूॗत्वात्म᳘न्येॗवात्मा᳘नम् पश्येत्स᳘र्वमेनम् पश्यति स᳘र्वोऽस्यात्मा᳘ भवति स᳘र्वस्यात्मा᳘ भवति स᳘र्वम् पाप्मा᳘नं तरतिॗ नैनम् पाप्मा᳘ तरति स᳘र्वम् पाप्मा᳘नं तपतिॗ नैनम् पाप्मा᳘ तपति विपापो᳘ विजरो᳘ विजिघॗत्सोऽपिपासो᳘ 25 ब्राह्मणो᳘ भवति य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
तदेतत् ऋचा अभ्युक्तम्- “एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्द्धते, नो कनीयान् । तस्यैव स्यात्पदवित् तं विदित्वा न कर्मणा लिप्यते पापकेन”- इति । तस्मादेवंवित् श्रान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वा आत्मन्येवात्मानं पश्येत् । सर्वमेनं पश्यति । सर्वः अस्यात्मा भवति । सर्वस्यात्मा भवति । सर्वं पाप्मानं तरति । नैनं पाप्मा तरति । सर्वं पाप्मानं तपति । नैनं पाप्मा तपति । विपापो विरजो विजिघत्सः अपिपासो ब्राह्मणो भवति । य एवं वेद ॥ २८ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवमुक्ते ब्रह्मविद्या-फले मन्त्रं संवादयति- तदेतदृचा ऽभ्युक्तमेष नित्यो महिमा ब्राह्मणस्येत्यादिना । तदेतद्ब्राह्मणेनोक्तं वस्तुतत्वं ‘ऋचा’ मन्त्रेणाभ्युक्तं प्रकाशितम् । कथं? ‘ब्राह्मणस्य’ ब्रह्मविदस्त्यक्तसर्वैषणस्य ‘एषः’ साधननिस्पृहः नेति नेत्यादि-लक्षणात्म-स्वरूप-भूतः ‘महिमा’ ऐश्वर्यविशेषः स्वाभाविकत्वान्नित्यः । अन्ये त्वविद्या-काम-कृताः महिमानो न नित्या इत्य् अर्थः । कुतो विद्वन्महिम्नो नित्यत्वमित्य् अपेक्षायां हेतुमाह- न कर्मणा वर्द्धते नो कनीयानिति । शुभ-लक्षणेन कृतेन ‘कर्मणा’ एष महिमा ‘न वर्द्धते’ वृद्धि-लक्षणां विक्रियां न प्राप्नोति । तथा अशुभेन ‘कर्मणा’ ‘नो कनीयान्’ नापि अपक्षय-लक्षणां विक्रियां प्राप्नोति । एताभ्यां च निषेधाभ्यां अन्या अपि विक्रियाः निषिद्धाः । तासामपि उपचयापचय-हेतुत्वात् अतः अविक्रियत्वात् नित्य एष महिमेत्य् अर्थः । अस्य महिम्नो नित्यत्वे ऽपि किं स्यादित्य् अपेक्षायां स्वस्वरूपं तत्-पदार्थ-लक्षणं जानीयादित्य् आह- तस्यैव स्यात्पदविदिति । यत एष नित्यः । तस्मात्तस्यैव महिम्नः त्वंपदार्थस्य ‘पदवित्’ पदस्य वेदिता भवेदित्य् अर्थः । ननु- पद-वेदने ऽपि किं स्यादित्य् अपेक्षायामाह- तं विदित्वा न कर्मणा लिप्यते पापकेनेतीति । ‘तं’ महिमानं स्वरूपं पदं ‘विदित्वा’ ज्ञात्वा ‘पापकेन’ धर्माधर्म-लक्षणेन ‘कर्मणा’ ‘न लिप्यते’ न सम्बध्यते । उभयस्यापि संसार-हेतुत्वाविशेषात्- पापकमित्य् उभयमपि गृह्यते । एवं सति धर्म-शब्द-प्रयोगे ऽपि उभय-ग्रह-सम्भवे यद्यपि स्यात्तथापि धर्माधर्मयोर्हेयत्व-द्योतनार्थं पाप-शब्द-प्रयोग इत्य् अर्थः । इति-शब्द ऋक्-समाप्त्य्-अर्थः । तर्हि तत्-पद-साक्षात्कारः कथं स्यादित्य् अपेक्षायामाह- तस्मादेवंविच्छ्रान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वा ऽऽत्मन्येवात्मानं पश्येदिति । यस्मादेवं अकर्म-सम्बन्धी एष ब्राह्मणस्य महिमा नेति नेत्यादि-लक्षणः । तस्मात्कारणात् एवंविद आत्मा कर्म-तत्-फल-सम्बन्ध-शून्य इत्य् आपाततो जानन् प्रथमं श्रान्तः संसार-दुःखेन तप्तः खिन्नो वा । उपरतबाह्येन्द्रियव्यापार इति यावत् । “श्रमु तपसि खेदे च”- (धा. पा. दि. प. ९८) इत्यस्य धातोः निष्ठान्तं रूपं श्रान्त इति । उक्तं च- “निवृत्तेन्द्रिय-लोल्यस्तु श्रान्तः शान्तश्च कथ्यते । तपः-क्लेश-सहो दान्तो ह्यन्तर्वाणिस्तु शास्त्र-वित्”- ( ) इति । अनन्तरं ‘दान्तः’ अन्तः-करण-तृष्णातो निवृत्तः । न हि बाह्य-करणानां विषयाभिनिवेशनिवृत्तिमन्तरेण अन्तःकरणस्य विषयाभिषङ्गो व्यावर्तते । ‘उपरतः’ सर्वैषणा-विनिर्मुक्तः विधिना त्यक्त-सर्व-कर्मा सन्न्यासी । ‘तितिक्षुः’ जीवन-विच्छेदहेत्वतिरिक्त-शीतोष्णादि-द्वन्द्व-सहिष्णुः । ‘श्रद्धावित्तः’ श्रद्धा आस्तिक्य-बुद्धिरेव वित्तं साधनं यस्य स श्रद्धावित्तः । इन्द्रियान्तःकरणचलनरूपव्यापारव्यावृत्त्या तदैकाग्र्यवान् इति यावत् । एतच्च “बाल्यं च पाण्डित्यं च निविद्य” इत्य् एवमुक्तम् । एतावता यत्र कर्तुः स्वातन्त्र्यं तेषां कर्मणां निवृत्तिः श्रान्तादि-पदैरुक्ता । यत्र तु सम्यग्-धी-विरोधि-निद्रालस्यादौ पुंसो न स्वातन्त्र्यं तन्निवृत्तिः श्रद्धावित्त इति पदेनेति भेदः । तथा चैवं प्रकारेण ‘श्रद्धावित्तो भूत्वा’ ‘आत्मन्य् एव’ स्वे कार्य-कारण-संङ्घाते एव ‘आत्मानं’ प्रत्यक्-चेतयितारं ‘पश्येत्’ साक्षात्कुर्यात् । तथा च- आश्रमाद्यनुष्ठानमिह विधीयत इति विवक्षितमित्य् अर्थः । तर्हि किं तावत्-परिमाणमेवात्मानं पश्येत् इत्य् अत आह- सर्वमेनं पश्यतीति । ‘सर्वं’ समस्तं एनमात्मानं ‘पश्यति’ । नान्यदात्म-व्यतिरिक्तं किमपि पश्यति । जाग्रत्-स्वप्न-सुषुप्त्याख्यं स्थान-त्रयं हित्वा मननान्मुनिर्भवतीत्य् अर्थः । कुतो हेतोरित्यत आह- सर्वो ऽस्यात्मा भवति सर्वस्यात्मा भवतीति । ‘अस्य’ ब्रह्मविदः ‘सर्वः’ समस्तः प्रपञ्चः ‘आत्मा’ भवति । किं च- ‘सर्वस्य’ प्रपञ्चस्य स्वयमात्मा भवति । यथोक्तैः साधनैरुदिते साक्षात्कारे सति किं स्यादित्य् अपेक्षायामाह- सर्वं पाप्मानं तरतीति । अयं तु ब्रह्मवित् ‘सर्वं’ पाप्मानमुक्तरूपं ‘तरति’ आत्म-भावेन व्याप्नोति अतिक्रामतीत्य् अर्थः । किंच- एवमात्मानं पश्यन्तं ‘एनं’ बाह्य-पाप्मा पुण्यापुण्य-लक्षणः काम्य-निषिद्धाचरण-रूपः ‘न तरति’ न व्याप्नोतीत्य् अर्थः । इतश्च विदुषो न कर्म-सम्बन्धो ऽस्तीत्य् आह- सर्वं पाप्मानं तपतीति । ब्रह्मवित्सर्वं ‘पाप्मानं’ कृताकृत-लक्षणं सर्वात्मदर्शनरूपवह्निना ‘तपति’ भस्मीकरोतीत्य् अर्थः । किं च- नैनं पाप्मा तपतीति । ‘एनं’ ब्रह्मविदं ‘पाप्मा’ कृताकृत-लक्षण उक्तरूपः इष्ट-फल-प्रत्यवायोत्पादनाभ्यां न तपतीत्य् अर्थः । एवं कर्म-असम्बन्धे किं भवतीत्य् अत आह- विपापो विजरो विजिघत्सो ऽपिपासो ब्राह्मणो भवतीति । एवंवित् ‘विपापः’ विगतः पापो धर्माधर्म-लक्षणो यस्य स विपापः । विगता जरा यस्मात् सः ‘विजरः’ विगता जिघत्सा अत्तुमिच्छा यस्मात् सः ‘विजिघत्सः’ । न विद्यते पिपासा पातुमिच्छा यस्य सः ‘अपिपासः’ । एवंभूतः एतस्यामवस्थायां मुख्य-ब्राह्मणो भवति । एतस्मात् ब्रह्म-स्वरूप-अवस्थानात्प्राक् गौण-ब्राह्मण्यमित्य् अर्थः । एवमुपास्य-स्वरूपं दर्शयित्वा तद्-उपासना-फलमाह- य एवं वेदेति । ‘य एवं’ पूर्वोक्त-गुण-विशिष्टमात्मानं ‘वेद’ उपास्ते अहमस्मि एवंभूत आत्मेति स पूर्वोक्त-विपापादि-गुण-विशिष्ट एव भवतीति शेषः ॥ २८ ॥
२९
विश्वास-प्रस्तुतिः
स वा᳘ ऽएष᳘ महा᳘नज᳘ ऽआ᳘त्मा॥
(त्मा ऽन्ना) अन्नादो᳘ व्वसुदा᳘नः स यो᳘ हैव᳘मेत᳘म्महा᳘न्तमज᳘मात्मा᳘नमन्नाद᳘म्वसुदा᳘नं व्वे᳘द व्विन्द᳘ते व्व᳘सु॥
मूलम् - श्रीधरादि
स वा᳘ ऽएष᳘ महा᳘नज᳘ ऽआ᳘त्मा॥
(त्मा ऽन्ना) अन्नादो᳘ व्वसुदा᳘नः स यो᳘ हैव᳘मेत᳘म्महा᳘न्तमज᳘मात्मा᳘नमन्नाद᳘म्वसुदा᳘नं व्वे᳘द व्विन्द᳘ते व्व᳘सु॥
मूलम् - Weber
स वा᳘ एष᳘ महा᳘नज᳘ आॗत्मा॥
अन्नादो᳘ वसुदा᳘नः स यो᳘ हैव᳘मेत᳘म् महा᳘न्तमज᳘मात्मा᳘नमन्नादं᳘ 26 वसुदा᳘नं वे᳘द विन्द᳘तेव᳘सु॥
मूलम् - विस्वरम्
स वा एष महानज आत्मा अन्नादो वसुदानः । स यो हैवमेतं महान्तमजमात्मानमन्नादं वसुदानं वेद । विन्दते वसु ॥ २९ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
एवं निरुपाधिक-ब्रह्म-ज्ञानात्कैवल्यं फलमुक्तम् । सम्प्रति सोपाधिकब्रह्मध्यानात् अभ्युदय-फलं दर्शयिष्यन् तत्-स्वरूपमाह- स वा एष महानज आत्मा ऽन्नादो वसुदान इति । यो ऽयं जनक-याज्ञवल्क्याख्यायिकायां विख्यातो विज्ञानात्मा ‘स वै’ स एव ‘एषः महानज आत्मा’ ‘अन्नादयः’ सर्व-भूतस्थः सन् सर्वान्नात्ता । यद्वा अन्न-शब्देन चराचरात्मकं जगत् गृह्यते । तस्यात्ता संहारकः । तथा वसु धनं भोग-साधनं सर्व-प्राणि-कर्म-फलं ददातीति ‘वसुदानः’ । एवमुपास्य-स्वरूपं दर्शयित्वा तद्-उपासना-फलमाह- स यो हैवमेतं महान्तमजमात्मानमन्नादं वसुदानं वेद विन्दते वसु इति । ‘य एवं’ पूर्वोक्त-महदादि-गुण-विशिष्टं ‘आत्मानं वेद’ उपास्ते अहमस्मि एवंभूत आत्मेति सः ‘वसु’ कर्म-फल-जातं ‘विन्दते’ लभते सर्वात्मत्वादेवेत्य् अर्थः । अनया कण्डिकया “रातेर्दातुः परायणं”- (श. प. बृ. १४ । ३ । ३४) इति उक्तस्यैव कर्म-फलस्य उपसंहारः कृतः इति अपौनरुक्त्यं द्रष्टव्यम् ॥ २९ ॥
३०
विश्वास-प्रस्तुतिः
स वा᳘ ऽएष᳘ महा᳘नज᳘ ऽआ᳘त्मा॥
(त्मा ऽज᳘) अज᳘रो ऽम᳘रो ऽभ᳘यो ऽमृ᳘तो ब्ब्रह्मा᳘भयम्वै᳘ जनक प्प्रा᳘प्तो ऽसी᳘ति होवाच या᳘ज्ञवल्क्यः᳘[[!!]] सो ऽहम्भ᳘गवते व्विदेहा᳘न्ददामि माञ्चा᳘पि सह दा᳘स्याये᳘ति॥
मूलम् - श्रीधरादि
स वा᳘ ऽएष᳘ महा᳘नज᳘ ऽआ᳘त्मा॥
(त्मा ऽज᳘) अज᳘रो ऽम᳘रो ऽभ᳘यो ऽमृ᳘तो ब्ब्रह्मा᳘भयम्वै᳘ जनक प्प्रा᳘प्तो ऽसी᳘ति होवाच या᳘ज्ञवल्क्यः᳘[[!!]] सो ऽहम्भ᳘गवते व्विदेहा᳘न्ददामि माञ्चा᳘पि सह दा᳘स्याये᳘ति॥
मूलम् - Weber
स वा᳘ एष᳘ महा᳘नज᳘ आॗत्मा॥
अज᳘रोऽम᳘रोऽभ᳘योऽमृ᳘तो ब्रह्मा᳘भयं 27 वै᳘ जनक प्रा᳘प्तोऽसी᳘ति होवाच या᳘ज्ञवॗल्क्यः सोऽहम् भ᳘गवते विदेहा᳘न्ददामि मां चा᳘पि सह दा᳘स्याये᳘ति॥
मूलम् - विस्वरम्
स वा एष महानज आत्मा अजरो ऽमरो ऽभयो ऽमृतो ब्रह्म । अभयं वै जनक प्राप्तो ऽसि, इति होवाच याज्ञवल्क्यः । सः अहं भगवते विदेहान् ददामि । मां चापि सह दास्यायेति ॥ ३० ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं सफलां विद्यां मन्त्र-ब्राह्मणाभ्यामुपदिष्टामुपसंहरति याज्ञवल्क्य इति श्रुतिरस्मान् प्रति दर्शयति- स वा एष महानज आत्मा ऽजरो ऽमरो ऽभयो ऽमृतो ब्रह्माभयं वै जनक प्राप्तो ऽसीति होवाच याज्ञवल्क्य इति । यो ब्राह्मणादावुक्तो विज्ञानमयो जन्म-मरणादि-संततिमान् त्वं-पद-वाच्य-भूतः सो ऽयं स-शब्देनोच्यते । वै-शब्दः प्रसिद्ध्य्-अर्थः । एष-शब्देन तु विद्यया प्रध्वस्त-अज्ञान-तत्-कार्यो नित्य-मुक्त-स्त्वंपद-लक्ष्य उच्यते । तस्य शुद्धस्य त्वं-पदार्थस्य महानित्यादि-विशेषणात् । तथा च- ‘स वा एषः‘ यथोक्तः प्रत्यगात्मा ‘महान्‘ सत्य-ज्ञानादि-लक्षणः अपरो ऽक्षः परमात्मैवेति वाक्यार्थः । एवमहं ब्रह्मेति वाक्योत्थ-परमात्मैकत्व-विज्ञानात् अविद्या-तत्-कार्ये प्रध्वस्ते सति प्रत्यगात्मनो यद्रूपं तदिदानीमुच्यते- ‘अजः‘ इत्यादि-पदैः । यस्मात् रज्जु-सर्पादि-वदात्मा विनाविद्यां कार्य-करणात्मना न जायते, तस्मादजो जन्म-रहितः । अत एवाजरः कालावच्छिन्न-देहादि-वत् न जीर्यतीत्य् अर्थः । यतः ‘अजरः’ अत एवामरः प्राण-त्याग-रूप-मरण-रहितः । अत एवामृतः निरन्वय-नाश-शून्यः । अत्र जनन-प्रतिषेधेनैव विकारान्तराणां तन्-मूलकत्वात् तत्-प्रतिषेधस्यापि अर्थ-सिद्धत्वे ऽपि शब्दतः प्रतिषेधो जरादीनां पारमार्थिकत्व-शङ्का-व्यावृत्त्य् अर्थः । यत एवं सर्व-विकार-शून्यः । अत एव ‘अभयः’ भयं हि नाम अविद्या-कार्यं तत्-प्रतिषेधेन भाव-विकार-प्रतिषेधेन च अविद्या ऽपि प्रतिषिद्धा वेदितव्येति भावः । हे ‘जनक’ सम्राट्! ‘अभयं वै’ अविद्या-कार्य-रहितमेव ब्रह्म परमात्म-तत्त्वं त्वं ‘प्राप्तो ऽसि’ इत्य् एवम् ‘ह’ किल “याज्ञवल्क्यः” उवाचेत्य् अर्थः । राजा तु आत्मीय-शेष-विद्या-लाभं द्योतयितुं सर्वस्व-दानं प्रतिजज्ञ इत्य् आह- सो ऽहं भगवते विदेहान् ददामि मां चापि सह दास्यायेति । ‘दास्याय’ दास-कर्मणे ददामीति च-शब्दात्सम्बध्यते । इति-शब्दो निरूपितायाः सर्ववेदानुशासनरूपाया विद्यायाः परिसमाप्ति-द्योतक इत्य् अर्थः ॥ ३० ॥
३१
विश्वास-प्रस्तुतिः
स वा᳘ ऽएष᳘ महा᳘नज᳘ ऽआ᳘त्मा॥
(त्मा ऽज᳘) अज᳘रो ऽम᳘रो ऽभ᳘यो ऽमृ᳘तो ब्ब्रह्मा᳘भयम्वै ब्ब्रह्मा᳘भयᳫँ᳭ हि वै ब्ब्र᳘ह्म भवति[[!!]] य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
स वा᳘ ऽएष᳘ महा᳘नज᳘ ऽआ᳘त्मा॥
(त्मा ऽज᳘) अज᳘रो ऽम᳘रो ऽभ᳘यो ऽमृ᳘तो ब्ब्रह्मा᳘भयम्वै ब्ब्रह्मा᳘भयᳫँ᳭ हि वै ब्ब्र᳘ह्म भवति[[!!]] य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
स वा᳘ एष᳘ महा᳘नज᳘ आॗत्मा॥
अज᳘रोऽम᳘रोऽभ᳘योऽमृ᳘तो ब्रह्मा᳘भयं वै ब्रह्मा᳘भयᳫं हि वै ब्र᳘ह्म भ᳘वति य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
स वा एष महानज आत्मा ऽजरो ऽमरो ऽभयो ऽमृतो ब्रह्म । अभयं वै ब्रह्म । अभयं हि वै ब्रह्म भवति । य एवं वेद ॥ ३१ ॥
श्रीमद्वासुदेवब्रह्मभगवान्
इदानीं “तिष्ठमानस्य तद्विदः परायणं” (श. प. बृ. ३ । ९ । ३४) इत्य् उक्तस्यैव ब्रह्मात्मैक्य-ज्ञान-फलोपसंहारार्थ-मग्रिमा श्रुतिः प्रवर्तते- स वा एष महानित्यादि ब्रह्मेति पदपर्यन्तम् । अक्षरार्थः पूर्ववत् । कथं पुनरभय-गुण-विशिष्टस्यात्मनो ब्रह्मत्वं, अत आह- अभयं वै ब्रह्मेति । एवं विषय-परिशोधनेन विद्या-स्वरूपमुक्त्वा विद्या-फलं कथयति- अभयं हि वै ब्रह्म भवति य एवं वेदेति । ‘एवं’ यथोक्तमात्मानं ‘अभयं ब्रह्म’ ‘यो वेद’ । सः ‘अभयं ब्रह्मैव हि भवति’ मुक्तो भवतीत्य् अर्थः । य इह स वा एष महानित्यादिना अन्ते सङ्क्षिप्तो ऽर्थः स एव सर्वोपनिषत्-प्रतिपाद्यः । एष एव सर्वस्यास्य शास्त्रस्य तात्पर्यार्थ इति ॥ ३१ ॥
इति श्री-हृषीकेश-भगवत्-पूज्य-पाद-शिष्यस्य श्री-पाठक-अनिरुद्ध-पुत्रस्य परमहंस-परिव्राजकाचार्यस्य श्री-वासुदेव-ब्रह्म-भगवतः कृतौ माध्यन्दिनीय-शतपथ-ब्राह्मणान्तर्गत-माध्यन्दिन-शाखोपनिषद्-बृहदारण्यक-टीकायां वासुदेव-प्रकाशिकायां चतुर्थे ऽध्याये द्वितीयं शारीरक-ब्राह्मणं परिसमाप्तम् ॥ १४ । (७) ४ । २ ॥
-
न विजानाती᳘त्याहुः AM. ↩︎
-
प्रा᳘णमनू᳘त्क्रामन्तᳫ, सं᳘ज्ञान᳘मेवान्व᳘वक्रामति स᳘ एष᳘ ज्ञः स᳘विज्ञानो᳘ भवति AM. ↩︎
-
पृथ्वीम᳘यः A. first hand. - ibid. यथाचारी᳘ तथा᳘, पापकारी᳘ पापो᳘, पा᳘पः पा᳘पेनेति AM. ↩︎
-
त᳘थाक्रतु᳘र्भवति य᳘थाक्रतु᳘र्भवति AM. ↩︎
-
त᳘देव स᳘त्तत्स᳘ह, नि᳘षक्तम᳘स्य, तस्मा᳘ल्लोकात्पु᳘नरैत्यस्मै᳘, योऽकामो᳘ निष्काम, न᳘ तस्मा᳘त्प्राणा AM. ↩︎
-
“स्थिताः” इति काण्वः पाठः । ↩︎
-
निर्ल्वयनी᳘ AM. D The original reading may have been निर्व्लयनी, see Böhtlingk-Roth, Sanskrit -Wörterbuch sub अहिनि - ibid. न᳘स्थिकोऽशरी᳘रः acc. ! ↩︎
-
मयै᳘व, अपिय᳘न्ति AM. ↩︎
-
शुक्लमु᳘त AM. - ibid. नी᳘ल, पि᳘ङ्गल acc. ! ↩︎
-
अन्धं᳘ तमः प्रविशन्ति येऽसम्भूति᳘मुपा᳘, सम्भूत्या᳘ᳫ रताः AM ↩︎
-
असुर्या᳘ नाम ते लो᳘काः । अ᳘न्धेन, तां᳘स्ते प्रे᳘त्यापिग AM. ↩︎
-
माध्यन्दिनसंहितायां त्वत्र “ये के चात्महनो जनाः” इति पाठो ऽस्ति । ↩︎
-
न᳘ चेद᳘वेदी म᳘हती वि᳘नष्टिः AM. see केनोपनिषत् १. १४. – ibid. मृता᳘स्ते भवन्त्यथे᳘तरे दुःख᳘मे᳘वोप᳘यन्ति AM. ↩︎
-
स्मीति कि᳘मिछ᳘न्कस्य A. ↩︎
-
य᳘स्यानुवित्तः, विश्वकृ᳘त्सः स उ लोक᳘ एव A. ↩︎
-
त᳘मेव म᳘न्यऽआत्मा᳘नं विद्वा᳘न्ब्र᳘ह्मा A. ↩︎
-
पास᳘ते AM. ↩︎
-
प्राण᳘स्य प्राणम् । । उ᳘त, श्च᳘क्षुरु᳘त AM. ↩︎
-
मृत्युमाप्नो᳘ति, दप्र᳘मयं᳘ ध्रुवं A. ↩︎
-
महान् D. - ibid. ना᳘नुध्या᳘या AM. ↩︎
-
व᳘शी acc.! - ibid. न᳘ साधुना, एवासा᳘धुना AM ↩︎
-
प्रव्राजि᳘नो लो᳘कमी. AM. ↩︎
-
न का᳘मयन्ते किं᳘ प्रज᳘या करिष्या᳘मो ये᳘षा᳘न्नो AM. ↩︎
-
साध्वसा᳘धुनी᳘ AM ↩︎
-
विजिघ᳘त्सोऽपिपासो AM ↩︎
-
न्ना᳘दो A. ↩︎
-
महान᳘ज, ऽम᳘रोऽभ᳘योऽमृ᳘तो ब्रह्मा᳘भयं AM. ↩︎